| |
|

This overlay will guide you through the buttons:

श्रीकृष्ण उवाच॥
ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात् ॥ उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ ॥
ज्ञाने क्रियायाम् चर्यायाम् सारम् उद्धृत्य संग्रहात् ॥ उक्तम् भगवता सर्वम् श्रुतम् श्रुति-समम् मया ॥ ॥
jñāne kriyāyām caryāyām sāram uddhṛtya saṃgrahāt .. uktam bhagavatā sarvam śrutam śruti-samam mayā .. ..
इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ॥ साधिकारं च सांगं च सविधिं सप्रयोजनम् ॥ ॥
इदानीम् श्रोतुम् इच्छामि योगम् परम-दुर्लभम् ॥ स अधिकारम् च स अंगम् च स विधिम् स प्रयोजनम् ॥ ॥
idānīm śrotum icchāmi yogam parama-durlabham .. sa adhikāram ca sa aṃgam ca sa vidhim sa prayojanam .. ..
यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ॥ सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ ७.२,३७.१॥
यदि अस्ति मरणम् पूर्वम् योग-आदि-अनुपमर्दतः ॥ सद्यस् साधयितुम् शक्यम् येन स्यात् न आत्म-हा नरः ॥ ७।२,३७।१॥
yadi asti maraṇam pūrvam yoga-ādi-anupamardataḥ .. sadyas sādhayitum śakyam yena syāt na ātma-hā naraḥ .. 7.2,37.1..
तच्च तत्कारणं चैव तत्कालकरणानि च ॥ तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ ७.२,३७.२॥
तत् च तत् कारणम् च एव तद्-काल-करणानि च ॥ तद्-भेद-तारतम्यम् च वक्तुम् अर्हसि तत्त्वतः ॥ ७।२,३७।२॥
tat ca tat kāraṇam ca eva tad-kāla-karaṇāni ca .. tad-bheda-tāratamyam ca vaktum arhasi tattvataḥ .. 7.2,37.2..
उपमन्युरुवाच ७.२,३७.३॥
स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ॥ ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥ ७.२,३७.३॥
स्थाने पृष्टम् त्वया कृष्ण सर्व-प्रश्न-अर्थ-वेदिना ॥ ततस् क्रमेण तत् सर्वम् वक्ष्ये शृणु समाहितः ॥ ७।२,३७।३॥
sthāne pṛṣṭam tvayā kṛṣṇa sarva-praśna-artha-vedinā .. tatas krameṇa tat sarvam vakṣye śṛṇu samāhitaḥ .. 7.2,37.3..
निरुद्धवृत्त्यंतरस्यं शिवे चित्तस्य निश्चला ॥ या वृत्तिः स समासेन योगः स खलु पञ्चधा ॥ ७.२,३७.४॥
शिवे चित्तस्य निश्चला ॥ या वृत्तिः स समासेन योगः स खलु पञ्चधा ॥ ७।२,३७।४॥
śive cittasya niścalā .. yā vṛttiḥ sa samāsena yogaḥ sa khalu pañcadhā .. 7.2,37.4..
मंत्रयोगःस्पर्शयोगो भावयोगस्तथापरः ॥ अभावयोगस्सर्वेभ्यो महायोगः परो मतः ॥ ७.२,३७.५॥
मंत्र-योगः स्पर्श-योगः भाव-योगः तथा अपरः ॥ अभाव-योगः सर्वेभ्यः महा-योगः परः मतः ॥ ७।२,३७।५॥
maṃtra-yogaḥ sparśa-yogaḥ bhāva-yogaḥ tathā aparaḥ .. abhāva-yogaḥ sarvebhyaḥ mahā-yogaḥ paraḥ mataḥ .. 7.2,37.5..
मंत्राभ्यासवशेनैव मंत्रवाच्यार्थगोचरः ॥ अव्याक्षेपा मनोवृत्तिर्मंत्रयोग उदाहृतः ॥ ७.२,३७.६॥
मंत्र-अभ्यास-वशेन एव मंत्र-वाच्य-अर्थ-गोचरः ॥ अव्याक्षेपा मनः-वृत्तिः मंत्र-योगः उदाहृतः ॥ ७।२,३७।६॥
maṃtra-abhyāsa-vaśena eva maṃtra-vācya-artha-gocaraḥ .. avyākṣepā manaḥ-vṛttiḥ maṃtra-yogaḥ udāhṛtaḥ .. 7.2,37.6..
प्राणायाममुखा सैव स्पर्शे योगोभिधीयते ॥ स मंत्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः ॥ ७.२,३७.७॥
प्राणायाम-मुखा सा एव स्पर्शे योगः अभिधीयते ॥ स मंत्र-स्पर्श-निर्मुक्तः भाव-योगः प्रकीर्तितः ॥ ७।२,३७।७॥
prāṇāyāma-mukhā sā eva sparśe yogaḥ abhidhīyate .. sa maṃtra-sparśa-nirmuktaḥ bhāva-yogaḥ prakīrtitaḥ .. 7.2,37.7..
विलीनावयवं विश्वं रूपं संभाव्यते यतः ॥ अभावयोगः संप्रोक्तो ऽनाभासाद्वस्तुनः सतः ॥ ७.२,३७.८॥
विलीन-अवयवम् विश्वम् रूपम् संभाव्यते यतस् ॥ अभाव-योगः संप्रोक्तः अनाभासात् वस्तुनः सतः ॥ ७।२,३७।८॥
vilīna-avayavam viśvam rūpam saṃbhāvyate yatas .. abhāva-yogaḥ saṃproktaḥ anābhāsāt vastunaḥ sataḥ .. 7.2,37.8..
शिवस्वभाव एवैकश्चिंत्यते निरुपाधिकः ॥ यथा शैवमनोवृत्तिर्महायोग इहोच्यते ॥ ७.२,३७.९॥
शिव-स्वभावः एव एकः चिंत्यते निरुपाधिकः ॥ यथा शैव-मनः-वृत्तिः महा-योगः इह उच्यते ॥ ७।२,३७।९॥
śiva-svabhāvaḥ eva ekaḥ ciṃtyate nirupādhikaḥ .. yathā śaiva-manaḥ-vṛttiḥ mahā-yogaḥ iha ucyate .. 7.2,37.9..
दृष्टे तथानुश्रविके विरक्तं विषये मनः ॥ यस्य तस्याधिकारोस्ति योगे नान्यस्य कस्यचित् ॥ ७.२,३७.१०॥
दृष्टे तथा आनुश्रविके विरक्तम् विषये मनः ॥ यस्य तस्य अधिकारः उस्ति योगे न अन्यस्य कस्यचिद् ॥ ७।२,३७।१०॥
dṛṣṭe tathā ānuśravike viraktam viṣaye manaḥ .. yasya tasya adhikāraḥ usti yoge na anyasya kasyacid .. 7.2,37.10..
विषयद्वयदोषाणां गुणानामीश्वरस्य च ॥ दर्शनादेव सततं विरक्तं जायते मनः ॥ ७.२,३७.११॥
विषय-द्वय-दोषाणाम् गुणानाम् ईश्वरस्य च ॥ दर्शनात् एव सततम् विरक्तम् जायते मनः ॥ ७।२,३७।११॥
viṣaya-dvaya-doṣāṇām guṇānām īśvarasya ca .. darśanāt eva satatam viraktam jāyate manaḥ .. 7.2,37.11..
अष्टांगो वा षडंगो वा सर्वयोगः समासतः ॥ यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम् ॥ ७.२,३७.१२॥
अष्ट-अंगः वा षष्-अंगः वा सर्व-योगः समासतस् ॥ यमः च नियमः च एव स्वस्तिक-आद्यम् तथा आसनम् ॥ ७।२,३७।१२॥
aṣṭa-aṃgaḥ vā ṣaṣ-aṃgaḥ vā sarva-yogaḥ samāsatas .. yamaḥ ca niyamaḥ ca eva svastika-ādyam tathā āsanam .. 7.2,37.12..
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ॥ समाधिरिति योगांगान्यष्टावुक्तानि सूरिभिः ॥ ७.२,३७.१३॥
प्राणायामः प्रत्याहारः धारणा ध्यानम् एव च ॥ समाधिः इति योगांगानि अष्टौ उक्तानि सूरिभिः ॥ ७।२,३७।१३॥
prāṇāyāmaḥ pratyāhāraḥ dhāraṇā dhyānam eva ca .. samādhiḥ iti yogāṃgāni aṣṭau uktāni sūribhiḥ .. 7.2,37.13..
आसनं प्राणसंरोधः प्रत्याहारोथ धारणा ॥ ध्यानं समाधिर्योगस्य षडंगानि समासतः ॥ ७.२,३७.१४॥
आसनम् प्राण-संरोधः प्रत्याहारः उथ धारणा ॥ ध्यानम् समाधिः योगस्य षष्-अंगानि समासतस् ॥ ७।२,३७।१४॥
āsanam prāṇa-saṃrodhaḥ pratyāhāraḥ utha dhāraṇā .. dhyānam samādhiḥ yogasya ṣaṣ-aṃgāni samāsatas .. 7.2,37.14..
पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ॥ शिवागमेषु चान्येषु विशेषात्कामिकादिषु ॥ ७.२,३७.१५॥
पृथक् लक्षणम् एतेषाम् शिवशास्त्रे समीरितम् ॥ शिव-आगमेषु च अन्येषु विशेषात् कामिक-आदिषु ॥ ७।२,३७।१५॥
pṛthak lakṣaṇam eteṣām śivaśāstre samīritam .. śiva-āgameṣu ca anyeṣu viśeṣāt kāmika-ādiṣu .. 7.2,37.15..
योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ॥ यम इत्युच्यते सद्भिः पञ्चावयवयोगतः ॥ ७.२,३७.१६॥
योग-शास्त्रेषु अपि तथा पुराणेषु अपि केषु च ॥ अहिंसा सत्यम् अस्तेयम् ब्रह्मचर्य-अपरिग्रहः ॥ यमः इति उच्यते सद्भिः पञ्च-अवयव-योगतः ॥ ७।२,३७।१६॥
yoga-śāstreṣu api tathā purāṇeṣu api keṣu ca .. ahiṃsā satyam asteyam brahmacarya-aparigrahaḥ .. yamaḥ iti ucyate sadbhiḥ pañca-avayava-yogataḥ .. 7.2,37.16..
शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ॥ इति पञ्चप्रभेदस्स्यान्नियमः स्वांशभेदतः ॥ ७.२,३७.१७॥
शौचम् तुष्टिः तपः च एव जपः प्रणिधिः एव च ॥ इति पञ्च-प्रभेदः स्यात् नियमः स्व-अंश-भेदतः ॥ ७।२,३७।१७॥
śaucam tuṣṭiḥ tapaḥ ca eva japaḥ praṇidhiḥ eva ca .. iti pañca-prabhedaḥ syāt niyamaḥ sva-aṃśa-bhedataḥ .. 7.2,37.17..
स्वस्तिकं पद्ममध्येंदुं वीरं योगं प्रसाधितम् ॥ पर्यंकं च यथेष्टं च प्रोक्तमासनमष्टधा ॥ ७.२,३७.१८॥
स्वस्तिकम् पद्म-मध्य-इंदुम् वीरम् योगम् प्रसाधितम् ॥ पर्यंकम् च यथेष्टम् च प्रोक्तम् आसनम् अष्टधा ॥ ७।२,३७।१८॥
svastikam padma-madhya-iṃdum vīram yogam prasādhitam .. paryaṃkam ca yatheṣṭam ca proktam āsanam aṣṭadhā .. 7.2,37.18..
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ॥ तद्रोचकं पूरकं च कुंभकं च त्रिधोच्यते ॥ ७.२,३७.१९॥
प्राणः स्व-देह-जः वायुः तस्य आयामः निरोधनम् ॥ तत् रोचकम् पूरकम् च कुंभकम् च त्रिधा उच्यते ॥ ७।२,३७।१९॥
prāṇaḥ sva-deha-jaḥ vāyuḥ tasya āyāmaḥ nirodhanam .. tat rocakam pūrakam ca kuṃbhakam ca tridhā ucyate .. 7.2,37.19..
नासिकापुटमंगुल्या पीड्यैकमपरेण तु ॥ औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ ७.२,३७.२०॥
नासिका-पुटम् अंगुल्या पीड्य एकम् अपरेण तु ॥ औदरम् रेचयेत् वायुम् तथा अयम् रेचकः स्मृतः ॥ ७।२,३७।२०॥
nāsikā-puṭam aṃgulyā pīḍya ekam apareṇa tu .. audaram recayet vāyum tathā ayam recakaḥ smṛtaḥ .. 7.2,37.20..
बाह्येन मरुता देहं दृतिवत्परिपूरयेत् ॥ नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ ७.२,३७.२१॥
बाह्येन मरुता देहम् दृति-वत् परिपूरयेत् ॥ नासापुटेन अपरेण पूरणात् पूरकम् मतम् ॥ ७।२,३७।२१॥
bāhyena marutā deham dṛti-vat paripūrayet .. nāsāpuṭena apareṇa pūraṇāt pūrakam matam .. 7.2,37.21..
न मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम् ॥ संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक ॥ ७.२,३७.२२॥
न मुंचति न गृह्णाति वायुम् अंतर् बहिस् स्थितम् ॥ संपूर्णम् कुंभ-वत् तिष्ठेत् अचलः स तु कुंभक ॥ ७।२,३७।२२॥
na muṃcati na gṛhṇāti vāyum aṃtar bahis sthitam .. saṃpūrṇam kuṃbha-vat tiṣṭhet acalaḥ sa tu kuṃbhaka .. 7.2,37.22..
रेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम् ॥ तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ ७.२,३७.२३॥
रेचक-आद्यम् त्रयम् इदम् न द्रुतम् न विलंबितम् ॥ तत् यतस् क्रम-योगेन तु अभ्यसेत् योग-साधकः ॥ ७।२,३७।२३॥
recaka-ādyam trayam idam na drutam na vilaṃbitam .. tat yatas krama-yogena tu abhyaset yoga-sādhakaḥ .. 7.2,37.23..
रेचकादिषु योभ्यासो नाडीशोधनपूर्वकः ॥ स्वेच्छोत्क्रमणपर्यंतः प्रोक्तो योगानुशासने ॥ ७.२,३७.२४॥
रेचक-आदिषु यः भ्यासः नाडी-शोधन-पूर्वकः ॥ स्वेच्छा-उत्क्रमण-पर्यंतः प्रोक्तः योग-अनुशासने ॥ ७।२,३७।२४॥
recaka-ādiṣu yaḥ bhyāsaḥ nāḍī-śodhana-pūrvakaḥ .. svecchā-utkramaṇa-paryaṃtaḥ proktaḥ yoga-anuśāsane .. 7.2,37.24..
कन्यकादिक्रमवशात्प्राणायामनिरोधनम् ॥ तच्चतुर्धोपदिष्टं स्यान्मात्रागुणविभागतः ॥ ७.२,३७.२५॥
॥ तत् चतुर्धा उपदिष्टम् स्यात् मात्रा-गुण-विभागतः ॥ ७।२,३७।२५॥
.. tat caturdhā upadiṣṭam syāt mātrā-guṇa-vibhāgataḥ .. 7.2,37.25..
कन्यकस्तु चतुर्धा स्यात्स च द्वादशमात्रकः ॥ मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः ॥ ७.२,३७.२६॥
कन्यकः तु चतुर्धा स्यात् स च द्वादश-मात्रकः ॥ मध्यमः तु द्विस् उद्धातः चतुर्विंशति-मात्रकः ॥ ७।२,३७।२६॥
kanyakaḥ tu caturdhā syāt sa ca dvādaśa-mātrakaḥ .. madhyamaḥ tu dvis uddhātaḥ caturviṃśati-mātrakaḥ .. 7.2,37.26..
उत्तमस्तु त्रिरुद्धातः षड्विंशन्मात्रकः परः ॥ स्वेदकंपादिजनकः प्राणायामस्तदुत्तरः ॥ ७.२,३७.२७॥
उत्तमः तु त्रिस् उद्धातः षड्विंशत्-मात्रकः परः ॥ स्वेद-कंप-आदि-जनकः प्राणायामः तद्-उत्तरः ॥ ७।२,३७।२७॥
uttamaḥ tu tris uddhātaḥ ṣaḍviṃśat-mātrakaḥ paraḥ .. sveda-kaṃpa-ādi-janakaḥ prāṇāyāmaḥ tad-uttaraḥ .. 7.2,37.27..
आनंदोद्भवरोमांचनेत्राश्रूणां विमोचनम् ॥ जल्पभ्रमणमूर्छाद्यं जायते योगिनः परम् ॥ ७.२,३७.२८॥
आनंद-उद्भव-रोमांच-नेत्र-अश्रूणाम् विमोचनम् ॥ जल्प-भ्रमण-मूर्छा-आद्यम् जायते योगिनः परम् ॥ ७।२,३७।२८॥
ānaṃda-udbhava-romāṃca-netra-aśrūṇām vimocanam .. jalpa-bhramaṇa-mūrchā-ādyam jāyate yoginaḥ param .. 7.2,37.28..
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलंबितम् ॥ अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता ॥ ७.२,३७.२९॥
जानुम् प्रदक्षिणीकृत्य न द्रुतम् न विलंबितम् ॥ अंगुली-स्फोटनम् कुर्यात् सा मात्रा इति प्रकीर्तिता ॥ ७।२,३७।२९॥
jānum pradakṣiṇīkṛtya na drutam na vilaṃbitam .. aṃgulī-sphoṭanam kuryāt sā mātrā iti prakīrtitā .. 7.2,37.29..
मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः ॥ नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत् ॥ ७.२,३७.३०॥
मात्रा-क्रमेण विज्ञेयाः च उद्वात-क्रम-योगतः ॥ नाडी-विशुद्धि-पूर्वम् तु प्राणायामम् समाचरेत् ॥ ७।२,३७।३०॥
mātrā-krameṇa vijñeyāḥ ca udvāta-krama-yogataḥ .. nāḍī-viśuddhi-pūrvam tu prāṇāyāmam samācaret .. 7.2,37.30..
अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः ॥ जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात् ॥ ७.२,३७.३१॥
अगर्भः च सगर्भः च प्राणायामः द्विधा स्मृतः ॥ जपम् ध्यानम् विना गर्भः सगर्भः तत् समन्वयात् ॥ ७।२,३७।३१॥
agarbhaḥ ca sagarbhaḥ ca prāṇāyāmaḥ dvidhā smṛtaḥ .. japam dhyānam vinā garbhaḥ sagarbhaḥ tat samanvayāt .. 7.2,37.31..
अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः ॥ तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम् ॥ ७.२,३७.३२॥
अगर्भात् गर्भ-संयुक्तः प्राणायामः शत-अधिकः ॥ तस्मात् सगर्भम् कुर्वन्ति योगिनः प्राणसंयमम् ॥ ७।२,३७।३२॥
agarbhāt garbha-saṃyuktaḥ prāṇāyāmaḥ śata-adhikaḥ .. tasmāt sagarbham kurvanti yoginaḥ prāṇasaṃyamam .. 7.2,37.32..
प्राणस्य विजयादेव जीयंते देह आयवः ॥ <दश वायव इति पाठान्तरम्>प्राणो ऽपानः समानश्च ह्युदानो व्यान एव च ॥ ७.२,३७.३३॥
प्राणस्य विजयात् एव जीयंते देहे आयवः ॥ <दश वायवः इति पाठ-अन्तरम् प्राणः अपानः समानः च हि उदानः व्यानः एव च ॥ ७।२,३७।३३॥
prāṇasya vijayāt eva jīyaṃte dehe āyavaḥ .. <daśa vāyavaḥ iti pāṭha-antaram prāṇaḥ apānaḥ samānaḥ ca hi udānaḥ vyānaḥ eva ca .. 7.2,37.33..
नागः कूर्मश्च कृकलो देवदत्तो धनंजयः ॥ प्रयाणं कुरुते यस्मात्तस्मात्प्राणो ऽभिधीयते ॥ ७.२,३७.३४॥
नागः कूर्मः च कृकलः देवदत्तः धनंजयः ॥ प्रयाणम् कुरुते यस्मात् तस्मात् प्राणः अभिधीयते ॥ ७।२,३७।३४॥
nāgaḥ kūrmaḥ ca kṛkalaḥ devadattaḥ dhanaṃjayaḥ .. prayāṇam kurute yasmāt tasmāt prāṇaḥ abhidhīyate .. 7.2,37.34..
अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते ॥ व्यानो व्यानशयत्यंगान्यशेषाणि विवर्धयन् ॥ ७.२,३७.३५ <दश वायव इति पाठान्तरम्>॥
अवाक् नयति अपान-आख्यः यत् आहार-आदि भुज्यते ॥ व्यानः व्यानशयति अंगानि अशेषाणि विवर्धयन् ॥ ७।२,३७।३५ <दश वायवः इति पाठ-अन्तरम्॥
avāk nayati apāna-ākhyaḥ yat āhāra-ādi bhujyate .. vyānaḥ vyānaśayati aṃgāni aśeṣāṇi vivardhayan .. 7.2,37.35 <daśa vāyavaḥ iti pāṭha-antaram..
उद्वेजयति मर्माणीत्युदानो वायुरीरितः ॥ समं नयति सर्वांगं समानस्तेन गीयते ॥ ७.२,३७.३६॥
उद्वेजयति मर्माणि इति उदानः वायुः ईरितः ॥ समम् नयति सर्व-अंगम् समानः तेन गीयते ॥ ७।२,३७।३६॥
udvejayati marmāṇi iti udānaḥ vāyuḥ īritaḥ .. samam nayati sarva-aṃgam samānaḥ tena gīyate .. 7.2,37.36..
उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः ॥ कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृंभणे ॥ ७.२,३७.३७॥
उद्गारे नाग आख्यातः कूर्मः उन्मीलने स्थितः ॥ कृकलः क्षवथौ ज्ञेयः देवदत्तः विजृंभणे ॥ ७।२,३७।३७॥
udgāre nāga ākhyātaḥ kūrmaḥ unmīlane sthitaḥ .. kṛkalaḥ kṣavathau jñeyaḥ devadattaḥ vijṛṃbhaṇe .. 7.2,37.37..
न जहाति मृतं चापि सर्वव्यापी धनंजयः ॥ क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान् ॥ ७.२,३७.३८॥
न जहाति मृतम् च अपि सर्वव्यापी धनंजयः ॥ क्रमेण अभ्यस्यमाना इयम् प्राणायाम-प्रमाणवान् ॥ ७।२,३७।३८॥
na jahāti mṛtam ca api sarvavyāpī dhanaṃjayaḥ .. krameṇa abhyasyamānā iyam prāṇāyāma-pramāṇavān .. 7.2,37.38..
निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ॥ प्राणे तु विजिते सम्यक्तच्चिह्नान्युपलक्षयेत् ॥ ७.२,३७.३९॥
निर्दहति अखिलम् दोषम् कर्तुः देहम् च रक्षति ॥ प्राणे तु विजिते सम्यक् तद्-चिह्नानि उपलक्षयेत् ॥ ७।२,३७।३९॥
nirdahati akhilam doṣam kartuḥ deham ca rakṣati .. prāṇe tu vijite samyak tad-cihnāni upalakṣayet .. 7.2,37.39..
विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ॥ बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥ ७.२,३७.४०॥
विष्-मूत्र-श्लेष्मणाम् तावत् अल्प-भावः प्रजायते ॥ बहु-भोजन-सामर्थ्यम् चिरात् उच्छ्वासनम् तथा ॥ ७।२,३७।४०॥
viṣ-mūtra-śleṣmaṇām tāvat alpa-bhāvaḥ prajāyate .. bahu-bhojana-sāmarthyam cirāt ucchvāsanam tathā .. 7.2,37.40..
लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ॥ सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥ ७.२,३७.४१॥
लघु-त्वम् शीघ्र-गामि-त्वम् उत्साहः स्वर-सौष्ठवम् ॥ सर्व-रोग-क्षयः च एव बलम् तेजः सुरूप-ता ॥ ७।२,३७।४१॥
laghu-tvam śīghra-gāmi-tvam utsāhaḥ svara-sauṣṭhavam .. sarva-roga-kṣayaḥ ca eva balam tejaḥ surūpa-tā .. 7.2,37.41..
धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ॥ तपांसि पापक्षयता यज्ञदानव्रतादयः ॥ ७.२,३७.४२॥
धृतिः मेधाः युव-त्वम् च स्थिर-ता च प्रसन्न-ता ॥ तपांसि पाप-क्षय-ता यज्ञ-दान-व्रत-आदयः ॥ ७।२,३७।४२॥
dhṛtiḥ medhāḥ yuva-tvam ca sthira-tā ca prasanna-tā .. tapāṃsi pāpa-kṣaya-tā yajña-dāna-vrata-ādayaḥ .. 7.2,37.42..
प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥ ७.२,३७.४३॥
प्राणायामस्य तस्य एते कलाम् न अर्हन्ति षोडशीम् ॥ इन्द्रियाणि प्रसक्तानि यथास्वम् विषयेषु इह ॥ ७।२,३७।४३॥
prāṇāyāmasya tasya ete kalām na arhanti ṣoḍaśīm .. indriyāṇi prasaktāni yathāsvam viṣayeṣu iha .. 7.2,37.43..
आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ॥ नमःपूर्वाणींद्रियाणि स्वर्गं नरकमेव च ॥ ७.२,३७.४४॥
आहत्य यत् निगृह्णाति स प्रत्याहारः उच्यते ॥ नमः-पूर्वाणि इंद्रियाणि स्वर्गम् नरकम् एव च ॥ ७।२,३७।४४॥
āhatya yat nigṛhṇāti sa pratyāhāraḥ ucyate .. namaḥ-pūrvāṇi iṃdriyāṇi svargam narakam eva ca .. 7.2,37.44..
निगृहीतनिसृष्टानि स्वर्गाय नरकाय च ॥ तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः ॥ ७.२,३७.४५॥
निगृहीत-निसृष्टानि स्वर्गाय नरकाय च ॥ तस्मात् सुख-अर्थी मतिमान् ज्ञान-वैराग्यम् आस्थितः ॥ ७।२,३७।४५॥
nigṛhīta-nisṛṣṭāni svargāya narakāya ca .. tasmāt sukha-arthī matimān jñāna-vairāgyam āsthitaḥ .. 7.2,37.45..
इंद्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ॥ धारणा नाम चित्तस्य स्थानबन्धस्समासतः ॥ ७.२,३७.४६॥
इंद्रिय-अश्वान् निगृह्य आशु स्व-आत्मना आत्मानम् उद्धरेत् ॥ धारणा नाम चित्तस्य स्थान-बन्धः समासतस् ॥ ७।२,३७।४६॥
iṃdriya-aśvān nigṛhya āśu sva-ātmanā ātmānam uddharet .. dhāraṇā nāma cittasya sthāna-bandhaḥ samāsatas .. 7.2,37.46..
स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ॥ कालं कंचावधीकृत्य स्थाने ऽवस्थापितं मनः ॥ ७.२,३७.४७॥
स्थानम् च शिवः एव एकः न अन्यत् दोष-त्रयम् यतस् ॥ कालम् कंच अधीकृत्य स्थाने अवस्थापितम् मनः ॥ ७।२,३७।४७॥
sthānam ca śivaḥ eva ekaḥ na anyat doṣa-trayam yatas .. kālam kaṃca adhīkṛtya sthāne avasthāpitam manaḥ .. 7.2,37.47..
न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ॥ मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥ ७.२,३७.४८॥
न तु प्रच्यवते लक्ष्यात् धारणा स्यात् न च अन्यथा ॥ मनसः प्रथमम् स्थैर्यम् धारणातः प्रजायते ॥ ७।२,३७।४८॥
na tu pracyavate lakṣyāt dhāraṇā syāt na ca anyathā .. manasaḥ prathamam sthairyam dhāraṇātaḥ prajāyate .. 7.2,37.48..
तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ॥ ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ ७.२,३७.४९॥
तस्मात् धीरम् मनः कुर्यात् धारण-अभ्यास-योगतः ॥ चिंतायाम् स्मृतः धातुः शिव-चिंता मुहुर् मुहुर् ॥ ७।२,३७।४९॥
tasmāt dhīram manaḥ kuryāt dhāraṇa-abhyāsa-yogataḥ .. ciṃtāyām smṛtaḥ dhātuḥ śiva-ciṃtā muhur muhur .. 7.2,37.49..
अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ॥ ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः ॥ ७.२,३७.५०॥
अव्याक्षिप्तेन मनसा ध्यानम् नाम तत् उच्यते ॥ ध्येय-अवस्थित-चित्तस्य सदृशः प्रत्ययः च यः ॥ ७।२,३७।५०॥
avyākṣiptena manasā dhyānam nāma tat ucyate .. dhyeya-avasthita-cittasya sadṛśaḥ pratyayaḥ ca yaḥ .. 7.2,37.50..
प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते ॥ सर्वमन्यत्परित्यज्य शिव एव शिवंकरः ॥ ७.२,३७.५१॥
प्रत्यय-अन्तर-निर्मुक्तः प्रवाहः ध्यानम् उच्यते ॥ सर्वम् अन्यत् परित्यज्य शिवः एव शिवंकरः ॥ ७।२,३७।५१॥
pratyaya-antara-nirmuktaḥ pravāhaḥ dhyānam ucyate .. sarvam anyat parityajya śivaḥ eva śivaṃkaraḥ .. 7.2,37.51..
परो ध्येयो ऽधिदेवेशः समाप्ताथर्वणी श्रुतिः ॥ तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ ॥ ७.२,३७.५२॥
परः ध्येयः अधिदेवेशः समाप्ता आथर्वणी श्रुतिः ॥ तथा शिवा परा ध्येया सर्व-भूत-गतौ शिवौ ॥ ७।२,३७।५२॥
paraḥ dhyeyaḥ adhideveśaḥ samāptā ātharvaṇī śrutiḥ .. tathā śivā parā dhyeyā sarva-bhūta-gatau śivau .. 7.2,37.52..
तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ ॥ सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः ॥ ७.२,३७.५३॥
तौ श्रुतौ स्मृति-शास्त्रेभ्यः सर्वगौ सर्व-द-उदितौ ॥ सर्वज्ञौ सततम् ध्येयौ नाना रूप-विभेदतः ॥ ७।२,३७।५३॥
tau śrutau smṛti-śāstrebhyaḥ sarvagau sarva-da-uditau .. sarvajñau satatam dhyeyau nānā rūpa-vibhedataḥ .. 7.2,37.53..
विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् ॥ इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम् ॥ ७.२,३७.५४॥
विमुक्तिः प्रत्ययः पूर्वः प्रत्ययः च अणिम-आदिकम् ॥ इति एतत् द्विविधम् ज्ञेयम् ध्यानस्य अस्य प्रयोजनम् ॥ ७।२,३७।५४॥
vimuktiḥ pratyayaḥ pūrvaḥ pratyayaḥ ca aṇima-ādikam .. iti etat dvividham jñeyam dhyānasya asya prayojanam .. 7.2,37.54..
ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ॥ एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित् ॥ ७.२,३७.५५॥
ध्याता ध्यानम् तथा ध्येयम् यत् च ध्यान-प्रयोजनम् ॥ एतत् चतुष्टयम् ज्ञात्वा योगम् युञ्जीत योग-विद् ॥ ७।२,३७।५५॥
dhyātā dhyānam tathā dhyeyam yat ca dhyāna-prayojanam .. etat catuṣṭayam jñātvā yogam yuñjīta yoga-vid .. 7.2,37.55..
ज्ञानवैराग्यसंपन्नः श्रद्दधानः क्षमान्वितः ॥ निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ॥ ७.२,३७.५६॥
ज्ञान-वैराग्य-संपन्नः श्रद्दधानः क्षमा-अन्वितः ॥ निर्ममः च सदा उत्साही ध्याता इत्थम् पुरुषः स्मृतः ॥ ७।२,३७।५६॥
jñāna-vairāgya-saṃpannaḥ śraddadhānaḥ kṣamā-anvitaḥ .. nirmamaḥ ca sadā utsāhī dhyātā ittham puruṣaḥ smṛtaḥ .. 7.2,37.56..
जपाच्छ्रांतः पुनर्ध्यायेद्ध्यानाच्छ्रांतः पुनर्जपेत् ॥ जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति ॥ ७.२,३७.५७॥
जपात् श्रांतः पुनर् ध्यायेत् ध्यानात् श्रांतः पुनर् जपेत् ॥ जप ध्यन-अभियुक्तस्य क्षिप्रम् योगः प्रसिद्धि-अति ॥ ७।२,३७।५७॥
japāt śrāṃtaḥ punar dhyāyet dhyānāt śrāṃtaḥ punar japet .. japa dhyana-abhiyuktasya kṣipram yogaḥ prasiddhi-ati .. 7.2,37.57..
धारणा द्वादशायामा ध्यानं द्वादशधारणम् ॥ ध्यानद्वादशकं यावत्समाधिरभिधीयते ॥ ७.२,३७.५८॥
धारणा द्वादश-आयामा ध्यानम् द्वादश-धारणम् ॥ ध्यान-द्वादशकम् यावत् समाधिः अभिधीयते ॥ ७।२,३७।५८॥
dhāraṇā dvādaśa-āyāmā dhyānam dvādaśa-dhāraṇam .. dhyāna-dvādaśakam yāvat samādhiḥ abhidhīyate .. 7.2,37.58..
समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम् ॥ समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥ ७.२,३७.५९॥
समाधिः न्नाम योग-अंगम् अन्तिमम् परिकीर्तितम् ॥ समाधिना च सर्वत्र प्रज्ञा-आलोकः प्रवर्तते ॥ ७।२,३७।५९॥
samādhiḥ nnāma yoga-aṃgam antimam parikīrtitam .. samādhinā ca sarvatra prajñā-ālokaḥ pravartate .. 7.2,37.59..
यदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् ॥ स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥ ७.२,३७.६०॥
यद्-अर्थ-मात्र-निर्भासम् स्तिमितः दधि-वत् स्थितम् ॥ स्वरूप-शून्य-वत् भानम् समाधिः अभिधीयते ॥ ७।२,३७।६०॥
yad-artha-mātra-nirbhāsam stimitaḥ dadhi-vat sthitam .. svarūpa-śūnya-vat bhānam samādhiḥ abhidhīyate .. 7.2,37.60..
ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ॥ निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥ ७.२,३७.६१॥
ध्येये मनः समावेश्य पश्येत् अपि च सु स्थिरम् ॥ निर्वाण-अनल-वत् योगी समाधि-स्थः प्रगीयते ॥ ७।२,३७।६१॥
dhyeye manaḥ samāveśya paśyet api ca su sthiram .. nirvāṇa-anala-vat yogī samādhi-sthaḥ pragīyate .. 7.2,37.61..
न शृणोति न चाघ्राति न जल्पति न पश्यति ॥ न च स्पर्शं विजानाति न संकल्पयते मनः ॥ ७.२,३७.६२॥
न शृणोति न च आघ्राति न जल्पति न पश्यति ॥ न च स्पर्शम् विजानाति न संकल्पयते मनः ॥ ७।२,३७।६२॥
na śṛṇoti na ca āghrāti na jalpati na paśyati .. na ca sparśam vijānāti na saṃkalpayate manaḥ .. 7.2,37.62..
नवाभिमन्यते किंचिद्बध्यते न च काष्टवत् ॥ एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ ७.२,३७.६३॥
न वा अभिमन्यते किंचिद् बध्यते न च काष्ट-वत् ॥ एवम् शिवे विलीन-आत्मा समाधि-स्थः इह उच्यते ॥ ७।२,३७।६३॥
na vā abhimanyate kiṃcid badhyate na ca kāṣṭa-vat .. evam śive vilīna-ātmā samādhi-sthaḥ iha ucyate .. 7.2,37.63..
यथा दीपो निवातस्थः स्पन्दते न कदाचन ॥ तथा समाधिनिष्ठो ऽपि तस्मान्न विचलेत्सुधीः ॥ ७.२,३७.६४॥
यथा दीपः निवात-स्थः स्पन्दते न कदाचन ॥ तथा समाधि-निष्ठः अपि तस्मात् न विचलेत् सुधीः ॥ ७।२,३७।६४॥
yathā dīpaḥ nivāta-sthaḥ spandate na kadācana .. tathā samādhi-niṣṭhaḥ api tasmāt na vicalet sudhīḥ .. 7.2,37.64..
एवमभ्यसतश्चारं योगिनो योगमुत्तमम् ॥ तदन्तराया नश्यंति विघ्नाः सर्वे शनैःशनैः ॥ ७.२,३७.६५॥
एवम् अभ्यसतः चारम् योगिनः योगम् उत्तमम् ॥ तद्-अन्तरायाः नश्यन्ति विघ्नाः सर्वे शनैस् शनैस् ॥ ७।२,३७।६५॥
evam abhyasataḥ cāram yoginaḥ yogam uttamam .. tad-antarāyāḥ naśyanti vighnāḥ sarve śanais śanais .. 7.2,37.65..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशोऽध्यायः ७.२,३७.६७॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीय-संहितायाम् वायु-नैमिषेय-ऋषि-संवादे उत्तर-खण्डे योगगतिवर्णनम् नाम सप्तत्रिंशः अध्यायः।२,३७।६७॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīya-saṃhitāyām vāyu-naimiṣeya-ṛṣi-saṃvāde uttara-khaṇḍe yogagativarṇanam nāma saptatriṃśaḥ adhyāyaḥ.2,37.67..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In