| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः ॥ अनवस्थितचित्तत्वमश्रद्धा भ्रांतिदर्शनम् ॥ ॥
आलस्यम् व्याधयः तीव्राः प्रमादः स्थान-संशयः ॥ अनवस्थित-चित्त-त्वम् अश्रद्धा भ्रांति-दर्शनम् ॥ ॥
ālasyam vyādhayaḥ tīvrāḥ pramādaḥ sthāna-saṃśayaḥ .. anavasthita-citta-tvam aśraddhā bhrāṃti-darśanam .. ..
दुःखानि दौर्मनस्यं च विषयेषु च लोलता ॥ दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥ ॥
दुःखानि दौर्मनस्यम् च विषयेषु च लोल-ता ॥ दशा एते युञ्जताम् पुंसाम् अन्तरायाः प्रकीर्तिताः ॥ ॥
duḥkhāni daurmanasyam ca viṣayeṣu ca lola-tā .. daśā ete yuñjatām puṃsām antarāyāḥ prakīrtitāḥ .. ..
आलस्यमलसत्त्वं तु योगिनां देहचेतनोः ॥ धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः ॥ ७.२,३८.१॥
आलस्य-मल-सत्त्वम् तु योगिनाम् देह-चेतनोः ॥ धातु-वैषम्य-जाः दोषाः व्याधयः कर्म-दोष-जाः ॥ ७।२,३८।१॥
ālasya-mala-sattvam tu yoginām deha-cetanoḥ .. dhātu-vaiṣamya-jāḥ doṣāḥ vyādhayaḥ karma-doṣa-jāḥ .. 7.2,38.1..
प्रमादो नाम योगस्य साधना नाम भावना ॥ इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः ॥ ७.२,३८.२॥
प्रमादः नाम योगस्य साधना नाम भावना ॥ इदम् विज्ञानम् स्थान-संशयः ॥ ७।२,३८।२॥
pramādaḥ nāma yogasya sādhanā nāma bhāvanā .. idam vijñānam sthāna-saṃśayaḥ .. 7.2,38.2..
अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते ॥ अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि ॥ ७.२,३८.३॥
अप्रतिष्ठा हि मनसः तु अनवस्थितिः उच्यते ॥ अश्रद्धा भाव-रहिता वृत्तिः वै योग-वर्त्मनि ॥ ७।२,३८।३॥
apratiṣṭhā hi manasaḥ tu anavasthitiḥ ucyate .. aśraddhā bhāva-rahitā vṛttiḥ vai yoga-vartmani .. 7.2,38.3..
विपर्यस्ता मतिर्या सा भ्रांतिरित्यभिधीयते ॥ दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः ॥ ७.२,३८.४॥
विपर्यस्ता मतिः या सा भ्रांतिः इति अभिधीयते ॥ दुःखम् अज्ञान-जम् पुंसाम् चित्तस्य आध्यात्मिकम् विदुः ॥ ७।२,३८।४॥
viparyastā matiḥ yā sā bhrāṃtiḥ iti abhidhīyate .. duḥkham ajñāna-jam puṃsām cittasya ādhyātmikam viduḥ .. 7.2,38.4..
आधिभौतिकमंगोत्थं यच्च दुःखं पुरा कृतैः ॥ आधिदैविकमाख्यातमशन्यस्त्रविषादिकम् ॥ ७.२,३८.५॥
आधिभौतिकम् अंग-उत्थम् यत् च दुःखम् पुरा कृतैः ॥ आधिदैविकम् आख्यातम् अशनि-अस्त्र-विष-आदिकम् ॥ ७।२,३८।५॥
ādhibhautikam aṃga-uttham yat ca duḥkham purā kṛtaiḥ .. ādhidaivikam ākhyātam aśani-astra-viṣa-ādikam .. 7.2,38.5..
इच्छाविघातजं मोक्षं दौर्मनस्यं प्रचक्षते ॥ विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता ॥ ७.२,३८.६॥
इच्छा-विघात-जम् मोक्षम् दौर्मनस्यम् प्रचक्षते ॥ विषयेषु विचित्रेषु विभ्रमः तत्र लोल-ता ॥ ७।२,३८।६॥
icchā-vighāta-jam mokṣam daurmanasyam pracakṣate .. viṣayeṣu vicitreṣu vibhramaḥ tatra lola-tā .. 7.2,38.6..
शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः ॥ उपसर्गाः प्रवर्तंते दिव्यास्ते सिद्धिसूचकाः ॥ ७.२,३८.७॥
शान्तेषु एतेषु विघ्नेषु योग-आसक्तस्य योगिनः ॥ उपसर्गाः दिव्याः ते सिद्धि-सूचकाः ॥ ७।२,३८।७॥
śānteṣu eteṣu vighneṣu yoga-āsaktasya yoginaḥ .. upasargāḥ divyāḥ te siddhi-sūcakāḥ .. 7.2,38.7..
प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः ॥ उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः ॥ ७.२,३८.८॥
प्रतिभा श्रवणम् वार्ता दर्शन-आस्वाद-वेदनाः ॥ उपसर्गाः षट् इति एते व्यये योगस्य सिद्धयः ॥ ७।२,३८।८॥
pratibhā śravaṇam vārtā darśana-āsvāda-vedanāḥ .. upasargāḥ ṣaṭ iti ete vyaye yogasya siddhayaḥ .. 7.2,38.8..
सूक्ष्मे व्यवहिते ऽतीते विप्रकृष्टे त्वनागते ॥ प्रतिभा कथ्यते यो ऽर्थे प्रतिभासो यथातथम् ॥ ७.२,३८.९॥
सूक्ष्मे व्यवहिते अतीते विप्रकृष्टे तु अनागते ॥ प्रतिभा कथ्यते यः अर्थे प्रतिभासः यथातथम् ॥ ७।२,३८।९॥
sūkṣme vyavahite atīte viprakṛṣṭe tu anāgate .. pratibhā kathyate yaḥ arthe pratibhāsaḥ yathātatham .. 7.2,38.9..
श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः ॥ वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम् ॥ ७.२,३८.१०॥
श्रवणम् सर्व-शब्दानाम् श्रवणे च अप्रयत्नतः ॥ वार्त्ताः वार्त्तासु विज्ञानम् सर्वेषाम् एव देहिनाम् ॥ ७।२,३८।१०॥
śravaṇam sarva-śabdānām śravaṇe ca aprayatnataḥ .. vārttāḥ vārttāsu vijñānam sarveṣām eva dehinām .. 7.2,38.10..
दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः ॥ तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते ॥ ७.२,३८.११॥
दर्शनम् नाम दिव्यानाम् दर्शनम् च अप्रयत्नतः ॥ तथा आस्वादः च दिव्येषु रसेषु आस्वादः उच्यते ॥ ७।२,३८।११॥
darśanam nāma divyānām darśanam ca aprayatnataḥ .. tathā āsvādaḥ ca divyeṣu raseṣu āsvādaḥ ucyate .. 7.2,38.11..
स्पर्शनाधिगमस्तद्वद्वेदना नाम विश्रुता ॥ गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः ॥ ७.२,३८.१२॥
स्पर्शन-अधिगमः तद्वत् वेदना नाम विश्रुता ॥ गन्ध-आदीनाम् च दिव्यानाम् आब्रह्म भुवन-अधिपाः ॥ ७।२,३८।१२॥
sparśana-adhigamaḥ tadvat vedanā nāma viśrutā .. gandha-ādīnām ca divyānām ābrahma bhuvana-adhipāḥ .. 7.2,38.12..
संतिष्ठन्ते च रत्नानि प्रयच्छंति बहूनि च ॥ स्वच्छन्दमधुरा वाणी विविधास्यात्प्रवर्तते ॥ ७.२,३८.१३॥
संतिष्ठन्ते च रत्नानि प्रयच्छंति बहूनि च ॥ स्वच्छन्द-मधुरा वाणी विविध-आस्यात् प्रवर्तते ॥ ७।२,३८।१३॥
saṃtiṣṭhante ca ratnāni prayacchaṃti bahūni ca .. svacchanda-madhurā vāṇī vividha-āsyāt pravartate .. 7.2,38.13..
रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा ॥ सिध्यंति प्रणिपत्यैनं दिशंति सुरयोषितः ॥ ७.२,३८.१४॥
रसायनानि सर्वाणि दिव्याः च ओषधयः तथा ॥ सिध्यंति प्रणिपत्य एनम् दिशंति सुर-योषितः ॥ ७।२,३८।१४॥
rasāyanāni sarvāṇi divyāḥ ca oṣadhayaḥ tathā .. sidhyaṃti praṇipatya enam diśaṃti sura-yoṣitaḥ .. 7.2,38.14..
योगसिद्ध्यैकदेशे ऽपि दृष्टे मोक्षे भवेन्मतिः ॥ दृष्टमेतन्मया यद्वत्तद्वन्मोक्षो भवेदिति ॥ ७.२,३८.१५॥
योग-सिद्ध्या एक-देशे अपि दृष्टे मोक्षे भवेत् मतिः ॥ दृष्टम् एतत् मया यद्वत् तद्वत् मोक्षः भवेत् इति ॥ ७।२,३८।१५॥
yoga-siddhyā eka-deśe api dṛṣṭe mokṣe bhavet matiḥ .. dṛṣṭam etat mayā yadvat tadvat mokṣaḥ bhavet iti .. 7.2,38.15..
कृशता स्थूलता बाल्यं वार्धक्यं चैव यौवनम् ॥ नानाचातिस्वरूपं च चतुर्णां देहधारणम् ॥ ७.२,३८.१६॥
कृश-ता स्थूल-ता बाल्यम् वार्धक्यम् च एव यौवनम् ॥ नाना चाति-स्वरूपम् च चतुर्णाम् देहधारणम् ॥ ७।२,३८।१६॥
kṛśa-tā sthūla-tā bālyam vārdhakyam ca eva yauvanam .. nānā cāti-svarūpam ca caturṇām dehadhāraṇam .. 7.2,38.16..
पार्थिवांशं विना नित्यं सुरभिर्गन्धसंग्रहः ॥ एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम् ॥ ७.२,३८.१७॥
पार्थिव-अंशम् विना नित्यम् सुरभिः गन्ध-संग्रहः ॥ एवम् अष्टगुणम् प्राहुः पैशाचम् पार्थिवम् पदम् ॥ ७।२,३८।१७॥
pārthiva-aṃśam vinā nityam surabhiḥ gandha-saṃgrahaḥ .. evam aṣṭaguṇam prāhuḥ paiśācam pārthivam padam .. 7.2,38.17..
जले निवसनं चैव भूम्यामेवं विनिर्गमः ॥ इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥ ७.२,३८.१८॥
जले निवसनम् च एव भूम्याम् एवम् विनिर्गमः ॥ इच्छेत् शक्तः स्वयम् पातुम् समुद्रम् अपि न आतुरः ॥ ७।२,३८।१८॥
jale nivasanam ca eva bhūmyām evam vinirgamaḥ .. icchet śaktaḥ svayam pātum samudram api na āturaḥ .. 7.2,38.18..
यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् ॥ विना कुम्भादिकं पाणौ जलसञ्चयधारणम् ॥ ७.२,३८.१९॥
यत्र इच्छति जगति अस्मिन् तत्र एव जल-दर्शनम् ॥ विना कुम्भ-आदिकम् पाणौ जल-सञ्चय-धारणम् ॥ ७।२,३८।१९॥
yatra icchati jagati asmin tatra eva jala-darśanam .. vinā kumbha-ādikam pāṇau jala-sañcaya-dhāraṇam .. 7.2,38.19..
यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात् ॥ रसादिकं भवेच्चान्यत्त्रयाणां देहधारणम् ॥ ७.२,३८.२०॥
यत् वस्तु विरसञ्च च अपि भोक्तुम् इच्छति तद्-क्षणात् ॥ रस-आदिकम् भवेत् च अन्यत् त्रयाणाम् देहधारणम् ॥ ७।२,३८।२०॥
yat vastu virasañca ca api bhoktum icchati tad-kṣaṇāt .. rasa-ādikam bhavet ca anyat trayāṇām dehadhāraṇam .. 7.2,38.20..
निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम् ॥ तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम् ॥ ७.२,३८.२१॥
निर्व्रण-त्वम् शरीरस्य पार्थिवैः च समन्वितम् ॥ तत् इदम् षोडशगुणम् आप्यम् ऐश्वर्यम् अद्भुतम् ॥ ७।२,३८।२१॥
nirvraṇa-tvam śarīrasya pārthivaiḥ ca samanvitam .. tat idam ṣoḍaśaguṇam āpyam aiśvaryam adbhutam .. 7.2,38.21..
शरीरादग्निनिर्माणं तत्तापभयवर्जनम् ॥ शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः ॥ ७.२,३८.२२॥
शरीरात् अग्नि-निर्माणम् तद्-ताप-भय-वर्जनम् ॥ शक्तिः जगत् इदम् दग्धुम् यदि इच्छेत् अप्रयत्नतः ॥ ७।२,३८।२२॥
śarīrāt agni-nirmāṇam tad-tāpa-bhaya-varjanam .. śaktiḥ jagat idam dagdhum yadi icchet aprayatnataḥ .. 7.2,38.22..
स्थापनं वानलस्या ऽप्सु पाणौ पावकधारणम् ॥ दग्धे सर्गे यथापूर्वं मुखे चान्नादिपाचनम् ॥ ७.२,३८.२३॥
स्थापनम् वा अनलस्य अप्सु पाणौ पावक-धारणम् ॥ दग्धे सर्गे यथापूर्वम् मुखे च अन्न-आदि-पाचनम् ॥ ७।२,३८।२३॥
sthāpanam vā analasya apsu pāṇau pāvaka-dhāraṇam .. dagdhe sarge yathāpūrvam mukhe ca anna-ādi-pācanam .. 7.2,38.23..
द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम् ॥ एतच्चतुर्विंशतिधा तैजसं परिचक्षते ॥ ७.२,३८.२४॥
द्वाभ्याम् देह-विनिर्माणम् आप्य ऐश्वर्य-समन्वितम् ॥ एतत् चतुर्विंशतिधा तैजसम् परिचक्षते ॥ ७।२,३८।२४॥
dvābhyām deha-vinirmāṇam āpya aiśvarya-samanvitam .. etat caturviṃśatidhā taijasam paricakṣate .. 7.2,38.24..
मनोजवत्वं भूतानां क्षणादन्तःप्रवेशनम् ॥ पर्वतादिमहाभारधारणञ्चाप्रयत्नतः ॥ ७.२,३८.२५॥
मनोजव-त्वम् भूतानाम् क्षणात् अन्तर् प्रवेशनम् ॥ पर्वत-आदि-महा-भार-धारणञ्च च अप्रयत्नतः ॥ ७।२,३८।२५॥
manojava-tvam bhūtānām kṣaṇāt antar praveśanam .. parvata-ādi-mahā-bhāra-dhāraṇañca ca aprayatnataḥ .. 7.2,38.25..
गुरुत्वञ्च लघुत्वञ्च पाणावनिलधारणम् ॥ अंगुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम् ॥ ७.२,३८.२५॥
गुरु-त्वञ्च लघु-त्वञ्च पाणौ अनिल-धारणम् ॥ अंगुलि-अग्र-निपात-आद्यैः भूमेः अपि च कम्पनम् ॥ ७।२,३८।२५॥
guru-tvañca laghu-tvañca pāṇau anila-dhāraṇam .. aṃguli-agra-nipāta-ādyaiḥ bhūmeḥ api ca kampanam .. 7.2,38.25..
एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तैजसैः ॥ द्वात्रिंशद्गुणमैश्वर्यं मारुतं कवयो विदुः ॥ ७.२,३८.२६॥
एकेन देह-निष्पत्तिः युक्तम् भोगैः च तैजसैः ॥ द्वात्रिंशत्-गुणम् ऐश्वर्यम् मारुतम् कवयः विदुः ॥ ७।२,३८।२६॥
ekena deha-niṣpattiḥ yuktam bhogaiḥ ca taijasaiḥ .. dvātriṃśat-guṇam aiśvaryam mārutam kavayaḥ viduḥ .. 7.2,38.26..
छायाहीनविनिष्पत्तिरिन्द्रियाणामदर्शनम् ॥ खेचरत्वं यथाकाममिन्द्रियार्थसमन्वयः ॥ ७.२,३८.२७॥
छाया-हीन-विनिष्पत्तिः इन्द्रियाणाम् अदर्शनम् ॥ ॥ ७।२,३८।२७॥
chāyā-hīna-viniṣpattiḥ indriyāṇām adarśanam .. .. 7.2,38.27..
आकाशलंघनं चैव स्वदेहे तन्निवेशनम् ॥ आकाशपिण्डीकरणमशरीरत्वमेव च ॥ ७.२,३८.२८॥
आकाश-लंघनम् च एव स्व-देहे तद्-निवेशनम् ॥ आकाश-पिण्डीकरणम् अशरीर-त्वम् एव च ॥ ७।२,३८।२८॥
ākāśa-laṃghanam ca eva sva-dehe tad-niveśanam .. ākāśa-piṇḍīkaraṇam aśarīra-tvam eva ca .. 7.2,38.28..
अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत् ॥ ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते ॥ ७.२,३८.२९॥
अनिल-ऐश्वर्य-संयुक्तम् चत्वारिंशद्गुणम् महत् ॥ ऐन्द्रम् ऐश्वर्यम् आख्यातम् आम्बरम् तत् प्रचक्षते ॥ ७।२,३८।२९॥
anila-aiśvarya-saṃyuktam catvāriṃśadguṇam mahat .. aindram aiśvaryam ākhyātam āmbaram tat pracakṣate .. 7.2,38.29..
यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥ सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम् ॥ ७.२,३८.३०॥
यथाकाम-उपलब्धिः च यथाकाम-विनिर्गमः ॥ सर्वस्य अभिभवः च एव सर्व-गुह्य-अर्थ-दर्शनम् ॥ ७।२,३८।३०॥
yathākāma-upalabdhiḥ ca yathākāma-vinirgamaḥ .. sarvasya abhibhavaḥ ca eva sarva-guhya-artha-darśanam .. 7.2,38.30..
कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥ संसारदर्शनं चैव भोगैरैन्द्रैस्समन्वितम् ॥ ७.२,३८.३१॥
॥ संसार-दर्शनम् च एव भोगैः ऐन्द्रैः समन्वितम् ॥ ७।२,३८।३१॥
.. saṃsāra-darśanam ca eva bhogaiḥ aindraiḥ samanvitam .. 7.2,38.31..
एतच्चांद्रमसैश्वर्यं मानसं गुणतो ऽधिकम् ॥ छेदनं ताडनं चैव बंधनं मोचनं तथा ॥ ७.२,३८.३२॥
एतत् चांद्रमस-ऐश्वर्यम् मानसम् गुणतः अधिकम् ॥ छेदनम् ताडनम् च एव बंधनम् मोचनम् तथा ॥ ७।२,३८।३२॥
etat cāṃdramasa-aiśvaryam mānasam guṇataḥ adhikam .. chedanam tāḍanam ca eva baṃdhanam mocanam tathā .. 7.2,38.32..
ग्रहणं सर्वभूतानां संसारवशवर्तिनाम् ॥ प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा ॥ ७.२,३८.३३॥
ग्रहणम् सर्व-भूतानाम् संसार-वश-वर्तिनाम् ॥ प्रसादः च अपि सर्वेषाम् मृत्यु-काल-जयः तथा ॥ ७।२,३८।३३॥
grahaṇam sarva-bhūtānām saṃsāra-vaśa-vartinām .. prasādaḥ ca api sarveṣām mṛtyu-kāla-jayaḥ tathā .. 7.2,38.33..
आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते ॥ एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् ॥ ७.२,३८.३४॥
आभिमानिकम् ऐश्वर्यम् प्राजापत्यम् प्रचक्षते ॥ एतत् चान्द्रमसैः भोगैः षट्पञ्चाशद्गुणम् महत् ॥ ७।२,३८।३४॥
ābhimānikam aiśvaryam prājāpatyam pracakṣate .. etat cāndramasaiḥ bhogaiḥ ṣaṭpañcāśadguṇam mahat .. 7.2,38.34..
सर्गः संकल्पमात्रेण त्राणं संहरणं तथा ॥ स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् ॥ ७.२,३८.३५॥
सर्गः संकल्प-मात्रेण त्राणम् संहरणम् तथा ॥ स्व-अधिकारः च सर्वेषाम् भूत-चित्त-प्रवर्तनम् ॥ ७।२,३८।३५॥
sargaḥ saṃkalpa-mātreṇa trāṇam saṃharaṇam tathā .. sva-adhikāraḥ ca sarveṣām bhūta-citta-pravartanam .. 7.2,38.35..
असादृश्यं च सर्वस्य निर्माणं जगतः पृथक् ॥ शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् ॥ ७.२,३८.३६॥
असादृश्यम् च सर्वस्य निर्माणम् जगतः पृथक् ॥ शुभ-अशुभस्य करणम् प्राजापत्यैः च संयुतम् ॥ ७।२,३८।३६॥
asādṛśyam ca sarvasya nirmāṇam jagataḥ pṛthak .. śubha-aśubhasya karaṇam prājāpatyaiḥ ca saṃyutam .. 7.2,38.36..
चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते ॥ बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः ॥ ७.२,३८.३७॥
चतुष्षष्ठि-गुणम् ब्राह्मम् ऐश्वर्यम् च प्रचक्षते ॥ बौद्धात् अस्मात् परम् गौणम् ऐश्वर्यम् प्राकृतम् विदुः ॥ ७।२,३८।३७॥
catuṣṣaṣṭhi-guṇam brāhmam aiśvaryam ca pracakṣate .. bauddhāt asmāt param gauṇam aiśvaryam prākṛtam viduḥ .. 7.2,38.37..
वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ॥ ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते ॥ ७.२,३८.३८॥
वैष्णवम् तत् समाख्यातम् तस्य एव भुवन-स्थितिः ॥ ब्रह्मणा तत् पदम् सर्वम् वक्तुम् अन्यैः न शक्यते ॥ ७।२,३८।३८॥
vaiṣṇavam tat samākhyātam tasya eva bhuvana-sthitiḥ .. brahmaṇā tat padam sarvam vaktum anyaiḥ na śakyate .. 7.2,38.38..
तत्पौरुषं च गौणं च गणेशं पदमैश्वरम् ॥ विष्णुना तत्पदं किंचिज्ज्ञातुमन्यैर्न शक्यते ॥ ७.२,३८.३९॥
तत् पौरुषम् च गौणम् च गणेशम् पदम् ऐश्वरम् ॥ विष्णुना तत् पदम् किंचिद् ज्ञातुम् अन्यैः न शक्यते ॥ ७।२,३८।३९॥
tat pauruṣam ca gauṇam ca gaṇeśam padam aiśvaram .. viṣṇunā tat padam kiṃcid jñātum anyaiḥ na śakyate .. 7.2,38.39..
विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः ॥ निरोद्धव्या प्रयत्नेन वर्राग्येण परेण तु ॥ ७.२,३८.४०॥
विज्ञान-सिद्धयः च एव सर्वाः एव औपसर्गिकाः ॥ निरोद्धव्या प्रयत्नेन परेण तु ॥ ७।२,३८।४०॥
vijñāna-siddhayaḥ ca eva sarvāḥ eva aupasargikāḥ .. niroddhavyā prayatnena pareṇa tu .. 7.2,38.40..
प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः ॥ न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम् ॥ ७.२,३८.४१॥
प्रतिभासेषु अशुद्धेषु गुणेषु आसक्त-चेतसः ॥ न सिध्येत् परम-ऐश्वर्यम् अभयम् सार्वकामिकम् ॥ ७।२,३८।४१॥
pratibhāseṣu aśuddheṣu guṇeṣu āsakta-cetasaḥ .. na sidhyet parama-aiśvaryam abhayam sārvakāmikam .. 7.2,38.41..
तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम् ॥ तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत् ॥ ७.२,३८.४२॥
तस्मात् गुणान् च भोगान् च देव-असुर-महीभृताम् ॥ तृण-वत् यः त्यजेत् तस्य योग-सिद्धिः परा भवेत् ॥ ७।२,३८।४२॥
tasmāt guṇān ca bhogān ca deva-asura-mahībhṛtām .. tṛṇa-vat yaḥ tyajet tasya yoga-siddhiḥ parā bhavet .. 7.2,38.42..
अथवानुग्रहेच्छायां जगतो विचरेन्मुनिः ॥ यथाकामंगुणान्भोगान्भुक्त्वा मुक्तिं प्रयास्यति ॥ ७.२,३८.४३॥
अथवा अनुग्रह-इच्छायाम् जगतः विचरेत् मुनिः ॥ यथाकामम् गुणान् भोगान् भुक्त्वा मुक्तिम् प्रयास्यति ॥ ७।२,३८।४३॥
athavā anugraha-icchāyām jagataḥ vicaret muniḥ .. yathākāmam guṇān bhogān bhuktvā muktim prayāsyati .. 7.2,38.43..
अथ प्रयोगं योगस्य वक्ष्ये शृणु समाहितः ॥ शुभे काले शुभे देशे शिवक्षेत्रादिके पुनः ॥ विजने जंतुरहिते निःशब्दे बाधवर्जिते ॥ ७.२,३८.४४॥
अथ प्रयोगम् योगस्य वक्ष्ये शृणु समाहितः ॥ शुभे काले शुभे देशे शिव-क्षेत्र-आदिके पुनर् ॥ विजने जंतु-रहिते निःशब्दे बाध-वर्जिते ॥ ७।२,३८।४४॥
atha prayogam yogasya vakṣye śṛṇu samāhitaḥ .. śubhe kāle śubhe deśe śiva-kṣetra-ādike punar .. vijane jaṃtu-rahite niḥśabde bādha-varjite .. 7.2,38.44..
सुप्रलिप्ते स्थले सौम्ये गन्धधूपादिवासिते ॥ मुक्तपुष्पसमाकीर्णे वितानादि विचित्रिते ॥ ७.२,३८.४५॥
सुप्रलिप्ते स्थले सौम्ये गन्ध-धूप-आदि-वासिते ॥ मुक्त-पुष्प-समाकीर्णे वितान-आदि विचित्रिते ॥ ७।२,३८।४५॥
supralipte sthale saumye gandha-dhūpa-ādi-vāsite .. mukta-puṣpa-samākīrṇe vitāna-ādi vicitrite .. 7.2,38.45..
कुशपुष्पसमित्तोयफलमूलसमन्विते ॥ नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचये ऽपि वा ॥ ७.२,३८.४६॥
कुश-पुष्प-समिध् तोय-फल-मूल-समन्विते ॥ न अग्नि-अभ्याशे जल-अभ्याशे शुष्क-पर्ण-चये अपि वा ॥ ७।२,३८।४६॥
kuśa-puṣpa-samidh toya-phala-mūla-samanvite .. na agni-abhyāśe jala-abhyāśe śuṣka-parṇa-caye api vā .. 7.2,38.46..
न दंशमशकाकीर्णे सर्पश्वापदसंकुले ॥ न च दुष्टमृगाकीर्णे न भये दुर्जनावृते ॥ ७.२,३८.४७॥
न दंश-मशक-आकीर्णे सर्प-श्वापद-संकुले ॥ न च दुष्ट-मृग-आकीर्णे न भये दुर्जन-आवृते ॥ ७।२,३८।४७॥
na daṃśa-maśaka-ākīrṇe sarpa-śvāpada-saṃkule .. na ca duṣṭa-mṛga-ākīrṇe na bhaye durjana-āvṛte .. 7.2,38.47..
श्मशाने चैत्यवल्मीके जीर्णागारे चतुष्पथे ॥ नदीनदसमुद्राणां तीरे रथ्यांतरे ऽपि वा ॥ ७.२,३८.४८॥
श्मशाने चैत्य-वल्मीके जीर्णागारे चतुष्पथे ॥ नदीनद-समुद्राणाम् तीरे रथ्या-अन्तरे अपि वा ॥ ७।२,३८।४८॥
śmaśāne caitya-valmīke jīrṇāgāre catuṣpathe .. nadīnada-samudrāṇām tīre rathyā-antare api vā .. 7.2,38.48..
न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निंदिते ॥ नाजीर्णाम्लरसोद्गारे न च विण्मूत्रदूषिते ॥ ७.२,३८.४९॥
न जीर्ण-उद्यान-गोष्ठ-आदौ न अनिष्टे न च निंदिते ॥ न अजीर्ण-अम्ल-रस-उद्गारे न च विष्-मूत्र-दूषिते ॥ ७।२,३८।४९॥
na jīrṇa-udyāna-goṣṭha-ādau na aniṣṭe na ca niṃdite .. na ajīrṇa-amla-rasa-udgāre na ca viṣ-mūtra-dūṣite .. 7.2,38.49..
नच्छर्द्यामातिसारे वा नातिभुक्तौ श्रमान्विते ॥ न चातिचिंताकुलितो न चातिक्षुत्पिपासितः ॥ ७.२,३८.५०॥
न छर्द्याम् आम-अतिसारे वा न अतिभुक्तौ श्रम-अन्विते ॥ न च अति चिंता-आकुलितः न च अति क्षुध्-पिपासितः ॥ ७।२,३८।५०॥
na chardyām āma-atisāre vā na atibhuktau śrama-anvite .. na ca ati ciṃtā-ākulitaḥ na ca ati kṣudh-pipāsitaḥ .. 7.2,38.50..
नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत् ॥ युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु ॥ ७.२,३८.५१॥
ना अपि स्व-गुरु-कर्म-आदौ प्रसक्तः योगम् आचरेत् ॥ युक्त-आहार-विहारः च युक्त-चेष्टः च कर्मसु ॥ ७।२,३८।५१॥
nā api sva-guru-karma-ādau prasaktaḥ yogam ācaret .. yukta-āhāra-vihāraḥ ca yukta-ceṣṭaḥ ca karmasu .. 7.2,38.51..
युक्तनिद्राप्रबोधश्च सर्वायासविवर्जितः ॥ आसनं मृदुलं रम्यं विपुलं सुसमं शुचि ॥ ७.२,३८.५२॥
युक्त-निद्रा-प्रबोधः च सर्व-आयास-विवर्जितः ॥ आसनम् मृदुलम् रम्यम् विपुलम् सु समम् शुचि ॥ ७।२,३८।५२॥
yukta-nidrā-prabodhaḥ ca sarva-āyāsa-vivarjitaḥ .. āsanam mṛdulam ramyam vipulam su samam śuci .. 7.2,38.52..
पद्मकस्वस्तिकादीनामभ्यसेदासनेषु च ॥ अभिवंद्य स्वगुर्वंतानभिवाद्याननुक्रमात् ॥ ७.२,३८.५३॥
पद्मक-स्वस्तिक-आदीनाम् अभ्यसेत् आसनेषु च ॥ अभिवंद्य स्व-गुरु-अंतान् अभिवाद्य अन् अनुक्रमात् ॥ ७।२,३८।५३॥
padmaka-svastika-ādīnām abhyaset āsaneṣu ca .. abhivaṃdya sva-guru-aṃtān abhivādya an anukramāt .. 7.2,38.53..
ऋजुग्रीवशिरोवक्षा नातिष्ठेच्छिष्टलोचनः ॥ किंचिदुन्नामितशिरा दंतैर्दंतान्न संस्पृशेत् ॥ ७.२,३८.५४॥
ऋजु-ग्रीव-शिरः-वक्षाः न आतिष्ठेत् शिष्ट-लोचनः ॥ किंचिद् उन्नामित-शिराः दंतैः दंतान् न संस्पृशेत् ॥ ७।२,३८।५४॥
ṛju-grīva-śiraḥ-vakṣāḥ na ātiṣṭhet śiṣṭa-locanaḥ .. kiṃcid unnāmita-śirāḥ daṃtaiḥ daṃtān na saṃspṛśet .. 7.2,38.54..
दंताग्रसंस्थिता जिह्वामचलां सन्निवेश्य च ॥ पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥ ७.२,३८.५५॥
दंत-अग्र-संस्थिता जिह्वाम् अचलाम् सन्निवेश्य च ॥ पार्ष्णिभ्याम् वृषणौ रक्षन् तथा प्रजननम् पुनर् ॥ ७।२,३८।५५॥
daṃta-agra-saṃsthitā jihvām acalām sanniveśya ca .. pārṣṇibhyām vṛṣaṇau rakṣan tathā prajananam punar .. 7.2,38.55..
ऊर्वोरुपरि संस्थाप्य बाहू तिर्यगयत्नतः ॥ दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि ॥ ७.२,३८.५६॥
ऊर्वोः उपरि संस्थाप्य बाहू तिर्यक् अयत्नतः ॥ दक्षिणम् कर-पृष्ठम् तु न्यस्य वाम-तल-उपरि ॥ ७।२,३८।५६॥
ūrvoḥ upari saṃsthāpya bāhū tiryak ayatnataḥ .. dakṣiṇam kara-pṛṣṭham tu nyasya vāma-tala-upari .. 7.2,38.56..
उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः ॥ संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ७.२,३८.५७॥
उन्नाम्य शनकैस् पृष्ठम् उरः विष्टभ्य च अग्रतस् ॥ संप्रेक्ष्य नासिका-अग्रम् स्वम् दिशः च अनवलोकयन् ॥ ७।२,३८।५७॥
unnāmya śanakais pṛṣṭham uraḥ viṣṭabhya ca agratas .. saṃprekṣya nāsikā-agram svam diśaḥ ca anavalokayan .. 7.2,38.57..
संभृतप्राणसंचारः पाषाण इव निश्चलः ॥ स्वदेहायतनस्यांतर्विचिंत्य शिवमंबया ॥ ७.२,३८.५८॥
संभृत-प्राण-संचारः पाषाणः इव निश्चलः ॥ स्व-देह-आयतनस्य अंतर् विचिंत्य शिवम् अंबया ॥ ७।२,३८।५८॥
saṃbhṛta-prāṇa-saṃcāraḥ pāṣāṇaḥ iva niścalaḥ .. sva-deha-āyatanasya aṃtar viciṃtya śivam aṃbayā .. 7.2,38.58..
हृत्पद्मपीठिकामध्ये ध्यानयज्ञेन पूजयेत् ॥ मूले नासाग्रतो नाभौ कंठे वा तालुरंध्रयोः ॥ ७.२,३८.५९॥
हृद्-पद्म-पीठिका-मध्ये ध्यान-यज्ञेन पूजयेत् ॥ मूले नासा-अग्रतस् नाभौ कंठे वा तालु-रंध्रयोः ॥ ७।२,३८।५९॥
hṛd-padma-pīṭhikā-madhye dhyāna-yajñena pūjayet .. mūle nāsā-agratas nābhau kaṃṭhe vā tālu-raṃdhrayoḥ .. 7.2,38.59..
भ्रूमध्ये द्वारदेशे वा ललाटे मूर्ध्नि वा स्मरेत् ॥ परिकल्प्य यथान्यायं शिवयोः परमासनम् ॥ ७.२,३८.६०॥
भ्रू-मध्ये द्वार-देशे वा ललाटे मूर्ध्नि वा स्मरेत् ॥ परिकल्प्य यथान्यायम् शिवयोः परम-आसनम् ॥ ७।२,३८।६०॥
bhrū-madhye dvāra-deśe vā lalāṭe mūrdhni vā smaret .. parikalpya yathānyāyam śivayoḥ parama-āsanam .. 7.2,38.60..
तत्र सावरणं वापि निरावरणमेव वा ॥ द्विदलेषोडशारे वा द्वादशारे यथाविधि ॥ ७.२,३८.६१॥
तत्र स आवरणम् वा अपि निरावरणम् एव वा ॥ द्विदलेषोडशारे वा द्वादशारे यथाविधि ॥ ७।२,३८।६१॥
tatra sa āvaraṇam vā api nirāvaraṇam eva vā .. dvidaleṣoḍaśāre vā dvādaśāre yathāvidhi .. 7.2,38.61..
दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत् ॥ भ्रुवोरंतरतः पद्मं द्विदलं तडिदुज्ज्वलम् ॥ ७.२,३८.६२॥
दश-अरे वा षष्-अस्रे वा चतुर्-अस्रे शिवम् स्मरेत् ॥ भ्रुवोः अन्तरतः पद्मम् द्वि-दलम् तडित् उज्ज्वलम् ॥ ७।२,३८।६२॥
daśa-are vā ṣaṣ-asre vā catur-asre śivam smaret .. bhruvoḥ antarataḥ padmam dvi-dalam taḍit ujjvalam .. 7.2,38.62..
भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे ॥ विद्युत्समानवर्णे च पर्णे वर्णावसानके ॥ ७.२,३८.६३॥
भ्रू-मध्यस्थ-अरविन्दस्य क्रमात् वै दक्षिण-उत्तरे ॥ विद्युत्-समान-वर्णे च पर्णे वर्ण-अवसानके ॥ ७।२,३८।६३॥
bhrū-madhyastha-aravindasya kramāt vai dakṣiṇa-uttare .. vidyut-samāna-varṇe ca parṇe varṇa-avasānake .. 7.2,38.63..
षोडशारस्य पत्राणि स्वराः षोडश तानि वै ॥ पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः ॥ ७.२,३८.६४॥
षोडश अरस्य पत्राणि स्वराः षोडश तानि वै ॥ पूर्व-आदीनि क्रमात् एतत् पद्मम् कन्दस्य मूलतः ॥ ७।२,३८।६४॥
ṣoḍaśa arasya patrāṇi svarāḥ ṣoḍaśa tāni vai .. pūrva-ādīni kramāt etat padmam kandasya mūlataḥ .. 7.2,38.64..
ककारादिटकारांता वर्णाः पर्णान्यनुक्रमात् ॥ भानुवर्णस्य पद्मस्य ध्येयं तद् हृदयान्तरे ॥ ७.२,३८.६५॥
ककार-आदि-टकार-अंताः वर्णाः पर्णानि अनुक्रमात् ॥ भानु-वर्णस्य पद्मस्य ध्येयम् तत् हृदय-अन्तरे ॥ ७।२,३८।६५॥
kakāra-ādi-ṭakāra-aṃtāḥ varṇāḥ parṇāni anukramāt .. bhānu-varṇasya padmasya dhyeyam tat hṛdaya-antare .. 7.2,38.65..
गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम् ॥ अधो दलस्याम्बुजस्य एतस्य च दलानि षट् ॥ ७.२,३८.६६॥
गो-क्षीर-धवलस्य उक्ताः ड-आदि-फ-अन्ताः यथाक्रमम् ॥ अधस् दलस्य अम्बुजस्य एतस्य च दलानि षड् ॥ ७।२,३८।६६॥
go-kṣīra-dhavalasya uktāḥ ḍa-ādi-pha-antāḥ yathākramam .. adhas dalasya ambujasya etasya ca dalāni ṣaḍ .. 7.2,38.66..
विधूमांगारवर्णस्य वर्णा वाद्याश्च लान्तिमाः ॥ मूलाधारारविंदस्य हेमाभस्य यथाक्रमम् ॥ ७.२,३८.६७॥
विधूम-अंगार-वर्णस्य वर्णाः वाद्याः च ॥ मूलाधार-अरविंदस्य हेम-आभस्य यथाक्रमम् ॥ ७।२,३८।६७॥
vidhūma-aṃgāra-varṇasya varṇāḥ vādyāḥ ca .. mūlādhāra-araviṃdasya hema-ābhasya yathākramam .. 7.2,38.67..
वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः ॥ एतेष्वथारविंदेषु यत्रैवाभिरतं मनः ॥ ७.२,३८.६८॥
वकार-आदि-सकार-अन्ताः वर्णाः पर्ण-मयाः स्थिताः ॥ एतेषु अथ अरविंदेषु यत्र एव अभिरतम् मनः ॥ ७।२,३८।६८॥
vakāra-ādi-sakāra-antāḥ varṇāḥ parṇa-mayāḥ sthitāḥ .. eteṣu atha araviṃdeṣu yatra eva abhiratam manaḥ .. 7.2,38.68..
तत्रैव देवं देवीं च चिंतयेद्धीरया धिया ॥ अंगुष्ठमात्रममलं दीप्यमानं समंततः ॥ ७.२,३८.६९॥
तत्र एव देवम् देवीम् च चिंतयेत् धीरया धिया ॥ अंगुष्ठ-मात्रम् अमलम् दीप्यमानम् समंततः ॥ ७।२,३८।६९॥
tatra eva devam devīm ca ciṃtayet dhīrayā dhiyā .. aṃguṣṭha-mātram amalam dīpyamānam samaṃtataḥ .. 7.2,38.69..
शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम् ॥ इन्दुरेखासमाकारं तारारूपमथापि वा ॥ ७.२,३८.६९॥
शुद्ध-दीप-शिखा-आकारम् स्व-शक्त्या पूर्ण-मण्डितम् ॥ इन्दु-रेखा-सम-आकारम् तारा-रूपम् अथ अपि वा ॥ ७।२,३८।६९॥
śuddha-dīpa-śikhā-ākāram sva-śaktyā pūrṇa-maṇḍitam .. indu-rekhā-sama-ākāram tārā-rūpam atha api vā .. 7.2,38.69..
नीवारशूकस्सदृशं बिससुत्राभमेव वा ॥ कदम्बगोलकाकारं तुषारकणिकोपमम् ॥ ७.२,३८.७०॥
नीवार-शूकः सदृशम् बिस-सुत्राभम् एव वा ॥ कदम्ब-गोलक-आकारम् तुषार-कणिका-उपमम् ॥ ७।२,३८।७०॥
nīvāra-śūkaḥ sadṛśam bisa-sutrābham eva vā .. kadamba-golaka-ākāram tuṣāra-kaṇikā-upamam .. 7.2,38.70..
क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति ॥ तत्तत्तत्त्वाधिपामेव मूर्तिं स्थूलां विचिंतयेत् ॥ ७.२,३८.७१॥
क्षिति-आदि-तत्त्व-विजयम् ध्याता यदि अपि वाञ्छति ॥ तद्-तद्-तत्त्व-अधिपाम् एव मूर्तिम् स्थूलाम् विचिंतयेत् ॥ ७।२,३८।७१॥
kṣiti-ādi-tattva-vijayam dhyātā yadi api vāñchati .. tad-tad-tattva-adhipām eva mūrtim sthūlām viciṃtayet .. 7.2,38.71..
सदाशिवांता ब्रह्माद्यभवाद्याश्चाष्टमूर्तयः ॥ शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः ॥ ७.२,३८.७२॥
सदाशिव-अंताः ब्रह्म-आद्य-भव-आद्याः च अष्ट-मूर्तयः ॥ शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः ॥ ७।२,३८।७२॥
sadāśiva-aṃtāḥ brahma-ādya-bhava-ādyāḥ ca aṣṭa-mūrtayaḥ .. śivasya mūrtayaḥ sthūlāḥ śivaśāstre viniścitāḥ .. 7.2,38.72..
घोरा मिश्रा प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः ॥ फलाभिलाषरहितैश्चिन्त्याश्चिन्ताविशारदैः ॥ ७.२,३८.७३॥
घोरा मिश्रा प्रशान्ताः च मूर्तयः ताः मुनि-ईश्वरैः ॥ फल-अभिलाष-रहितैः चिन्त्याः चिन्ता-विशारदैः ॥ ७।२,३८।७३॥
ghorā miśrā praśāntāḥ ca mūrtayaḥ tāḥ muni-īśvaraiḥ .. phala-abhilāṣa-rahitaiḥ cintyāḥ cintā-viśāradaiḥ .. 7.2,38.73..
घोराश्चेच्चिंतिताः कुर्युः पापरोगपरिक्षयम् ॥ चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि ॥ ७.२,३८.७४॥
घोराः चेद् चिंतिताः कुर्युः पाप-रोग-परिक्षयम् ॥ चिरेण मिश्रे सौम्ये तु न सद्यस् न चिरात् अपि ॥ ७।२,३८।७४॥
ghorāḥ ced ciṃtitāḥ kuryuḥ pāpa-roga-parikṣayam .. cireṇa miśre saumye tu na sadyas na cirāt api .. 7.2,38.74..
सौम्ये मुक्तिर्विशेषेण शांतिः प्रज्ञा प्रसिध्यति ॥ सिध्यंति सिद्धयश्चात्र क्रमशो नात्र संशयः ॥ ७.२,३८.७५॥
सौम्ये मुक्तिः विशेषेण शांतिः प्रज्ञा प्रसिध्यति ॥ सिध्यंति सिद्धयः च अत्र क्रमशस् न अत्र संशयः ॥ ७।२,३८।७५॥
saumye muktiḥ viśeṣeṇa śāṃtiḥ prajñā prasidhyati .. sidhyaṃti siddhayaḥ ca atra kramaśas na atra saṃśayaḥ .. 7.2,38.75..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे योगगतौ विघ्नोत्पत्तिवर्णनं नामाष्टत्रिंशोऽध्यायः ७.२,३८.७७॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे योगगतौ विघ्नोत्पत्तिवर्णनम् नाम अष्टत्रिंशः अध्यायः।२,३८।७७॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe yogagatau vighnotpattivarṇanam nāma aṣṭatriṃśaḥ adhyāyaḥ.2,38.77..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In