| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच
श्रीकंठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः ॥ ॥
श्रीकंठनाथम् स्मरताम् सद्यस् सर्व-अर्थ-सिद्धयः ॥ ॥
śrīkaṃṭhanātham smaratām sadyas sarva-artha-siddhayaḥ .. ..
प्रसिध्यंतीति मत्वैके तं वै ध्यायंति योगिनः ॥ स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते ॥ ॥
प्रसिध्यंति इति मत्वा एके तम् वै ध्यायंति योगिनः ॥ स्थिति-अर्थम् मनसः केचिद् स्थूलध्यानम् प्रकुर्वते ॥ ॥
prasidhyaṃti iti matvā eke tam vai dhyāyaṃti yoginaḥ .. sthiti-artham manasaḥ kecid sthūladhyānam prakurvate .. ..
स्थूलं तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम् ॥ शिवे तु चिंतिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः ॥ ॥
स्थूलम् तु निश्चलम् चेतः भवेत् सूक्ष्मे तु तत् स्थिरम् ॥ शिवे तु चिंतिते साक्षात् सर्वाः सिध्यन्ति सिद्धयः ॥ ॥
sthūlam tu niścalam cetaḥ bhavet sūkṣme tu tat sthiram .. śive tu ciṃtite sākṣāt sarvāḥ sidhyanti siddhayaḥ .. ..
मूर्त्यंतरेषु ध्यातेषु शिवरूपं विचिंतयेत् ॥ लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः ॥ ७.२,३९.१॥
मूर्ति-अंतरेषु ध्यातेषु शिव-रूपम् विचिंतयेत् ॥ लक्षयेत् मनसः स्थैर्यम् तत् तत् ध्यायेत् पुनर् पुनर् ॥ ७।२,३९।१॥
mūrti-aṃtareṣu dhyāteṣu śiva-rūpam viciṃtayet .. lakṣayet manasaḥ sthairyam tat tat dhyāyet punar punar .. 7.2,39.1..
ध्यानमादौ सविषयं ततो निर्विषयं जगुः ॥ तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् ॥ ७.२,३९.२॥
ध्यानम् आदौ स विषयम् ततस् निर्विषयम् जगुः ॥ तत्र निर्विषयम् ध्यानम् न अस्ति इति एव सताम् मतम् ॥ ७।२,३९।२॥
dhyānam ādau sa viṣayam tatas nirviṣayam jaguḥ .. tatra nirviṣayam dhyānam na asti iti eva satām matam .. 7.2,39.2..
बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते ॥ तेन निर्विषया बुद्धिः केवलेह प्रवर्तते ॥ ७.२,३९.३॥
बुद्धेः हि सन्ततिः काचिद् ध्यानम् इति अभिधीयते ॥ तेन निर्विषया बुद्धिः केवला इह प्रवर्तते ॥ ७।२,३९।३॥
buddheḥ hi santatiḥ kācid dhyānam iti abhidhīyate .. tena nirviṣayā buddhiḥ kevalā iha pravartate .. 7.2,39.3..
तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम् ॥ सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः ॥ ७.२,३९.४॥
तस्मात् स विषयम् ध्यानम् बाल-अर्क-किरण-आश्रयम् ॥ सूक्ष्म-आश्रयम् निर्विषयम् न अपरम् परमार्थतः ॥ ७।२,३९।४॥
tasmāt sa viṣayam dhyānam bāla-arka-kiraṇa-āśrayam .. sūkṣma-āśrayam nirviṣayam na aparam paramārthataḥ .. 7.2,39.4..
यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम् ॥ निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् ॥ ७.२,३९.५॥
यत् वा स विषयम् ध्यानम् तत् स आकार-समाश्रयम् ॥ निराकार-आत्म-संवित्तिः ध्यानम् निर्विषयम् मतम् ॥ ७।२,३९।५॥
yat vā sa viṣayam dhyānam tat sa ākāra-samāśrayam .. nirākāra-ātma-saṃvittiḥ dhyānam nirviṣayam matam .. 7.2,39.5..
निर्बीजं च सबीजं च तदेव ध्यानमुच्यते ॥ निराकारश्रयत्वेन साकाराश्रयतस्तथा ॥ ७.२,३९.६॥
निर्बीजम् च स बीजम् च तत् एव ध्यानम् उच्यते ॥ निराकार-श्रय-त्वेन स आकार-आश्रयतः तथा ॥ ७।२,३९।६॥
nirbījam ca sa bījam ca tat eva dhyānam ucyate .. nirākāra-śraya-tvena sa ākāra-āśrayataḥ tathā .. 7.2,39.6..
तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम् ॥ अंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये ॥ ७.२,३९.७॥
तस्मात् स विषयम् ध्यानम् आदौ कृत्वा स बीजकम् ॥ अन्ते निर्विषयम् कुर्यात् निर्बीजम् सर्व-सिद्धये ॥ ७।२,३९।७॥
tasmāt sa viṣayam dhyānam ādau kṛtvā sa bījakam .. ante nirviṣayam kuryāt nirbījam sarva-siddhaye .. 7.2,39.7..
प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात् ॥ शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम् ॥ ७.२,३९.८॥
प्राणायामेन सिध्यंति देव्याः शांति-आदयः क्रमात् ॥ शांतिः प्रशांतिः दीप्तिः च प्रसादः च ततस् परम् ॥ ७।२,३९।८॥
prāṇāyāmena sidhyaṃti devyāḥ śāṃti-ādayaḥ kramāt .. śāṃtiḥ praśāṃtiḥ dīptiḥ ca prasādaḥ ca tatas param .. 7.2,39.8..
शमः सर्वापदां चैव शांतिरित्यभिधीयते ॥ तमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते ॥ ७.२,३९.९॥
शमः सर्व-आपदाम् च एव शांतिः इति अभिधीयते ॥ तमसः अन्त-बहिस् नाशः प्रशान्तिः परिगीयते ॥ ७।२,३९।९॥
śamaḥ sarva-āpadām ca eva śāṃtiḥ iti abhidhīyate .. tamasaḥ anta-bahis nāśaḥ praśāntiḥ parigīyate .. 7.2,39.9..
बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते ॥ स्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः ॥ ७.२,३९.१०॥
बहिस् अन्तर् प्रकाशः यः दीप्तिः इति अभिधीयते ॥ स्वस्थ-ता या तु सा बुद्धः प्रसादः परिकीर्तितः ॥ ७।२,३९।१०॥
bahis antar prakāśaḥ yaḥ dīptiḥ iti abhidhīyate .. svastha-tā yā tu sā buddhaḥ prasādaḥ parikīrtitaḥ .. 7.2,39.10..
कारणानि च सर्वाणि सबाह्याभ्यंतराणि च ॥ बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ॥ ७.२,३९.११॥
कारणानि च सर्वाणि स बाह्य-अभ्यंतराणि च ॥ बुद्धेः प्रसादतः क्षिप्रम् प्रसन्नानि भवन्ति उत ॥ ७।२,३९।११॥
kāraṇāni ca sarvāṇi sa bāhya-abhyaṃtarāṇi ca .. buddheḥ prasādataḥ kṣipram prasannāni bhavanti uta .. 7.2,39.11..
ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् ॥ एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् ॥ ७.२,३९.१२॥
ध्याता ध्यानम् तथा ध्येयम् यत् वा ध्यान-प्रयोजनम् ॥ एतत् चतुष्टयम् ज्ञात्वा ध्याता ध्यानम् समाचरेत् ॥ ७।२,३९।१२॥
dhyātā dhyānam tathā dhyeyam yat vā dhyāna-prayojanam .. etat catuṣṭayam jñātvā dhyātā dhyānam samācaret .. 7.2,39.12..
ज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः ॥ श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः ॥ ७.२,३९.१३॥
ज्ञान-वैराग्य-संपन्नः नित्यम् अव्यग्र-मानसः ॥ श्रद्दधानः प्रसन्न-आत्मा ध्याता सद्भिः उदाहृतः ॥ ७।२,३९।१३॥
jñāna-vairāgya-saṃpannaḥ nityam avyagra-mānasaḥ .. śraddadhānaḥ prasanna-ātmā dhyātā sadbhiḥ udāhṛtaḥ .. 7.2,39.13..
ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ योगाभ्यासस्तथाल्पे ऽपि यथा पापं विनाशयेत् ॥ ७.२,३९.१४॥
चिंतायाम् स्मृतः धातुः शिव-चिंता मुहुर् मुहुर् ॥ योग-अभ्यासः तथा अल्पे अपि यथा पापम् विनाशयेत् ॥ ७।२,३९।१४॥
ciṃtāyām smṛtaḥ dhātuḥ śiva-ciṃtā muhur muhur .. yoga-abhyāsaḥ tathā alpe api yathā pāpam vināśayet .. 7.2,39.14..
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते ॥ ७.२,३९.१५॥
ध्यायतः क्षण-मात्रम् वा श्रद्धया परमेश्वरम् ॥ अव्याक्षिप्तेन मनसा ध्यानम् इति अभिधीयते ॥ ७।२,३९।१५॥
dhyāyataḥ kṣaṇa-mātram vā śraddhayā parameśvaram .. avyākṣiptena manasā dhyānam iti abhidhīyate .. 7.2,39.15..
बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलंबनम् ॥ ध्येयमित्युच्यते सद्भिस्तच्च सांबः स्वयं शिवः ॥ ७.२,३९.१६॥
बुद्धि-प्रवाह-रूपस्य ध्यानस्य अस्य अवलंबनम् ॥ ध्येयम् इति उच्यते सद्भिः तत् च स अंबः स्वयम् शिवः ॥ ७।२,३९।१६॥
buddhi-pravāha-rūpasya dhyānasya asya avalaṃbanam .. dhyeyam iti ucyate sadbhiḥ tat ca sa aṃbaḥ svayam śivaḥ .. 7.2,39.16..
विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम् ॥ शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम् ॥ ७.२,३९.१७॥
विमुक्ति-प्रत्ययम् पूर्णम् ऐश्वर्यम् च अणिम-आदिकम् ॥ शिव-ध्यानस्य पूर्णस्य साक्षात् उक्तम् प्रयोजनम् ॥ ७।२,३९।१७॥
vimukti-pratyayam pūrṇam aiśvaryam ca aṇima-ādikam .. śiva-dhyānasya pūrṇasya sākṣāt uktam prayojanam .. 7.2,39.17..
यस्मात्सौख्यं च मोक्षं च ध्यानादभयमाप्नुयात् ॥ तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः ॥ ७.२,३९.१९॥
यस्मात् सौख्यम् च मोक्षम् च ध्यानात् अभयम् आप्नुयात् ॥ तस्मात् सर्वम् परित्यज्य ध्यान-युक्तः भवेत् नरः ॥ ७।२,३९।१९॥
yasmāt saukhyam ca mokṣam ca dhyānāt abhayam āpnuyāt .. tasmāt sarvam parityajya dhyāna-yuktaḥ bhavet naraḥ .. 7.2,39.19..
नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः ॥ ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ ७.२,३९.२०॥
न अस्ति ध्यानम् विना ज्ञानम् न अस्ति ध्यानम् अयोगिनः ॥ ध्यानम् ज्ञानम् च यस्य अस्ति तीर्णः तेन भव-अर्णवः ॥ ७।२,३९।२०॥
na asti dhyānam vinā jñānam na asti dhyānam ayoginaḥ .. dhyānam jñānam ca yasya asti tīrṇaḥ tena bhava-arṇavaḥ .. 7.2,39.20..
ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम् ॥ योगाभ्यासेन युक्तस्य योगिनस्त्वेव सिध्यति ॥ ७.२,३९.२१॥
ज्ञानम् प्रसन्नम् एकाग्रम् अशेष-उपाधि-वर्जितम् ॥ योग-अभ्यासेन युक्तस्य योगिनः तु एव सिध्यति ॥ ७।२,३९।२१॥
jñānam prasannam ekāgram aśeṣa-upādhi-varjitam .. yoga-abhyāsena yuktasya yoginaḥ tu eva sidhyati .. 7.2,39.21..
प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः ॥ पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा ॥ ७.२,३९.२२॥
प्रक्षीण-अशेष-पापानाम् ज्ञाने ध्याने भवेत् मतिः ॥ पाप-उपहत-बुद्धीनाम् तद्-वार्ता अपि सु दुर्लभा ॥ ७।२,३९।२२॥
prakṣīṇa-aśeṣa-pāpānām jñāne dhyāne bhavet matiḥ .. pāpa-upahata-buddhīnām tad-vārtā api su durlabhā .. 7.2,39.22..
यथावह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत् ॥ तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात् ॥ ७.२,३९.२३॥
यथा वह्निः महा-दीप्तः शुष्कम् आर्द्रम् च निर्दहेत् ॥ तथा शुभ-अशुभम् कर्म ध्यान-अग्निः दहते क्षणात् ॥ ७।२,३९।२३॥
yathā vahniḥ mahā-dīptaḥ śuṣkam ārdram ca nirdahet .. tathā śubha-aśubham karma dhyāna-agniḥ dahate kṣaṇāt .. 7.2,39.23..
अत्यल्पो ऽपि यथा दीपः सुमहन्नाशयेत्तमः ॥ योगाभ्यासस्तथाल्पो ऽपि महापापं विनाशयेत् ॥ ७.२,३९.२४॥
अति अल्पः अपि यथा दीपः सु महत् नाशयेत् तमः ॥ योग-अभ्यासः तथा अल्पः अपि महा-पापम् विनाशयेत् ॥ ७।२,३९।२४॥
ati alpaḥ api yathā dīpaḥ su mahat nāśayet tamaḥ .. yoga-abhyāsaḥ tathā alpaḥ api mahā-pāpam vināśayet .. 7.2,39.24..
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ यद्भवेत्सुमहच्छ्रेयस्तस्यांतो नैव विद्यते ॥ ७.२,३९.२५॥
ध्यायतः क्षण-मात्रम् वा श्रद्धया परमेश्वरम् ॥ यत् भवेत् सु महत् श्रेयः तस्य अन्तर् ना एव विद्यते ॥ ७।२,३९।२५॥
dhyāyataḥ kṣaṇa-mātram vā śraddhayā parameśvaram .. yat bhavet su mahat śreyaḥ tasya antar nā eva vidyate .. 7.2,39.25..
नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः ॥ नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत् ॥ ७.२,३९.२६॥
न अस्ति ध्यान-समम् तीर्थम् न अस्ति ध्यान-समम् तपः ॥ न अस्ति ध्यान-समः यज्ञः तस्मात् ध्यानम् समाचरेत् ॥ ७।२,३९।२६॥
na asti dhyāna-samam tīrtham na asti dhyāna-samam tapaḥ .. na asti dhyāna-samaḥ yajñaḥ tasmāt dhyānam samācaret .. 7.2,39.26..
तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् ॥ योगिनो न प्रपद्यंते स्वात्मप्रत्ययकारणात् ॥ ७.२,३९.२७॥
तीर्थानि तोय-पूर्णानि देवान् पाषाण-मृद्-मयान् ॥ योगिनः न प्रपद्यंते स्व-आत्म-प्रत्यय-कारणात् ॥ ७।२,३९।२७॥
tīrthāni toya-pūrṇāni devān pāṣāṇa-mṛd-mayān .. yoginaḥ na prapadyaṃte sva-ātma-pratyaya-kāraṇāt .. 7.2,39.27..
योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम् ॥ ७.२,३९.२८॥
योगिनाम् च वपुः सूक्ष्मम् भवेत् प्रत्यक्षम् ऐश्वरम् ॥ यथा स्थूलम् अयुक्तानाम् मृद्-काष्ठ-आद्यैः प्रकल्पितम् ॥ ७।२,३९।२८॥
yoginām ca vapuḥ sūkṣmam bhavet pratyakṣam aiśvaram .. yathā sthūlam ayuktānām mṛd-kāṣṭha-ādyaiḥ prakalpitam .. 7.2,39.28..
यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ॥ तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः ॥ ७.२,३९.२९॥
यथा इह अंतर् चराः राज्ञः प्रियाः स्युः न बहिश्चराः ॥ तथा अंतर् ध्यान-निरताः प्रियाः शंभोः न कर्मिणः ॥ ७।२,३९।२९॥
yathā iha aṃtar carāḥ rājñaḥ priyāḥ syuḥ na bahiścarāḥ .. tathā aṃtar dhyāna-niratāḥ priyāḥ śaṃbhoḥ na karmiṇaḥ .. 7.2,39.29..
बहिस्करा यथा लोके नातीव फलभोगिनः ॥ दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ७.२,३९.३०॥
बहिस्कराः यथा लोके न अतीव फल-भोगिनः ॥ दृष्ट्वा नरेन्द्र-भवने तद्वत् अत्र अपि कर्मिणः ॥ ७।२,३९।३०॥
bahiskarāḥ yathā loke na atīva phala-bhoginaḥ .. dṛṣṭvā narendra-bhavane tadvat atra api karmiṇaḥ .. 7.2,39.30..
यद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः ॥ योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ॥ ७.२,३९.३१॥
यदि अंतरा विपद्यंते ज्ञान-योग-अर्थम् उद्यतः ॥ योगस्य उद्योग-मात्रेण रुद्र-लोकम् गमिष्यति ॥ ७।२,३९।३१॥
yadi aṃtarā vipadyaṃte jñāna-yoga-artham udyataḥ .. yogasya udyoga-mātreṇa rudra-lokam gamiṣyati .. 7.2,39.31..
अनुभूय सुखं तत्र स जातो योगिनां कुले ॥ ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते ॥ ७.२,३९.३२॥
अनुभूय सुखम् तत्र स जातः योगिनाम् कुले ॥ ज्ञान-योगम् पुनर् लब्ध्वा संसारम् अतिवर्तते ॥ ७।२,३९।३२॥
anubhūya sukham tatra sa jātaḥ yoginām kule .. jñāna-yogam punar labdhvā saṃsāram ativartate .. 7.2,39.32..
जिज्ञासुरपि योगस्य यां गतिं लभते नरः ॥ न तां गतिमवाप्नोति सर्वैरपि महामखैः ॥ ७.२,३९.३३॥
जिज्ञासुः अपि योगस्य याम् गतिम् लभते नरः ॥ न ताम् गतिम् अवाप्नोति सर्वैः अपि महा-मखैः ॥ ७।२,३९।३३॥
jijñāsuḥ api yogasya yām gatim labhate naraḥ .. na tām gatim avāpnoti sarvaiḥ api mahā-makhaiḥ .. 7.2,39.33..
द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम् ॥ भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने ॥ ७.२,३९.३४॥
द्विजानाम् वेद-विदुषाम् कोटिम् संपूज्य यत् फलम् ॥ भिक्षा-मात्र-प्रदानेन तत् फलम् शिव-योगिने ॥ ७।२,३९।३४॥
dvijānām veda-viduṣām koṭim saṃpūjya yat phalam .. bhikṣā-mātra-pradānena tat phalam śiva-yogine .. 7.2,39.34..
यज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम् ॥ योगिनामन्नदानेन तत्समस्तं फलं लभेत् ॥ ७.२,३९.३५॥
यज्ञ-अग्निहोत्र-दानेन तीर्थ-होमेषु यत् फलम् ॥ योगिनाम् अन्न-दानेन तत् समस्तम् फलम् लभेत् ॥ ७।२,३९।३५॥
yajña-agnihotra-dānena tīrtha-homeṣu yat phalam .. yoginām anna-dānena tat samastam phalam labhet .. 7.2,39.35..
ये चापवादं कुर्वंति विमूढाश्शिवयोगिनाम् ॥ श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात् ॥ ७.२,३९.३६॥
ये च अपवादम् कुर्वन्ति विमूढाः शिव-योगिनाम् ॥ श्रोतृभिः ते प्रपद्यन्ते नरकेषु आ मही-क्षयात् ॥ ७।२,३९।३६॥
ye ca apavādam kurvanti vimūḍhāḥ śiva-yoginām .. śrotṛbhiḥ te prapadyante narakeṣu ā mahī-kṣayāt .. 7.2,39.36..
सति श्रोतरि वक्तास्यादपवादस्य योगिनाम् ॥ तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः ॥ ये पुनः सततं भक्त्या भजंति शवयोगिनः ॥ ७.२,३९.३७॥
सति श्रोतरि वक्ता आस्यात् अपवादस्य योगिनाम् ॥ तस्मात् श्रोता च पापीयान् दण्ड्यः सु महताम् मतः ॥ ये पुनर् सततम् भक्त्या भजन्ति शव-योगिनः ॥ ७।२,३९।३७॥
sati śrotari vaktā āsyāt apavādasya yoginām .. tasmāt śrotā ca pāpīyān daṇḍyaḥ su mahatām mataḥ .. ye punar satatam bhaktyā bhajanti śava-yoginaḥ .. 7.2,39.37..
ते विदंति महाभोगानंते योगं च शांकरम् ॥ भोगार्थिभिर्नरैस्तस्मात्संपूज्याः शिवयोगिनः ॥ ७.२,३९.३८॥
ते विदंति महा-भोगान् अन्ते योगम् च शांकरम् ॥ भोग-अर्थिभिः नरैः तस्मात् संपूज्याः शिव-योगिनः ॥ ७।२,३९।३८॥
te vidaṃti mahā-bhogān ante yogam ca śāṃkaram .. bhoga-arthibhiḥ naraiḥ tasmāt saṃpūjyāḥ śiva-yoginaḥ .. 7.2,39.38..
प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः ॥ योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः ॥ ७.२,३९.३९॥
प्रतिश्रय-अन्न-पान-आद्यैः शय्या-प्रावरण-आदिभिः ॥ योग-धर्मः स सार-त्वात् अभेद्यः पाप-मुद्गरैः ॥ ७।२,३९।३९॥
pratiśraya-anna-pāna-ādyaiḥ śayyā-prāvaraṇa-ādibhiḥ .. yoga-dharmaḥ sa sāra-tvāt abhedyaḥ pāpa-mudgaraiḥ .. 7.2,39.39..
वज्रतंदुलवज्ज्ञेयं तथा पापेन योगिनः ॥ न लिप्यंते च तापौघैः पद्मपत्रं यथांभसा ॥ ७.२,३९.४०॥
वज्र-तंदुल-वत् ज्ञेयम् तथा पापेन योगिनः ॥ न लिप्यंते च ताप-ओघैः पद्म-पत्रम् यथा अंभसा ॥ ७।२,३९।४०॥
vajra-taṃdula-vat jñeyam tathā pāpena yoginaḥ .. na lipyaṃte ca tāpa-oghaiḥ padma-patram yathā aṃbhasā .. 7.2,39.40..
यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः ॥ सो ऽपि देशो भवेत्पूतः सपूत इति किं पुनः ॥ ७.२,३९.४१॥
यस्मिन् देशे वसेत् नित्यम् शिव-योग-रतः मुनिः ॥ सः अपि देशः भवेत् पूतः स पूतः इति किम् पुनर् ॥ ७।२,३९।४१॥
yasmin deśe vaset nityam śiva-yoga-rataḥ muniḥ .. saḥ api deśaḥ bhavet pūtaḥ sa pūtaḥ iti kim punar .. 7.2,39.41..
तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः ॥ सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत् ॥ ७.२,३९.४२॥
तस्मात् सर्वम् परित्यज्य कृत्यम् अन्यत् विचक्षणः ॥ सर्व-दुःख-प्रहाणाय शिव-योगम् समभ्यसेत् ॥ ७।२,३९।४२॥
tasmāt sarvam parityajya kṛtyam anyat vicakṣaṇaḥ .. sarva-duḥkha-prahāṇāya śiva-yogam samabhyaset .. 7.2,39.42..
सिद्धयोगफलो योगी लोकानां हितकाम्यया ॥ भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम् ॥ ७.२,३९.४३॥
सिद्ध-योग-फलः योगी लोकानाम् हित-काम्यया ॥ भोगान् भुक्त्वा यथाकामम् विहरेत् वा अत्र वर्तताम् ॥ ७।२,३९।४३॥
siddha-yoga-phalaḥ yogī lokānām hita-kāmyayā .. bhogān bhuktvā yathākāmam viharet vā atra vartatām .. 7.2,39.43..
अथवा क्षुद्रमित्येव मत्वा वैषयिकं सुखम् ॥ त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम् ॥ ७.२,३९.४४॥
अथवा क्षुद्रम् इति एव मत्वा वैषयिकम् सुखम् ॥ त्यक्त्वा विराग-योगेन स्व-इच्छया कर्म मुच्यताम् ॥ ७।२,३९।४४॥
athavā kṣudram iti eva matvā vaiṣayikam sukham .. tyaktvā virāga-yogena sva-icchayā karma mucyatām .. 7.2,39.44..
यस्त्वासन्नां मृतिं मर्त्यो दृष्टारिष्टं च भूयसा ॥ स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत् ॥ ७.२,३९.४५॥
यः तु आसन्नाम् मृतिम् मर्त्यः दृष्ट-अरिष्टम् च भूयसा ॥ स योग-आरम्भ-निरतः शिव-क्षेत्रम् समाश्रयेत् ॥ ७।२,३९।४५॥
yaḥ tu āsannām mṛtim martyaḥ dṛṣṭa-ariṣṭam ca bhūyasā .. sa yoga-ārambha-nirataḥ śiva-kṣetram samāśrayet .. 7.2,39.45..
स तत्र निवसन्नेव यदि धीरमना नरः ॥ प्राणान्विनापि रोगाद्यैः स्वयमेव परित्यजेत् ॥ ७.२,३९.४६॥
स तत्र निवसन् एव यदि धीर-मनाः नरः ॥ प्राणान् विना अपि रोग-आद्यैः स्वयम् एव परित्यजेत् ॥ ७।२,३९।४६॥
sa tatra nivasan eva yadi dhīra-manāḥ naraḥ .. prāṇān vinā api roga-ādyaiḥ svayam eva parityajet .. 7.2,39.46..
कृत्वाप्यनशनं चैव हुत्वा चांगं शिवानले ॥ क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात् ॥ ७.२,३९.४७॥
कृत्वा अपि अनशनम् च एव हुत्वा च अंगम् शिव-अनले ॥ क्षिप्त्वा वा शिव-तीर्थेषु स्व-देहम् अवगाहनात् ॥ ७।२,३९।४७॥
kṛtvā api anaśanam ca eva hutvā ca aṃgam śiva-anale .. kṣiptvā vā śiva-tīrtheṣu sva-deham avagāhanāt .. 7.2,39.47..
शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत् ॥ सद्य एव विमुच्येत नात्र कार्या विचारणा ॥ <न चासावात्मघातक इति पाठान्तरम्> ७.२,३९.४८॥
शिवशास्त्र-उक्त-विधिवत् प्राणान् यः तु परित्यजेत् ॥ सद्यस् एव विमुच्येत न अत्र कार्या विचारणा ॥ <न च असौ आत्म-घातकः इति पाठ-अन्तरम्।२,३९।४८॥
śivaśāstra-ukta-vidhivat prāṇān yaḥ tu parityajet .. sadyas eva vimucyeta na atra kāryā vicāraṇā .. <na ca asau ātma-ghātakaḥ iti pāṭha-antaram.2,39.48..
रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः ॥ म्रियते यदि सोप्येवं मुच्यते नात्र संशयः ॥ ७.२,३९.४९॥
रोग-आद्यैः वा अथ विवशः शिव-क्षेत्रम् समाश्रितः ॥ म्रियते यदि सः उपि एवम् मुच्यते न अत्र संशयः ॥ ७।२,३९।४९॥
roga-ādyaiḥ vā atha vivaśaḥ śiva-kṣetram samāśritaḥ .. mriyate yadi saḥ upi evam mucyate na atra saṃśayaḥ .. 7.2,39.49..
यथा हि मरणं श्रेष्ठमुशंत्यनशनादिभिः ॥ शास्त्रविश्रंभधीरेण मनसा क्रियते यतः ॥ ७.२,३९.५०॥
यथा हि मरणम् श्रेष्ठम् उशंति अनशन-आदिभिः ॥ शास्त्र-विश्रंभ-धीरेण मनसा क्रियते यतस् ॥ ७।२,३९।५०॥
yathā hi maraṇam śreṣṭham uśaṃti anaśana-ādibhiḥ .. śāstra-viśraṃbha-dhīreṇa manasā kriyate yatas .. 7.2,39.50..
शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा ॥ यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते ॥ ७.२,३९.५१॥
शिव-निन्दा-रतम् हत्वा पीडितः स्वयम् एव वा ॥ यः त्यजेत् दुस्त्यजान् प्राणान् न स भूयस् प्रजायते ॥ ७।२,३९।५१॥
śiva-nindā-ratam hatvā pīḍitaḥ svayam eva vā .. yaḥ tyajet dustyajān prāṇān na sa bhūyas prajāyate .. 7.2,39.51..
शिवनिन्दारतं हंतुमशक्तो यः स्वयं मृतः ॥ सद्य एव प्रमुच्येत त्रिः सप्तकुलसंयुतः ॥ ७.२,३९.५२॥
शिव-निन्दा-रतम् हंतुम् अशक्तः यः स्वयम् मृतः ॥ सद्यस् एव प्रमुच्येत त्रिस् सप्त-कुल-संयुतः ॥ ७।२,३९।५२॥
śiva-nindā-ratam haṃtum aśaktaḥ yaḥ svayam mṛtaḥ .. sadyas eva pramucyeta tris sapta-kula-saṃyutaḥ .. 7.2,39.52..
शिवार्थे यस्त्यजेत्प्राणाञ्छिवभक्तार्थमेव वा ॥ न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः ॥ ७.२,३९.५३॥
शिव-अर्थे यः त्यजेत् प्राणान् शिव-भक्त-अर्थम् एव वा ॥ न तेन सदृशः कश्चिद् मुक्ति-मार्ग-स्थितः नरः ॥ ७।२,३९।५३॥
śiva-arthe yaḥ tyajet prāṇān śiva-bhakta-artham eva vā .. na tena sadṛśaḥ kaścid mukti-mārga-sthitaḥ naraḥ .. 7.2,39.53..
तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमंडलात् ॥ एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा ॥ ७.२,३९.५४॥
तस्मात् शीघ्रतरा मुक्तिः तस्य संसार-मंडलात् ॥ एतेषु अन्यतम-उपायम् कथम् अपि अवलम्ब्य वा ॥ ७।२,३९।५४॥
tasmāt śīghratarā muktiḥ tasya saṃsāra-maṃḍalāt .. eteṣu anyatama-upāyam katham api avalambya vā .. 7.2,39.54..
षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि ॥ पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम् ॥ ७.२,३९.५५॥
षडध्व-शुद्धिम् विधिवत् प्राप्तः वा म्रियते यदि ॥ पशूनाम् इव तस्य इह न कुर्यात् और्ध्वदैहिकम् ॥ ७।२,३९।५५॥
ṣaḍadhva-śuddhim vidhivat prāptaḥ vā mriyate yadi .. paśūnām iva tasya iha na kuryāt aurdhvadaihikam .. 7.2,39.55..
नैवाशौचं प्रपद्येत तत्पुत्रादिविशेषतः ॥ शिवचारार्थमथवा शिवविद्यार्थमेव वा ॥ ७.२,३९.५६॥
न एव आशौचम् प्रपद्येत तद्-पुत्र-आदि-विशेषतः ॥ शिव-चार-अर्थम् अथवा शिव-विद्या-अर्थम् एव वा ॥ ७।२,३९।५६॥
na eva āśaucam prapadyeta tad-putra-ādi-viśeṣataḥ .. śiva-cāra-artham athavā śiva-vidyā-artham eva vā .. 7.2,39.56..
खनेद्वा भुवि तद्देहं दहेद्वा शुचिनाग्निना ॥ क्षिपेद्वाप्सु शिवास्वेव त्यजेद्वा काष्ठलोष्टवत् ॥ ७.२,३९.५७॥
खनेत् वा भुवि तद्-देहम् दहेत् वा शुचिना अग्निना ॥ क्षिपेत् वा अप्सु शिवासु एव त्यजेत् वा काष्ठ-लोष्ट-वत् ॥ ७।२,३९।५७॥
khanet vā bhuvi tad-deham dahet vā śucinā agninā .. kṣipet vā apsu śivāsu eva tyajet vā kāṣṭha-loṣṭa-vat .. 7.2,39.57..
अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् ॥ कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत् ॥ ७.२,३९.५८॥
अथा एनम् अपि च उद्दिश्य कर्म चेद् कर्तुम् ईप्सितम् ॥ कल्याणम् एव कुर्वीत शक्त्या भक्तान् च तर्पयेत् ॥ ७।२,३९।५८॥
athā enam api ca uddiśya karma ced kartum īpsitam .. kalyāṇam eva kurvīta śaktyā bhaktān ca tarpayet .. 7.2,39.58..
धनं तस्य भजेच्छैवः शैवी चेतस्य सन्ततिः ॥ नास्ति चेत्तच्छिवे दद्यान्नदद्यात्पशुसन्ततिः ॥ ७.२,३९.५८॥
धनम् तस्य भजेत् शैवः शैवी सन्ततिः ॥ न अस्ति चेद् तत् शिवे दद्यात् न दद्यात् पशु-सन्ततिः ॥ ७।२,३९।५८॥
dhanam tasya bhajet śaivaḥ śaivī santatiḥ .. na asti ced tat śive dadyāt na dadyāt paśu-santatiḥ .. 7.2,39.58..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवयोगवर्णनं नामैकोनचत्वारिंशोऽध्यायः ७.२,३९.६०॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे शैवयोगवर्णनम् नाम एकोनचत्वारिंशः अध्यायः।२,३९।६०॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe śaivayogavarṇanam nāma ekonacatvāriṃśaḥ adhyāyaḥ.2,39.60..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In