| |
|

This overlay will guide you through the buttons:

श्रीसूत उवाच॥
इति स विजितमन्योर्यादवेनोपमन्योरधिगतमभिधाय ज्ञानयोगं मुनिभ्यः ॥ प्रणतिमुपगतेभ्यस्तेभ्य उद्भावितात्मा सपदि वियति वायुः सायमन्तर्हितो ऽभूत् ॥ ॥
इति स विजित-मन्योः यादवेन उपमन्योः अधिगतम् अभिधाय ज्ञान-योगम् मुनिभ्यः ॥ प्रणतिम् उपगतेभ्यः तेभ्यः उद्भावित-आत्मा सपदि वियति वायुः सायम् अन्तर्हितः अभूत् ॥ ॥
iti sa vijita-manyoḥ yādavena upamanyoḥ adhigatam abhidhāya jñāna-yogam munibhyaḥ .. praṇatim upagatebhyaḥ tebhyaḥ udbhāvita-ātmā sapadi viyati vāyuḥ sāyam antarhitaḥ abhūt .. ..
ततः प्रभातसमये नैमिषीयास्तपोधनाः ॥ सत्रान्ते ऽवभृथं कर्तुं सर्व एव समुद्ययुः ॥ ॥
ततस् प्रभात-समये नैमिषीयाः तपोधनाः ॥ सत्र-अन्ते अवभृथम् कर्तुम् सर्वे एव समुद्ययुः ॥ ॥
tatas prabhāta-samaye naimiṣīyāḥ tapodhanāḥ .. satra-ante avabhṛtham kartum sarve eva samudyayuḥ .. ..
तदा ब्रह्मसमादेशाद्देवी साक्षात्सरस्वती ॥ प्रसन्ना स्वादुसलिला प्रावर्तत नदीशुभा ॥ ७.२,४०.१॥
तदा ब्रह्म-समादेशात् देवी साक्षात् सरस्वती ॥ प्रसन्ना स्वादु-सलिला प्रावर्तत नदी-शुभा ॥ ७।२,४०।१॥
tadā brahma-samādeśāt devī sākṣāt sarasvatī .. prasannā svādu-salilā prāvartata nadī-śubhā .. 7.2,40.1..
सरस्वतीं नदीं दृष्ट्वा मुनयो हृष्टमानसाः ॥ समाप्य सत्रं प्रारब्धं चक्रुस्तत्रावगाहनम् ॥ ७.२,४०.२॥
सरस्वतीम् नदीम् दृष्ट्वा मुनयः हृष्ट-मानसाः ॥ समाप्य सत्रम् प्रारब्धम् चक्रुः तत्र अवगाहनम् ॥ ७।२,४०।२॥
sarasvatīm nadīm dṛṣṭvā munayaḥ hṛṣṭa-mānasāḥ .. samāpya satram prārabdham cakruḥ tatra avagāhanam .. 7.2,40.2..
अथ संतर्प्य देवादींस्तदीयैः सलिलैः शिवैः ॥ स्मरन्तः पूर्ववृत्तान्तं ययुर्वाराणसीं प्रति ॥ ७.२,४०.३॥
अथ संतर्प्य देव-आदीन् तदीयैः सलिलैः शिवैः ॥ स्मरन्तः पूर्व-वृत्तान्तम् ययुः वाराणसीम् प्रति ॥ ७।२,४०।३॥
atha saṃtarpya deva-ādīn tadīyaiḥ salilaiḥ śivaiḥ .. smarantaḥ pūrva-vṛttāntam yayuḥ vārāṇasīm prati .. 7.2,40.3..
तदा ते हिमवत्पादात्पंततीं दक्षिणामुखीम् ॥ दृष्ट्वा भागीरथी तत्र स्नात्वा तत्तीरतो ययुः ॥ ७.२,४०.४॥
तदा ते हिमवत्-पादात् पंततीम् दक्षिणामुखीम् ॥ दृष्ट्वा भागीरथी तत्र स्नात्वा तद्-तीरतः ययुः ॥ ७।२,४०।४॥
tadā te himavat-pādāt paṃtatīm dakṣiṇāmukhīm .. dṛṣṭvā bhāgīrathī tatra snātvā tad-tīrataḥ yayuḥ .. 7.2,40.4..
ततो वाराणसीं प्राप्य मुदितास्सर्व एव ते ॥ तदोत्तरप्रवाहायां गंगायामवगाह्य च ॥ ७.२,४०.५॥
ततस् वाराणसीम् प्राप्य मुदिताः सर्वे एव ते ॥ तदा उत्तर-प्रवाहायाम् गंगायाम् अवगाह्य च ॥ ७।२,४०।५॥
tatas vārāṇasīm prāpya muditāḥ sarve eva te .. tadā uttara-pravāhāyām gaṃgāyām avagāhya ca .. 7.2,40.5..
अविमुक्तेश्वरं लिंगं दृष्ट्वाभ्यर्च्य विधानतः ॥ प्रयातुमुद्यतास्तत्र ददृशुर्दिवि भास्वरम् ॥ ७.२,४०.६॥
अविमुक्तेश्वरम् लिंगम् दृष्ट्वा अभ्यर्च्य विधानतः ॥ प्रयातुम् उद्यताः तत्र ददृशुः दिवि भास्वरम् ॥ ७।२,४०।६॥
avimukteśvaram liṃgam dṛṣṭvā abhyarcya vidhānataḥ .. prayātum udyatāḥ tatra dadṛśuḥ divi bhāsvaram .. 7.2,40.6..
सूर्यकोटिप्रतीकाशं तेजोदिव्यं महाद्भुतम् ॥ आत्मप्रभावितानेन व्याप्तसर्वदिगन्तरम् ॥ ७.२,४०.७॥
सूर्य-कोटि-प्रतीकाशम् तेजः-दिव्यम् महा-अद्भुतम् ॥ आत्म-प्रभा-वितानेन व्याप्त-सर्व-दिगन्तरम् ॥ ७।२,४०।७॥
sūrya-koṭi-pratīkāśam tejaḥ-divyam mahā-adbhutam .. ātma-prabhā-vitānena vyāpta-sarva-digantaram .. 7.2,40.7..
अथ पाशुपताः सिद्धाः भस्मसञ्छन्नविग्रहाः ॥ मुनयो ऽभ्येत्य शतशो लीनाः स्युस्तत्र तेजसि ॥ ७.२,४०.८॥
अथ पाशुपताः सिद्धाः भस्म-सञ्छन्न-विग्रहाः ॥ मुनयः अभ्येत्य शतशस् लीनाः स्युः तत्र तेजसि ॥ ७।२,४०।८॥
atha pāśupatāḥ siddhāḥ bhasma-sañchanna-vigrahāḥ .. munayaḥ abhyetya śataśas līnāḥ syuḥ tatra tejasi .. 7.2,40.8..
तथा विलीयमानेषु तपस्विषु महात्मसु ॥ सद्यस्तिरोदधे तेजस्तदद्भुतमिवाभवत् ॥ ७.२,४०.९॥
तथा विलीयमानेषु तपस्विषु महात्मसु ॥ सद्यस् तिरोदधे तेजः तत् अद्भुतम् इव अभवत् ॥ ७।२,४०।९॥
tathā vilīyamāneṣu tapasviṣu mahātmasu .. sadyas tirodadhe tejaḥ tat adbhutam iva abhavat .. 7.2,40.9..
तद्दृष्ट्वा महदाश्चर्यं नैमिषीया महर्षयः ॥ किमेतदित्यजानन्तो ययुर्ब्रह्मवनं प्रति ॥ ७.२,४०.१०॥
तत् दृष्ट्वा महत् आश्चर्यम् नैमिषीयाः महा-ऋषयः ॥ किम् एतत् इति अ जानन्तः ययुः ब्रह्म-वनम् प्रति ॥ ७।२,४०।१०॥
tat dṛṣṭvā mahat āścaryam naimiṣīyāḥ mahā-ṛṣayaḥ .. kim etat iti a jānantaḥ yayuḥ brahma-vanam prati .. 7.2,40.10..
प्रागेवैषां तु गमनात्पवनो लोकपावनः ॥ दर्शनं नैमिषीयाणां संवादस्तैर्महात्मनः ॥ ७.२,४०.११॥
प्राक् एव एषाम् तु गमनात् पवनः लोक-पावनः ॥ दर्शनम् नैमिषीयाणाम् संवादः तैः महात्मनः ॥ ७।२,४०।११॥
prāk eva eṣām tu gamanāt pavanaḥ loka-pāvanaḥ .. darśanam naimiṣīyāṇām saṃvādaḥ taiḥ mahātmanaḥ .. 7.2,40.11..
शद्धां बुद्धिं ततस्तेषां सांबे सानुचरे शिवे ॥ समाप्तिं चापि सत्रस्य दीर्घपूर्वस्य सत्रिणाम् ॥ ७.२,४०.१२॥
शद्धाम् बुद्धिम् ततस् तेषाम् स अंबे स अनुचरे शिवे ॥ समाप्तिम् च अपि सत्रस्य दीर्घपूर्वस्य सत्रिणाम् ॥ ७।२,४०।१२॥
śaddhām buddhim tatas teṣām sa aṃbe sa anucare śive .. samāptim ca api satrasya dīrghapūrvasya satriṇām .. 7.2,40.12..
विज्ञाप्य जगतां धात्रे ब्रह्मणे ब्रह्मयोनये ॥ स्वकार्ये तदनुज्ञातो जगाम स्वपुरं प्रति ॥ ७.२,४०.१३॥
विज्ञाप्य जगताम् धात्रे ब्रह्मणे ब्रह्म-योनये ॥ स्व-कार्ये तद्-अनुज्ञातः जगाम स्व-पुरम् प्रति ॥ ७।२,४०।१३॥
vijñāpya jagatām dhātre brahmaṇe brahma-yonaye .. sva-kārye tad-anujñātaḥ jagāma sva-puram prati .. 7.2,40.13..
अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च ॥ परस्पर स्पर्धितयोर्गाने विवदमानयोः ॥ ७.२,४०.१४॥
अथ स्थान-गतः ब्रह्मा तुम्बुरोः नारदस्य च ॥ परस्पर-स्पर्धितयोः गाने विवदमानयोः ॥ ७।२,४०।१४॥
atha sthāna-gataḥ brahmā tumburoḥ nāradasya ca .. paraspara-spardhitayoḥ gāne vivadamānayoḥ .. 7.2,40.14..
तदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् ॥ गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः ॥ ७.२,४०.१५॥
तद्-उद्भावित-गान-उत्थ-रसैः माध्यस्थम् आचरन् ॥ गन्धर्वैः अप्सरोभिः च सुखम् आस्ते निषेवितः ॥ ७।२,४०।१५॥
tad-udbhāvita-gāna-uttha-rasaiḥ mādhyastham ācaran .. gandharvaiḥ apsarobhiḥ ca sukham āste niṣevitaḥ .. 7.2,40.15..
तदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः ॥ मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन् ॥ ७.२,४०.१६॥
तदा अनवसरात् एव द्वाःस्थैः द्वारि निवारिताः ॥ मुनयः ब्रह्म-भवनात् बहिस् पार्श्वम् उपाविशन् ॥ ७।२,४०।१६॥
tadā anavasarāt eva dvāḥsthaiḥ dvāri nivāritāḥ .. munayaḥ brahma-bhavanāt bahis pārśvam upāviśan .. 7.2,40.16..
अथ तुम्बुरुणा गाने समतां प्राप्य नारदः ॥ साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना ॥ ७.२,४०.१७॥
अथ तुम्बुरुणा गाने समताम् प्राप्य नारदः ॥ साहचर्येषु अनुज्ञातः ब्रह्मणा परमेष्ठिना ॥ ७।२,४०।१७॥
atha tumburuṇā gāne samatām prāpya nāradaḥ .. sāhacaryeṣu anujñātaḥ brahmaṇā parameṣṭhinā .. 7.2,40.17..
त्यक्त्वा परस्परस्पर्धां मैत्रीं च परमां गतः ॥ सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः ॥ ७.२,४०.१८॥
त्यक्त्वा परस्पर-स्पर्धाम् मैत्रीम् च परमाम् गतः ॥ सह तेन अप्सरोभिः च गन्धर्वैः च समावृतः ॥ ७।२,४०।१८॥
tyaktvā paraspara-spardhām maitrīm ca paramām gataḥ .. saha tena apsarobhiḥ ca gandharvaiḥ ca samāvṛtaḥ .. 7.2,40.18..
उपवीणयितुं देवं नकुलीश्वरमीश्वरम् ॥ भवनान्निर्ययौ धातुर्जलदादंशुमानिव ॥ ७.२,४०.१९॥
उपवीणयितुम् देवम् नकुलि-ईश्वरम् ईश्वरम् ॥ भवनात् निर्ययौ धातुः जलदात् अंशुमान् इव ॥ ७।२,४०।१९॥
upavīṇayitum devam nakuli-īśvaram īśvaram .. bhavanāt niryayau dhātuḥ jaladāt aṃśumān iva .. 7.2,40.19..
तं दृष्ट्वा षट्कुलीयास्ते नारदं मुनिगोवृषम् ॥ प्रणम्यावसरं शंभोः पप्रच्छुः परमादरात् ॥ ७.२,४०.२०॥
तम् दृष्ट्वा षट्कुलीयाः ते नारदम् मुनि-गो-वृषम् ॥ प्रणम्य अवसरम् शंभोः पप्रच्छुः परम-आदरात् ॥ ७।२,४०।२०॥
tam dṛṣṭvā ṣaṭkulīyāḥ te nāradam muni-go-vṛṣam .. praṇamya avasaram śaṃbhoḥ papracchuḥ parama-ādarāt .. 7.2,40.20..
स चावसर एवायमितोंतर्गम्यतामिति ॥ वदन्ययावन्यपरस्त्वरया परया युतः ॥ ७.२,४०.२१॥
स च अवसरः एव अयम् इतस् उंतर् गम्यताम् इति ॥ वदन्ययौ अन्य-परः त्वरया परया युतः ॥ ७।२,४०।२१॥
sa ca avasaraḥ eva ayam itas uṃtar gamyatām iti .. vadanyayau anya-paraḥ tvarayā parayā yutaḥ .. 7.2,40.21..
ततो द्वारि स्थिता ये वै ब्रह्मणे तान्न्यवेदयन् ॥ तेन ते विविशुर्वेश्म पिंडीभूयांडजन्मनः ॥ ७.२,४०.२२॥
ततस् द्वारि स्थिताः ये वै ब्रह्मणे तान् न्यवेदयन् ॥ तेन ते विविशुः वेश्म पिंडीभूयांड-जन्मनः ॥ ७।२,४०।२२॥
tatas dvāri sthitāḥ ye vai brahmaṇe tān nyavedayan .. tena te viviśuḥ veśma piṃḍībhūyāṃḍa-janmanaḥ .. 7.2,40.22..
प्रविश्य दूरतो देवं प्रणम्य भुवि दंडवत् ॥ समीपे तदनुज्ञाताः परिवृत्योपतस्थिरे ॥ ७.२,४०.२३॥
प्रविश्य दूरतस् देवम् प्रणम्य भुवि दंड-वत् ॥ समीपे तद्-अनुज्ञाताः परिवृत्य उपतस्थिरे ॥ ७।२,४०।२३॥
praviśya dūratas devam praṇamya bhuvi daṃḍa-vat .. samīpe tad-anujñātāḥ parivṛtya upatasthire .. 7.2,40.23..
तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः ॥ वृत्तांतं वो मया ज्ञातं वायुरेवाह नो यतः ॥ ७.२,४०.२४॥
तान् तत्र अवस्थितान् पृष्ट्वा कुशलम् कमलासनः ॥ वृत्तांतम् वः मया ज्ञातम् वायुः एव आह नः यतस् ॥ ७।२,४०।२४॥
tān tatra avasthitān pṛṣṭvā kuśalam kamalāsanaḥ .. vṛttāṃtam vaḥ mayā jñātam vāyuḥ eva āha naḥ yatas .. 7.2,40.24..
भवद्भिः किं कृतं पश्चान्मारुतेंतर्हिते सति ॥ इत्युक्तवति देवेशे मुनयो ऽवभृथात्परम् ॥ ७.२,४०.२५॥
भवद्भिः किम् कृतम् पश्चात् मारुत-इंतर्हिते सति ॥ इति उक्तवति देवेशे मुनयः अवभृथात् परम् ॥ ७।२,४०।२५॥
bhavadbhiḥ kim kṛtam paścāt māruta-iṃtarhite sati .. iti uktavati deveśe munayaḥ avabhṛthāt param .. 7.2,40.25..
गंगातीर्थेस्य गमनं यात्रां वाराणसीं प्रति ॥ दर्शनं तत्र लिंगानां स्थापितानां सुरेश्वरैः ॥ ७.२,४०.२६॥
गंगातीर्थ-इस्य गमनम् यात्राम् वाराणसीम् प्रति ॥ दर्शनम् तत्र लिंगानाम् स्थापितानाम् सुर-ईश्वरैः ॥ ७।२,४०।२६॥
gaṃgātīrtha-isya gamanam yātrām vārāṇasīm prati .. darśanam tatra liṃgānām sthāpitānām sura-īśvaraiḥ .. 7.2,40.26..
अविमुक्तेश्वरस्यापि लिंगस्याभ्यर्चनं सकृत् ॥ आकाशे महतस्तस्य तेजोराशेश्च दर्शनम् ॥ ७.२,४०.२७॥
अविमुक्तेश्वरस्य अपि लिंगस्य अभ्यर्चनम् सकृत् ॥ आकाशे महतः तस्य तेजः-राशेः च दर्शनम् ॥ ७।२,४०।२७॥
avimukteśvarasya api liṃgasya abhyarcanam sakṛt .. ākāśe mahataḥ tasya tejaḥ-rāśeḥ ca darśanam .. 7.2,40.27..
मुनीनां विलयं तत्र निरोधं तेजसस्ततः ॥ याथात्म्यवेदनं तस्य चिंतितस्यापि चात्मभिः ॥ ७.२,४०.२८॥
मुनीनाम् विलयम् तत्र निरोधम् तेजसः ततस् ॥ याथात्म्य-वेदनम् तस्य चिंतितस्य अपि च आत्मभिः ॥ ७।२,४०।२८॥
munīnām vilayam tatra nirodham tejasaḥ tatas .. yāthātmya-vedanam tasya ciṃtitasya api ca ātmabhiḥ .. 7.2,40.28..
सर्वं सविस्तरं तस्मै प्रणम्याहुर्मुहुर्मुहुः ॥ मुनिभिः कथितं श्रुत्वा विश्वकर्मा चतुर्मुखः ॥ ७.२,४०.२९॥
सर्वम् स विस्तरम् तस्मै प्रणम्य आहुः मुहुर् मुहुर् ॥ मुनिभिः कथितम् श्रुत्वा विश्वकर्मा चतुर्मुखः ॥ ७।२,४०।२९॥
sarvam sa vistaram tasmai praṇamya āhuḥ muhur muhur .. munibhiḥ kathitam śrutvā viśvakarmā caturmukhaḥ .. 7.2,40.29..
कंपयित्वा शिरः किंचित्प्राह गंभीरया गिरा ॥ प्रत्यासीदति युष्माकं सिद्धिरामुष्मिकी परा ॥ ७.२,४०.३०॥
कंपयित्वा शिरः किंचिद् प्राह गंभीरया गिरा ॥ प्रत्यासीदति युष्माकम् सिद्धिः आमुष्मिकी परा ॥ ७।२,४०।३०॥
kaṃpayitvā śiraḥ kiṃcid prāha gaṃbhīrayā girā .. pratyāsīdati yuṣmākam siddhiḥ āmuṣmikī parā .. 7.2,40.30..
भवद्भिर्दीर्घसत्रेण चिरमाराधितः प्रभुः ॥ प्रसादाभिमुखो भूत इति भुतार्थसूचितम् ॥ ७.२,४०.३१॥
भवद्भिः दीर्घ-सत्रेण चिरम् आराधितः प्रभुः ॥ प्रसाद-अभिमुखः भूतः इति ॥ ७।२,४०।३१॥
bhavadbhiḥ dīrgha-satreṇa ciram ārādhitaḥ prabhuḥ .. prasāda-abhimukhaḥ bhūtaḥ iti .. 7.2,40.31..
वाराणस्यां तु युष्माभिर्यद्दृष्टं दिवि दीप्तिमत् ॥ तल्लिंगसंज्ञितं साक्षात्तेजो माहेश्वरं परम् ॥ ७.२,४०.३२॥
वाराणस्याम् तु युष्माभिः यत् दृष्टम् दिवि दीप्तिमत् ॥ तत् लिंग-संज्ञितम् साक्षात् तेजः माहेश्वरम् परम् ॥ ७।२,४०।३२॥
vārāṇasyām tu yuṣmābhiḥ yat dṛṣṭam divi dīptimat .. tat liṃga-saṃjñitam sākṣāt tejaḥ māheśvaram param .. 7.2,40.32..
तत्र लीनाश्च मुनयः श्रौतपाशुपतव्रताः ॥ मुक्ता बभूवुः स्वस्थाश्च नैष्ठिका दग्धकिल्बिषाः ॥ ७.२,४०.३३॥
तत्र लीनाः च मुनयः श्रौत-पाशुपत-व्रताः ॥ मुक्ताः बभूवुः स्वस्थाः च नैष्ठिकाः दग्ध-किल्बिषाः ॥ ७।२,४०।३३॥
tatra līnāḥ ca munayaḥ śrauta-pāśupata-vratāḥ .. muktāḥ babhūvuḥ svasthāḥ ca naiṣṭhikāḥ dagdha-kilbiṣāḥ .. 7.2,40.33..
प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि ॥ स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा ॥ ७.२,४०.३४॥
प्राप्य अनेन यथा मुक्तिः अचिरात् भवताम् अपि ॥ स च अयम् अर्थः सूच्येत युष्मद्-दृष्टेन तेजसा ॥ ७।२,४०।३४॥
prāpya anena yathā muktiḥ acirāt bhavatām api .. sa ca ayam arthaḥ sūcyeta yuṣmad-dṛṣṭena tejasā .. 7.2,40.34..
तत्र वः काल एवैष दैवादुपनतः स्वयम् ॥ प्रयात दक्षिणं मेरोः शिखरं देवसेवितम् ॥ ७.२,४०.३५॥
तत्र वः कालः एव एष दैवात् उपनतः स्वयम् ॥ प्रयात दक्षिणम् मेरोः शिखरम् देव-सेवितम् ॥ ७।२,४०।३५॥
tatra vaḥ kālaḥ eva eṣa daivāt upanataḥ svayam .. prayāta dakṣiṇam meroḥ śikharam deva-sevitam .. 7.2,40.35..
सनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः ॥ प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नंदिनः ॥ ७.२,४०.३६॥
सनत्कुमारः यत्र आस्ते मम पुत्रः परः मुनिः ॥ प्रतीक्ष्य आगमनम् साक्षात् भूतनाथस्य नंदिनः ॥ ७।२,४०।३६॥
sanatkumāraḥ yatra āste mama putraḥ paraḥ muniḥ .. pratīkṣya āgamanam sākṣāt bhūtanāthasya naṃdinaḥ .. 7.2,40.36..
पुरा सनत्कुमारोपि दृष्ट्वापि परमेश्वरम् ॥ अज्ञानात्सर्वयोगीन्द्रमानी विनयदूषितः ॥ ७.२,४०.३७॥
पुरा सनत्कुमारः अपि दृष्ट्वा अपि परमेश्वरम् ॥ अज्ञानात् सर्व-योगि-इन्द्र-मानी विनय-दूषितः ॥ ७।२,४०।३७॥
purā sanatkumāraḥ api dṛṣṭvā api parameśvaram .. ajñānāt sarva-yogi-indra-mānī vinaya-dūṣitaḥ .. 7.2,40.37..
अभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः ॥ ततो ऽपराधात्क्रुद्धेन महोष्ट्रो नंदिना कृतः ॥ ७.२,४०.३८॥
अभ्युत्थान-आदिकम् युक्तम् अकुर्वन् अति निर्भयः ॥ ततस् अपराधात् क्रुद्धेन महा-उष्ट्रः नंदिना कृतः ॥ ७।२,४०।३८॥
abhyutthāna-ādikam yuktam akurvan ati nirbhayaḥ .. tatas aparādhāt kruddhena mahā-uṣṭraḥ naṃdinā kṛtaḥ .. 7.2,40.38..
अथ कालेन महता तदर्थे शोचता मया ॥ उपास्य देवं देवीञ्च नंदिनं चानुनीय वै ॥ ७.२,४०.३९॥
अथ कालेन महता तद्-अर्थे शोचता मया ॥ उपास्य देवम् देवीन् च नंदिनम् च अनुनीय वै ॥ ७।२,४०।३९॥
atha kālena mahatā tad-arthe śocatā mayā .. upāsya devam devīn ca naṃdinam ca anunīya vai .. 7.2,40.39..
कथंचिदुष्ट्रता तस्य प्रयत्नेन निवारिता ॥ प्रापितो हि यथापूर्वं सनत्पूर्वां कुमारताम् ॥ ७.२,४०.४०॥
कथंचिद् उष्ट्र-ता तस्य प्रयत्नेन निवारिता ॥ प्रापितः हि यथापूर्वम् सनत् पूर्वाम् कुमार-ताम् ॥ ७।२,४०।४०॥
kathaṃcid uṣṭra-tā tasya prayatnena nivāritā .. prāpitaḥ hi yathāpūrvam sanat pūrvām kumāra-tām .. 7.2,40.40..
तदाह च महादेवः स्मयन्निव गणाधिपम् ॥ अवज्ञाय हि मामेव तथाहंकृतवान्मुनिः ॥ ७.२,४०.४१॥
तत् आह च महादेवः स्मयन् इव गणाधिपम् ॥ अवज्ञाय हि माम् एव तथा अहम् कृतवान् मुनिः ॥ ७।२,४०।४१॥
tat āha ca mahādevaḥ smayan iva gaṇādhipam .. avajñāya hi mām eva tathā aham kṛtavān muniḥ .. 7.2,40.41..
अतस्त्वमेव याथात्म्यं ममास्मै कथयानघ ॥ ब्रह्मणः पूर्वजः पुत्रो मां मूढ इव संस्मरन् ॥ ७.२,४०.४२॥
अतस् त्वम् एव याथात्म्यम् मम अस्मै कथय अनघ ॥ ब्रह्मणः पूर्वजः पुत्रः माम् मूढः इव संस्मरन् ॥ ७।२,४०।४२॥
atas tvam eva yāthātmyam mama asmai kathaya anagha .. brahmaṇaḥ pūrvajaḥ putraḥ mām mūḍhaḥ iva saṃsmaran .. 7.2,40.42..
मयैव शिष्यते दत्तो मम ज्ञानप्रवर्तकः ॥ धर्माध्यक्षाभिषेकं च तव निर्वर्तयिष्यति ॥ ७.२,४०.४३॥
मया एव शिष्यते दत्तः मम ज्ञान-प्रवर्तकः ॥ धर्म-अध्यक्ष-अभिषेकम् च तव निर्वर्तयिष्यति ॥ ७।२,४०।४३॥
mayā eva śiṣyate dattaḥ mama jñāna-pravartakaḥ .. dharma-adhyakṣa-abhiṣekam ca tava nirvartayiṣyati .. 7.2,40.43..
स एवं व्याहृतो भूयस्सर्वभूतगणाग्रणीः ॥ यत्पराज्ञापनं मूर्ध्ना प्रातः प्रतिगृहीतवान् ॥ ७.२,४०.४४॥
सः एवम् व्याहृतः भूयस् सर्व-भूत-गणाग्रणीः ॥ यत् पराज्ञापनम् मूर्ध्ना प्रातर् प्रतिगृहीतवान् ॥ ७।२,४०।४४॥
saḥ evam vyāhṛtaḥ bhūyas sarva-bhūta-gaṇāgraṇīḥ .. yat parājñāpanam mūrdhnā prātar pratigṛhītavān .. 7.2,40.44..
तथा सनत्कुमारो ऽपि मेरौ मदनुशासनात् ॥ प्रसादार्थं गणस्यास्य तपश्चरति दुश्चरम् ॥ ७.२,४०.४५॥
तथा सनत्कुमारः अपि मेरौ मद्-अनुशासनात् ॥ प्रसाद-अर्थम् गणस्य अस्य तपः चरति दुश्चरम् ॥ ७।२,४०।४५॥
tathā sanatkumāraḥ api merau mad-anuśāsanāt .. prasāda-artham gaṇasya asya tapaḥ carati duścaram .. 7.2,40.45..
द्रष्टव्यश्चेति युष्माभिः प्राग्गणेशसमागमात् ॥ तत्प्रसादार्थमचिरान्नंदी तत्रागमिष्यति ॥ ७.२,४०.४६॥
द्रष्टव्यः च इति युष्माभिः प्राक् गणेश-समागमात् ॥ तद्-प्रसाद-अर्थम् अचिरात् नंदी तत्र आगमिष्यति ॥ ७।२,४०।४६॥
draṣṭavyaḥ ca iti yuṣmābhiḥ prāk gaṇeśa-samāgamāt .. tad-prasāda-artham acirāt naṃdī tatra āgamiṣyati .. 7.2,40.46..
इति सत्वरमादिश्य प्रेषिता विश्वयोगिना ॥ कुमारशिखरं मेरोर्दक्षिणं मुनयो ययुः ॥ ७.२,४०.४७॥
इति सत्वरम् आदिश्य प्रेषिता विश्वयोगिना ॥ कुमारशिखरम् मेरोः दक्षिणम् मुनयः ययुः ॥ ७।२,४०।४७॥
iti satvaram ādiśya preṣitā viśvayoginā .. kumāraśikharam meroḥ dakṣiṇam munayaḥ yayuḥ .. 7.2,40.47..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नैमिषर्षियात्रावर्णनं नाम चत्वारिंशोऽध्यायः ७.२,४०.४८॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे नैमिषर्षियात्रावर्णनम् नाम चत्वारिंशः अध्यायः।२,४०।४८॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe naimiṣarṣiyātrāvarṇanam nāma catvāriṃśaḥ adhyāyaḥ.2,40.48..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In