| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
अथाविरभवत्तत्र सनादं शब्दलक्षणम् ॥ ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ ॥
अथ आविरभवत् तत्र स नादम् शब्द-लक्षणम् ॥ ओम् इति एकाक्षरम् ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ ॥
atha āvirabhavat tatra sa nādam śabda-lakṣaṇam .. om iti ekākṣaram brahma brahmaṇaḥ pratipādakam .. ..
तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा ॥ रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥ ॥
तत् अपि अविदितम् तावत् ब्रह्मणा विष्णुना तथा ॥ रजसा तमसा चित्तम् तयोः यस्मात् तिरस्कृतम् ॥ ॥
tat api aviditam tāvat brahmaṇā viṣṇunā tathā .. rajasā tamasā cittam tayoḥ yasmāt tiraskṛtam .. ..
तदा विभक्तमभवच्चतुर्धैकं तदक्षरम् ॥ अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया ॥ ७.२,३५.१॥
तदा विभक्तम् अभवत् चतुर्धा एकम् तत् अक्षरम् ॥ अ उ मा इति त्रि-मात्राभिः परस्तात् च अर्ध-मात्रया ॥ ७।२,३५।१॥
tadā vibhaktam abhavat caturdhā ekam tat akṣaram .. a u mā iti tri-mātrābhiḥ parastāt ca ardha-mātrayā .. 7.2,35.1..
तत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे ॥ उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥ ७.२,३५.२॥
तत्र आकारः श्रितः भागे ज्वलत्-लिंगस्य दक्षिणे ॥ उकारः च उत्तरे तद्वत् मकारः तस्य मध्यतः ॥ ७।२,३५।२॥
tatra ākāraḥ śritaḥ bhāge jvalat-liṃgasya dakṣiṇe .. ukāraḥ ca uttare tadvat makāraḥ tasya madhyataḥ .. 7.2,35.2..
अर्धमात्रात्मको नादः श्रूयते लिंगमूर्धनि ॥ विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे ॥ ७.२,३५.३॥
अर्ध-मात्रा-आत्मकः नादः श्रूयते लिंग-मूर्धनि ॥ विभक्ते अपि तदा तस्मिन् प्रणवे परम-अक्षरे ॥ ७।२,३५।३॥
ardha-mātrā-ātmakaḥ nādaḥ śrūyate liṃga-mūrdhani .. vibhakte api tadā tasmin praṇave parama-akṣare .. 7.2,35.3..
विभावार्थं च तौ देवौ न किंचिदवजग्मतुः ॥ वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥ ७.२,३५.४॥
विभाव-अर्थम् च तौ देवौ न किंचिद् अवजग्मतुः ॥ वेद-आत्मना तदा अव्यक्तः प्रणवः विकृतिम् गतः ॥ ७।२,३५।४॥
vibhāva-artham ca tau devau na kiṃcid avajagmatuḥ .. veda-ātmanā tadā avyaktaḥ praṇavaḥ vikṛtim gataḥ .. 7.2,35.4..
तत्राकारो ऋगभवदुकारो यजुरव्ययः ॥ मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः ॥ ७.२,३५.५॥
तत्र आकारः ऋच् अभवत् उकारः यजुः अव्ययः ॥ मकारः साम संजातः नादः तु आथर्वणी श्रुतिः ॥ ७।२,३५।५॥
tatra ākāraḥ ṛc abhavat ukāraḥ yajuḥ avyayaḥ .. makāraḥ sāma saṃjātaḥ nādaḥ tu ātharvaṇī śrutiḥ .. 7.2,35.5..
ऋगयं स्थापयामास समासात्त्वर्थमात्मनः ॥ रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥ ७.२,३५.६॥
ऋगयम् स्थापयामास समासात् तु अर्थम् आत्मनः ॥ रजः-गुणेषु ब्रह्माणम् मूर्तिषु आद्यम् क्रियासु अपि ॥ ७।२,३५।६॥
ṛgayam sthāpayāmāsa samāsāt tu artham ātmanaḥ .. rajaḥ-guṇeṣu brahmāṇam mūrtiṣu ādyam kriyāsu api .. 7.2,35.6..
सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ॥ कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु ॥ ७.२,३५.७॥
सृष्टिम् लोकेषु पृथिवीम् तत्त्वेषु आत्मानम् अव्ययम् ॥ कला-अध्वनि निवृत्तिम् च सद्यम् ब्रह्मसु पञ्चसु ॥ ७।२,३५।७॥
sṛṣṭim lokeṣu pṛthivīm tattveṣu ātmānam avyayam .. kalā-adhvani nivṛttim ca sadyam brahmasu pañcasu .. 7.2,35.7..
लिंगभागेष्वधोभागं बीजाख्यं कारणत्रये ॥ चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥ ७.२,३५.८॥
लिंग-भागेषु अधोभागम् बीज-आख्यम् कारण-त्रये ॥ चतुःषष्टि-गुण-ऐश्वर्यम् बौद्धम् यत् अणिम-आदिषु ॥ ७।२,३५।८॥
liṃga-bhāgeṣu adhobhāgam bīja-ākhyam kāraṇa-traye .. catuḥṣaṣṭi-guṇa-aiśvaryam bauddham yat aṇima-ādiṣu .. 7.2,35.8..
तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ॥ अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥ ७.२,३५.९॥
तत् इत्थम् अर्थैः दशभिः व्याप्तम् विश्वम् ऋचा जगत् ॥ अथ उपस्थापयामास स्व-अर्थम् दशविधम् यजुः ॥ ७।२,३५।९॥
tat ittham arthaiḥ daśabhiḥ vyāptam viśvam ṛcā jagat .. atha upasthāpayāmāsa sva-artham daśavidham yajuḥ .. 7.2,35.9..
सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ॥ स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥ ७.२,३५.१०॥
सत्त्वम् गुणेषु विष्णुम् च मूर्तिषु आद्यम् क्रियासु अपि ॥ स्थितिम् लोकेषु अंतरिक्षम् विद्याम् तत्त्वेषु च त्रिषु ॥ ७।२,३५।१०॥
sattvam guṇeṣu viṣṇum ca mūrtiṣu ādyam kriyāsu api .. sthitim lokeṣu aṃtarikṣam vidyām tattveṣu ca triṣu .. 7.2,35.10..
कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ॥ मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु ॥ ७.२,३५.११॥
कला-अध्वसु प्रतिष्ठाम् च वामम् ब्रह्मसु पञ्चसु ॥ मध्यम् तु लिंग-भागेषु योनिम् च त्रिषु हेतुषु ॥ ७।२,३५।११॥
kalā-adhvasu pratiṣṭhām ca vāmam brahmasu pañcasu .. madhyam tu liṃga-bhāgeṣu yonim ca triṣu hetuṣu .. 7.2,35.11..
प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ॥ ततोपस्थापयामास सामार्थं दशधात्मनः ॥ ७.२,३५.१२॥
प्राकृतम् च यथा ऐश्वर्यम् तस्मात् विश्वम् यजुः-मयम् ॥ तता उपस्थापयामास साम-अर्थम् दशधा आत्मनः ॥ ७।२,३५।१२॥
prākṛtam ca yathā aiśvaryam tasmāt viśvam yajuḥ-mayam .. tatā upasthāpayāmāsa sāma-artham daśadhā ātmanaḥ .. 7.2,35.12..
तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ॥ संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥ ७.२,३५.१३॥
तमः-गुणेषु अथो रुद्रम् मूर्तिषु आद्यम् क्रियासु च ॥ संहृतिम् त्रिषु लोकेषु तत्त्वेषु शिवम् उत्तमम् ॥ ७।२,३५।१३॥
tamaḥ-guṇeṣu atho rudram mūrtiṣu ādyam kriyāsu ca .. saṃhṛtim triṣu lokeṣu tattveṣu śivam uttamam .. 7.2,35.13..
विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु ॥ लिंगभागेषु पीठोर्ध्वं बीजिनं कारणत्रये ॥ ७.२,३५.१४॥
विद्याकलासु अघोरम् च तथा ब्रह्मसु पञ्चसु ॥ लिंग-भागेषु पीठ-ऊर्ध्वम् बीजिनम् कारण-त्रये ॥ ७।२,३५।१४॥
vidyākalāsu aghoram ca tathā brahmasu pañcasu .. liṃga-bhāgeṣu pīṭha-ūrdhvam bījinam kāraṇa-traye .. 7.2,35.14..
पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ॥ अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥ ७.२,३५.१५॥
पौरुषम् च तथा ऐश्वर्यम् इत्थम् साम्ना ततम् जगत् ॥ अथ अथर्वा आह नैर्गुण्यम् अर्थम् प्रथमम् आत्मनः ॥ ७।२,३५।१५॥
pauruṣam ca tathā aiśvaryam ittham sāmnā tatam jagat .. atha atharvā āha nairguṇyam artham prathamam ātmanaḥ .. 7.2,35.15..
ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् ॥ क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥ ७.२,३५.१६॥
ततस् महेश्वरम् साक्षात् मूर्तिषु अपि सदाशिवम् ॥ क्रियासु निष्क्रियस्य अपि शिवस्य परमात्मनः ॥ ७।२,३५।१६॥
tatas maheśvaram sākṣāt mūrtiṣu api sadāśivam .. kriyāsu niṣkriyasya api śivasya paramātmanaḥ .. 7.2,35.16..
भूतानुग्रहणं चैव मुच्यंते येन जंतवः ॥ लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥ ७.२,३५.१७॥
भूत-अनुग्रहणम् च एव मुच्यंते येन जंतवः ॥ लोकेषु अपि यतस् वाचः निवृत्ताः मनसा सह ॥ ७।२,३५।१७॥
bhūta-anugrahaṇam ca eva mucyaṃte yena jaṃtavaḥ .. lokeṣu api yatas vācaḥ nivṛttāḥ manasā saha .. 7.2,35.17..
तदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् ॥ सोमस्सहोमया यत्र नित्यं निवसतीश्वरः ॥ ७.२,३५.१८॥
तद्-ऊर्ध्वम् उन्मनाः लोकात् सोम-लोकम् अलौकिकम् ॥ सोमः सह उमया यत्र नित्यम् निवसति ईश्वरः ॥ ७।२,३५।१८॥
tad-ūrdhvam unmanāḥ lokāt soma-lokam alaukikam .. somaḥ saha umayā yatra nityam nivasati īśvaraḥ .. 7.2,35.18..
तदूर्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते ॥ शांतिं च शांत्यतीतां च व्यापिकां चै कलास्वपि ॥ ७.२,३५.१९॥
तद्-ऊर्ध्वम् उन्मनाः लोक-आद्यम् प्राप्तः न निवर्तते ॥ शांतिम् च शांत्यतीताम् च व्यापिकाम् कलासु अपि ॥ ७।२,३५।१९॥
tad-ūrdhvam unmanāḥ loka-ādyam prāptaḥ na nivartate .. śāṃtim ca śāṃtyatītām ca vyāpikām kalāsu api .. 7.2,35.19..
तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु ॥ मूर्धानमपि लिंगस्य नादभागेष्वनुत्तमम् ॥ ७.२,३५.२०॥
तत्पूरुषम् तथा ईशानम् ब्रह्म ब्रह्मसु पञ्चसु ॥ मूर्धानम् अपि लिंगस्य नादभागेषु अनुत्तमम् ॥ ७।२,३५।२०॥
tatpūruṣam tathā īśānam brahma brahmasu pañcasu .. mūrdhānam api liṃgasya nādabhāgeṣu anuttamam .. 7.2,35.20..
यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः ॥ तत्तेष्वपि तदा बिंदोर्नादाच्छक्तेस्ततः परात् ॥ ७.२,३५.२१॥
यत्र आवाह्य समाराध्यः केवलः निष्कलः शिवः ॥ तत् तेषु अपि तदा बिंदोः नादात् शक्तेः ततस् परात् ॥ ७।२,३५।२१॥
yatra āvāhya samārādhyaḥ kevalaḥ niṣkalaḥ śivaḥ .. tat teṣu api tadā biṃdoḥ nādāt śakteḥ tatas parāt .. 7.2,35.21..
तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः ॥ कारणेषु त्रयातीतान्मायाविक्षोभकारणात् ॥ ७.२,३५.२२॥
तत्त्वात् अपि परम् तत्त्वम् अतत्त्वम् परमार्थतः ॥ कारणेषु त्रय-अतीतात् माया-विक्षोभ-कारणात् ॥ ७।२,३५।२२॥
tattvāt api param tattvam atattvam paramārthataḥ .. kāraṇeṣu traya-atītāt māyā-vikṣobha-kāraṇāt .. 7.2,35.22..
अनंताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात् ॥ सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात् ॥ ७.२,३५.२३॥
अनंतात् शुद्धविद्यायाः परस्तात् च महेश्वरात् ॥ सर्व-विद्येश्वर-अधीशात् न परात् च सदाशिवात् ॥ ७।२,३५।२३॥
anaṃtāt śuddhavidyāyāḥ parastāt ca maheśvarāt .. sarva-vidyeśvara-adhīśāt na parāt ca sadāśivāt .. 7.2,35.23..
सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात् ॥ पञ्चवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात् ॥ ७.२,३५.२४॥
सर्व-मंत्र-तनोः देवात् शक्ति-त्रय-समन्वितात् ॥ पञ्चवक्त्रात् दश-भुजात् साक्षात् सकल-निष्कलात् ॥ ७।२,३५।२४॥
sarva-maṃtra-tanoḥ devāt śakti-traya-samanvitāt .. pañcavaktrāt daśa-bhujāt sākṣāt sakala-niṣkalāt .. 7.2,35.24..
तस्मादपि पराद्बिंदोरर्धेदोश्च ततः परात् ॥ ततः परान्निशाधीशान्नादाख्याच्च ततः परात् ॥ ७.२,३५.२५॥
तस्मात् अपि परात् बिंदोः अर्धेदोः च ततस् परात् ॥ ततस् परात् निशाधीशान् नाद-आख्यात् च ततस् परात् ॥ ७।२,३५।२५॥
tasmāt api parāt biṃdoḥ ardhedoḥ ca tatas parāt .. tatas parāt niśādhīśān nāda-ākhyāt ca tatas parāt .. 7.2,35.25..
ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि ॥ ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः ॥ ७.२,३५.२६॥
ततस् परात् सुषुम्ना-ईशात् ब्रह्मरंध्र-ईश्वरात् अपि ॥ ततस् परस्मात् शक्तेः च परस्तात् शिवतत्त्वतः ॥ ७।२,३५।२६॥
tatas parāt suṣumnā-īśāt brahmaraṃdhra-īśvarāt api .. tatas parasmāt śakteḥ ca parastāt śivatattvataḥ .. 7.2,35.26..
परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् ॥ कारणानां च धातारं ध्यातारां ध्येयमव्ययम् ॥ ७.२,३५.२७॥
परमम् कारणम् साक्षात् स्वयम् निष्कारणम् शिवम् ॥ कारणानाम् च धातारम् ध्याताराम् ध्येयम् अव्ययम् ॥ ७।२,३५।२७॥
paramam kāraṇam sākṣāt svayam niṣkāraṇam śivam .. kāraṇānām ca dhātāram dhyātārām dhyeyam avyayam .. 7.2,35.27..
परमाकाशमध्यस्थं परमात्मोपरि स्थितं ॥ सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम् ॥ ७.२,३५.२८॥
परम-आकाश-मध्य-स्थम् परमात्म-उपरि स्थितम् ॥ सर्व-ऐश्वर्येण संपन्नम् सर्व-ईश्वरम् अनीश्वरम् ॥ ७।२,३५।२८॥
parama-ākāśa-madhya-stham paramātma-upari sthitam .. sarva-aiśvaryeṇa saṃpannam sarva-īśvaram anīśvaram .. 7.2,35.28..
ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् ॥ अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात् ॥ ७.२,३५.२९॥
ऐश्वर्यात् च अपि माया इयात् अशुद्धात् मानुष-आदिकात् ॥ अपरात् च परात् त्याज्यात् अधिशुद्ध-अध्व-गोचरात् ॥ ७।२,३५।२९॥
aiśvaryāt ca api māyā iyāt aśuddhāt mānuṣa-ādikāt .. aparāt ca parāt tyājyāt adhiśuddha-adhva-gocarāt .. 7.2,35.29..
तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात् ॥ परमं परमैश्वर्यमुन्मनाद्यमनादि च ॥ ७.२,३५.३०॥
तद्-परात् शुद्धविद्या-आद्यात् उन्मनांतात् परात्परात् ॥ परमम् परम-ऐश्वर्यम् उन्मना-आद्यम् अनादि च ॥ ७।२,३५।३०॥
tad-parāt śuddhavidyā-ādyāt unmanāṃtāt parātparāt .. paramam parama-aiśvaryam unmanā-ādyam anādi ca .. 7.2,35.30..
अपारमपराधीनं निरस्तातिशयं स्थिरम् ॥ इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः ॥ ७.२,३५.३१॥
अपारम् अपर-अधीनम् निरस्त-अतिशयम् स्थिरम् ॥ इत्थम् अर्थैः दशविधैः इयम् आथर्वणी श्रुतिः ॥ ७।२,३५।३१॥
apāram apara-adhīnam nirasta-atiśayam sthiram .. ittham arthaiḥ daśavidhaiḥ iyam ātharvaṇī śrutiḥ .. 7.2,35.31..
यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् ॥ ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते ॥ ७.२,३५.३२॥
यस्मात् गरीयसी तस्मात् विश्वम् व्याप्तम् अथर्वणात् ॥ ऋग्वेदः पुनर् आह इदम् जाग्रत्-रूपम् मया उच्यते ॥ ७।२,३५।३२॥
yasmāt garīyasī tasmāt viśvam vyāptam atharvaṇāt .. ṛgvedaḥ punar āha idam jāgrat-rūpam mayā ucyate .. 7.2,35.32..
येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः ॥ यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते ॥ ७.२,३५.३३॥
येन अहम् आत्म-तत्त्वस्य नित्यम् अस्मि अभिधायकः ॥ यजुर्वेदः अवदत् तद्वत् स्वप्न-अवस्था मया उच्यते ॥ ७।२,३५।३३॥
yena aham ātma-tattvasya nityam asmi abhidhāyakaḥ .. yajurvedaḥ avadat tadvat svapna-avasthā mayā ucyate .. 7.2,35.33..
भोग्यात्मना परिणता विद्यावेद्या यतो मयि ॥ साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते ॥ ७.२,३५.३४॥
भोग्य-आत्मना परिणताः विद्या-वेद्याः यतस् मयि ॥ साम च आह सुषुप्ति-आख्यम् एवम् सर्वम् मया उच्यते ॥ ७।२,३५।३४॥
bhogya-ātmanā pariṇatāḥ vidyā-vedyāḥ yatas mayi .. sāma ca āha suṣupti-ākhyam evam sarvam mayā ucyate .. 7.2,35.34..
ममार्थेन शिवेनेदं तामसेनाभिधीयते ॥ अथर्वाह तुरायाख्यं तुरीयातीतमेव च ॥ ७.२,३५.३५॥
मम अर्थेन शिवेन इदम् तामसेन अभिधीयते ॥ अथर्वा आह तुराय-आख्यम् तुरीयातीतम् एव च ॥ ७।२,३५।३५॥
mama arthena śivena idam tāmasena abhidhīyate .. atharvā āha turāya-ākhyam turīyātītam eva ca .. 7.2,35.35..
मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् ॥ अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम् ॥ ७.२,३५.३६॥
मया अभिधीयते तस्मात् अध्वा अतीत-पदा अस्मि अहम् ॥ अध्व-आत्मकम् तु त्रितयम् शिव-विद्या-आत्म-संज्ञितम् ॥ ७।२,३५।३६॥
mayā abhidhīyate tasmāt adhvā atīta-padā asmi aham .. adhva-ātmakam tu tritayam śiva-vidyā-ātma-saṃjñitam .. 7.2,35.36..
तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा ॥ अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम् ॥ ७.२,३५.३७॥
तत् त्रैगुण्यम् त्रयी-साध्यम् संशोध्यम् च पद-एषिणा ॥ अध्व-अतीतम् तुरीय-आख्यम् निर्वाणम् परमम् पदम् ॥ ७।२,३५।३७॥
tat traiguṇyam trayī-sādhyam saṃśodhyam ca pada-eṣiṇā .. adhva-atītam turīya-ākhyam nirvāṇam paramam padam .. 7.2,35.37..
तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् ॥ द्वयोः प्रमापको नादो नदांतश्च मदात्मकः ॥ ७.२,३५.३८॥
तद्-अतीतम् च नैर्गुण्यात् अध्वनः अस्य विशोधकम् ॥ द्वयोः प्रमापकः नादः नदांतः च मद-आत्मकः ॥ ७।२,३५।३८॥
tad-atītam ca nairguṇyāt adhvanaḥ asya viśodhakam .. dvayoḥ pramāpakaḥ nādaḥ nadāṃtaḥ ca mada-ātmakaḥ .. 7.2,35.38..
तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः ॥ यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः ॥ ७.२,३५.३९॥
तस्मात् मम अर्थ-स्वातंत्र्यात् प्रधानः परमेश्वरः ॥ यत् अस्ति वस्तु तत् सर्वम् गुण-प्रधान्य-योगतः ॥ ७।२,३५।३९॥
tasmāt mama artha-svātaṃtryāt pradhānaḥ parameśvaraḥ .. yat asti vastu tat sarvam guṇa-pradhānya-yogataḥ .. 7.2,35.39..
समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ ७.२,३५.४०॥
समस्तम् व्यस्तम् अपि च प्रणव-अर्थम् प्रचक्षते ॥ सव-अर्थ-वाचकम् तस्मात् एकम् ब्रह्म एतत् अक्षरम् ॥ ७।२,३५।४०॥
samastam vyastam api ca praṇava-artham pracakṣate .. sava-artha-vācakam tasmāt ekam brahma etat akṣaram .. 7.2,35.40..
तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ॥ शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥ ७.२,३५.४१॥
तेन ऊम् इति जगत् कृत्स्नम् कुरुते प्रथमम् शिवः ॥ शिवः हि प्रणवः हि एष प्रणवः हि शिवः स्मृतः ॥ ७।२,३५।४१॥
tena ūm iti jagat kṛtsnam kurute prathamam śivaḥ .. śivaḥ hi praṇavaḥ hi eṣa praṇavaḥ hi śivaḥ smṛtaḥ .. 7.2,35.41..
वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ॥ चिंतया रहितो रुद्रो वाचोयन्मनसा सह ॥ ७.२,३५.४२॥
वाच्य-वाचकयोः भेदः न अत्यंतम् विद्यते यतस् ॥ चिंतया रहितः रुद्रः सह ॥ ७।२,३५।४२॥
vācya-vācakayoḥ bhedaḥ na atyaṃtam vidyate yatas .. ciṃtayā rahitaḥ rudraḥ saha .. 7.2,35.42..
अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥ एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥ ७.२,३५.४३॥
अ प्राप्य तत् निवर्तन्ते वाच्यः तु एक-अक्षरेण सः ॥ एक-अक्षरात् अकार-आख्यात् आत्मा ब्रह्म अभिधीयते ॥ ७।२,३५।४३॥
a prāpya tat nivartante vācyaḥ tu eka-akṣareṇa saḥ .. eka-akṣarāt akāra-ākhyāt ātmā brahma abhidhīyate .. 7.2,35.43..
एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते ॥ एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः ॥ ७.२,३५.४४॥
एक-अक्षरात् उकार-आख्यात् द्विधा विष्णुः उदीर्यते ॥ एक-अक्षरात् मकार-आख्यात् शिवः रुद्रः उदाहृतः ॥ ७।२,३५।४४॥
eka-akṣarāt ukāra-ākhyāt dvidhā viṣṇuḥ udīryate .. eka-akṣarāt makāra-ākhyāt śivaḥ rudraḥ udāhṛtaḥ .. 7.2,35.44..
दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः ॥ वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः ॥ ७.२,३५.४५॥
दक्षिण-अंगात् महेशस्य जातः ब्रह्मा आत्म-संज्ञिकः ॥ वाम-अंगात् अभवत् विष्णुः ततस् विद्या इति संज्ञितः ॥ ७।२,३५।४५॥
dakṣiṇa-aṃgāt maheśasya jātaḥ brahmā ātma-saṃjñikaḥ .. vāma-aṃgāt abhavat viṣṇuḥ tatas vidyā iti saṃjñitaḥ .. 7.2,35.45..
हृदयान्नीलरुद्रो भूच्छिवस्य शिवसंज्ञिकः ॥ सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः ॥ ७.२,३५.४६॥
हृदयात् नीलरुद्रः भूत् शिवस्य शिव-संज्ञिकः ॥ सृष्टेः प्रवर्तकः ब्रह्मा स्थितेः विष्णुः विमोहकः ॥ ७।२,३५।४६॥
hṛdayāt nīlarudraḥ bhūt śivasya śiva-saṃjñikaḥ .. sṛṣṭeḥ pravartakaḥ brahmā sthiteḥ viṣṇuḥ vimohakaḥ .. 7.2,35.46..
संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः ॥ ७.२,३५.४७॥
संहारस्य तथा रुद्रः तयोः नित्यम् नियामकः ॥ ७।२,३५।४७॥
saṃhārasya tathā rudraḥ tayoḥ nityam niyāmakaḥ .. 7.2,35.47..
तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च ॥ कारणत्रयहेतुश्च शिवः परमकारणम् ॥ ७.२,३५.४७॥
तस्मात् त्रयः ते कथ्यंते जगतः कारणानि च ॥ कारण-त्रय-हेतुः च शिवः परम-कारणम् ॥ ७।२,३५।४७॥
tasmāt trayaḥ te kathyaṃte jagataḥ kāraṇāni ca .. kāraṇa-traya-hetuḥ ca śivaḥ parama-kāraṇam .. 7.2,35.47..
अर्थमेतमविज्ञाय रजसा बद्धवैरयोः ॥ युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम् ॥ ७.२,३५.४८॥
अर्थम् एतम् अ विज्ञाय रजसा बद्ध-वैरयोः ॥ युवयोः प्रतिबोधाय मध्ये लिंगम् उपस्थितम् ॥ ७।२,३५।४८॥
artham etam a vijñāya rajasā baddha-vairayoḥ .. yuvayoḥ pratibodhāya madhye liṃgam upasthitam .. 7.2,35.48..
एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ॥ ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः ॥ ७.२,३५.५०॥
एवम् ओम् इति माम् प्राहुः यत् इह उक्तम् अथर्वणा ॥ ऋचः यजूंषि सामानि शाखाः च अन्याः सहस्रशस् ॥ ७।२,३५।५०॥
evam om iti mām prāhuḥ yat iha uktam atharvaṇā .. ṛcaḥ yajūṃṣi sāmāni śākhāḥ ca anyāḥ sahasraśas .. 7.2,35.50..
वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि ॥ स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते ॥ ७.२,३५.५१॥
वेदेषु एवम् स्वयम् वक्त्रैः व्यक्तम् इति अवदत्सु अपि ॥ स्वप्न-अनुभूतम् इव तत् ताभ्याम् न अध्यवसीयते ॥ ७।२,३५।५१॥
vedeṣu evam svayam vaktraiḥ vyaktam iti avadatsu api .. svapna-anubhūtam iva tat tābhyām na adhyavasīyate .. 7.2,35.51..
तयोस्तत्र प्रबोधाय तमोपनयनाय च ॥ लिंगेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम् ॥ ७.२,३५.५२॥
तयोः तत्र प्रबोधाय तमः उपनयनाय च ॥ लिंगे अपि मुद्रितम् सर्वम् यथा वेदैः उदाहृतम् ॥ ७।२,३५।५२॥
tayoḥ tatra prabodhāya tamaḥ upanayanāya ca .. liṃge api mudritam sarvam yathā vedaiḥ udāhṛtam .. 7.2,35.52..
तद्दृष्ट्वा मुद्रितं लिंगे प्रसादाल्लिंगिनस्तदा ॥ प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः ॥ ७.२,३५.५३॥
तत् दृष्ट्वा मुद्रितम् लिंगे प्रसादात् लिंगिनः तदा ॥ प्रशांत-मनसौ देवौ प्रबुद्धौ संबभूवतुः ॥ ७।२,३५।५३॥
tat dṛṣṭvā mudritam liṃge prasādāt liṃginaḥ tadā .. praśāṃta-manasau devau prabuddhau saṃbabhūvatuḥ .. 7.2,35.53..
उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् ॥ ततः परतरं धाम धामवंतं च पूरुषम् ॥ ७.२,३५.५४॥
उत्पत्तिम् विलयम् च एव यथात्म्यम् च षडध्वनाम् ॥ ततस् परतरम् धाम धामवंतम् च पूरुषम् ॥ ७।२,३५।५४॥
utpattim vilayam ca eva yathātmyam ca ṣaḍadhvanām .. tatas parataram dhāma dhāmavaṃtam ca pūruṣam .. 7.2,35.54..
निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् ॥ पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम् ॥ ७.२,३५.५५॥
निरुत्तरतरम् ब्रह्म निष्कलम् शिवम् ईश्वरम् ॥ पशु-पाश-मयस्य अस्य प्रपञ्चस्य सदा पतिम् ॥ ७।२,३५।५५॥
niruttarataram brahma niṣkalam śivam īśvaram .. paśu-pāśa-mayasya asya prapañcasya sadā patim .. 7.2,35.55..
अकुतोभयमत्यंतमवृद्धिक्षयमव्ययम् ॥ वाह्यमाभ्यंतरं व्याप्तं वाह्याभ्यंतरवर्जितम् ॥ ७.२,३५.५६॥
अकुतोभयम् अत्यंतम् अ वृद्धि-क्षयम् अव्ययम् ॥ वाह्यम् आभ्यंतरम् व्याप्तम् वाह्य-अभ्यंतर-वर्जितम् ॥ ७।२,३५।५६॥
akutobhayam atyaṃtam a vṛddhi-kṣayam avyayam .. vāhyam ābhyaṃtaram vyāptam vāhya-abhyaṃtara-varjitam .. 7.2,35.56..
निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् ॥ अलक्षणमनिर्देश्यमवाङ्मनसगोचरम् ॥ ७.२,३५.५७॥
निरस्त-अतिशयम् शश्वत् विश्व-लोक-विलक्षणम् ॥ अलक्षणम् अनिर्देश्यम् अवाङ्मनसगोचरम् ॥ ७।२,३५।५७॥
nirasta-atiśayam śaśvat viśva-loka-vilakṣaṇam .. alakṣaṇam anirdeśyam avāṅmanasagocaram .. 7.2,35.57..
प्रकाशैकरसं शांतं प्रसन्नं सततोदितम् ॥ सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम् ॥ ७.२,३५.५८॥
प्रकाश-एक-रसम् शांतम् प्रसन्नम् सतत-उदितम् ॥ सर्व-कल्याण-निलयम् शक्त्या तादृशया अन्वितम् ॥ ७।२,३५।५८॥
prakāśa-eka-rasam śāṃtam prasannam satata-uditam .. sarva-kalyāṇa-nilayam śaktyā tādṛśayā anvitam .. 7.2,35.58..
ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा ॥ रचयित्वांजलिं मूर्ध्नि भीतौ तौ वाचमूचतुः ॥ ७.२,३५.५९॥
ज्ञात्वा देवम् विरूपाक्षम् ब्रह्म-नारायणौ तदा ॥ रचयित्वा अंजलिम् मूर्ध्नि भीतौ तौ वाचम् ऊचतुः ॥ ७।२,३५।५९॥
jñātvā devam virūpākṣam brahma-nārāyaṇau tadā .. racayitvā aṃjalim mūrdhni bhītau tau vācam ūcatuḥ .. 7.2,35.59..
ब्रह्मोवाच ७.२,३५.६०॥
अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः ॥ ईदृशीं भ्रांतिमापन्न इति को ऽत्रापराध्यति ॥ ७.२,३५.६०॥
अज्ञः वा अहम् अभिज्ञः वा त्वया आदौ देव निर्मितः ॥ ईदृशीम् भ्रांतिम् आपन्नः इति कः अत्र अपराध्यति ॥ ७।२,३५।६०॥
ajñaḥ vā aham abhijñaḥ vā tvayā ādau deva nirmitaḥ .. īdṛśīm bhrāṃtim āpannaḥ iti kaḥ atra aparādhyati .. 7.2,35.60..
आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो ॥ निर्भयः को ऽभिभाषेत कृत्यं स्वस्य परस्य वा ॥ ७.२,३५.६१॥
आस्ताम् मम इदम् अज्ञानम् त्वयि सन्निहते प्रभो ॥ निर्भयः कः अभिभाषेत कृत्यम् स्वस्य परस्य वा ॥ ७।२,३५।६१॥
āstām mama idam ajñānam tvayi sannihate prabho .. nirbhayaḥ kaḥ abhibhāṣeta kṛtyam svasya parasya vā .. 7.2,35.61..
आवयोर्देवदेवस्य विवादो ऽपि हि शोभनः ॥ पादप्रणामफलदो नाथस्य भवतो यतः ॥ ७.२,३५.६२॥
आवयोः देवदेवस्य विवादः अपि हि शोभनः ॥ पाद-प्रणाम-फल-दः नाथस्य भवतः यतस् ॥ ७।२,३५।६२॥
āvayoḥ devadevasya vivādaḥ api hi śobhanaḥ .. pāda-praṇāma-phala-daḥ nāthasya bhavataḥ yatas .. 7.2,35.62..
विष्णुरुवाच ७.२,३५.६३॥
स्तोतुं देव न वागस्ति महिम्नः सदृशी तव ॥ प्रभोरग्रे विधेयानां तूष्णींभावो व्यतिक्रमः ॥ ७.२,३५.६३॥
स्तोतुम् देव न वाच् अस्ति महिम्नः सदृशी तव ॥ प्रभोः अग्रे विधेयानाम् तूष्णींभावः व्यतिक्रमः ॥ ७।२,३५।६३॥
stotum deva na vāc asti mahimnaḥ sadṛśī tava .. prabhoḥ agre vidheyānām tūṣṇīṃbhāvaḥ vyatikramaḥ .. 7.2,35.63..
किमत्र संघटेत्कृत्यमित्येवावसरोचितम् ॥ अजानन्नपि यत्किंचित्प्रलप्य त्वां नतो ऽस्म्यहम् ॥ ७.२,३५.६४॥
किम् अत्र संघटेत् कृत्यम् इति एव अवसर-उचितम् ॥ अ जानन् अपि यत् किंचिद् प्रलप्य त्वाम् नतः अस्मि अहम् ॥ ७।२,३५।६४॥
kim atra saṃghaṭet kṛtyam iti eva avasara-ucitam .. a jānan api yat kiṃcid pralapya tvām nataḥ asmi aham .. 7.2,35.64..
कारणत्वं त्वया दत्तं विस्मृतं तव मायया ॥ मोहितो ऽहंकृतश्चापि पुनरेवास्मि शासितः ॥ ७.२,३५.६५॥
कारण-त्वम् त्वया दत्तम् विस्मृतम् तव मायया ॥ मोहितः अहंकृतः च अपि पुनर् एव अस्मि शासितः ॥ ७।२,३५।६५॥
kāraṇa-tvam tvayā dattam vismṛtam tava māyayā .. mohitaḥ ahaṃkṛtaḥ ca api punar eva asmi śāsitaḥ .. 7.2,35.65..
विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर ॥ यतो ऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः ॥ ७.२,३५.६६॥
विज्ञापितैः किम् बहुभिः भीतः अस्मि भृशम् ईश्वर ॥ यतस् अहम् अपरिच्छेद्यम् त्वाम् परिच्छेत्तुम् उद्यतः ॥ ७।२,३५।६६॥
vijñāpitaiḥ kim bahubhiḥ bhītaḥ asmi bhṛśam īśvara .. yatas aham aparicchedyam tvām paricchettum udyataḥ .. 7.2,35.66..
त्वामुशंति महादेवं भीतानामार्तिनाशनम् ॥ अतो व्यतिक्रमं मे ऽद्य क्षंतुमर्हसि शंकर ॥ ७.२,३५.६७॥
त्वाम् उशंति महादेवम् भीतानाम् आर्ति-नाशनम् ॥ अतस् व्यतिक्रमम् मे अद्य क्षंतुम् अर्हसि शंकर ॥ ७।२,३५।६७॥
tvām uśaṃti mahādevam bhītānām ārti-nāśanam .. atas vyatikramam me adya kṣaṃtum arhasi śaṃkara .. 7.2,35.67..
इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः ॥ प्रीतो ऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत ॥ ७.२,३५.६८॥
इति विज्ञापितः ताभ्याम् ईश्वराभ्याम् महेश्वरः ॥ प्रीतः अनुगृह्य तौ देवौ स्मित-पूर्वम् अभाषत ॥ ७।२,३५।६८॥
iti vijñāpitaḥ tābhyām īśvarābhyām maheśvaraḥ .. prītaḥ anugṛhya tau devau smita-pūrvam abhāṣata .. 7.2,35.68..
ईश्वर उवाच ७.२,३५.६९॥
वत्सवत्स विधे विष्णो मायया मम मोहितौ ॥ युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम् ॥ ७.२,३५.६९॥
वत्स-वत्स विधे विष्णो मायया मम मोहितौ ॥ युवाम् प्रभु-त्वे अहंकृत्य बुद्ध-वैरो परस्परम् ॥ ७।२,३५।६९॥
vatsa-vatsa vidhe viṣṇo māyayā mama mohitau .. yuvām prabhu-tve ahaṃkṛtya buddha-vairo parasparam .. 7.2,35.69..
विवादं युद्धपर्यंतं कृत्वा नोपरतौ किल ॥ ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥ ७.२,३५.७०॥
विवादम् युद्ध-पर्यंतम् कृत्वा न उपरतौ किल ॥ ततस् छिन्ना प्रजा-सृष्टिः जगत्-कारण-भूतयोः ॥ ७।२,३५।७०॥
vivādam yuddha-paryaṃtam kṛtvā na uparatau kila .. tatas chinnā prajā-sṛṣṭiḥ jagat-kāraṇa-bhūtayoḥ .. 7.2,35.70..
अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ॥ तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु ॥ ७.२,३५.७१॥
अज्ञान-मान-प्रभवात् वैमत्यात् युवयोः अपि ॥ तत् निवर्तयितुम् युष्मद्-दर्प-मोहौ मया एव तु ॥ ७।२,३५।७१॥
ajñāna-māna-prabhavāt vaimatyāt yuvayoḥ api .. tat nivartayitum yuṣmad-darpa-mohau mayā eva tu .. 7.2,35.71..
एवं निवारितावद्यलिंगाविर्भावलीलया ॥ तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥ ७.२,३५.७२॥
एवम् निवारित-अवद्य-लिंग-आविर्भाव-लीलया ॥ तस्मात् भूयस् विवादम् च व्रीडाम् च उत्सृज्य कृत्स्नशस् ॥ ७।२,३५।७२॥
evam nivārita-avadya-liṃga-āvirbhāva-līlayā .. tasmāt bhūyas vivādam ca vrīḍām ca utsṛjya kṛtsnaśas .. 7.2,35.72..
यथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ ॥ पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः ॥ ७.२,३५.७३॥
यथास्वम् कर्म कुर्याताम् भवंतौ वीत-मत्सरौ ॥ पुरा मम आज्ञया सार्धम् समस्त-ज्ञान-संहिताः ॥ ७।२,३५।७३॥
yathāsvam karma kuryātām bhavaṃtau vīta-matsarau .. purā mama ājñayā sārdham samasta-jñāna-saṃhitāḥ .. 7.2,35.73..
युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये ॥ मंत्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम् ॥ ७.२,३५.७४॥
युवाभ्याम् हि मया दत्ता कारण-त्व-प्रसिद्धये ॥ मंत्र-रत्नम् च सूत्र-आख्यम् पञ्च-अक्षर-मयम् परम् ॥ ७।२,३५।७४॥
yuvābhyām hi mayā dattā kāraṇa-tva-prasiddhaye .. maṃtra-ratnam ca sūtra-ākhyam pañca-akṣara-mayam param .. 7.2,35.74..
मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् ॥ ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया ॥ ७.२,३५.७५॥
मया उपदिष्टम् सर्वम् तत् युवयोः अद्य विस्मृतम् ॥ ददामि च पुनर् सर्वम् यथापूर्वम् मम आज्ञया ॥ ७।२,३५।७५॥
mayā upadiṣṭam sarvam tat yuvayoḥ adya vismṛtam .. dadāmi ca punar sarvam yathāpūrvam mama ājñayā .. 7.2,35.75..
यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे ॥ एवमुक्त्वा महादेवो नारायणपितामहौ ॥ ७.२,३५.७६॥
यतस् विना युवाम् तेन न क्षमौ सृष्टि-रक्षणे ॥ एवम् उक्त्वा महादेवः नारायण-पितामहौ ॥ ७।२,३५।७६॥
yatas vinā yuvām tena na kṣamau sṛṣṭi-rakṣaṇe .. evam uktvā mahādevaḥ nārāyaṇa-pitāmahau .. 7.2,35.76..
मंत्रराजं ददौ ताभ्यां ज्ञानसंहितया सह ॥ तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम् ॥ ७.२,३५.७७॥
मंत्रराजम् ददौ ताभ्याम् ज्ञानसंहितया सह ॥ तौ लब्ध्वा महतीम् दिव्याम् आज्ञाम् माहेश्वरीम् पराम् ॥ ७।२,३५।७७॥
maṃtrarājam dadau tābhyām jñānasaṃhitayā saha .. tau labdhvā mahatīm divyām ājñām māheśvarīm parām .. 7.2,35.77..
महार्थं मंत्ररत्नं च तथैव सकलाः कलाः ॥ दंडवत्प्रणतिं कृत्वा देवदेवस्य पादयोः ॥ ७.२,३५.७८॥
महार्थम् मंत्र-रत्नम् च तथा एव सकलाः कलाः ॥ दंड-वत् प्रणतिम् कृत्वा देवदेवस्य पादयोः ॥ ७।२,३५।७८॥
mahārtham maṃtra-ratnam ca tathā eva sakalāḥ kalāḥ .. daṃḍa-vat praṇatim kṛtvā devadevasya pādayoḥ .. 7.2,35.78..
अतिष्ठतां वीतभयावानंदास्तिमितौ तदा ॥ एतस्मिन्नंतरे चित्रमिंद्रजालवदैश्वरम् ॥ ७.२,३५.७९॥
अतिष्ठताम् वीत-भयौ आनंद-अस्तिमितौ तदा ॥ एतस्मिन् अन्तरे चित्रम् इंद्रजाल-वत् ऐश्वरम् ॥ ७।२,३५।७९॥
atiṣṭhatām vīta-bhayau ānaṃda-astimitau tadā .. etasmin antare citram iṃdrajāla-vat aiśvaram .. 7.2,35.79..
लिंगं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते ॥ ततो विलप्य हाहेति सद्यःप्रणयभंगतः ॥ ७.२,३५.८०॥
लिंगम् क्वापि तिरोभूतम् न ताभ्याम् उपलभ्यते ॥ ततस् विलप्य हाहा इति सद्यस् प्रणय-भंगतः ॥ ७।२,३५।८०॥
liṃgam kvāpi tirobhūtam na tābhyām upalabhyate .. tatas vilapya hāhā iti sadyas praṇaya-bhaṃgataḥ .. 7.2,35.80..
किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम् ॥ अचिंत्यवैभवं शंभोर्विचिंत्य च गतव्यथौ ॥ ७.२,३५.८१॥
किम् असत्यम् इदम् वृत्तम् इति च उक्त्वा परस्परम् ॥ अचिंत्य-वैभवम् शंभोः विचिंत्य च गत-व्यथौ ॥ ७।२,३५।८१॥
kim asatyam idam vṛttam iti ca uktvā parasparam .. aciṃtya-vaibhavam śaṃbhoḥ viciṃtya ca gata-vyathau .. 7.2,35.81..
अभ्युपेत्य परां मैत्रीमालिंग्य च परस्परम् ॥ जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुंगवौ ॥ ७.२,३५.८२॥
अभ्युपेत्य पराम् मैत्रीम् आलिंग्य च परस्परम् ॥ जगत्-व्यापारम् उद्दिश्य जग्मतुः देव-पुंगवौ ॥ ७।२,३५।८२॥
abhyupetya parām maitrīm āliṃgya ca parasparam .. jagat-vyāpāram uddiśya jagmatuḥ deva-puṃgavau .. 7.2,35.82..
ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः ॥ ऋषयश्च नरा नागा नार्यश्चापि विधानतः ॥ लिंगप्रतिष्ठा कुर्वंति लिंगे तं पूजयंति च ॥ ७.२,३५.८३॥
ततस् प्रभृति शक्र-आद्याः सर्वे एव सुर-असुराः ॥ ऋषयः च नराः नागाः नार्यः च अपि विधानतः ॥ लिंग-प्रतिष्ठा कुर्वंति लिंगे तम् पूजयंति च ॥ ७।२,३५।८३॥
tatas prabhṛti śakra-ādyāḥ sarve eva sura-asurāḥ .. ṛṣayaḥ ca narāḥ nāgāḥ nāryaḥ ca api vidhānataḥ .. liṃga-pratiṣṭhā kurvaṃti liṃge tam pūjayaṃti ca .. 7.2,35.83..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पञ्चत्रिंशो ऽध्यायः ७.२,३५.८५॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे हरिविधिमोहनिवारणम् नाम पञ्चत्रिंशः अध्यायः।२,३५।८५॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe harividhimohanivāraṇam nāma pañcatriṃśaḥ adhyāyaḥ.2,35.85..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In