| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ॥ सा सर्वा लभ्येत सद्यो लिंगबेरप्रतिष्ठया ॥ ७.२,३४.१॥
नित्य-नैमित्तिकात् काम्या-आद्या सिद्धिः इह कीर्तिता ॥ सा सर्वा लभ्येत सद्यस् लिंगबेर-प्रतिष्ठया ॥ ७।२,३४।१॥
nitya-naimittikāt kāmyā-ādyā siddhiḥ iha kīrtitā .. sā sarvā labhyeta sadyas liṃgabera-pratiṣṭhayā .. 7.2,34.1..
सर्वो लिंगमयो लोकस्सर्वं लिंगे प्रतिष्ठितम् ॥ तस्मात्प्रतिष्ठिते लिंगे भवेत्सर्वं पतिष्ठितम् ॥ ७.२,३४.२॥
सर्वः लिंग-मयः लोकः सर्वम् लिंगे प्रतिष्ठितम् ॥ तस्मात् प्रतिष्ठिते लिंगे भवेत् सर्वम् पतिष्ठितम् ॥ ७।२,३४।२॥
sarvaḥ liṃga-mayaḥ lokaḥ sarvam liṃge pratiṣṭhitam .. tasmāt pratiṣṭhite liṃge bhavet sarvam patiṣṭhitam .. 7.2,34.2..
ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ॥ लिंगप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ ७.२,३४.३॥
ब्रह्मणा विष्णुना वा अपि रुद्रेण अन्येन केन वा ॥ लिंग-प्रतिष्ठाम् उत्सृज्य क्रियते स्व-पद-स्थितिः ॥ ७।२,३४।३॥
brahmaṇā viṣṇunā vā api rudreṇa anyena kena vā .. liṃga-pratiṣṭhām utsṛjya kriyate sva-pada-sthitiḥ .. 7.2,34.3..
किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ॥ पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः ॥ ७.२,३४.४॥
किम् अन्यत् इह वक्तव्यम् प्रतिष्ठाम् प्रति कारणम् ॥ पर्तिष्ठितम् शिवेन अपि लिंगम् वैश्वेश्वरम् यतस् ॥ ७।२,३४।४॥
kim anyat iha vaktavyam pratiṣṭhām prati kāraṇam .. partiṣṭhitam śivena api liṃgam vaiśveśvaram yatas .. 7.2,34.4..
तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ॥ स्थापयेत्परमेशस्य लिंगं बेरमथापि वा ॥ ७.२,३४.५॥
तस्मात् सर्व-प्रयत्नेन परत्र इह च शर्मणे ॥ स्थापयेत् परमेशस्य लिंगम् बेरम् अथ अपि वा ॥ ७।२,३४।५॥
tasmāt sarva-prayatnena paratra iha ca śarmaṇe .. sthāpayet parameśasya liṃgam beram atha api vā .. 7.2,34.5..
श्रीकृष्ण उवाच॥
किमिदं लिंगमाख्यातं कथं लिंगी महेश्वरः ॥ कथं च लिंगभावो ऽस्य कस्मादस्मिञ्छिवो ऽर्च्यते ॥ ७.२,३४.६॥
किम् इदम् लिंगम् आख्यातम् कथम् लिंगी महेश्वरः ॥ कथम् च लिंग-भावः अस्य कस्मात् अस्मिन् शिवः अर्च्यते ॥ ७।२,३४।६॥
kim idam liṃgam ākhyātam katham liṃgī maheśvaraḥ .. katham ca liṃga-bhāvaḥ asya kasmāt asmin śivaḥ arcyate .. 7.2,34.6..
उपमन्युरुवाच॥
अव्यक्तं लिंगमाख्यातं त्रिगुणप्रभवाप्ययम् ॥ अनाद्यनंतं विश्वस्य यदुपादानकारणम् ॥ ७.२,३४.७॥
अव्यक्तम् लिंगम् आख्यातम् त्रिगुण-प्रभव-अप्ययम् ॥ अनादि-अनंतम् विश्वस्य यत् उपादानकारणम् ॥ ७।२,३४।७॥
avyaktam liṃgam ākhyātam triguṇa-prabhava-apyayam .. anādi-anaṃtam viśvasya yat upādānakāraṇam .. 7.2,34.7..
तदेव मूलप्रकृतिर्माया च गगनात्मिका ॥ तत एव समुत्पन्नं जगदेतच्चराचरम् ॥ ७.२,३४.८॥
तत् एव मूलप्रकृतिः माया च गगन-आत्मिका ॥ ततस् एव समुत्पन्नम् जगत् एतत् चराचरम् ॥ ७।२,३४।८॥
tat eva mūlaprakṛtiḥ māyā ca gagana-ātmikā .. tatas eva samutpannam jagat etat carācaram .. 7.2,34.8..
अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ॥ ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः ॥ ७.२,३४.९॥
अशुद्धम् च एव शुद्धम् यत् शुद्ध-अशुद्धम् च तत् त्रिधा ॥ ततस् शिवः महेशः च रुद्रः विष्णुः पितामहः ॥ ७।२,३४।९॥
aśuddham ca eva śuddham yat śuddha-aśuddham ca tat tridhā .. tatas śivaḥ maheśaḥ ca rudraḥ viṣṇuḥ pitāmahaḥ .. 7.2,34.9..
भूतानि चेन्द्रियैर्जाता लीयन्ते ऽत्र शिवाज्ञया ॥ अत एव शिवो लिंगो लिंगमाज्ञापयेद्यतः ॥ ७.२,३४.१०॥
भूतानि च इन्द्रियैः जाताः लीयन्ते अत्र शिव-आज्ञया ॥ अतस् एव शिवः लिंगः लिंगम् आज्ञापयेत् यतस् ॥ ७।२,३४।१०॥
bhūtāni ca indriyaiḥ jātāḥ līyante atra śiva-ājñayā .. atas eva śivaḥ liṃgaḥ liṃgam ājñāpayet yatas .. 7.2,34.10..
यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ॥ ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ ७.२,३४.११॥
यतस् न तत् अनाज्ञातम् कार्याय प्रभवेत् स्वतस् ॥ ततस् जातस्य विश्वस्य तत्र एव विलयः यतस् ॥ ७।२,३४।११॥
yatas na tat anājñātam kāryāya prabhavet svatas .. tatas jātasya viśvasya tatra eva vilayaḥ yatas .. 7.2,34.11..
अनेन लिंगतां तस्य भवेन्नान्येन केनचित् ॥ लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ ७.२,३४.१२॥
अनेन लिंग-ताम् तस्य भवेत् न अन्येन केनचिद् ॥ लिंगम् च शिवयोः देहः ताभ्याम् यस्मात् अधिष्ठितम् ॥ ७।२,३४।१२॥
anena liṃga-tām tasya bhavet na anyena kenacid .. liṃgam ca śivayoḥ dehaḥ tābhyām yasmāt adhiṣṭhitam .. 7.2,34.12..
अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ॥ लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः ॥ ७.२,३४.१३॥
अतस् तत्र शिवः साम्बः नित्यम् एव समर्चयेत् ॥ साक्षात् ॥ ७।२,३४।१३॥
atas tatra śivaḥ sāmbaḥ nityam eva samarcayet .. sākṣāt .. 7.2,34.13..
तयोः संपूजनादेव स च सा च समर्चितौ ॥ न तयोर्लिंगदेहत्वं विद्यते परमार्थतः ॥ ७.२,३४.१४॥
तयोः संपूजनात् एव स च सा च समर्चितौ ॥ न तयोः लिंग-देह-त्वम् विद्यते परमार्थतः ॥ ७।२,३४।१४॥
tayoḥ saṃpūjanāt eva sa ca sā ca samarcitau .. na tayoḥ liṃga-deha-tvam vidyate paramārthataḥ .. 7.2,34.14..
यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ॥ तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ ७.२,३४.१५॥
यतस् तु एतौ विशुद्धौ तौ देहः तद्-उपचारतः ॥ तत् एव परमा शक्तिः शिवस्य परमात्मनः ॥ ७।२,३४।१५॥
yatas tu etau viśuddhau tau dehaḥ tad-upacārataḥ .. tat eva paramā śaktiḥ śivasya paramātmanaḥ .. 7.2,34.15..
शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् ॥ न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि ॥ ७.२,३४.१६॥
शक्तिः राज्ञाम् यत् आदत्ते प्रसूते तत् चराचरम् ॥ न तस्य महिमा शक्यः वक्तुम् वर्ष-शतैः अपि ॥ ७।२,३४।१६॥
śaktiḥ rājñām yat ādatte prasūte tat carācaram .. na tasya mahimā śakyaḥ vaktum varṣa-śataiḥ api .. 7.2,34.16..
येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि ॥ पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते ॥ ७.२,३४.१७॥
येन आदौ मोहितौ स्याताम् ब्रह्म-नारायणौ अपि ॥ पुरा त्रिभुवनस्य अस्य प्रलये समुपस्थिते ॥ ७।२,३४।१७॥
yena ādau mohitau syātām brahma-nārāyaṇau api .. purā tribhuvanasya asya pralaye samupasthite .. 7.2,34.17..
वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् ॥ यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः ॥ ७.२,३४.१८॥
वारि-शय्या-गतः विष्णुः सुष्वाप अन् आकुलः सुखम् ॥ यदृच्छया गतः तत्र ब्रह्मा लोकपितामहः ॥ ७।२,३४।१८॥
vāri-śayyā-gataḥ viṣṇuḥ suṣvāpa an ākulaḥ sukham .. yadṛcchayā gataḥ tatra brahmā lokapitāmahaḥ .. 7.2,34.18..
ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् ॥ मायया मोहितः शम्भोर्विष्णुमाह पितामहः ॥ ॥
ददर्श पुण्डरीकाक्षम् स्वपन्तम् तम् अन् आकुलम् ॥ मायया मोहितः शम्भोः विष्णुम् आह पितामहः ॥ ॥
dadarśa puṇḍarīkākṣam svapantam tam an ākulam .. māyayā mohitaḥ śambhoḥ viṣṇum āha pitāmahaḥ .. ..
कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् ॥ स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात् ॥ ७.२,३४.१९॥
कः त्वम् वद इति अमर्षेण प्रहृत्य उत्थाप्य माधवम् ॥ स तु हस्त-प्रहारेण तीव्रेण अभिहतः क्षणात् ॥ ७।२,३४।१९॥
kaḥ tvam vada iti amarṣeṇa prahṛtya utthāpya mādhavam .. sa tu hasta-prahāreṇa tīvreṇa abhihataḥ kṣaṇāt .. 7.2,34.19..
प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् ॥ तमाह चांतस्संक्रुद्धः स्वयमक्रुद्धवद्धरिः ॥ ७.२,३४.२०॥
प्रबुद्धा उत्थाय शयनात् ददर्श परमेष्ठिनम् ॥ तम् आह च अन्तर् संक्रुद्धः स्वयम् अक्रुद्ध-वत् हरिः ॥ ७।२,३४।२०॥
prabuddhā utthāya śayanāt dadarśa parameṣṭhinam .. tam āha ca antar saṃkruddhaḥ svayam akruddha-vat hariḥ .. 7.2,34.20..
कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद ॥ इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम् ॥ ७.२,३४.२१॥
कुतस् त्वम् आगतः वत्स कस्मात् त्वम् व्याकुलः वद ॥ इति विष्णु-वचः श्रुत्वा प्रभु-त्व-गुण-सूचकम् ॥ ७।२,३४।२१॥
kutas tvam āgataḥ vatsa kasmāt tvam vyākulaḥ vada .. iti viṣṇu-vacaḥ śrutvā prabhu-tva-guṇa-sūcakam .. 7.2,34.21..
रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत ॥ वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः ॥ ७.२,३४.२२॥
रजसा बद्ध-वैरः तम् ब्रह्मा पुनर् अभाषत ॥ वत्स इति माम् कुतस् ब्रूषे गुरुः शिष्यम् इव आत्मनः ॥ ७।२,३४।२२॥
rajasā baddha-vairaḥ tam brahmā punar abhāṣata .. vatsa iti mām kutas brūṣe guruḥ śiṣyam iva ātmanaḥ .. 7.2,34.22..
मां न जानासि किं नाथं प्रपञ्चो यस्य मे कृतिः ॥ त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते ॥ ७.२,३४.२३॥
माम् न जानासि किम् नाथम् प्रपञ्चः यस्य मे कृतिः ॥ त्रिधा आत्मानम् विभज्य इदम् सृष्ट्वा अथ परिपाल्यते ॥ ७।२,३४।२३॥
mām na jānāsi kim nātham prapañcaḥ yasya me kṛtiḥ .. tridhā ātmānam vibhajya idam sṛṣṭvā atha paripālyate .. 7.2,34.23..
संहरामि नमे कश्चित्स्रष्टा जगति विद्यते ॥ इत्युक्ते सति सो ऽप्याह ब्रह्माणं विष्णुरव्ययः ॥ ७.२,३४.२४॥
संहरामि नमे कश्चिद् स्रष्टा जगति विद्यते ॥ इति उक्ते सति सः अपि आह ब्रह्माणम् विष्णुः अव्ययः ॥ ७।२,३४।२४॥
saṃharāmi name kaścid sraṣṭā jagati vidyate .. iti ukte sati saḥ api āha brahmāṇam viṣṇuḥ avyayaḥ .. 7.2,34.24..
अहमेवादिकर्तास्य हर्ता च परिपालकः ॥ भवानपि ममैवांगादवतीर्णः पुराव्ययात् ॥ ७.२,३४.२५॥
अहम् एव आदिकर्ता अस्य हर्ता च परिपालकः ॥ भवान् अपि मम एव अंगात् अवतीर्णः पुरा अव्ययात् ॥ ७।२,३४।२५॥
aham eva ādikartā asya hartā ca paripālakaḥ .. bhavān api mama eva aṃgāt avatīrṇaḥ purā avyayāt .. 7.2,34.25..
मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् ॥ सृजस्यवसि चांते तत्पुनः प्रतिसृजस्यपि ॥ ७.२,३४.२६॥
मद्-नियोगात् त्वम् आत्मानम् त्रिधा कृत्वा जगत्त्रयम् ॥ सृजसि अवसि च अन्ते तत् पुनर् प्रतिसृजसि अपि ॥ ७।२,३४।२६॥
mad-niyogāt tvam ātmānam tridhā kṛtvā jagattrayam .. sṛjasi avasi ca ante tat punar pratisṛjasi api .. 7.2,34.26..
विस्मृतोसि जगन्नाथं नारायणमनामयम् ॥ तवापि जनकं साक्षान्मामेवमवमन्यसे ॥ ७.२,३४.२७॥
विस्मृतः असि जगन्नाथम् नारायणम् अनामयम् ॥ तव अपि जनकम् साक्षात् माम् एवम् अवमन्यसे ॥ ७।२,३४।२७॥
vismṛtaḥ asi jagannātham nārāyaṇam anāmayam .. tava api janakam sākṣāt mām evam avamanyase .. 7.2,34.27..
तवापराधो नास्त्यत्र भ्रांतोसि मम मायया ॥ मत्प्रसादादियं भ्रांतिरपैष्यति तवाचिरात् ॥ ७.२,३४.२८॥
तव अपराधः न अस्ति अत्र मम मायया ॥ मद्-प्रसादात् इयम् भ्रांतिः अपैष्यति तव अचिरात् ॥ ७।२,३४।२८॥
tava aparādhaḥ na asti atra mama māyayā .. mad-prasādāt iyam bhrāṃtiḥ apaiṣyati tava acirāt .. 7.2,34.28..
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ॥ कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः ॥ ७.२,३४.२९॥
शृणु सत्यम् चतुर्वक्त्र सर्व-देव-ईश्वरः हि अहम् ॥ कर्ता भर्ता च हर्ता च न मया अस्ति समः विभुः ॥ ७।२,३४।२९॥
śṛṇu satyam caturvaktra sarva-deva-īśvaraḥ hi aham .. kartā bhartā ca hartā ca na mayā asti samaḥ vibhuḥ .. 7.2,34.29..
एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् ॥ अभवच्च महायुद्धं भैरवं रोमहर्षणम् ॥ ७.२,३४.३०॥
एवम् एव विवादः भूत् ब्रह्म-विष्ण्वोः परस्परम् ॥ अभवत् च महा-युद्धम् भैरवम् रोम-हर्षणम् ॥ ७।२,३४।३०॥
evam eva vivādaḥ bhūt brahma-viṣṇvoḥ parasparam .. abhavat ca mahā-yuddham bhairavam roma-harṣaṇam .. 7.2,34.30..
मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः ॥ तयोर्दर्पापहाराय प्रबोधाय च देवयोः ॥ ७.२,३४.३१॥
मुष्टिभिः न् इघ्नतोः तीव्रम् रजसा बद्ध-वैरयोः ॥ तयोः दर्प-अपहाराय प्रबोधाय च देवयोः ॥ ७।२,३४।३१॥
muṣṭibhiḥ n ighnatoḥ tīvram rajasā baddha-vairayoḥ .. tayoḥ darpa-apahārāya prabodhāya ca devayoḥ .. 7.2,34.31..
मध्ये समाविरभवल्लिंगमैश्वरमद्भुतम् ॥ ज्वालामालासहस्राढ्यमप्रमेयमनौपमम् ॥ ७.२,३४.३२॥
मध्ये समाविरभवत् लिंगम् ऐश्वरम् अद्भुतम् ॥ ज्वाला-माला-सहस्र-आढ्यम् अप्रमेयम् अनौपमम् ॥ ७।२,३४।३२॥
madhye samāvirabhavat liṃgam aiśvaram adbhutam .. jvālā-mālā-sahasra-āḍhyam aprameyam anaupamam .. 7.2,34.32..
क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् ॥ तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ ॥ ७.२,३४.३३॥
क्षय-वृद्धि-विनिर्मुक्तम् आदि-मध्य-अंत-वर्जितम् ॥ तस्य ज्वाला-सहस्रेण ब्रह्म-विष्णू विमोहितौ ॥ ७।२,३४।३३॥
kṣaya-vṛddhi-vinirmuktam ādi-madhya-aṃta-varjitam .. tasya jvālā-sahasreṇa brahma-viṣṇū vimohitau .. 7.2,34.33..
विसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा ॥ न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा ॥ ७.२,३४.३४॥
विसृज्य युद्धम् किम् तु एतत् इति अचिंतयताम् तदा ॥ न तयोः तस्य याथात्म्यम् प्रबुद्धम् अभवत् यदा ॥ ७।२,३४।३४॥
visṛjya yuddham kim tu etat iti aciṃtayatām tadā .. na tayoḥ tasya yāthātmyam prabuddham abhavat yadā .. 7.2,34.34..
तदा समुद्यतौ स्यातां तस्याद्यंतं परीक्षितुम् ॥ ७.२,३४.३५॥
तदा समुद्यतौ स्याताम् तस्य आदि-अन्तम् परीक्षितुम् ॥ ७।२,३४।३५॥
tadā samudyatau syātām tasya ādi-antam parīkṣitum .. 7.2,34.35..
तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः ॥ मनोनिलजवो भूत्वा गतस्तूर्ध्वं प्रयत्नतः ॥ ७.२,३४.३५॥
तत्र हंस-आकृतिः ब्रह्मा विश्वतस् पक्ष-संयुतः ॥ मनः-निल-जवः भूत्वा गतः तु ऊर्ध्वम् प्रयत्नतः ॥ ७।२,३४।३५॥
tatra haṃsa-ākṛtiḥ brahmā viśvatas pakṣa-saṃyutaḥ .. manaḥ-nila-javaḥ bhūtvā gataḥ tu ūrdhvam prayatnataḥ .. 7.2,34.35..
नारायणोपि विश्वात्मा लीलाञ्जनचयोपमम् ॥ वाराहममितं रूपमस्थाय गतवानधः ॥ ७.२,३४.३७॥
विश्वात्मा लीलाञ्जन-चय-उपमम् ॥ वाराहम् अमितम् रूपम् अस्थाय गतवान् अधस् ॥ ७।२,३४।३७॥
viśvātmā līlāñjana-caya-upamam .. vārāham amitam rūpam asthāya gatavān adhas .. 7.2,34.37..
एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः ॥ नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ॥ ७.२,३४.३८॥
एवम् वर्ष-सहस्रम् तु त्वरन् विष्णुः अधस् गतः ॥ न अपश्यत् अल्पम् अपि अस्य मूलम् लिंगस्य सूकरः ॥ ७।२,३४।३८॥
evam varṣa-sahasram tu tvaran viṣṇuḥ adhas gataḥ .. na apaśyat alpam api asya mūlam liṃgasya sūkaraḥ .. 7.2,34.38..
तावत्कालं गतश्चोर्ध्वं तस्यांतं ज्ञातुमिच्छया ॥ श्रांतोत्यंतमदृष्ट्वांतं पापताधः पितामहः ॥ ७.२,३४.३९॥
तावत्कालम् गतः च ऊर्ध्वम् तस्य अंतम् ज्ञातुम् इच्छया ॥ श्रान्त-उत्यंतम् अ दृष्ट्वा अन्तम् पाप-ता-अधस् पितामहः ॥ ७।२,३४।३९॥
tāvatkālam gataḥ ca ūrdhvam tasya aṃtam jñātum icchayā .. śrānta-utyaṃtam a dṛṣṭvā antam pāpa-tā-adhas pitāmahaḥ .. 7.2,34.39..
तथैव भगवान् विष्णुः श्रांतः संविग्नलोचनः ॥ क्लेशेन महता तूर्णमधस्तादुत्थितो ऽभवत् ॥ ७.२,३४.४०॥
तथा एव भगवान् विष्णुः श्रांतः संविग्न-लोचनः ॥ क्लेशेन महता तूर्णम् अधस्तात् उत्थितः अभवत् ॥ ७।२,३४।४०॥
tathā eva bhagavān viṣṇuḥ śrāṃtaḥ saṃvigna-locanaḥ .. kleśena mahatā tūrṇam adhastāt utthitaḥ abhavat .. 7.2,34.40..
समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ ॥ मायया मोहितौ शंभोः कृत्याकृत्यं न जग्मतुः ॥ ॥
समागतौ अथ अन्योन्यम् विस्मय-स्मेर-वीक्षणौ ॥ मायया मोहितौ शंभोः कृत्याकृत्यम् न जग्मतुः ॥ ॥
samāgatau atha anyonyam vismaya-smera-vīkṣaṇau .. māyayā mohitau śaṃbhoḥ kṛtyākṛtyam na jagmatuḥ .. ..
पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ ॥ प्रणिपत्य किमात्मेदमित्यचिंतयतां तदा ॥ ७.२,३४.४१॥
पृष्ठतस् पार्श्वतस् तस्य च अग्रतस् च स्थितौ उभौ ॥ प्रणिपत्य किम् आत्मा इदम् इति अचिंतयताम् तदा ॥ ७।२,३४।४१॥
pṛṣṭhatas pārśvatas tasya ca agratas ca sthitau ubhau .. praṇipatya kim ātmā idam iti aciṃtayatām tadā .. 7.2,34.41..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं नाम चतुस्त्रिंशोऽध्यायः ७.२,३४.४२॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे हरिविधिमोहवर्णनम् नाम चतुस्त्रिंशः अध्यायः।२,३४।४२॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe harividhimohavarṇanam nāma catustriṃśaḥ adhyāyaḥ.2,34.42..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In