| |
|

This overlay will guide you through the buttons:

श्रीकृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् ॥ लिंगस्यापि च बेरस्य शिवेन विहितं यथा ॥ ॥
भगवन् श्रोतुम् इच्छामि प्रतिष्ठा-विधिम् उत्तमम् ॥ लिंगस्य अपि च बेरस्य शिवेन विहितम् यथा ॥ ॥
bhagavan śrotum icchāmi pratiṣṭhā-vidhim uttamam .. liṃgasya api ca berasya śivena vihitam yathā .. ..
उपमन्युरुवाच॥
अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके ॥ शिवशास्त्रोक्तमार्गेण कुर्याल्लिंगं प्रमाणवत् ॥ ॥
अनात्म-प्रतिकूले तु दिवसे शुक्ल-पक्षके ॥ शिव-शास्त्र-उक्त-मार्गेण कुर्यात् लिंगम् प्रमाण-वत् ॥ ॥
anātma-pratikūle tu divase śukla-pakṣake .. śiva-śāstra-ukta-mārgeṇa kuryāt liṃgam pramāṇa-vat .. ..
स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च ॥ दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान् ॥ ७.२,३६.१॥
स्वीकृत्य अथ शुभ-स्थानम् भू-परीक्षाम् विधाय च ॥ दश उपचारान् कुर्वीत लक्षण-उद्धार-पूर्वकान् ॥ ७।२,३६।१॥
svīkṛtya atha śubha-sthānam bhū-parīkṣām vidhāya ca .. daśa upacārān kurvīta lakṣaṇa-uddhāra-pūrvakān .. 7.2,36.1..
तेषां दशोपचाराणां पूर्वं पूज्य विनायकम् ॥ स्थानशुद्ध्यादिकं कृत्वालिंगं स्नानालयं नयेत् ॥ ७.२,३६.२॥
तेषाम् दश-उपचाराणाम् पूर्वम् पूज्य विनायकम् ॥ स्थान-शुद्धि-आदिकम् कृत्वा अ लिंगम् स्नान-आलयम् नयेत् ॥ ७।२,३६।२॥
teṣām daśa-upacārāṇām pūrvam pūjya vināyakam .. sthāna-śuddhi-ādikam kṛtvā a liṃgam snāna-ālayam nayet .. 7.2,36.2..
शलाकया कांचनया कुंकुमादिरसाक्तया ॥ लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः ॥ ७.२,३६.३॥
शलाकया कांचनया कुंकुम-आदि-रस-अक्तया ॥ लक्षितम् लक्षणम् शिल्प-शास्त्रेण विलिखेत् ततस् ॥ ७।२,३६।३॥
śalākayā kāṃcanayā kuṃkuma-ādi-rasa-aktayā .. lakṣitam lakṣaṇam śilpa-śāstreṇa vilikhet tatas .. 7.2,36.3..
अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा ॥ लिङ्गं पिंडिकया सार्धं पञ्चगव्यैश्च शोधयेत् ॥ ७.२,३६.४॥
अष्ट-मृद्-सलिलैः वा अथ पञ्च-मृद्-सलिलैः तथा ॥ लिङ्गम् पिंडिकया सार्धम् पञ्चगव्यैः च शोधयेत् ॥ ७।२,३६।४॥
aṣṭa-mṛd-salilaiḥ vā atha pañca-mṛd-salilaiḥ tathā .. liṅgam piṃḍikayā sārdham pañcagavyaiḥ ca śodhayet .. 7.2,36.4..
सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् ॥ नीत्वाधिवासयेत्तत्र लिंगं पिंडिकया सह ॥ ७.२,३६.५॥
स वेदिकम् समभ्यर्च्य दिव्य-आद्यम् तु जलाशयम् ॥ नीत्वा अधिवासयेत् तत्र लिंगम् पिंडिकया सह ॥ ७।२,३६।५॥
sa vedikam samabhyarcya divya-ādyam tu jalāśayam .. nītvā adhivāsayet tatra liṃgam piṃḍikayā saha .. 7.2,36.5..
अधिवासालये शुद्धे सर्वशोभासमन्विते ॥ सतोरणे सावरणे दर्भमालासमावृते ॥ ७.२,३६.६॥
अधिवास-आलये शुद्धे सर्व-शोभा-समन्विते ॥ स तोरणे स आवरणे दर्भ-माला-समावृते ॥ ७।२,३६।६॥
adhivāsa-ālaye śuddhe sarva-śobhā-samanvite .. sa toraṇe sa āvaraṇe darbha-mālā-samāvṛte .. 7.2,36.6..
दिग्गजाष्टकसंपन्ने दिक्पालाष्टघटान्विते ॥ अष्टमंगलकैर्युक्ते कृतदिक्पालकार्चिते ॥ ७.२,३६.७॥
दिग्गज-अष्टक-संपन्ने दिक्पाल-अष्ट-घट-अन्विते ॥ अष्ट-मंगलकैः युक्ते कृत-दिक्पालक-अर्चिते ॥ ७।२,३६।७॥
diggaja-aṣṭaka-saṃpanne dikpāla-aṣṭa-ghaṭa-anvite .. aṣṭa-maṃgalakaiḥ yukte kṛta-dikpālaka-arcite .. 7.2,36.7..
तेजसं दारवं वापि कृत्वा पद्मासनांकितम् ॥ विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम् ॥ ७.२,३६.८॥
तेजसम् दारवम् वा अपि कृत्वा पद्मासन-अंकितम् ॥ विन्यसेत् मध्यतस् तत्र विपुलम् पीठक-आलयम् ॥ ७।२,३६।८॥
tejasam dāravam vā api kṛtvā padmāsana-aṃkitam .. vinyaset madhyatas tatra vipulam pīṭhaka-ālayam .. 7.2,36.8..
द्वारपालान्समभ्यर्च्य भद्रादींश्चतुरःक्रमात् ॥ समुद्रश्च विभद्रश्च सुनंदश्च विनंदकः ॥ ७.२,३६.९॥
द्वारपालान् समभ्यर्च्य भद्र-आदीन् चतुरः क्रमात् ॥ समुद्रः च विभद्रः च सुनंदः च विनंदकः ॥ ७।२,३६।९॥
dvārapālān samabhyarcya bhadra-ādīn caturaḥ kramāt .. samudraḥ ca vibhadraḥ ca sunaṃdaḥ ca vinaṃdakaḥ .. 7.2,36.9..
स्नापयित्वा समभ्यर्च्य लिंगं वेदिकया सह ॥ सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्यं समंततः ॥ ७.२,३६.१०॥
स्नापयित्वा समभ्यर्च्य लिंगम् वेदिकया सह ॥ स कूर्चाभ्याम् तु वस्त्राभ्याम् समावेष्ट्यम् समंततः ॥ ७।२,३६।१०॥
snāpayitvā samabhyarcya liṃgam vedikayā saha .. sa kūrcābhyām tu vastrābhyām samāveṣṭyam samaṃtataḥ .. 7.2,36.10..
प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् ॥ प्राक्शिरस्कमधःसूत्रं पिंडिकां चास्य पश्चिमे ॥ ७.२,३६.११॥
प्रापय्य शनकैस् तोयम् पीठिका-उपरि शाययेत् ॥ प्राच्-शिरस्कम् अधस् सूत्रम् पिंडिकाम् च अस्य पश्चिमे ॥ ७।२,३६।११॥
prāpayya śanakais toyam pīṭhikā-upari śāyayet .. prāc-śiraskam adhas sūtram piṃḍikām ca asya paścime .. 7.2,36.11..
सर्वमंगलसंयुक्तं लिंगं तत्राधिवासयेत् ॥ पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा ॥ ७.२,३६.१२॥
सर्व-मंगल-संयुक्तम् लिंगम् तत्र अधिवासयेत् ॥ पञ्च-रात्रम् त्रि-रात्रम् वा अपि एक-रात्रम् अथ अपि वा ॥ ७।२,३६।१२॥
sarva-maṃgala-saṃyuktam liṃgam tatra adhivāsayet .. pañca-rātram tri-rātram vā api eka-rātram atha api vā .. 7.2,36.12..
विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् ॥ संपूज्योत्सवमार्गेण शयनालयमानयेत् ॥ ७.२,३६.१३॥
विसृज्य पूजितम् तत्र शोधयित्वा च पूर्ववत् ॥ संपूज्य उत्सव-मार्गेण शयन-आलयम् आनयेत् ॥ ७।२,३६।१३॥
visṛjya pūjitam tatra śodhayitvā ca pūrvavat .. saṃpūjya utsava-mārgeṇa śayana-ālayam ānayet .. 7.2,36.13..
तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः ॥ शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात् ॥ ७.२,३६.१४॥
तत्र अपि शयन-स्थानम् कुर्यात् मंडल-मध्यतस् ॥ शुद्धैः जलैः स्नापयित्वा लिंगम् अभ्यर्चयेत् क्रमात् ॥ ७।२,३६।१४॥
tatra api śayana-sthānam kuryāt maṃḍala-madhyatas .. śuddhaiḥ jalaiḥ snāpayitvā liṃgam abhyarcayet kramāt .. 7.2,36.14..
ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ॥ शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ ७.२,३६.१५॥
ऐशान्याम् पद्मम् आलिख्य शुद्ध-लिप्ते मही-तले ॥ शिव-कुंभम् शोधयित्वा तत्र आवाह्य शिवम् यजेत् ॥ ७।२,३६।१५॥
aiśānyām padmam ālikhya śuddha-lipte mahī-tale .. śiva-kuṃbham śodhayitvā tatra āvāhya śivam yajet .. 7.2,36.15..
वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः ॥ तस्य पश्चिमतश्चापि चंडिकापद्ममालिखेत् ॥ ७.२,३६.१६॥
वेदी-मध्ये सितम् पद्मम् परिकल्प्य विधानतः ॥ तस्य पश्चिमतस् च अपि चंडिका-पद्मम् आलिखेत् ॥ ७।२,३६।१६॥
vedī-madhye sitam padmam parikalpya vidhānataḥ .. tasya paścimatas ca api caṃḍikā-padmam ālikhet .. 7.2,36.16..
क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ॥ प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत् ॥ ७.२,३६.१७॥
क्षौम-आद्यैः वा अहतैः वस्त्रैः पुष्पैः दर्भैः अथ अपि वा ॥ प्रकल्प्य शयनम् तस्मिन् हेम-पुष्पम् विनिक्षिपेत् ॥ ७।२,३६।१७॥
kṣauma-ādyaiḥ vā ahataiḥ vastraiḥ puṣpaiḥ darbhaiḥ atha api vā .. prakalpya śayanam tasmin hema-puṣpam vinikṣipet .. 7.2,36.17..
तत्र लिंगं समानीय सर्वमंगलनिःस्वनैः ॥ रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः ॥ ७.२,३६.१८॥
तत्र लिंगम् समानीय सर्व-मंगल-निःस्वनैः ॥ रक्तेन वस्त्र-युग्मेन स कूर्चेन समंततः ॥ ७।२,३६।१८॥
tatra liṃgam samānīya sarva-maṃgala-niḥsvanaiḥ .. raktena vastra-yugmena sa kūrcena samaṃtataḥ .. 7.2,36.18..
सह पिंडिकयावेष्ट्य शाययेच्च यथा पुरा ॥ पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम् ॥ ७.२,३६.१९॥
सह पिंडिकया आवेष्ट्य शाययेत् च यथा पुरा ॥ पुरस्तात् पद्मम् आलिख्य तद्-दलेषु यथाक्रमम् ॥ ७।२,३६।१९॥
saha piṃḍikayā āveṣṭya śāyayet ca yathā purā .. purastāt padmam ālikhya tad-daleṣu yathākramam .. 7.2,36.19..
विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्धनीम् ॥ परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः ॥ ७.२,३६.२०॥
विद्येश-कलशान् न्यस्येत् मध्ये शैवीम् च वर्धनीम् ॥ परीत्य पद्म-त्रितयम् जुहुयुः द्विजसत्तमाः ॥ ७।२,३६।२०॥
vidyeśa-kalaśān nyasyet madhye śaivīm ca vardhanīm .. parītya padma-tritayam juhuyuḥ dvijasattamāḥ .. 7.2,36.20..
ते चाष्टमूर्तयः कल्प्याः पूर्वादिपरितः स्थिताः ॥ चत्वारश्चाथ वा दिक्षु स्वध्येतारस्सजापकाः ॥ ७.२,३६.२१॥
ते च अष्ट-मूर्तयः कल्प्याः पूर्व-आदि-परितस् स्थिताः ॥ चत्वारः च अथ वा दिक्षु सु अध्येतारः स जापकाः ॥ ७।२,३६।२१॥
te ca aṣṭa-mūrtayaḥ kalpyāḥ pūrva-ādi-paritas sthitāḥ .. catvāraḥ ca atha vā dikṣu su adhyetāraḥ sa jāpakāḥ .. 7.2,36.21..
जुहुयुस्ते विरंच्याद्याश्चतस्रो मूर्तयः स्मृताः ॥ दैशिकः प्रथमं तेषामैशान्यां पश्चिमे ऽथ वा ॥ ७.२,३६.२२॥
जुहुयुः ते विरंचि-आद्याः चतस्रः मूर्तयः स्मृताः ॥ दैशिकः प्रथमम् तेषाम् ऐशान्याम् पश्चिमे अथ वा ॥ ७।२,३६।२२॥
juhuyuḥ te viraṃci-ādyāḥ catasraḥ mūrtayaḥ smṛtāḥ .. daiśikaḥ prathamam teṣām aiśānyām paścime atha vā .. 7.2,36.22..
प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् ॥ आचार्यात्पादमर्धं वा जुहुयुश्चापरे द्विजाः ॥ ७.२,३६.२३॥
प्रधान-होमम् कुर्वीत सप्त-द्रव्यैः यथाक्रमम् ॥ आचार्यात् पादम् अर्धम् वा जुहुयुः च अपरे द्विजाः ॥ ७।२,३६।२३॥
pradhāna-homam kurvīta sapta-dravyaiḥ yathākramam .. ācāryāt pādam ardham vā juhuyuḥ ca apare dvijāḥ .. 7.2,36.23..
प्रधानमेकमेवात्र जुहुयादथ वा गुरुः ॥ पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम् ॥ ७.२,३६.२४॥
प्रधानम् एकम् एव अत्र जुहुयात् अथ वा गुरुः ॥ पूर्वम् पूर्णाहुतिम् हुत्वा घृतेन अष्ट-उत्तरम् शतम् ॥ ७।२,३६।२४॥
pradhānam ekam eva atra juhuyāt atha vā guruḥ .. pūrvam pūrṇāhutim hutvā ghṛtena aṣṭa-uttaram śatam .. 7.2,36.24..
मूर्ध्नि मूलेन लिंगस्य शिवहस्तं प्रविन्यसेत् ॥ शतमर्धं तदर्धं वा क्रमाद्द्रव्यैश्च सप्तभिः ॥ ७.२,३६.२५॥
मूर्ध्नि मूलेन लिंगस्य शिव-हस्तम् प्रविन्यसेत् ॥ शतम् अर्धम् तद्-अर्धम् वा क्रमात् द्रव्यैः च सप्तभिः ॥ ७।२,३६।२५॥
mūrdhni mūlena liṃgasya śiva-hastam pravinyaset .. śatam ardham tad-ardham vā kramāt dravyaiḥ ca saptabhiḥ .. 7.2,36.25..
हुत्वाहुत्वा स्पृशेल्लिंगं वेदिकां च पुनः पुनः ॥ पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम् ॥ ७.२,३६.२६॥
हुत्वा अ हुत्वा स्पृशेत् लिंगम् वेदिकाम् च पुनर् पुनर् ॥ पूर्णाहुतिम् ततस् हुत्वा क्रमात् दद्यात् च दक्षिणाम् ॥ ७।२,३६।२६॥
hutvā a hutvā spṛśet liṃgam vedikām ca punar punar .. pūrṇāhutim tatas hutvā kramāt dadyāt ca dakṣiṇām .. 7.2,36.26..
आचार्यात्पादमर्धं वा होत्ःणां स्थपतेरपि ॥ तदर्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः ॥ ७.२,३६.२७॥
आचार्यात् पादम् अर्धम् वा होत्ःणाम् स्थपतेः अपि ॥ तद्-अर्धम् देयम् अन्येभ्यः सदस्येभ्यः च शक्तितस् ॥ ७।२,३६।२७॥
ācāryāt pādam ardham vā hotḥṇām sthapateḥ api .. tad-ardham deyam anyebhyaḥ sadasyebhyaḥ ca śaktitas .. 7.2,36.27..
ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च ॥ मृदंभसा पञ्चगव्यैः पुनः शुद्धजलेन च ॥ ७.२,३६.२८॥
ततस् श्वभ्रे वृषम् हैमम् कूर्चम् वा अपि निवेश्य च ॥ मृद्-अंभसा पञ्चगव्यैः पुनर् शुद्ध-जलेन च ॥ ७।२,३६।२८॥
tatas śvabhre vṛṣam haimam kūrcam vā api niveśya ca .. mṛd-aṃbhasā pañcagavyaiḥ punar śuddha-jalena ca .. 7.2,36.28..
शोधितां चंदनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् ॥ करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः ॥ ७.२,३६.२९॥
शोधिताम् चंदन-आलिप्ताम् श्वभ्रे ब्रह्मशिलाम् क्षिपेत् ॥ कर-न्यासम् ततस् कृत्वा नवभिः शक्ति-नामभिः ॥ ७।२,३६।२९॥
śodhitām caṃdana-āliptām śvabhre brahmaśilām kṣipet .. kara-nyāsam tatas kṛtvā navabhiḥ śakti-nāmabhiḥ .. 7.2,36.29..
हरितालादिधातूंश्च बीजगंधौषधैरपि ॥ शिवशास्त्रोक्तविधिना क्षिपेद्ब्रह्मशिलोपरि ॥ ७.२,३६.३०॥
हरिताल-आदि-धातून् च बीज-गंध-औषधैः अपि ॥ शिवशास्त्र-उक्त-विधिना क्षिपेत् ब्रह्मशिला-उपरि ॥ ७।२,३६।३०॥
haritāla-ādi-dhātūn ca bīja-gaṃdha-auṣadhaiḥ api .. śivaśāstra-ukta-vidhinā kṣipet brahmaśilā-upari .. 7.2,36.30..
प्रतिलिंगं तु संस्थाप्य क्षीरं वृक्षसमुद्भवम् ॥ स्थितं बुद्ध्वा तदुत्सृज्य लिंगं ब्रह्मशिलोपरि ॥ ७.२,३६.३१॥
प्रतिलिंगम् तु संस्थाप्य क्षीरम् वृक्ष-समुद्भवम् ॥ स्थितम् बुद्ध्वा तत् उत्सृज्य लिंगम् ब्रह्मशिला-उपरि ॥ ७।२,३६।३१॥
pratiliṃgam tu saṃsthāpya kṣīram vṛkṣa-samudbhavam .. sthitam buddhvā tat utsṛjya liṃgam brahmaśilā-upari .. 7.2,36.31..
प्रागुदक्प्रवरां किंचित्स्थापयेन्मूलविद्यया ॥ पिंडिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन् ॥ ७.२,३६.३२॥
प्राच्-उदक्-प्रवराम् किंचिद् स्थापयेत् मूलविद्यया ॥ पिंडिकाम् च अथ संयोज्य शाक्तम् मूलम् अनुस्मरन् ॥ ७।२,३६।३२॥
prāc-udak-pravarām kiṃcid sthāpayet mūlavidyayā .. piṃḍikām ca atha saṃyojya śāktam mūlam anusmaran .. 7.2,36.32..
बन्धनं बंधकद्रव्यैः कृत्वा स्थानं विशोध्य च ॥ दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः ॥ ७.२,३६.३३॥
बन्धनम् बंधक-द्रव्यैः कृत्वा स्थानम् विशोध्य च ॥ दत्त्वा च अर्घ्यम् च पुष्पाणि कुर्युः यवनिकाम् पुनर् ॥ ७।२,३६।३३॥
bandhanam baṃdhaka-dravyaiḥ kṛtvā sthānam viśodhya ca .. dattvā ca arghyam ca puṣpāṇi kuryuḥ yavanikām punar .. 7.2,36.33..
यथायोग्यं निषेकादि लिंगस्य पुरतस्तदा ॥ आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात् ॥ ७.२,३६.३४॥
यथायोग्यम् निषेक-आदि लिंगस्य पुरतस् तदा ॥ आनीय शयन-स्थानात् कलशान् विन्यसेत् क्रमात् ॥ ७।२,३६।३४॥
yathāyogyam niṣeka-ādi liṃgasya puratas tadā .. ānīya śayana-sthānāt kalaśān vinyaset kramāt .. 7.2,36.34..
महापूजामथारभ्य संपूज्य कलशान्दश ॥ शिवमंत्रमनुस्मृत्य शिवकुंभजलांतरे ॥ ७.२,३६.३५॥
महा-पूजाम् अथ आरभ्य संपूज्य कलशान् दश ॥ शिव-मंत्रम् अनुस्मृत्य शिव-कुंभ-जल-अंतरे ॥ ७।२,३६।३५॥
mahā-pūjām atha ārabhya saṃpūjya kalaśān daśa .. śiva-maṃtram anusmṛtya śiva-kuṃbha-jala-aṃtare .. 7.2,36.35..
अंगुष्ठानामिकायोगादादाय तमुदीरयेत् ॥ न्यसेदीशानभागस्य मध्ये लिंगस्य मंत्रवित् ॥ ७.२,३६.३६॥
अंगुष्ठ-अनामिका-योगात् आदाय तम् उदीरयेत् ॥ न्यसेत् ईशान-भागस्य मध्ये लिंगस्य मंत्र-विद् ॥ ७।२,३६।३६॥
aṃguṣṭha-anāmikā-yogāt ādāya tam udīrayet .. nyaset īśāna-bhāgasya madhye liṃgasya maṃtra-vid .. 7.2,36.36..
शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम् ॥ लिङ्गमूले शिवजलैस्ततो लिंगं निषेचयेत् ॥ ७.२,३६.३७॥
शक्तिम् न्यसेत् तथा विद्याम् विद्येशान् च यथाक्रमम् ॥ लिङ्ग-मूले शिव-जलैः ततस् लिंगम् निषेचयेत् ॥ ७।२,३६।३७॥
śaktim nyaset tathā vidyām vidyeśān ca yathākramam .. liṅga-mūle śiva-jalaiḥ tatas liṃgam niṣecayet .. 7.2,36.37..
वर्धन्यां पिंडिकालिंगं विद्येशकलशैः पुनः ॥ अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत् ॥ ७.२,३६.३८॥
वर्धन्याम् पिंडिका-लिंगम् विद्येश-कलशैः पुनर् ॥ अभिषिच्य आसनम् पश्चात् आधार-आद्यम् प्रकल्पयेत् ॥ ७।२,३६।३८॥
vardhanyām piṃḍikā-liṃgam vidyeśa-kalaśaiḥ punar .. abhiṣicya āsanam paścāt ādhāra-ādyam prakalpayet .. 7.2,36.38..
कृत्वा पञ्चकलान्यासं दीप्तं लिंगमनुस्मरेत् ॥ आवाहयेच्छिवौ साक्षात्प्राञ्जलिः प्रागुदङ्मुखः ॥ ७.२,३६.३९॥
कृत्वा पञ्च-कला-न्यासम् दीप्तम् लिंगम् अनुस्मरेत् ॥ आवाहयेत् शिवौ साक्षात् प्राञ्जलिः प्राच्-उदक्-मुखः ॥ ७।२,३६।३९॥
kṛtvā pañca-kalā-nyāsam dīptam liṃgam anusmaret .. āvāhayet śivau sākṣāt prāñjaliḥ prāc-udak-mukhaḥ .. 7.2,36.39..
वृषाधिराजमारुह्य विमानं वा नभस्तलात् ॥ अलंकृतं सहायांतं देव्या देवमनुस्मरन् ॥ सर्वाभरणशोभाढ्यं सर्वमंगलनिस्वनैः ॥ ७.२,३६.४०॥
वृष-अधिराजम् आरुह्य विमानम् वा नभस्तलात् ॥ अलंकृतम् सहायांतम् देव्या देवम् अनुस्मरन् ॥ सर्व-आभरण-शोभा-आढ्यम् सर्व-मंगल-निस्वनैः ॥ ७।२,३६।४०॥
vṛṣa-adhirājam āruhya vimānam vā nabhastalāt .. alaṃkṛtam sahāyāṃtam devyā devam anusmaran .. sarva-ābharaṇa-śobhā-āḍhyam sarva-maṃgala-nisvanaiḥ .. 7.2,36.40..
ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः ॥ आनंदक्लिन्नसर्वांगैर्विन्यस्तांजलिमस्तकैः ॥ ७.२,३६.४१॥
ब्रह्म-विष्णु-महेश-अर्क-शक्र-आद्यैः देव-दानवैः ॥ आनंद-क्लिन्न-सर्व-अंगैः विन्यस्त-अंजलि-मस्तकैः ॥ ७।२,३६।४१॥
brahma-viṣṇu-maheśa-arka-śakra-ādyaiḥ deva-dānavaiḥ .. ānaṃda-klinna-sarva-aṃgaiḥ vinyasta-aṃjali-mastakaiḥ .. 7.2,36.41..
स्तुवद्भिरेव नृत्यद्भिर्नामद्भिरभितो वृतम् ॥ ततः पञ्चोपचारांश्च कृत्वा पूजां समापयेत् ॥ ७.२,३६.४२॥
स्तुवद्भिः एव नृत्यद्भिः नामद्भिः अभितस् वृतम् ॥ ततस् पञ्च उपचारान् च कृत्वा पूजाम् समापयेत् ॥ ७।२,३६।४२॥
stuvadbhiḥ eva nṛtyadbhiḥ nāmadbhiḥ abhitas vṛtam .. tatas pañca upacārān ca kṛtvā pūjām samāpayet .. 7.2,36.42..
नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् ॥ प्रतिष्ठां लिंगवत्कुर्यात्प्रतिमास्वपि सर्वतः ॥ ७.२,३६.४३॥
न अतस् परतरः कश्चिद् विधिः पञ्च-उपचारकात् ॥ प्रतिष्ठाम् लिंग-वत् कुर्यात् प्रतिमासु अपि सर्वतस् ॥ ७।२,३६।४३॥
na atas parataraḥ kaścid vidhiḥ pañca-upacārakāt .. pratiṣṭhām liṃga-vat kuryāt pratimāsu api sarvatas .. 7.2,36.43..
लक्षणोद्धारसमये कार्यं नयनमोचनम् ॥ जलाधिवासे शयने शाययेत्तान्त्वधोमुखीम् ॥ ७.२,३६.४४॥
॥ जल-अधिवासे शयने शाययेत् तान्तु-अधोमुखीम् ॥ ७।२,३६।४४॥
.. jala-adhivāse śayane śāyayet tāntu-adhomukhīm .. 7.2,36.44..
कुम्भोदशायितां मंत्रैर्हृदि तां सन्नियोजयेत् ॥ कृतालयां परामाहुः प्रतिष्ठामकृतालयात् ॥ ७.२,३६.४५॥
कुम्भ-उद-शायिताम् मंत्रैः हृदि ताम् सन् नियोजयेत् ॥ कृत-आलयाम् पराम् आहुः प्रतिष्ठाम् अकृत-आलयात् ॥ ७।२,३६।४५॥
kumbha-uda-śāyitām maṃtraiḥ hṛdi tām san niyojayet .. kṛta-ālayām parām āhuḥ pratiṣṭhām akṛta-ālayāt .. 7.2,36.45..
शक्तः कृतालयः पश्चात्प्रतिष्ठाविधिमाचरेत् ॥ अशक्तश्चेत्प्रतिष्ठाप्य लिंगं बेरमथापि वा ॥ ७.२,३६.४६॥
शक्तः कृत-आलयः पश्चात् प्रतिष्ठा-विधिम् आचरेत् ॥ अशक्तः चेद् प्रतिष्ठाप्य लिंगम् बेरम् अथ अपि वा ॥ ७।२,३६।४६॥
śaktaḥ kṛta-ālayaḥ paścāt pratiṣṭhā-vidhim ācaret .. aśaktaḥ ced pratiṣṭhāpya liṃgam beram atha api vā .. 7.2,36.46..
शक्तेरनुगुणं पश्चात्प्रकुर्वीत शिवालयम् ॥ गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम् ॥ ७.२,३६.४७॥
शक्तेः अनुगुणम् पश्चात् प्रकुर्वीत शिव-आलयम् ॥ गृह-अर्चाम् च पुनर् वक्ष्ये प्रतिष्ठा-विधिम् उत्तमम् ॥ ७।२,३६।४७॥
śakteḥ anuguṇam paścāt prakurvīta śiva-ālayam .. gṛha-arcām ca punar vakṣye pratiṣṭhā-vidhim uttamam .. 7.2,36.47..
कृत्वा कनीयसंबेरं लिंगं वा लक्षणान्वितम् ॥ अयने चोत्तरे प्राप्ते शुक्लपक्शे शुभे दिने ॥ ७.२,३६.४८॥
कृत्वा लिंगम् वा लक्षण-अन्वितम् ॥ अयने च उत्तरे प्राप्ते शुक्लपक्शे शुभे दिने ॥ ७।२,३६।४८॥
kṛtvā liṃgam vā lakṣaṇa-anvitam .. ayane ca uttare prāpte śuklapakśe śubhe dine .. 7.2,36.48..
देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् ॥ विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च ॥ ७.२,३६.४९॥
देवीम् कृत्वा शुभे देशे तत्र अब्जम् पूर्ववत् लिखेत् ॥ विकीर्य पत्र-पुष्प-आद्यैः मध्ये कुंभम् निधाय च ॥ ७।२,३६।४९॥
devīm kṛtvā śubhe deśe tatra abjam pūrvavat likhet .. vikīrya patra-puṣpa-ādyaiḥ madhye kuṃbham nidhāya ca .. 7.2,36.49..
परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् ॥ पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः ॥ ७.२,३६.५०॥
परितस् तस्य चतुरः कलशान् दिक्षु विन्यसेत् ॥ पञ्च ब्रह्माणि तद्-बीजैः तेषु पञ्चसु पञ्चभिः ॥ ७।२,३६।५०॥
paritas tasya caturaḥ kalaśān dikṣu vinyaset .. pañca brahmāṇi tad-bījaiḥ teṣu pañcasu pañcabhiḥ .. 7.2,36.50..
न्यस्य संपूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च ॥ विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा ॥ ७.२,३६.५१॥
न्यस्य संपूज्य मुद्रा-आदि दर्शयित्वा अभिरक्ष्य च ॥ विशोध्य लिंगम् बेरम् वा मृद्-तोय-आद्यैः यथा पुरा ॥ ७।२,३६।५१॥
nyasya saṃpūjya mudrā-ādi darśayitvā abhirakṣya ca .. viśodhya liṃgam beram vā mṛd-toya-ādyaiḥ yathā purā .. 7.2,36.51..
स्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने ॥ निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः ॥ ७.२,३६.५२॥
स्थापयेत् पुष्प-संछन्नम् उत्तर-स्थे वरासने ॥ निधाय पुष्पम् शिरसि प्रोक्षयेत् प्रोक्षणी-जलैः ॥ ७।२,३६।५२॥
sthāpayet puṣpa-saṃchannam uttara-sthe varāsane .. nidhāya puṣpam śirasi prokṣayet prokṣaṇī-jalaiḥ .. 7.2,36.52..
समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् ॥ कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया ॥ ७.२,३६.५३॥
समभ्यर्च्य पुनर् पुष्पैः जय-शब्द-आदि-पूर्वकम् ॥ कुम्भैः ईशान-विद्या-अंतैः स्नापयेत् मूलविद्यया ॥ ७।२,३६।५३॥
samabhyarcya punar puṣpaiḥ jaya-śabda-ādi-pūrvakam .. kumbhaiḥ īśāna-vidyā-aṃtaiḥ snāpayet mūlavidyayā .. 7.2,36.53..
ततः पञ्चकलान्यासं कृत्वा पूजां च पूर्ववत् ॥ नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम् ॥ ७.२,३६.५४॥
ततस् पञ्चकला-न्यासम् कृत्वा पूजाम् च पूर्ववत् ॥ नित्यम् आराधयेत् तत्र देव्या देवम् त्रिलोचनम् ॥ ७।२,३६।५४॥
tatas pañcakalā-nyāsam kṛtvā pūjām ca pūrvavat .. nityam ārādhayet tatra devyā devam trilocanam .. 7.2,36.54..
एकमेवाथ वा कुंभं मूर्तिमन्त्रसमन्वितम् ॥ न्यस्य पद्मांतरे सर्वं शेषं पूर्ववदाचरेत् ॥ ७.२,३६.५५॥
एकम् एव अथ वा कुंभम् मूर्ति-मन्त्र-समन्वितम् ॥ न्यस्य पद्म-अंतरे सर्वम् शेषम् पूर्ववत् आचरेत् ॥ ७।२,३६।५५॥
ekam eva atha vā kuṃbham mūrti-mantra-samanvitam .. nyasya padma-aṃtare sarvam śeṣam pūrvavat ācaret .. 7.2,36.55..
अत्यंतोपहतं लिंगं विशोध्य स्थापयेत्पुनः ॥ संप्रोक्षयेदुपहतमनागुपहतं यजेत् ॥ ७.२,३६.५६॥
अत्यंत-उपहतम् लिंगम् विशोध्य स्थापयेत् पुनर् ॥ संप्रोक्षयेत् उपहतम् अनाक् उपहतम् यजेत् ॥ ७।२,३६।५६॥
atyaṃta-upahatam liṃgam viśodhya sthāpayet punar .. saṃprokṣayet upahatam anāk upahatam yajet .. 7.2,36.56..
लिंगानि बाणसंज्ञानि स्थापनीयानि वा न वा ॥ तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः ॥ ७.२,३६.५७॥
लिंगानि बाण-संज्ञानि स्थापनीयानि वा न वा ॥ तानि पूर्वम् शिवेन एव संस्कृतानि यतस् ततस् ॥ ७।२,३६।५७॥
liṃgāni bāṇa-saṃjñāni sthāpanīyāni vā na vā .. tāni pūrvam śivena eva saṃskṛtāni yatas tatas .. 7.2,36.57..
शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् ॥ स्वयमुद्भूतलिंगे च दिव्ये चार्षे तथैव च ॥ ७.२,३६.५८॥
शेषाणि स्थापनीयानि यानि दृष्टानि बाण-वत् ॥ स्वयम् उद्भूत-लिंगे च दिव्ये च आर्षे तथा एव च ॥ ७।२,३६।५८॥
śeṣāṇi sthāpanīyāni yāni dṛṣṭāni bāṇa-vat .. svayam udbhūta-liṃge ca divye ca ārṣe tathā eva ca .. 7.2,36.58..
अपीठे पीठमावेश्य कृत्वा संप्रोक्षणं विधिम् ॥ यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते ॥ ७.२,३६.५९॥
अ पीठे पीठम् आवेश्य कृत्वा संप्रोक्षणम् विधिम् ॥ यजेत् तत्र शिवम् तेषाम् प्रतिष्ठा न विधीयते ॥ ७।२,३६।५९॥
a pīṭhe pīṭham āveśya kṛtvā saṃprokṣaṇam vidhim .. yajet tatra śivam teṣām pratiṣṭhā na vidhīyate .. 7.2,36.59..
दग्धं श्लथं क्षतांगं च क्षिपेल्लिंगं जलाशये ॥ संधानयोग्यं संधाय प्रतिष्ठाविधिमाचरेत् ॥ ७.२,३६.६०॥
दग्धम् श्लथम् क्षत-अंगम् च क्षिपेत् लिंगम् जलाशये ॥ संधान-योग्यम् संधाय प्रतिष्ठा-विधिम् आचरेत् ॥ ७।२,३६।६०॥
dagdham ślatham kṣata-aṃgam ca kṣipet liṃgam jalāśaye .. saṃdhāna-yogyam saṃdhāya pratiṣṭhā-vidhim ācaret .. 7.2,36.60..
बेराद्वा विकलाल्लिंगाद्देवपूजापुरस्सरम् ॥ उद्वास्य हृदि संधानं त्यागं वा युक्तमाचरेत् ॥ ७.२,३६.६१॥
बेरात् वा विकलात् लिंगात् देव-पूजा-पुरस्सरम् ॥ उद्वास्य हृदि संधानम् त्यागम् वा युक्तम् आचरेत् ॥ ७।२,३६।६१॥
berāt vā vikalāt liṃgāt deva-pūjā-purassaram .. udvāsya hṛdi saṃdhānam tyāgam vā yuktam ācaret .. 7.2,36.61..
एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् ॥ द्विरात्रे च महापूजां संप्रोक्षणमतः परम् ॥ ७.२,३६.६२॥
एक-अह-पूजा-विहतौ कुर्यात् द्विगुणम् अर्चनम् ॥ द्वि-रात्रे च महा-पूजाम् संप्रोक्षणम् अतस् परम् ॥ ७।२,३६।६२॥
eka-aha-pūjā-vihatau kuryāt dviguṇam arcanam .. dvi-rātre ca mahā-pūjām saṃprokṣaṇam atas param .. 7.2,36.62..
मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते ॥ प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्संप्रोक्षणक्रमः ॥ ७.२,३६.६३॥
मासात् ऊर्ध्वम् अनेक-अहम् पूजा यदि विहन्यते ॥ प्रतिष्ठा प्रोच्यते कैश्चिद् कैश्चिद् संप्रोक्षण-क्रमः ॥ ७।२,३६।६३॥
māsāt ūrdhvam aneka-aham pūjā yadi vihanyate .. pratiṣṭhā procyate kaiścid kaiścid saṃprokṣaṇa-kramaḥ .. 7.2,36.63..
संप्रोक्षणे तु लिंगादेर्देवमुद्वास्य पूर्ववत् ॥ अष्टपञ्चक्रमेणैव स्नापयित्वा मृदंभसा ॥ ७.२,३६.६४॥
संप्रोक्षणे तु लिंग-आदेः देवम् उद्वास्य पूर्ववत् ॥ अष्ट-पञ्च-क्रमेण एव स्नापयित्वा मृद्-अंभसा ॥ ७।२,३६।६४॥
saṃprokṣaṇe tu liṃga-ādeḥ devam udvāsya pūrvavat .. aṣṭa-pañca-krameṇa eva snāpayitvā mṛd-aṃbhasā .. 7.2,36.64..
गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च ॥ प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥ ७.२,३६.६५॥
गवाम् रसैः च संस्नाप्य दर्भ-तोयैः विशोध्य च ॥ प्रोक्षयेत् प्रोक्षणी-तोयैः मूलेन अष्ट-उत्तरम् शतम् ॥ ७।२,३६।६५॥
gavām rasaiḥ ca saṃsnāpya darbha-toyaiḥ viśodhya ca .. prokṣayet prokṣaṇī-toyaiḥ mūlena aṣṭa-uttaram śatam .. 7.2,36.65..
सपुष्पं सकुशं पाणिं न्यस्य लिंगस्य मस्तके ॥ पञ्चवारं जपेन्मूलमष्टोत्तरशतं ततः ॥ ७.२,३६.६६॥
स पुष्पम् स कुशम् पाणिम् न्यस्य लिंगस्य मस्तके ॥ पञ्च-वारम् जपेत् मूलम् अष्टोत्तरशतम् ततस् ॥ ७।२,३६।६६॥
sa puṣpam sa kuśam pāṇim nyasya liṃgasya mastake .. pañca-vāram japet mūlam aṣṭottaraśatam tatas .. 7.2,36.66..
ततो मूलेन मूर्धादिपीठांतं संस्पृशेदपि ॥ पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत् ॥ ७.२,३६.६७॥
ततस् मूलेन मूर्ध-आदि-पीठ-अंतम् संस्पृशेत् अपि ॥ पूजाम् च महतीम् कुर्यात् देवम् आवाह्य पूर्ववत् ॥ ७।२,३६।६७॥
tatas mūlena mūrdha-ādi-pīṭha-aṃtam saṃspṛśet api .. pūjām ca mahatīm kuryāt devam āvāhya pūrvavat .. 7.2,36.67..
अलब्धे स्थापिते लिंगे शिवस्थाने जले ऽथ वा ॥ वह्नौ रवौ तथा व्योम्नि भगवंतं शिवं यजेत् ॥ ७.२,३६.६८॥
अलब्धे स्थापिते लिंगे शिव-स्थाने जले अथ वा ॥ वह्नौ रवौ तथा व्योम्नि भगवंतम् शिवम् यजेत् ॥ ७।२,३६।६८॥
alabdhe sthāpite liṃge śiva-sthāne jale atha vā .. vahnau ravau tathā vyomni bhagavaṃtam śivam yajet .. 7.2,36.68..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे प्रतिष्ठाविधिवर्णनं नाम षट्त्रिंशोऽध्यायः ७.२,३६.७०॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे प्रतिष्ठाविधिवर्णनम् नाम षट्त्रिंशः अध्यायः।२,३६।७०॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe pratiṣṭhāvidhivarṇanam nāma ṣaṭtriṃśaḥ adhyāyaḥ.2,36.70..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In