| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् ॥ क्रियातपोजपध्यानसमुच्चयमयं परम् ॥ ७.२,३२.१॥
एतत् ते कथितम् कृष्ण कर्म इह अमुत्र सिद्धि-दम् ॥ क्रिया-तपः-जप-ध्यान-समुच्चय-मयम् परम् ॥ ७।२,३२।१॥
etat te kathitam kṛṣṇa karma iha amutra siddhi-dam .. kriyā-tapaḥ-japa-dhyāna-samuccaya-mayam param .. 7.2,32.1..
अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् ॥ पूजाहोमजपध्यानतपोदानमयं महत् ॥ ७.२,३२.२॥
अथ वक्ष्यामि शैवानाम् इह एव फल-दम् नृणाम् ॥ पूजा-होम-जप-ध्यान-तपः-दान-मयम् महत् ॥ ७।२,३२।२॥
atha vakṣyāmi śaivānām iha eva phala-dam nṛṇām .. pūjā-homa-japa-dhyāna-tapaḥ-dāna-mayam mahat .. 7.2,32.2..
तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः ॥ दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः ॥ ७.२,३२.३॥
तत्र संसाधयेत् पूर्वम् मन्त्रम् मन्त्र-अर्थ-वित्तमः ॥ दृष्ट-सिद्धि-करम् कर्म न अन्यथा फल-दम् यतस् ॥ ७।२,३२।३॥
tatra saṃsādhayet pūrvam mantram mantra-artha-vittamaḥ .. dṛṣṭa-siddhi-karam karma na anyathā phala-dam yatas .. 7.2,32.3..
सिद्धमन्त्रो ऽप्यदृष्टेन प्रबलेन तु केनचित् ॥ प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः ॥ ७.२,३२.४॥
सिद्ध-मन्त्रः अपि अदृष्टेन प्रबलेन तु केनचिद् ॥ प्रतिबन्ध-फलम् कर्म न कुर्यात् सहसा बुधः ॥ ७।२,३२।४॥
siddha-mantraḥ api adṛṣṭena prabalena tu kenacid .. pratibandha-phalam karma na kuryāt sahasā budhaḥ .. 7.2,32.4..
तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः ॥ परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत् ॥ ७.२,३२.५॥
तस्य तु प्रतिबन्धस्य कर्तुम् शक्या इह निष्कृतिः ॥ परीक्ष्य शकुन-आद्यैः तदा आदौ निष्कृतिम् आचरेत् ॥ ७।२,३२।५॥
tasya tu pratibandhasya kartum śakyā iha niṣkṛtiḥ .. parīkṣya śakuna-ādyaiḥ tadā ādau niṣkṛtim ācaret .. 7.2,32.5..
यो ऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः ॥ न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम् ॥ ७.२,३२.६॥
यः अन्यथा कुरुते मोहात् कर्म-ऐहिक-फलम् नरः ॥ न तेन फल-भाज् स स्यात् प्राप्नुयात् च उपहास्य-ताम् ॥ ७।२,३२।६॥
yaḥ anyathā kurute mohāt karma-aihika-phalam naraḥ .. na tena phala-bhāj sa syāt prāpnuyāt ca upahāsya-tām .. 7.2,32.6..
अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् ॥ स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति ॥ ७.२,३२.७॥
अ बिस्रब्धः न कुर्वीत कर्म दृष्ट-फलम् क्वचिद् ॥ स खलु अश्रद्ध-धानः स्यात् न अश्रद्धः फलम् ऋच्छति ॥ ७।२,३२।७॥
a bisrabdhaḥ na kurvīta karma dṛṣṭa-phalam kvacid .. sa khalu aśraddha-dhānaḥ syāt na aśraddhaḥ phalam ṛcchati .. 7.2,32.7..
नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले ॥ यथोक्तकारिणां पुंसामिहैव फलदर्शनात् ॥ ७.२,३२.८॥
न अपराधः अस्ति देवस्य कर्मणि अपि तु निष्फले ॥ यथा उक्त-कारिणाम् पुंसाम् इह एव फल-दर्शनात् ॥ ७।२,३२।८॥
na aparādhaḥ asti devasya karmaṇi api tu niṣphale .. yathā ukta-kāriṇām puṃsām iha eva phala-darśanāt .. 7.2,32.8..
साधकः सिद्धमंत्रश्च निरस्तप्रतिबंधकः ॥ विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम् ॥ ७.२,३२.९॥
साधकः सिद्ध-मंत्रः च निरस्त-प्रतिबंधकः ॥ विश्वस्तः कुर्वन् न आप्नोति तत् फलम् ॥ ७।२,३२।९॥
sādhakaḥ siddha-maṃtraḥ ca nirasta-pratibaṃdhakaḥ .. viśvastaḥ kurvan na āpnoti tat phalam .. 7.2,32.9..
अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् ॥ रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा ॥ ७.२,३२.१०॥
अथवा तद्-फल-अवाप्त्यै ब्रह्मचर्य-रतः भवेत् ॥ रात्रौ हविष्यम् अश्नीयात् पायसम् वा फलानि वा ॥ ७।२,३२।१०॥
athavā tad-phala-avāptyai brahmacarya-rataḥ bhavet .. rātrau haviṣyam aśnīyāt pāyasam vā phalāni vā .. 7.2,32.10..
हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् ॥ सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत् ॥ ७.२,३२.११॥
हिंसा-आदि यत् निषिद्धम् स्यात् न कुर्यात् मनसा अपि तत् ॥ सदा भस्म-अनुलिप्ताम् शुचिः भवेत् ॥ ७।२,३२।११॥
hiṃsā-ādi yat niṣiddham syāt na kuryāt manasā api tat .. sadā bhasma-anuliptām śuciḥ bhavet .. 7.2,32.11..
इत्थमाचारवान्भूत्वा स्वानुकूले शुभे ऽहनि ॥ पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलंकृते ॥ ७.२,३२.१२॥
इत्थम् आचारवान् भूत्वा स्व-अनुकूले शुभे अहनि ॥ पूर्व-उक्त-लक्षणे देशे पुष्प-दाम-आदि-अलंकृते ॥ ७।२,३२।१२॥
ittham ācāravān bhūtvā sva-anukūle śubhe ahani .. pūrva-ukta-lakṣaṇe deśe puṣpa-dāma-ādi-alaṃkṛte .. 7.2,32.12..
आलिप्य शकृता भूमिं हस्तमानावरां यथा ॥ विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा ॥ ७.२,३२.१३॥
आलिप्य शकृता भूमिम् हस्त-मान-अवराम् यथा ॥ विलिखेत् कमले भद्रे दीप्यमानम् स्व-तेजसा ॥ ७।२,३२।१३॥
ālipya śakṛtā bhūmim hasta-māna-avarām yathā .. vilikhet kamale bhadre dīpyamānam sva-tejasā .. 7.2,32.13..
तप्तजांबूनदमयमष्टपत्रं सकेसरम् ॥ मध्ये कर्णिकया युक्तं सर्वरत्नैरलंकृतम् ॥ ७.२,३२.१४॥
तप्त-जांबूनद-मयम् अष्ट-पत्रम् स केसरम् ॥ मध्ये कर्णिकया युक्तम् सर्व-रत्नैः अलंकृतम् ॥ ७।२,३२।१४॥
tapta-jāṃbūnada-mayam aṣṭa-patram sa kesaram .. madhye karṇikayā yuktam sarva-ratnaiḥ alaṃkṛtam .. 7.2,32.14..
स्वाकारसदृशेनैव नालेन च समन्वितम् ॥ तादृशे स्वर्णनिर्माणे कंदे सम्यग्विधानतः ॥ ७.२,३२.१५॥
सु आकार-सदृशेन एव नालेन च समन्वितम् ॥ तादृशे स्वर्ण-निर्माणे कंदे सम्यक् विधानतः ॥ ७।२,३२।१५॥
su ākāra-sadṛśena eva nālena ca samanvitam .. tādṛśe svarṇa-nirmāṇe kaṃde samyak vidhānataḥ .. 7.2,32.15..
तत्राणिमादिकं सर्वं संकल्प्य मनसा पुनः ॥ रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् ॥ ७.२,३२.१६॥
तत्र अणिम-आदिकम् सर्वम् संकल्प्य मनसा पुनर् ॥ रत्न-जम् वा अथ सौवर्णम् स्फटिकम् वा स लक्षणम् ॥ ७।२,३२।१६॥
tatra aṇima-ādikam sarvam saṃkalpya manasā punar .. ratna-jam vā atha sauvarṇam sphaṭikam vā sa lakṣaṇam .. 7.2,32.16..
तत्रावाह्य यजेद्देवं सांबं सगणमव्ययम् ॥ तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः ॥ ७.२,३२.१७॥
तत्र आवाह्य यजेत् देवम् स अंबम् स गणम् अव्ययम् ॥ तत्र माहेश्वरी कल्प्या मूर्तिः मूर्तिमतः प्रभोः ॥ ७।२,३२।१७॥
tatra āvāhya yajet devam sa aṃbam sa gaṇam avyayam .. tatra māheśvarī kalpyā mūrtiḥ mūrtimataḥ prabhoḥ .. 7.2,32.17..
चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता ॥ शार्दूलचर्मवसना किंचिद्विहसितानना ॥ ७.२,३२.१८॥
चतुर्-भुजा चतुर्-वक्त्रा सर्व-आभरण-भूषिता ॥ शार्दूल-चर्म-वसना किंचिद् विहसित-आनना ॥ ७।२,३२।१८॥
catur-bhujā catur-vaktrā sarva-ābharaṇa-bhūṣitā .. śārdūla-carma-vasanā kiṃcid vihasita-ānanā .. 7.2,32.18..
वरदाभयहस्ता च मृगटंकधरा तथा ॥ अथ वाष्टभुजा चिंत्या चिंतकस्य यथारुचि ॥ ७.२,३२.१९॥
वर-द-अभय-हस्ता च मृग-टंक-धरा तथा ॥ अथ वा अष्ट-भुजा चिंत्या चिंतकस्य यथारुचि ॥ ७।२,३२।१९॥
vara-da-abhaya-hastā ca mṛga-ṭaṃka-dharā tathā .. atha vā aṣṭa-bhujā ciṃtyā ciṃtakasya yathāruci .. 7.2,32.19..
तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे ॥ वामे पाशांकुशौ तद्वत्खेटं नागं च बिभ्रती ॥ ७.२,३२.२०॥
तदा त्रिशूल-परशु-खड्ग-वज्राणि दक्षिणे ॥ वामे पाश-अंकुशौ तद्वत् खेटम् नागम् च बिभ्रती ॥ ७।२,३२।२०॥
tadā triśūla-paraśu-khaḍga-vajrāṇi dakṣiṇe .. vāme pāśa-aṃkuśau tadvat kheṭam nāgam ca bibhratī .. 7.2,32.20..
बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना ॥ तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम् ॥ ७.२,३२.२१॥
बाल-अर्क-सदृश-प्रख्या प्रतिवक्त्रम् त्रि-लोचना ॥ तस्याः पूर्व-मुखम् सौम्यम् सु आकार-सदृश-प्रभम् ॥ ७।२,३२।२१॥
bāla-arka-sadṛśa-prakhyā prativaktram tri-locanā .. tasyāḥ pūrva-mukham saumyam su ākāra-sadṛśa-prabham .. 7.2,32.21..
दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् ॥ उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,३२.२२॥
दक्षिणम् नील-जीमूत-सदृशम् घोर-दर्शनम् ॥ उत्तरम् विद्रुम-प्रख्यम् नील-अलक-विभूषितम् ॥ ७।२,३२।२२॥
dakṣiṇam nīla-jīmūta-sadṛśam ghora-darśanam .. uttaram vidruma-prakhyam nīla-alaka-vibhūṣitam .. 7.2,32.22..
पश्चिमं पूर्णचंद्राभं सौम्यमिंदुकलाधरम् ॥ तदंकमंडलारूढा शक्तिर्माहेश्वरी परा ॥ ७.२,३२.२३॥
पश्चिमम् पूर्ण-चंद्र-आभम् सौम्यम् इंदु-कला-धरम् ॥ तद्-अंक-मंडल-आरूढा शक्तिः माहेश्वरी परा ॥ ७।२,३२।२३॥
paścimam pūrṇa-caṃdra-ābham saumyam iṃdu-kalā-dharam .. tad-aṃka-maṃḍala-ārūḍhā śaktiḥ māheśvarī parā .. 7.2,32.23..
महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ॥ मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात् ॥ ७.२,३२.२४॥
महालक्ष्मीः इति ख्याता श्यामा सर्व-मनोहरा ॥ मूर्तिम् कृत्वा एवम् आकाराम् सकलीकृत्य च क्रमात् ॥ ७।२,३२।२४॥
mahālakṣmīḥ iti khyātā śyāmā sarva-manoharā .. mūrtim kṛtvā evam ākārām sakalīkṛtya ca kramāt .. 7.2,32.24..
मूर्तिमंतमथावाह्य यजेत्परमकारणम् ॥ स्नानार्थे कल्पयेत्तत्र पञ्चगव्यं तु कापिलम् ॥ ७.२,३२.२५॥
मूर्तिमंतम् अथ आवाह्य यजेत् परम-कारणम् ॥ स्नान-अर्थे कल्पयेत् तत्र पञ्चगव्यम् तु कापिलम् ॥ ७।२,३२।२५॥
mūrtimaṃtam atha āvāhya yajet parama-kāraṇam .. snāna-arthe kalpayet tatra pañcagavyam tu kāpilam .. 7.2,32.25..
पञ्चामृतं च पूर्णानि बीजानि च विशेषतः ॥ पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलंकृतम् ॥ ७.२,३२.२६॥
पञ्चामृतम् च पूर्णानि बीजानि च विशेषतः ॥ पुरस्तात् मण्डलम् कृत्वा रत्न-चूर्ण-आदि-अलंकृतम् ॥ ७।२,३२।२६॥
pañcāmṛtam ca pūrṇāni bījāni ca viśeṣataḥ .. purastāt maṇḍalam kṛtvā ratna-cūrṇa-ādi-alaṃkṛtam .. 7.2,32.26..
कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः ॥ सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत् ॥ ७.२,३२.२७॥
कर्णिकायाम् प्रविन्यस्येत् ईशान-कलशम् पुनर् ॥ सद्य-आदि-कलशान् पश्चात् परितस् तस्य कल्पयेत् ॥ ७।२,३२।२७॥
karṇikāyām pravinyasyet īśāna-kalaśam punar .. sadya-ādi-kalaśān paścāt paritas tasya kalpayet .. 7.2,32.27..
ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् ॥ तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत् ॥ ७.२,३२.२८॥
ततस् विद्येश-कलशान् अष्टौ पूर्व-आदि-वत् क्रमात् ॥ तीर्थ-अम्बु-पूरितान् कृत्वा सूत्रेण आवेष्ट्य पूर्ववत् ॥ ७।२,३२।२८॥
tatas vidyeśa-kalaśān aṣṭau pūrva-ādi-vat kramāt .. tīrtha-ambu-pūritān kṛtvā sūtreṇa āveṣṭya pūrvavat .. 7.2,32.28..
पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् ॥ दुकूलाद्येन वस्त्रेण समाच्छाद्य समंततः ॥ ७.२,३२.२९॥
पुण्य-द्रव्याणि निक्षिप्य स मन्त्रम् स विधानकम् ॥ दुकूल-आद्येन वस्त्रेण समाच्छाद्य समंततः ॥ ७।२,३२।२९॥
puṇya-dravyāṇi nikṣipya sa mantram sa vidhānakam .. dukūla-ādyena vastreṇa samācchādya samaṃtataḥ .. 7.2,32.29..
सर्वत्र मंत्रं विन्यस्य तत्तन्मंत्रपुरस्सरम् ॥ स्नानकाले तु संप्राप्ते सर्वमङ्गलनिस्वनैः ॥ ७.२,३२.३०॥
सर्वत्र मंत्रम् विन्यस्य तद्-तद्-मंत्र-पुरस्सरम् ॥ स्नान-काले तु संप्राप्ते सर्व-मङ्गल-निस्वनैः ॥ ७।२,३२।३०॥
sarvatra maṃtram vinyasya tad-tad-maṃtra-purassaram .. snāna-kāle tu saṃprāpte sarva-maṅgala-nisvanaiḥ .. 7.2,32.30..
पञ्चगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् ॥ ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि ॥ ७.२,३२.३१॥
पञ्चगव्य-आदिभिः च एव स्नापयेत् परमेश्वरम् ॥ ततस् कुश-उदक-आद्यानि स्वर्ण-रत्न-उदकानि अपि ॥ ७।२,३२।३१॥
pañcagavya-ādibhiḥ ca eva snāpayet parameśvaram .. tatas kuśa-udaka-ādyāni svarṇa-ratna-udakāni api .. 7.2,32.31..
गंधपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् ॥ उद्धृत्योद्धृत्य मन्त्रेण तैस्तैस्स्नाप्य महेश्वरम् ॥ ७.२,३२.३२॥
गंध-पुष्प-आदि-सिद्धानि मन्त्र-सिद्धानि च क्रमात् ॥ उद्धृत्य उद्धृत्य मन्त्रेण तैः तैः स्नाप्य महेश्वरम् ॥ ७।२,३२।३२॥
gaṃdha-puṣpa-ādi-siddhāni mantra-siddhāni ca kramāt .. uddhṛtya uddhṛtya mantreṇa taiḥ taiḥ snāpya maheśvaram .. 7.2,32.32..
गंधं पुष्पादिदीपांश्च पूजाकर्म समाचरेत् ॥ पलावरः स्यादालेप एकादशपलोत्तरः ॥ ७.२,३२.३३॥
गंधम् पुष्प-आदि-दीपान् च पूजा-कर्म समाचरेत् ॥ पल-अवरः स्यात् आलेपः एकादश-पल-उत्तरः ॥ ७।२,३२।३३॥
gaṃdham puṣpa-ādi-dīpān ca pūjā-karma samācaret .. pala-avaraḥ syāt ālepaḥ ekādaśa-pala-uttaraḥ .. 7.2,32.33..
सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च ॥ नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः ॥ ७.२,३२.३४॥
सुवर्ण-रत्न-पुष्पाणि शुभानि सुरभीणि च ॥ नीलोत्पल-आदि-उत्पलानि बिल्व-पत्राणि अनेकशस् ॥ ७।२,३२।३४॥
suvarṇa-ratna-puṣpāṇi śubhāni surabhīṇi ca .. nīlotpala-ādi-utpalāni bilva-patrāṇi anekaśas .. 7.2,32.34..
कमलानि च रक्तानि श्वेतान्यपि च शंभवे ॥ कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः ॥ ७.२,३२.३५॥
कमलानि च रक्तानि श्वेतानि अपि च शंभवे ॥ ॥ ७।२,३२।३५॥
kamalāni ca raktāni śvetāni api ca śaṃbhave .. .. 7.2,32.35..
कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः ॥ पञ्चब्रह्मषडंगानि पूज्यान्यावरणानि च ॥ ७.२,३२.३६॥
कपिला-घृत-संसिद्धाः दीपाः कर्पूर-वर्ती-जाः ॥ पञ्च-ब्रह्म-षष्-अंगानि पूज्यानि आवरणानि च ॥ ७।२,३२।३६॥
kapilā-ghṛta-saṃsiddhāḥ dīpāḥ karpūra-vartī-jāḥ .. pañca-brahma-ṣaṣ-aṃgāni pūjyāni āvaraṇāni ca .. 7.2,32.36..
नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः ॥ पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम् ॥ ७.२,३२.३७॥
नैवेद्यः पयसा सिद्धः स गुड-आज्यः महा-चरुः ॥ पाटला-उत्पल-पद्म-आद्यैः पानीयम् च सुगन्धितम् ॥ ७।२,३२।३७॥
naivedyaḥ payasā siddhaḥ sa guḍa-ājyaḥ mahā-caruḥ .. pāṭalā-utpala-padma-ādyaiḥ pānīyam ca sugandhitam .. 7.2,32.37..
पञ्चसौगंधिकोपेतं तांबूलं च सुसंस्कृतम् ॥ सुवर्णरत्नसिद्धानि भूषणानि विशेषतः ॥ ७.२,३२.३८॥
पञ्च-सौगंधिक-उपेतम् तांबूलम् च सु संस्कृतम् ॥ सुवर्ण-रत्न-सिद्धानि भूषणानि विशेषतः ॥ ७।२,३२।३८॥
pañca-saugaṃdhika-upetam tāṃbūlam ca su saṃskṛtam .. suvarṇa-ratna-siddhāni bhūṣaṇāni viśeṣataḥ .. 7.2,32.38..
वासांसि च विचित्राणि सूक्ष्माणि च नवानि च ॥ दर्शनीयानि देयानि गानवाद्यादिभिस्सह ॥ ७.२,३२.३९॥
वासांसि च विचित्राणि सूक्ष्माणि च नवानि च ॥ दर्शनीयानि देयानि गान-वाद्य-आदिभिः सह ॥ ७।२,३२।३९॥
vāsāṃsi ca vicitrāṇi sūkṣmāṇi ca navāni ca .. darśanīyāni deyāni gāna-vādya-ādibhiḥ saha .. 7.2,32.39..
जपश्च मूलमंत्रस्य लक्षः परमसंख्यया ॥ एकावरा त्र्युत्तरा च पूजा फलवशादिह ॥ ७.२,३२.४०॥
जपः च मूलमंत्रस्य लक्षः परम-संख्यया ॥ एक-अवरा त्रि-उत्तरा च पूजा फल-वशात् इह ॥ ७।२,३२।४०॥
japaḥ ca mūlamaṃtrasya lakṣaḥ parama-saṃkhyayā .. eka-avarā tri-uttarā ca pūjā phala-vaśāt iha .. 7.2,32.40..
दशसंख्यावरो होमः प्रतिद्रव्यं शतोत्तरः ॥ घोररूपश्शिवश्चिंत्यो मारणोच्चाटनादिषु ॥ ७.२,३२.४१॥
दश-संख्या-वरः होमः प्रतिद्रव्यम् शत-उत्तरः ॥ घोर-रूपः शिवः चिंत्यः मारण-उच्चाटन-आदिषु ॥ ७।२,३२।४१॥
daśa-saṃkhyā-varaḥ homaḥ pratidravyam śata-uttaraḥ .. ghora-rūpaḥ śivaḥ ciṃtyaḥ māraṇa-uccāṭana-ādiṣu .. 7.2,32.41..
शिवलिंगे शिवाग्नौ च ह्यन्यासु प्रतिमासु च ॥ चिंत्यस्सौम्यतनुश्शंभुः कार्ये शांतिकपौष्टिके ॥ ७.२,३२.४२॥
शिव-लिंगे शिव-अग्नौ च हि अन्यासु प्रतिमासु च ॥ चिंत्यः सौम्य-तनुः शंभुः कार्ये शांतिक-पौष्टिके ॥ ७।२,३२।४२॥
śiva-liṃge śiva-agnau ca hi anyāsu pratimāsu ca .. ciṃtyaḥ saumya-tanuḥ śaṃbhuḥ kārye śāṃtika-pauṣṭike .. 7.2,32.42..
आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु ॥ तदन्यत्र तु सौवर्णौ शांतिकाद्येषु कृत्स्नशः ॥ ७.२,३२.४३॥
आयसौ स्रुच्-स्रुवौ कार्यौ मारण-आदिषु कर्मसु ॥ तद्-अन्यत्र तु सौवर्णौ शांतिक-आद्येषु कृत्स्नशस् ॥ ७।२,३२।४३॥
āyasau sruc-sruvau kāryau māraṇa-ādiṣu karmasu .. tad-anyatra tu sauvarṇau śāṃtika-ādyeṣu kṛtsnaśas .. 7.2,32.43..
दूर्वया घृतगोक्षीरमिश्रया मधुना तथा ॥ चरुणा सघृतेनैव केवलं पयसापि वा ॥ ७.२,३२.४४॥
दूर्वया घृत-गो-क्षीर-मिश्रया मधुना तथा ॥ चरुणा स घृतेन एव केवलम् पयसा अपि वा ॥ ७।२,३२।४४॥
dūrvayā ghṛta-go-kṣīra-miśrayā madhunā tathā .. caruṇā sa ghṛtena eva kevalam payasā api vā .. 7.2,32.44..
जुहुयान्मृत्युविजये तिलै रोगोपशांतये ॥ घृतेन पयसा चैव कमलैर्वाथ केवलैः ॥ ७.२,३२.४५॥
जुहुयात् मृत्यु-विजये तिलैः रोग-उपशांतये ॥ घृतेन पयसा च एव कमलैः वा अथ केवलैः ॥ ७।२,३२।४५॥
juhuyāt mṛtyu-vijaye tilaiḥ roga-upaśāṃtaye .. ghṛtena payasā ca eva kamalaiḥ vā atha kevalaiḥ .. 7.2,32.45..
समृद्धिकामो जुहुयान्महादारिद्र्यशांतये ॥ जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु ॥ ७.२,३२.४६॥
समृद्धि-कामः जुहुयात् महा-दारिद्र्य-शांतये ॥ जाती-पुष्पेण वश्या-अर्थी जुहुयात् स घृतेन तु ॥ ७।२,३२।४६॥
samṛddhi-kāmaḥ juhuyāt mahā-dāridrya-śāṃtaye .. jātī-puṣpeṇa vaśyā-arthī juhuyāt sa ghṛtena tu .. 7.2,32.46..
घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः ॥ तैलेनोच्चाटनं कुर्यात्स्तंभनं मधुना पुनः ॥ ७.२,३२.४७॥
घृतेन करवीरैः च कुर्यात् आकर्षणम् द्विजः ॥ तैलेन उच्चाटनम् कुर्यात् स्तंभनम् मधुना पुनर् ॥ ७।२,३२।४७॥
ghṛtena karavīraiḥ ca kuryāt ākarṣaṇam dvijaḥ .. tailena uccāṭanam kuryāt staṃbhanam madhunā punar .. 7.2,32.47..
स्तंभनं सर्षपेणापि लशुनेन तु पातनम् ॥ ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः ॥ ७.२,३२.४८॥
स्तंभनम् सर्षपेण अपि लशुनेन तु पातनम् ॥ ताडनम् रुधिरेण स्यात् खरस्य उष्ट्रस्य च उभयोः ॥ ७।२,३२।४८॥
staṃbhanam sarṣapeṇa api laśunena tu pātanam .. tāḍanam rudhireṇa syāt kharasya uṣṭrasya ca ubhayoḥ .. 7.2,32.48..
मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः ॥ विद्वेषणं च तैलेन कुर्याल्लांगलकस्य तु ॥ ७.२,३२.४९॥
मारण-उच्चाटने कुर्यात् रोहि-बीजैः तिल-अन्वितैः ॥ विद्वेषणम् च तैलेन कुर्यात् लांगलकस्य तु ॥ ७।२,३२।४९॥
māraṇa-uccāṭane kuryāt rohi-bījaiḥ tila-anvitaiḥ .. vidveṣaṇam ca tailena kuryāt lāṃgalakasya tu .. 7.2,32.49..
बंधनं रोहिबीजेन सेनास्तंभनमेव च ॥ रक्तसर्षपसंमिश्रैर्होमद्रव्यैरशेषतः ॥ ७.२,३२.५०॥
बंधनम् रोहि-बीजेन सेना-स्तंभनम् एव च ॥ रक्तसर्षप-संमिश्रैः होम-द्रव्यैः अशेषतस् ॥ ७।२,३२।५०॥
baṃdhanam rohi-bījena senā-staṃbhanam eva ca .. raktasarṣapa-saṃmiśraiḥ homa-dravyaiḥ aśeṣatas .. 7.2,32.50..
हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ॥ कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥ ७.२,३२.५१॥
हस्त-यन्त्र-उद्भवैः तैलैः जुहुयात् आभिचारिके ॥ कटुकी-तुष-संयुक्तैः कार्पास-अस्थिभिः एव च ॥ ७।२,३२।५१॥
hasta-yantra-udbhavaiḥ tailaiḥ juhuyāt ābhicārike .. kaṭukī-tuṣa-saṃyuktaiḥ kārpāsa-asthibhiḥ eva ca .. 7.2,32.51..
सर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ॥ ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा ॥ ७.२,३२.५२॥
सर्षपैः तैल-संमिश्रैः जुहुयात् आभिचारिके ॥ ज्वर-उपशांति-दम् क्षीरम् सौभाग्य-फल-दम् तथा ॥ ७।२,३२।५२॥
sarṣapaiḥ taila-saṃmiśraiḥ juhuyāt ābhicārike .. jvara-upaśāṃti-dam kṣīram saubhāgya-phala-dam tathā .. 7.2,32.52..
सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ॥ क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा ॥ ७.२,३२.५३॥
सर्व-सिद्धि-करः होमः क्षौद्र-आज्य-दधिभिः युतैः ॥ क्षीरेण तंदुलैः च एव चरुणा केवलेन वा ॥ ७।२,३२।५३॥
sarva-siddhi-karaḥ homaḥ kṣaudra-ājya-dadhibhiḥ yutaiḥ .. kṣīreṇa taṃdulaiḥ ca eva caruṇā kevalena vā .. 7.2,32.53..
शांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ॥ द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा ॥ ७.२,३२.५४॥
शांतिकम् पौष्टिकम् वा अपि सप्तभिः समिध्-आदिभिः ॥ द्रव्यैः विशेषतः होमे वश्यम् आकर्षणम् तथा ॥ ७।२,३२।५४॥
śāṃtikam pauṣṭikam vā api saptabhiḥ samidh-ādibhiḥ .. dravyaiḥ viśeṣataḥ home vaśyam ākarṣaṇam tathā .. 7.2,32.54..
वश्यमाकर्षणं चैव श्रीपदं च विशेषतः ॥ बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥ ७.२,३२.५५॥
वश्यम् आकर्षणम् च एव श्री-पदम् च विशेषतः ॥ बिल्व-पत्रैः तु हवनम् शत्रोः विजय-दम् तथा ॥ ७।२,३२।५५॥
vaśyam ākarṣaṇam ca eva śrī-padam ca viśeṣataḥ .. bilva-patraiḥ tu havanam śatroḥ vijaya-dam tathā .. 7.2,32.55..
समिधः शांतिकार्येषु पालाशखदिरादिकाः ॥ करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे ॥ ७.२,३२.५६॥
समिधः शांति-कार्येषु पालाश-खदिर-आदिकाः ॥ करवीर-अर्क-जाः क्रौर्ये कण्टकिन्यः च विग्रहे ॥ ७।२,३२।५६॥
samidhaḥ śāṃti-kāryeṣu pālāśa-khadira-ādikāḥ .. karavīra-arka-jāḥ kraurye kaṇṭakinyaḥ ca vigrahe .. 7.2,32.56..
प्रशांतः शांतिकं कुर्यात्पौष्टिकं च विशेषतः ॥ निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५७॥
प्रशांतः शांतिकम् कुर्यात् पौष्टिकम् च विशेषतः ॥ निर्घृणः क्रुद्ध-चित्तः तु प्रकुर्यात् आभिचारिकम् ॥ ७।२,३२।५७॥
praśāṃtaḥ śāṃtikam kuryāt pauṣṭikam ca viśeṣataḥ .. nirghṛṇaḥ kruddha-cittaḥ tu prakuryāt ābhicārikam .. 7.2,32.57..
अतीवदुरवस्थायां प्रतीकारांतरं न चेत् ॥ आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५८॥
अतीव दुरवस्थायाम् प्रतीकार-अंतरम् न चेद् ॥ आततायिनम् उद्दिश्य प्रकुर्यात् आभिचारिकम् ॥ ७।२,३२।५८॥
atīva duravasthāyām pratīkāra-aṃtaram na ced .. ātatāyinam uddiśya prakuryāt ābhicārikam .. 7.2,32.58..
स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् ॥ यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा यो ऽपि कोपि वा ॥ ७.२,३२.५९॥
स्व-राष्ट्र-पतिम् उद्दिश्य न कुर्यात् आभिचारिकम् ॥ यदि आस्तिकः सु धर्मिष्ठः मान्यः वा यः अपि कः अपि वा ॥ ७।२,३२।५९॥
sva-rāṣṭra-patim uddiśya na kuryāt ābhicārikam .. yadi āstikaḥ su dharmiṣṭhaḥ mānyaḥ vā yaḥ api kaḥ api vā .. 7.2,32.59..
तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत ॥ मनसा कर्मणा वाचा यो ऽपि कोपि शिवाश्रितः ॥ ७.२,३२.६०॥
तम् उद्दिश्य अपि नो कुर्यात् आततायिनम् अपि उत ॥ मनसा कर्मणा वाचा यः अपि कः अपि शिव-आश्रितः ॥ ७।२,३२।६०॥
tam uddiśya api no kuryāt ātatāyinam api uta .. manasā karmaṇā vācā yaḥ api kaḥ api śiva-āśritaḥ .. 7.2,32.60..
स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ॥ कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥ ७.२,३२.६१॥
स्व-राष्ट्र-पतिम् उद्दिश्य शिवा श्रितम् अथ अपि वा ॥ कृत्वा आभिचारिकम् कर्म सद्यस् विनिपतेत् नरः ॥ ७।२,३२।६१॥
sva-rāṣṭra-patim uddiśya śivā śritam atha api vā .. kṛtvā ābhicārikam karma sadyas vinipatet naraḥ .. 7.2,32.61..
स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ॥ न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥ ७.२,३२.६२॥
स्व-राष्ट्र-पालकम् तस्मात् शिव-भक्तम् च कञ्चन ॥ न हिंस्यात् अभिचार-आद्यैः यदि इच्छेत् सुखम् आत्मनः ॥ ७।२,३२।६२॥
sva-rāṣṭra-pālakam tasmāt śiva-bhaktam ca kañcana .. na hiṃsyāt abhicāra-ādyaiḥ yadi icchet sukham ātmanaḥ .. 7.2,32.62..
अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ॥ पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥ ७.२,३२.६३॥
अन्यम् कम् अपि च उद्दिश्य कृत्वा वै मारण-आदिकम् ॥ पश्चात्तापेन संयुक्तः प्रायश्चित्तम् समाचरेत् ॥ ७।२,३२।६३॥
anyam kam api ca uddiśya kṛtvā vai māraṇa-ādikam .. paścāttāpena saṃyuktaḥ prāyaścittam samācaret .. 7.2,32.63..
बाणलिंगे ऽपि वा कुर्यान्निर्धनो धनवानपि ॥ स्वयंभूते ऽथ वा लिंगे आर्षके वैदिके ऽपि वा ॥ ७.२,३२.६४॥
बाण-लिंगे अपि वा कुर्यात् निर्धनः धनवान् अपि ॥ स्वयंभूते अथ वा लिंगे आर्षके वैदिके अपि वा ॥ ७।२,३२।६४॥
bāṇa-liṃge api vā kuryāt nirdhanaḥ dhanavān api .. svayaṃbhūte atha vā liṃge ārṣake vaidike api vā .. 7.2,32.64..
अभावे हेमरत्नानामशक्तौ च तदर्जने ॥ मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः ॥ ७.२,३२.६५॥
अभावे हेम-रत्नानाम् अशक्तौ च तद्-अर्जने ॥ मनसा एव आचरेत् एतत् द्रव्यैः वा प्रतिरूपकैः ॥ ७।२,३२।६५॥
abhāve hema-ratnānām aśaktau ca tad-arjane .. manasā eva ācaret etat dravyaiḥ vā pratirūpakaiḥ .. 7.2,32.65..
क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ॥ सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥ ७.२,३२.६६॥
क्वचिद् अंशे तु यः शक्तः तु अशक्तः क्वचिद् अंशके ॥ सः अपि शक्ति-अनुसारेण कुर्वन् चेद् फलम् ऋच्छति ॥ ७।२,३२।६६॥
kvacid aṃśe tu yaḥ śaktaḥ tu aśaktaḥ kvacid aṃśake .. saḥ api śakti-anusāreṇa kurvan ced phalam ṛcchati .. 7.2,32.66..
कर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते ॥ द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम् ॥ ७.२,३२.६७॥
कर्मणि अनुष्ठिते अपि अस्मिन् फलम् यत्र न दृश्यते ॥ द्विस् त्रिस् वा आवर्तयेत् तत्र सर्वथा दृश्यते फलम् ॥ ७।२,३२।६७॥
karmaṇi anuṣṭhite api asmin phalam yatra na dṛśyate .. dvis tris vā āvartayet tatra sarvathā dṛśyate phalam .. 7.2,32.67..
पूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् ॥ तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक् ॥ ७.२,३२.६८॥
पूजा-उपयुक्तम् यत् द्रव्यम् हेम-रत्न-आदि-अनुत्तमम् ॥ तत् सर्वम् गुरवे दद्यात् दक्षिणाम् च ततस् पृथक् ॥ ७।२,३२।६८॥
pūjā-upayuktam yat dravyam hema-ratna-ādi-anuttamam .. tat sarvam gurave dadyāt dakṣiṇām ca tatas pṛthak .. 7.2,32.68..
स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ॥ अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥ ७.२,३२.६९॥
स चेद् ना इच्छति तत् सर्वम् शिवाय विनिवेदयेत् ॥ अथवा शिव-भक्तेभ्यः न अन्येभ्यः तु प्रदीयते ॥ ७।२,३२।६९॥
sa ced nā icchati tat sarvam śivāya vinivedayet .. athavā śiva-bhaktebhyaḥ na anyebhyaḥ tu pradīyate .. 7.2,32.69..
यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ॥ सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥ ७.२,३२.७०॥
यः स्वयम् साधयेत् शक्त्या गुरु-आदि-निरपेक्षया ॥ सः अपि एवम् आचरेत् अत्र न गृह्णीयात् स्वयम् पुनर् ॥ ७।२,३२।७०॥
yaḥ svayam sādhayet śaktyā guru-ādi-nirapekṣayā .. saḥ api evam ācaret atra na gṛhṇīyāt svayam punar .. 7.2,32.70..
स्वयं गृह्णाति यो लोभात्पूजांगद्रव्यमुत्तमम् ॥ कांक्षितं न लभेन्मूढो नात्र कार्या विचारणा ॥ ७.२,३२.७१॥
स्वयम् गृह्णाति यः लोभात् पूजा-अंग-द्रव्यम् उत्तमम् ॥ कांक्षितम् न लभेत् मूढः न अत्र कार्या विचारणा ॥ ७।२,३२।७१॥
svayam gṛhṇāti yaḥ lobhāt pūjā-aṃga-dravyam uttamam .. kāṃkṣitam na labhet mūḍhaḥ na atra kāryā vicāraṇā .. 7.2,32.71..
अर्चितं यत्तु तल्लिंगं गृह्णीयाद्वा नवा स्वयम् ॥ गृह्णीयाद्यदि तन्नित्यं स्वयं वान्यो ऽपि वार्चयेत् ॥ ७.२,३२.७२॥
अर्चितम् यत् तु तत् लिंगम् गृह्णीयात् वा नवा स्वयम् ॥ गृह्णीयात् यदि तत् नित्यम् स्वयम् वा अन्यः अपि वा अर्चयेत् ॥ ७।२,३२।७२॥
arcitam yat tu tat liṃgam gṛhṇīyāt vā navā svayam .. gṛhṇīyāt yadi tat nityam svayam vā anyaḥ api vā arcayet .. 7.2,32.72..
यथोक्तमेव कर्मैतदाचरेद्यो ऽनपायतः ॥ फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम् ॥ ७.२,३२.७३॥
यथा उक्तम् एव कर्म एतत् आचरेत् यः अनपायतः ॥ फलम् व्यभिचरेत् न एवम् इति अतस् किम् प्ररोचकम् ॥ ७।२,३२।७३॥
yathā uktam eva karma etat ācaret yaḥ anapāyataḥ .. phalam vyabhicaret na evam iti atas kim prarocakam .. 7.2,32.73..
तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमम् ॥ अपि शत्रुभिराक्रांतो व्याधिभिर्वाप्यनेकशः ॥ ७.२,३२.७४॥
तथा अपि उद्देशतः वक्ष्ये कर्मणः सिद्धिम् उत्तमम् ॥ अपि शत्रुभिः आक्रांतः व्याधिभिः वा अपि अनेकशस् ॥ ७।२,३२।७४॥
tathā api uddeśataḥ vakṣye karmaṇaḥ siddhim uttamam .. api śatrubhiḥ ākrāṃtaḥ vyādhibhiḥ vā api anekaśas .. 7.2,32.74..
मृत्योरास्यगतश्चापि मुच्यते निरपायतः ॥ पूजायते ऽतिकृपणो रिक्तो वैश्रवणायते ॥ ७.२,३२.७५॥
मृत्योः आस्य-गतः च अपि मुच्यते निरपायतः ॥ पूजायते अति कृपणः रिक्तः वैश्रवणायते ॥ ७।२,३२।७५॥
mṛtyoḥ āsya-gataḥ ca api mucyate nirapāyataḥ .. pūjāyate ati kṛpaṇaḥ riktaḥ vaiśravaṇāyate .. 7.2,32.75..
कामायते विरूपो ऽपि वृद्धो ऽपि तरुणायते ॥ शत्रुर्मित्रायते सद्यो विरोधी किंकरायते ॥ ७.२,३२.७६॥
कामायते विरूपः अपि वृद्धः अपि तरुणायते ॥ शत्रुः मित्रायते सद्यस् विरोधी किंकरायते ॥ ७।२,३२।७६॥
kāmāyate virūpaḥ api vṛddhaḥ api taruṇāyate .. śatruḥ mitrāyate sadyas virodhī kiṃkarāyate .. 7.2,32.76..
विषायते यदमृतं विषमप्यमृतायते ॥ स्थलायते समुद्रो ऽपि स्थलमप्यर्णवायते ॥ ७.२,३२.७७॥
विषायते यत् अमृतम् विषम् अपि अमृतायते ॥ स्थलायते समुद्रः अपि स्थलम् अपि अर्णवायते ॥ ७।२,३२।७७॥
viṣāyate yat amṛtam viṣam api amṛtāyate .. sthalāyate samudraḥ api sthalam api arṇavāyate .. 7.2,32.77..
महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः ॥ पद्माकरायते वह्निः सरो वैश्वानरायते ॥ ७.२,३२.७८॥
महीधरायते श्वभ्रम् स च श्वभ्रायते गिरिः ॥ पद्माकरायते वह्निः सरः वैश्वानरायते ॥ ७।२,३२।७८॥
mahīdharāyate śvabhram sa ca śvabhrāyate giriḥ .. padmākarāyate vahniḥ saraḥ vaiśvānarāyate .. 7.2,32.78..
वनायते यदुद्यानं तदुद्यानायते वनम् ॥ सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते ॥ ७.२,३२.७९॥
वनायते यत् उद्यानम् तत् उद्यानायते वनम् ॥ सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते ॥ ७।२,३२।७९॥
vanāyate yat udyānam tat udyānāyate vanam .. siṃhāyate mṛgaḥ kṣudraḥ siṃhaḥ krīḍāmṛgāyate .. 7.2,32.79..
स्त्रियो ऽभिसारिकायन्ते लक्ष्मीः सुचरितायते ॥ स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते ॥ ७.२,३२.८०॥
स्त्रियः अभिसारिकायन्ते लक्ष्मीः सुचरितायते ॥ स्वैरप्रेष्यायते वाणी कीर्तिः तु गणिकायते ॥ ७।२,३२।८०॥
striyaḥ abhisārikāyante lakṣmīḥ sucaritāyate .. svairapreṣyāyate vāṇī kīrtiḥ tu gaṇikāyate .. 7.2,32.80..
स्वैराचारायते मेधा वज्रसूचीयते मनः ॥ महावातायते शक्तिर्बलं मत्तगजायते ॥ ७.२,३२.८१॥
स्वैराचारायते मेधा वज्रसूचीयते मनः ॥ महावातायते शक्तिः बलम् मत्तगजायते ॥ ७।२,३२।८१॥
svairācārāyate medhā vajrasūcīyate manaḥ .. mahāvātāyate śaktiḥ balam mattagajāyate .. 7.2,32.81..
स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया ॥ शत्रुपक्षायते ऽरीणां सर्व एव सुहृज्जनः ॥ ७.२,३२.८२॥
स्तम्भायते समुद्योगैः शत्रु-पक्षे स्थिता क्रिया ॥ शत्रु-पक्षायते अरीणाम् सर्वः एव सुहृद्-जनः ॥ ७।२,३२।८२॥
stambhāyate samudyogaiḥ śatru-pakṣe sthitā kriyā .. śatru-pakṣāyate arīṇām sarvaḥ eva suhṛd-janaḥ .. 7.2,32.82..
शत्रवः कुणपायन्ते जीवन्तोपि सबांधवाः ॥ आपन्नो ऽपि गतारिष्टः स्वयं खल्वमृतायते ॥ ७.२,३२.८३॥
शत्रवः कुणपायन्ते जीवन्तः अपि स बांधवाः ॥ आपन्नः अपि गत-अरिष्टः स्वयम् खलु अमृतायते ॥ ७।२,३२।८३॥
śatravaḥ kuṇapāyante jīvantaḥ api sa bāṃdhavāḥ .. āpannaḥ api gata-ariṣṭaḥ svayam khalu amṛtāyate .. 7.2,32.83..
रसाय नायते नित्यमपथ्यमपि सेवितम् ॥ अनिशं क्रियमाणापि रतिस्त्वभिनवायते ॥ ७.२,३२.८४॥
रसाय नायते नित्यम् अपथ्यम् अपि सेवितम् ॥ अनिशम् क्रियमाणा अपि रतिः तु अभिनवायते ॥ ७।२,३२।८४॥
rasāya nāyate nityam apathyam api sevitam .. aniśam kriyamāṇā api ratiḥ tu abhinavāyate .. 7.2,32.84..
अनागतादिकं सर्वं करस्थामलकायते ॥ यादृच्छिकफलायन्ते सिद्धयो ऽप्यणिमादयः ॥ ७.२,३२.८५॥
अनागत-आदिकम् सर्वम् करस्थामलकायते ॥ यादृच्छिकफलायन्ते सिद्धयः अपि अणिम-आदयः ॥ ७।२,३२।८५॥
anāgata-ādikam sarvam karasthāmalakāyate .. yādṛcchikaphalāyante siddhayaḥ api aṇima-ādayaḥ .. 7.2,32.85..
बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु ॥ अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते ॥ ७.२,३२.८६॥
बहुना अत्र किम् उक्तेन सर्व-काम-अर्थ-सिद्धिषु ॥ अस्मिन् कर्मणि निर्वृत्ते तु अन् अवाप्यम् न विद्यते ॥ ७।२,३२।८६॥
bahunā atra kim uktena sarva-kāma-artha-siddhiṣu .. asmin karmaṇi nirvṛtte tu an avāpyam na vidyate .. 7.2,32.86..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे ऐहिकसिद्धिकर्मवर्णनम् नाम द्वात्रिंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe aihikasiddhikarmavarṇanam nāma dvātriṃśaḥ adhyāyaḥ..
उपमन्युरुवाच॥
अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् ॥ नैतेन सदृशं किंचित्कर्मास्ति भुवनत्रये ॥ ७.२,३३.१॥
अतस् परम् प्रवक्ष्यामि केवल-आमुष्मिकम् विधिम् ॥ न एतेन सदृशम् किंचिद् कर्म अस्ति भुवनत्रये ॥ ७।२,३३।१॥
atas param pravakṣyāmi kevala-āmuṣmikam vidhim .. na etena sadṛśam kiṃcid karma asti bhuvanatraye .. 7.2,33.1..
पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ॥ ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः ॥ ७.२,३३.२॥
पुण्य-अतिशय-संयुक्तः सर्वैः देवैः अनुष्ठितः ॥ ब्रह्मणा विष्णुना च एव रुद्रेण च विशेषतः ॥ ७।२,३३।२॥
puṇya-atiśaya-saṃyuktaḥ sarvaiḥ devaiḥ anuṣṭhitaḥ .. brahmaṇā viṣṇunā ca eva rudreṇa ca viśeṣataḥ .. 7.2,33.2..
इंद्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः ॥ विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः ॥ ७.२,३३.३॥
इंद्र-आदि-लोक-पारैः च सूर्य-आद्यैः नवभिः ग्रहैः ॥ विश्वामित्र-वसिष्ठ-आद्यैः ब्रह्म-विद्भिः महा-ऋषिभिः ॥ ७।२,३३।३॥
iṃdra-ādi-loka-pāraiḥ ca sūrya-ādyaiḥ navabhiḥ grahaiḥ .. viśvāmitra-vasiṣṭha-ādyaiḥ brahma-vidbhiḥ mahā-ṛṣibhiḥ .. 7.2,33.3..
श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः ॥ नंदीश्वरमहाकालभृंगीशाद्यैर्गणेश्वरैः ॥ ७.२,३३.४॥
श्वेत-अगस्त्य-दधीच-आद्यैः अस्माभिः च शिव-आश्रितैः ॥ नंदीश्वर-महाकाल-भृंगीश-आद्यैः गणेश्वरैः ॥ ७।२,३३।४॥
śveta-agastya-dadhīca-ādyaiḥ asmābhiḥ ca śiva-āśritaiḥ .. naṃdīśvara-mahākāla-bhṛṃgīśa-ādyaiḥ gaṇeśvaraiḥ .. 7.2,33.4..
पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः ॥ सिद्धैर्यक्षैश्च गंधर्वै रक्षोभूतपिशाचकैः ॥ ७.२,३३.५॥
पाताल-वासिभिः दैत्यैः शेष-आद्यैः च महा-उरगैः ॥ सिद्धैः यक्षैः च गंधर्वैः रक्षः-भूत-पिशाचकैः ॥ ७।२,३३।५॥
pātāla-vāsibhiḥ daityaiḥ śeṣa-ādyaiḥ ca mahā-uragaiḥ .. siddhaiḥ yakṣaiḥ ca gaṃdharvaiḥ rakṣaḥ-bhūta-piśācakaiḥ .. 7.2,33.5..
स्वंस्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः ॥ अनेन विधिना सर्वे देवा देवत्वमागताः ॥ ७.२,३३.६॥
स्वम् स्वम् पदम् अनुप्राप्तम् सर्वैः अयम् अनुष्ठितः ॥ अनेन विधिना सर्वे देवाः देव-त्वम् आगताः ॥ ७।२,३३।६॥
svam svam padam anuprāptam sarvaiḥ ayam anuṣṭhitaḥ .. anena vidhinā sarve devāḥ deva-tvam āgatāḥ .. 7.2,33.6..
ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥ रुद्रो रुद्रत्वमापन्न इंद्रश्चेन्द्रत्वमागतः ॥ ७.२,३३.७॥
ब्रह्मा ब्रह्मत्वम् आपन्नः विष्णुः विष्णु-त्वम् आगतः ॥ रुद्रः रुद्र-त्वम् आपन्नः इंद्रः च इन्द्र-त्वम् आगतः ॥ ७।२,३३।७॥
brahmā brahmatvam āpannaḥ viṣṇuḥ viṣṇu-tvam āgataḥ .. rudraḥ rudra-tvam āpannaḥ iṃdraḥ ca indra-tvam āgataḥ .. 7.2,33.7..
गणेशश्च गणेशत्वमनेन विधिना गतः ॥ सितचंदनतोयेन लिंगं स्नाप्य शिवं शिवाम् ॥ श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च ॥ ७.२,३३.८॥
गणेशः च गणेश-त्वम् अनेन विधिना गतः ॥ सित-चंदन-तोयेन लिंगम् स्नाप्य शिवम् शिवाम् ॥ श्वेतैः विकसितैः पद्मैः संपूज्य प्रणिपत्य च ॥ ७।२,३३।८॥
gaṇeśaḥ ca gaṇeśa-tvam anena vidhinā gataḥ .. sita-caṃdana-toyena liṃgam snāpya śivam śivām .. śvetaiḥ vikasitaiḥ padmaiḥ saṃpūjya praṇipatya ca .. 7.2,33.8..
तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् ॥ विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः ॥ ७.२,३३.९॥
तत्र पद्मासनम् रम्यम् कृत्वा लक्षण-संयुतम् ॥ विभवे सति हेम-आद्यैः रत्न-आद्यैः वा स्व-शक्तितः ॥ ७।२,३३।९॥
tatra padmāsanam ramyam kṛtvā lakṣaṇa-saṃyutam .. vibhave sati hema-ādyaiḥ ratna-ādyaiḥ vā sva-śaktitaḥ .. 7.2,33.9..
मध्ये केसरजालास्य स्थाप्य लिंगं कनीयसम् ॥ अंगुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम् ॥ ७.२,३३.१०॥
मध्ये केसर-जाल-अस्य स्थाप्य लिंगम् कनीयसम् ॥ अंगुष्ठ-प्रतिमम् रम्यम् सर्व-गन्ध-मयम् शुभम् ॥ ७।२,३३।१०॥
madhye kesara-jāla-asya sthāpya liṃgam kanīyasam .. aṃguṣṭha-pratimam ramyam sarva-gandha-mayam śubham .. 7.2,33.10..
दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् ॥ अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥ ७.२,३३.११॥
दक्षिणे स्थापयित्वा तु बिल्व-पत्रैः समर्चयेत् ॥ अगुरुम् दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥ ७।२,३३।११॥
dakṣiṇe sthāpayitvā tu bilva-patraiḥ samarcayet .. agurum dakṣiṇe pārśve paścime tu manaḥśilām .. 7.2,33.11..
उत्तरे चंदनं दद्याद्धरितालं तु पूर्वतः ॥ सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत् ॥ ७.२,३३.१२॥
उत्तरे चंदनम् दद्यात् हरितालम् तु पूर्वतस् ॥ सु गन्धैः कुसुमैः रम्यैः विचित्रैः च अपि पूजयेत् ॥ ७।२,३३।१२॥
uttare caṃdanam dadyāt haritālam tu pūrvatas .. su gandhaiḥ kusumaiḥ ramyaiḥ vicitraiḥ ca api pūjayet .. 7.2,33.12..
धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् ॥ वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत् ॥ ७.२,३३.१३॥
धूपम् कृष्ण-अगुरुम् दद्यात् सर्वतस् च स गुग्गुलम् ॥ वासांसि च अति सूक्ष्माणि विकाशानि निवेदयेत् ॥ ७।२,३३।१३॥
dhūpam kṛṣṇa-agurum dadyāt sarvatas ca sa guggulam .. vāsāṃsi ca ati sūkṣmāṇi vikāśāni nivedayet .. 7.2,33.13..
पायसं घृतसंमिश्रं घृतदीपांश्च दापयेत् ॥ सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम् ॥ ७.२,३३.१४॥
पायसम् घृत-संमिश्रम् घृत-दीपान् च दापयेत् ॥ सर्वम् निवेद्य मन्त्रेण ततस् गच्छेत् प्रदक्षिणाम् ॥ ७।२,३३।१४॥
pāyasam ghṛta-saṃmiśram ghṛta-dīpān ca dāpayet .. sarvam nivedya mantreṇa tatas gacchet pradakṣiṇām .. 7.2,33.14..
प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् ॥ सर्वोपहारसंमिश्रं ततो लिंगं निवेदयेत् ॥ ७.२,३३.१५॥
प्रणम्य भक्त्या देवेशम् स्तुत्वा च अन्ते क्षमापयेत् ॥ सर्व-उपहार-संमिश्रम् ततस् लिंगम् निवेदयेत् ॥ ७।२,३३।१५॥
praṇamya bhaktyā deveśam stutvā ca ante kṣamāpayet .. sarva-upahāra-saṃmiśram tatas liṃgam nivedayet .. 7.2,33.15..
शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ॥ एवं यो ऽर्चयते नित्यं पञ्चगन्धमयं शुभम् ॥ ७.२,३३.१६॥
शिवाय शिव-मन्त्रेण दक्षिणामूर्तिम् आश्रितः ॥ एवम् यः अर्चयते नित्यम् पञ्चगन्ध-मयम् शुभम् ॥ ७।२,३३।१६॥
śivāya śiva-mantreṇa dakṣiṇāmūrtim āśritaḥ .. evam yaḥ arcayate nityam pañcagandha-mayam śubham .. 7.2,33.16..
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ एतद्व्रतोत्तमं गुह्यं शिवलिंगमहाव्रतम् ॥ ७.२,३३.१७॥
सर्व-पाप-विनिर्मुक्तः शिव-लोके महीयते ॥ एतत् व्रत-उत्तमम् गुह्यम् शिव-लिंग-महा-व्रतम् ॥ ७।२,३३।१७॥
sarva-pāpa-vinirmuktaḥ śiva-loke mahīyate .. etat vrata-uttamam guhyam śiva-liṃga-mahā-vratam .. 7.2,33.17..
भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ॥ देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा ॥ ७.२,३३.१८॥
भक्तस्य ते समाख्यातम् न देयम् यस्य कस्यचिद् ॥ देयम् च शिव-भक्तेभ्यः शिवेन कथितम् पुरा ॥ ७।२,३३।१८॥
bhaktasya te samākhyātam na deyam yasya kasyacid .. deyam ca śiva-bhaktebhyaḥ śivena kathitam purā .. 7.2,33.18..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे आमुष्मिककर्मविधिवर्णनम् नाम त्रयस्त्रिंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe āmuṣmikakarmavidhivarṇanam nāma trayastriṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In