| |
|

This overlay will guide you through the buttons:

कृष्ण उवाच॥
भगवन्परमेशस्य शर्वस्यामिततेजसः ॥मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ ७.२, ४.१ ॥
भगवन् परमेशस्य शर्वस्य अमित-तेजसः ॥मूर्तिभिः विश्वम् एव इदम् यथा व्याप्तम् तथा श्रुतम् ॥ ७।२, ४।१ ॥
bhagavan parameśasya śarvasya amita-tejasaḥ ..mūrtibhiḥ viśvam eva idam yathā vyāptam tathā śrutam .. 7.2, 4.1 ..
अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः ॥स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ ७.२, ४.२ ॥
अथा एतत् ज्ञातुम् इच्छामि याथात्म्यम् पमा-ईशयोः ॥स्त्री-पुंभाव-आत्मकम् च इदम् ताभ्याम् कथम् अधिष्ठितम् ॥ ७।२, ४।२ ॥
athā etat jñātum icchāmi yāthātmyam pamā-īśayoḥ ..strī-puṃbhāva-ātmakam ca idam tābhyām katham adhiṣṭhitam .. 7.2, 4.2 ..
श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ॥वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ ७.२, ४.३ ॥
श्रीमत्-विभूतिम् शिवयोः याथात्म्यम् च समासतस् ॥वक्ष्ये तत् विस्तरात् वक्तुम् भवेन अपि न शक्यते ॥ ७।२, ४।३ ॥
śrīmat-vibhūtim śivayoḥ yāthātmyam ca samāsatas ..vakṣye tat vistarāt vaktum bhavena api na śakyate .. 7.2, 4.3 ..
शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् ॥तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ ७.२, ४.४ ॥
शक्तिः साक्षात् महादेवी महादेवः च शक्तिमान् ॥तयोः विभूति-लेशः वै सर्वम् एतत् चराचरम् ॥ ७।२, ४।४ ॥
śaktiḥ sākṣāt mahādevī mahādevaḥ ca śaktimān ..tayoḥ vibhūti-leśaḥ vai sarvam etat carācaram .. 7.2, 4.4 ..
वस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् ॥द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ ७.२, ४.५ ॥
वस्तु किंचिद् अचित्-रूपम् किंचिद् वस्तु चित्-आत्मकम् ॥द्वयम् शुद्धम् अशुद्धम् च परम् च अपरम् एव च ॥ ७।२, ४।५ ॥
vastu kiṃcid acit-rūpam kiṃcid vastu cit-ātmakam ..dvayam śuddham aśuddham ca param ca aparam eva ca .. 7.2, 4.5 ..
यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् ॥तदेवाशुद्धमपरमितरं तु परं शुभम् ॥ ७.२, ४.६ ॥
यत् संसरति चिच्चक्रम् अचिच्चक्र-समन्वितम् ॥तत् एव अशुद्धम् अपरम् इतरम् तु परम् शुभम् ॥ ७।२, ४।६ ॥
yat saṃsarati ciccakram aciccakra-samanvitam ..tat eva aśuddham aparam itaram tu param śubham .. 7.2, 4.6 ..
अपरं च परं चैव द्वयं चिदचिदात्मकम् ॥शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः ॥ ७.२, ४.७ ॥
अपरम् च परम् च एव द्वयम् चित्-अचित्-आत्मकम् ॥शिवस्य च शिवायाः च स्वाम्यम् च एतद्-स्वभावतः ॥ ७।२, ४।७ ॥
aparam ca param ca eva dvayam cit-acit-ātmakam ..śivasya ca śivāyāḥ ca svāmyam ca etad-svabhāvataḥ .. 7.2, 4.7 ..
शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ॥ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ ॥ ७.२, ४.८ ॥
शिवयोः वै वशे विश्वम् न विश्वस्य वशे शिवौ ॥ईशितव्यम् इदम् यस्मात् तस्मात् विश्वेश्वरौ शिवौ ॥ ७।२, ४।८ ॥
śivayoḥ vai vaśe viśvam na viśvasya vaśe śivau ..īśitavyam idam yasmāt tasmāt viśveśvarau śivau .. 7.2, 4.8 ..
यथा शिवस्तथा देवी यथा देवी तथा शिवः ॥नानयोरंतरं विद्याच्चंद्रचन्द्रिकयोरिव ॥ ७.२, ४.९ ॥
यथा शिवः तथा देवी यथा देवी तथा शिवः ॥न अनयोः अंतरम् विद्यात् चंद्र-चन्द्रिकयोः इव ॥ ७।२, ४।९ ॥
yathā śivaḥ tathā devī yathā devī tathā śivaḥ ..na anayoḥ aṃtaram vidyāt caṃdra-candrikayoḥ iva .. 7.2, 4.9 ..
चंद्रो न खलु भात्येष यथा चंद्रिकया विना ॥न भाति विद्यमानो ऽपि तथा शक्त्या विना शिवः ॥ ७.२, ४.१० ॥
चंद्रः न खलु भाति एष यथा चंद्रिकया विना ॥न भाति विद्यमानः अपि तथा शक्त्या विना शिवः ॥ ७।२, ४।१० ॥
caṃdraḥ na khalu bhāti eṣa yathā caṃdrikayā vinā ..na bhāti vidyamānaḥ api tathā śaktyā vinā śivaḥ .. 7.2, 4.10 ..
प्रभया हि विनायद्वद्भानुरेष न विद्यते ॥प्रभा च भानुना तेन सुतरां तदुपाश्रया ॥ ७.२, ४.११ ॥
प्रभया हि विना आयद्वत् भानुः एष न विद्यते ॥प्रभा च भानुना तेन सुतराम् तद्-उपाश्रया ॥ ७।२, ४।११ ॥
prabhayā hi vinā āyadvat bhānuḥ eṣa na vidyate ..prabhā ca bhānunā tena sutarām tad-upāśrayā .. 7.2, 4.11 ..
एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ॥न शिवेन विना शक्तिर्न शक्त्या च विना शिवः ॥ ७.२, ४.१२ ॥
एवम् परस्पर-अपेक्षा शक्ति-शक्तिमतोः स्थिता ॥न शिवेन विना शक्तिः न शक्त्या च विना शिवः ॥ ७।२, ४।१२ ॥
evam paraspara-apekṣā śakti-śaktimatoḥ sthitā ..na śivena vinā śaktiḥ na śaktyā ca vinā śivaḥ .. 7.2, 4.12 ..
शक्तौयया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् ॥आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया ॥ ७.२, ४.१३ ॥
शक्तौयया शिवः नित्यम् भक्तौ मुक्तौ च देहिनाम् ॥आद्या सा एका परा शक्तिः चित्-मयी शिव-संश्रया ॥ ७।२, ४।१३ ॥
śaktauyayā śivaḥ nityam bhaktau muktau ca dehinām ..ādyā sā ekā parā śaktiḥ cit-mayī śiva-saṃśrayā .. 7.2, 4.13 ..
यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः ॥समानधर्मिणीमेव शिवस्य परमात्मनः ॥ ७.२, ४.१४ ॥
याम् आहुः अखिल-ईशस्य तैः तैः अनुगुणैः गुणैः ॥समान-धर्मिणीम् एव शिवस्य परमात्मनः ॥ ७।२, ४।१४ ॥
yām āhuḥ akhila-īśasya taiḥ taiḥ anuguṇaiḥ guṇaiḥ ..samāna-dharmiṇīm eva śivasya paramātmanaḥ .. 7.2, 4.14 ..
सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी ॥विभज्य बहुधा विश्वं विदधाति शिवेच्छया ॥ ७.२, ४.१५ ॥
सा एका परा च चित्-रूपा शक्तिः प्रसव-धर्मिणी ॥विभज्य बहुधा विश्वम् विदधाति शिव-इच्छया ॥ ७।२, ४।१५ ॥
sā ekā parā ca cit-rūpā śaktiḥ prasava-dharmiṇī ..vibhajya bahudhā viśvam vidadhāti śiva-icchayā .. 7.2, 4.15 ..
सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ॥शिवया च विपर्यस्तं यया ततमिदं जगत् ॥ ७.२, ४.१६ ॥
सा मूलप्रकृतिः माया त्रिगुणा च त्रिधा स्मृता ॥शिवया च विपर्यस्तम् यया ततम् इदम् जगत् ॥ ७।२, ४।१६ ॥
sā mūlaprakṛtiḥ māyā triguṇā ca tridhā smṛtā ..śivayā ca viparyastam yayā tatam idam jagat .. 7.2, 4.16 ..
एकधा च द्विधा चैव तथा शतसहस्रधा ॥शक्तयः खलु भिद्यंते बहुधा व्यवहारतः ॥ ७.२, ४.१७ ॥
एकधा च द्विधा च एव तथा शत-सहस्रधा ॥शक्तयः खलु भिद्यंते बहुधा व्यवहारतः ॥ ७।२, ४।१७ ॥
ekadhā ca dvidhā ca eva tathā śata-sahasradhā ..śaktayaḥ khalu bhidyaṃte bahudhā vyavahārataḥ .. 7.2, 4.17 ..
शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ॥ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ ७.२, ४.१८ ॥
शिव-इच्छया परा-शक्तिः शिवतत्त्व-एक-ताम् गता ॥ततस् परिस्फुरति आदौ सर्गे तैलम् तिलात् इव ॥ ७।२, ४।१८ ॥
śiva-icchayā parā-śaktiḥ śivatattva-eka-tām gatā ..tatas parisphurati ādau sarge tailam tilāt iva .. 7.2, 4.18 ..
ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया ॥तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ ॥ ७.२, ४.१९ ॥
ततस् क्रिया-आख्यया शक्त्या शक्तौ शक्तिमत्-उत्थया ॥तस्याम् विक्षोभ्यमाणायाम् आदौ नादः समुद्बभौ ॥ ७।२, ४।१९ ॥
tatas kriyā-ākhyayā śaktyā śaktau śaktimat-utthayā ..tasyām vikṣobhyamāṇāyām ādau nādaḥ samudbabhau .. 7.2, 4.19 ..
नादाद्विनिःसृतो बिंदुर्बिंदोदेवस्सदाशिवः ॥तस्मान्महेश्वरो जातः शुद्धविद्या महेश्वरात् ॥ ७.२, ४.२० ॥
नादात् विनिःसृतः बिंदुः बिंदो देवः सदाशिवः ॥तस्मात् महेश्वरः जातः शुद्धविद्या महेश्वरात् ॥ ७।२, ४।२० ॥
nādāt viniḥsṛtaḥ biṃduḥ biṃdo devaḥ sadāśivaḥ ..tasmāt maheśvaraḥ jātaḥ śuddhavidyā maheśvarāt .. 7.2, 4.20 ..
सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः ॥या सा वर्णस्वरूपेण मातृकेपि विजृम्भते ॥ ७.२, ४.२१ ॥
सा वाचाम् ईश्वरी शक्तिः वागीश-आख्याः हि शूलिनः ॥या सा वर्ण-स्व-रूपेण मातृका इपि विजृम्भते ॥ ७।२, ४।२१ ॥
sā vācām īśvarī śaktiḥ vāgīśa-ākhyāḥ hi śūlinaḥ ..yā sā varṇa-sva-rūpeṇa mātṛkā ipi vijṛmbhate .. 7.2, 4.21 ..
अथानंतसमावेशान्माया कालमवासृजत् ॥नियतिञ्च कलां विद्यां कलातोरागपूरुषौ ॥ ७.२, ४.२२ ॥
अथ अनंत-समावेशात् माया कालम् अवासृजत् ॥नियतिम् च कलाम् विद्याम् कलातस् राग-पूरुषौ ॥ ७।२, ४।२२ ॥
atha anaṃta-samāveśāt māyā kālam avāsṛjat ..niyatim ca kalām vidyām kalātas rāga-pūruṣau .. 7.2, 4.22 ..
मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् ॥त्रिगुणाच्च ततो व्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः ॥ ७.२, ४.२३ ॥
मायातः पुनर् एव अभूत् अव्यक्तम् त्रिगुण-आत्मकम् ॥त्रिगुणात् च ततस् व्यक्तात् विभक्ताः स्युः त्रयः गुणाः ॥ ७।२, ४।२३ ॥
māyātaḥ punar eva abhūt avyaktam triguṇa-ātmakam ..triguṇāt ca tatas vyaktāt vibhaktāḥ syuḥ trayaḥ guṇāḥ .. 7.2, 4.23 ..
सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् ॥गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः ॥ ७.२, ४.२४ ॥
सत्त्वम् रजः तमः च इति यैः व्याप्तम् अखिलम् जगत् ॥गुणेभ्यः क्षोभ्यमाणेभ्यः गुणेश-आख्याः त्रिमूर्तयः ॥ ७।२, ४।२४ ॥
sattvam rajaḥ tamaḥ ca iti yaiḥ vyāptam akhilam jagat ..guṇebhyaḥ kṣobhyamāṇebhyaḥ guṇeśa-ākhyāḥ trimūrtayaḥ .. 7.2, 4.24 ..
अभवन्महदादीनि तत्त्वानि च यथाक्रमम् ॥तेभ्यस्स्युरण्डपिण्डानि त्वसंख्यानि शिवाज्ञया ॥अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः ॥ ७.२, ४.२५ ॥
अभवन् महत्-आदीनि तत्त्वानि च यथाक्रमम् ॥तेभ्यः स्युः अण्ड-पिण्डानि तु असंख्यानि शिव-आज्ञया ॥अधिष्ठितानि अनन्त-आद्यैः विद्येशैः चक्रवर्तिभिः ॥ ७।२, ४।२५ ॥
abhavan mahat-ādīni tattvāni ca yathākramam ..tebhyaḥ syuḥ aṇḍa-piṇḍāni tu asaṃkhyāni śiva-ājñayā ..adhiṣṭhitāni ananta-ādyaiḥ vidyeśaiḥ cakravartibhiḥ .. 7.2, 4.25 ..
शरीरांतरभेदेन शक्तेर्भेदाः प्रकीर्तिताः ॥नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः ॥ ७.२, ४.२६ ॥
शरीर-अन्तर-भेदेन शक्तेः भेदाः प्रकीर्तिताः ॥नाना रूपाः तु विज्ञेयाः स्थूल-सूक्ष्म-विभेदतः ॥ ७।२, ४।२६ ॥
śarīra-antara-bhedena śakteḥ bhedāḥ prakīrtitāḥ ..nānā rūpāḥ tu vijñeyāḥ sthūla-sūkṣma-vibhedataḥ .. 7.2, 4.26 ..
रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ॥ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैंद्रीति कथ्यते ॥ ७.२, ४.२७ ॥
रुद्रस्य रौद्री सा शक्तिः विष्णौः वै वैष्णवी मता ॥ब्रह्माणी ब्रह्मणः प्रोक्ता च इन्द्रस्य ऐंद्री इति कथ्यते ॥ ७।२, ४।२७ ॥
rudrasya raudrī sā śaktiḥ viṣṇauḥ vai vaiṣṇavī matā ..brahmāṇī brahmaṇaḥ proktā ca indrasya aiṃdrī iti kathyate .. 7.2, 4.27 ..
किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् ॥शक्यात्मनैव तद्व्याप्तं यथा देहे ऽंतरात्मना ॥ ७.२, ४.२८ ॥
किम् अत्र बहुना उक्तेन यत् विश्वम् इति कीर्तितम् ॥शक्य-आत्मना एव तत् व्याप्तम् यथा देहे अंतरात्मना ॥ ७।२, ४।२८ ॥
kim atra bahunā uktena yat viśvam iti kīrtitam ..śakya-ātmanā eva tat vyāptam yathā dehe aṃtarātmanā .. 7.2, 4.28 ..
तस्माच्छक्तिमयं सर्वं जगत्स्थावरजंगमम् ॥कला या परमा शक्तिः कथिता परमात्मनः ॥ ७.२, ४.२९ ॥
तस्मात् शक्ति-मयम् सर्वम् जगत् स्थावर-जंगमम् ॥कला या परमा शक्तिः कथिता परमात्मनः ॥ ७।२, ४।२९ ॥
tasmāt śakti-mayam sarvam jagat sthāvara-jaṃgamam ..kalā yā paramā śaktiḥ kathitā paramātmanaḥ .. 7.2, 4.29 ..
एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी ॥स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः ॥ ७.२, ४.३० ॥
एवम् एषा परा शक्तिः ईश्वर-इच्छा-अनुयायिनी ॥स्थिरम् चरम् च यत् विश्वम् सृजति इति विनिश्चयः ॥ ७।२, ४।३० ॥
evam eṣā parā śaktiḥ īśvara-icchā-anuyāyinī ..sthiram caram ca yat viśvam sṛjati iti viniścayaḥ .. 7.2, 4.30 ..
ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः ॥शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति ॥ ७.२, ४.३१ ॥
ज्ञान-क्रिया चिकीर्षाभिः तिसृभिः स्व-आत्म-शक्तिभिः ॥शक्तिमान् ईश्वरः शश्वत् विश्वम् व्याप्य अधितिष्ठति ॥ ७।२, ४।३१ ॥
jñāna-kriyā cikīrṣābhiḥ tisṛbhiḥ sva-ātma-śaktibhiḥ ..śaktimān īśvaraḥ śaśvat viśvam vyāpya adhitiṣṭhati .. 7.2, 4.31 ..
इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका ॥इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका ॥ ७.२, ४.३२ ॥
इदम् इत्थम् इदम् न इत्थम् भवेत् इति एवम् आत्मिका ॥इच्छा-शक्तिः महेशस्य नित्या कार्य-नियामिका ॥ ७।२, ४।३२ ॥
idam ittham idam na ittham bhavet iti evam ātmikā ..icchā-śaktiḥ maheśasya nityā kārya-niyāmikā .. 7.2, 4.32 ..
ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा ॥प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति ॥ ७.२, ४.३३ ॥
ज्ञानशक्तिः तु तत् कार्यम् करणम् कारणम् तथा ॥प्रयोजनम् च तत्त्वेन बुद्धि-रूपा अध्यवस्यति ॥ ७।२, ४।३३ ॥
jñānaśaktiḥ tu tat kāryam karaṇam kāraṇam tathā ..prayojanam ca tattvena buddhi-rūpā adhyavasyati .. 7.2, 4.33 ..
यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् ॥कल्पयत्यखिलं कार्यं क्षणात्संकल्परूपिणी ॥ ७.२, ४.३४ ॥
यथा ईप्सितम् क्रियाशक्तिः यथा अध्यवसितम् जगत् ॥कल्पयति अखिलम् कार्यम् क्षणात् संकल्प-रूपिणी ॥ ७।२, ४।३४ ॥
yathā īpsitam kriyāśaktiḥ yathā adhyavasitam jagat ..kalpayati akhilam kāryam kṣaṇāt saṃkalpa-rūpiṇī .. 7.2, 4.34 ..
यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी ॥शक्त्या परमया नुन्ना प्रसूते सकलं जगत् ॥ ७.२, ४.३५ ॥
यथा शक्ति-त्रय-उत्थानम् शक्ति-प्रसव-धर्मिणी ॥शक्त्या परमया नुन्ना प्रसूते सकलम् जगत् ॥ ७।२, ४।३५ ॥
yathā śakti-traya-utthānam śakti-prasava-dharmiṇī ..śaktyā paramayā nunnā prasūte sakalam jagat .. 7.2, 4.35 ..
एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः ॥शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत् ॥ ७.२, ४.३६ ॥
एवम् शक्ति-समायोगात् शक्तिमान् उच्यते शिवः ॥शक्ति-शक्तिमत्-उत्थम् तु शाक्तम् शैवम् इदम् जगत् ॥ ७।२, ४।३६ ॥
evam śakti-samāyogāt śaktimān ucyate śivaḥ ..śakti-śaktimat-uttham tu śāktam śaivam idam jagat .. 7.2, 4.36 ..
यथा न जायते पुत्रः पितरं मातरं विना ॥तथा भवं भवानीं च विना नैतच्चराचरम् ॥स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च ॥ ७.२, ४.३७ ॥
यथा न जायते पुत्रः पितरम् मातरम् विना ॥तथा भवम् भवानीम् च विना ना एतत् चराचरम् ॥स्त्रीपुंस-प्रभवम् विश्वम् स्त्रीपुंस-आत्मकम् एव च ॥ ७।२, ४।३७ ॥
yathā na jāyate putraḥ pitaram mātaram vinā ..tathā bhavam bhavānīm ca vinā nā etat carācaram ..strīpuṃsa-prabhavam viśvam strīpuṃsa-ātmakam eva ca .. 7.2, 4.37 ..
स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् ॥परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता ॥ ७.२, ४.३८ ॥
स्त्रीपुंसयोः विभूतिः च स्त्रीपुंसाभ्याम् अधिष्ठितम् ॥परमात्मा शिवः प्रोक्तः शिवा सा च प्रकीर्तिता ॥ ७।२, ४।३८ ॥
strīpuṃsayoḥ vibhūtiḥ ca strīpuṃsābhyām adhiṣṭhitam ..paramātmā śivaḥ proktaḥ śivā sā ca prakīrtitā .. 7.2, 4.38 ..
शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी ॥शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते ॥ ७.२, ४.३९ ॥
शिवः सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी ॥शिवः महेश्वरः ज्ञेयः शिवा माया इति कथ्यते ॥ ७।२, ४।३९ ॥
śivaḥ sadāśivaḥ proktaḥ śivā sā ca manonmanī ..śivaḥ maheśvaraḥ jñeyaḥ śivā māyā iti kathyate .. 7.2, 4.39 ..
पुरुषः परमेशानः प्रकृतिः परमेश्वरी ॥रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा ॥ ७.२, ४.४० ॥
पुरुषः परमेशानः प्रकृतिः परमेश्वरी ॥रुद्रः महेश्वरः साक्षात् रुद्राणी रुद्र-वल्लभा ॥ ७।२, ४।४० ॥
puruṣaḥ parameśānaḥ prakṛtiḥ parameśvarī ..rudraḥ maheśvaraḥ sākṣāt rudrāṇī rudra-vallabhā .. 7.2, 4.40 ..
विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ॥ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया ॥ ७.२, ४.४१ ॥
॥ब्रह्मा शिवः यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया ॥ ७।२, ४।४१ ॥
..brahmā śivaḥ yadā sraṣṭā brahmāṇī brahmaṇaḥ priyā .. 7.2, 4.41 ..
भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा ॥महेंद्रो मन्मथारातिः शची शैलेन्द्रकन्यका ॥ ७.२, ४.४२ ॥
भास्करः भगवान् शंभुः प्रभा भगवती शिवा ॥ ॥ ७।२, ४।४२ ॥
bhāskaraḥ bhagavān śaṃbhuḥ prabhā bhagavatī śivā .. .. 7.2, 4.42 ..
जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी ॥यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका ॥ ७.२, ४.४३ ॥
जातवेदाः महादेवः स्वाहा शर्व-अर्ध-देहिनी ॥यमः त्रियंबकः देवः तद्-प्रिया गिरि-कन्यका ॥ ७।२, ४।४३ ॥
jātavedāḥ mahādevaḥ svāhā śarva-ardha-dehinī ..yamaḥ triyaṃbakaḥ devaḥ tad-priyā giri-kanyakā .. 7.2, 4.43 ..
निरृतिर्भगवानीशो नैरृती नगनंदनी ॥वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा ॥ ७.२, ४.४४ ॥
निरृतिः भगवान् ईशः नैरृती नगनन्दनी ॥ ॥ ७।२, ४।४४ ॥
nirṛtiḥ bhagavān īśaḥ nairṛtī naganandanī .. .. 7.2, 4.44 ..
बालेंदुशेखरो वायुः शिवा शिवमनोहरा ॥यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा ॥ ७.२, ४.४५ ॥
बाल-इंदु-शेखरः वायुः शिवा शिव-मनोहरा ॥ ॥ ७।२, ४।४५ ॥
bāla-iṃdu-śekharaḥ vāyuḥ śivā śiva-manoharā .. .. 7.2, 4.45 ..
चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ॥ईशानः परमेशानस्तदार्या परमेश्वरी ॥ ७.२, ४.४६ ॥
॥ईशानः परमेशानः तद्-आर्या परमेश्वरी ॥ ७।२, ४।४६ ॥
..īśānaḥ parameśānaḥ tad-āryā parameśvarī .. 7.2, 4.46 ..
अनंतवलयो ऽनंतो ह्यनंतानंतवल्लभा ॥कालाग्निरुद्रः कालारिः काली कालांतकप्रिया ॥ ७.२, ४.४७ ॥
anaṃtavalayo 'naṃto hyanaṃtānaṃtavallabhā ||kālāgnirudraḥ kālāriḥ kālī kālāṃtakapriyā || 7.2, 4.47 ||
anaṃtavalayo 'naṃto hyanaṃtānaṃtavallabhā ||kālāgnirudraḥ kālāriḥ kālī kālāṃtakapriyā || 7.2, 4.47 ||
पुरुषाख्यो मनुश्शंभुः शतरूपा शिवप्रिया ॥दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी ॥ ७.२, ४.४८ ॥
पुरुष-आख्यः मनुः शंभुः शतरूपा शिवप्रिया ॥दक्षः साक्षात् महादेवः प्रसूतिः परमेश्वरी ॥ ७।२, ४।४८ ॥
puruṣa-ākhyaḥ manuḥ śaṃbhuḥ śatarūpā śivapriyā ..dakṣaḥ sākṣāt mahādevaḥ prasūtiḥ parameśvarī .. 7.2, 4.48 ..
रुचिर्भवो भवानी च बुधैराकूतिरुच्यते ॥भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया ॥ ७.२, ४.४९ ॥
रुचिः भवः भवानी च बुधैः आकूतिः उच्यते ॥भृगुः भग-अक्षि-हा देवः ख्यातिः त्रिनयन-प्रिया ॥ ७।२, ४।४९ ॥
ruciḥ bhavaḥ bhavānī ca budhaiḥ ākūtiḥ ucyate ..bhṛguḥ bhaga-akṣi-hā devaḥ khyātiḥ trinayana-priyā .. 7.2, 4.49 ..
मरीचिभगवान्रुद्रः संभूतिश्शर्ववल्लभा ॥गंगाधरो ऽंगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥ ७.२, ४.५० ॥
मरीचि-भगवान् रुद्रः संभूतिः शर्व-वल्लभा ॥गंगाधरः अंगिराः ज्ञेयः स्मृतिः साक्षात् उमा स्मृता ॥ ७।२, ४।५० ॥
marīci-bhagavān rudraḥ saṃbhūtiḥ śarva-vallabhā ..gaṃgādharaḥ aṃgirāḥ jñeyaḥ smṛtiḥ sākṣāt umā smṛtā .. 7.2, 4.50 ..
पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः ॥पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया ॥ ७.२, ४.५१ ॥
पुलस्त्यः शशभृत् मौलिः प्रीतिः कांता पिनाकिनः ॥पुलहः त्रिपुर-ध्वंसी तद्-प्रिया तु शिवप्रिया ॥ ७।२, ४।५१ ॥
pulastyaḥ śaśabhṛt mauliḥ prītiḥ kāṃtā pinākinaḥ ..pulahaḥ tripura-dhvaṃsī tad-priyā tu śivapriyā .. 7.2, 4.51 ..
क्रतुध्वंसी क्रतुः प्रोक्तः संनतिर्दयिता विभोः ॥त्रिनेत्रो ऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥ ७.२, ४.५२ ॥
॥त्रिनेत्रः अत्रिः उमा साक्षात् अनसूया स्मृता बुधैः ॥ ७।२, ४।५२ ॥
..trinetraḥ atriḥ umā sākṣāt anasūyā smṛtā budhaiḥ .. 7.2, 4.52 ..
कश्यपः कालहा देवो देवमाता महेश्वरी ॥वसिष्ठो मन्मथारातिर्देवी साक्षादरुंधती ॥ ७.२, ४.५३ ॥
॥वसिष्ठः मन्मथ-अरातिः देवी साक्षात् अरुंधती ॥ ७।२, ४।५३ ॥
..vasiṣṭhaḥ manmatha-arātiḥ devī sākṣāt aruṃdhatī .. 7.2, 4.53 ..
शंकरः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी ॥सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः ॥ ७.२, ४.५४ ॥
शंकरः पुरुषाः सर्वे स्त्रियः सर्वा महेश्वरी ॥सर्वे स्त्री-पुरुषाः तस्मात् तयोः एव विभूतयः ॥ ७।२, ४।५४ ॥
śaṃkaraḥ puruṣāḥ sarve striyaḥ sarvā maheśvarī ..sarve strī-puruṣāḥ tasmāt tayoḥ eva vibhūtayaḥ .. 7.2, 4.54 ..
विषयी भगवानीशो विषयः परमेश्वरी ॥श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः ॥ ७.२, ४.५५ ॥
विषयी भगवान् ईशः विषयः परमेश्वरी ॥श्राव्यम् सर्वम् उमा-रूपम् श्रोता शूल-वर-आयुधः ॥ ७।२, ४।५५ ॥
viṣayī bhagavān īśaḥ viṣayaḥ parameśvarī ..śrāvyam sarvam umā-rūpam śrotā śūla-vara-āyudhaḥ .. 7.2, 4.55 ..
प्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा ॥प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः ॥ ७.२, ४.५६ ॥
प्रष्टव्यम् वस्तु-जातम् तु धत्ते शंकर-वल्लभा ॥प्रष्टा सः एव विश्वात्मा बालचन्द्र-अवतंसकः ॥ ७।२, ४।५६ ॥
praṣṭavyam vastu-jātam tu dhatte śaṃkara-vallabhā ..praṣṭā saḥ eva viśvātmā bālacandra-avataṃsakaḥ .. 7.2, 4.56 ..
द्रष्टव्यं वस्तुरूपं तु बिभर्ति वक्तवल्लभा ॥द्रष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः ॥ ७.२, ४.५७ ॥
द्रष्टव्यम् वस्तु-रूपम् तु बिभर्ति ॥द्रष्टा विश्वेश्वरः देवः शशि-खंड-शिखामणिः ॥ ७।२, ४।५७ ॥
draṣṭavyam vastu-rūpam tu bibharti ..draṣṭā viśveśvaraḥ devaḥ śaśi-khaṃḍa-śikhāmaṇiḥ .. 7.2, 4.57 ..
रसजातं महादेवी देवो रसयिता शिवः ॥प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः ॥ ७.२, ४.५८ ॥
॥च गिरिजा प्रेयान् च एव गर-अशनः ॥ ७।२, ४।५८ ॥
..ca girijā preyān ca eva gara-aśanaḥ .. 7.2, 4.58 ..
मंतव्यवस्तुतां धत्ते सदा देवी महेश्वरी ॥मंता स एव विश्वात्मा महादेवो महेश्वरः ॥ ७.२, ४.५९ ॥
मंतव्य-वस्तु-ताम् धत्ते सदा देवी महेश्वरी ॥मंता सः एव विश्वात्मा महादेवः महेश्वरः ॥ ७।२, ४।५९ ॥
maṃtavya-vastu-tām dhatte sadā devī maheśvarī ..maṃtā saḥ eva viśvātmā mahādevaḥ maheśvaraḥ .. 7.2, 4.59 ..
बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा ॥देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः ॥ ७.२, ४.६० ॥
बोद्धव्य-वस्तु-रूपम् तु बिभर्ति भव-वल्लभा ॥देवः सः एव भगवान् बोद्धा मुग्ध-इन्दुशेखरः ॥ ७।२, ४।६० ॥
boddhavya-vastu-rūpam tu bibharti bhava-vallabhā ..devaḥ saḥ eva bhagavān boddhā mugdha-induśekharaḥ .. 7.2, 4.60 ..
प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः ॥प्राणस्थितिस्तु सर्वेषामंबिका चांबुरूपिणी ॥ ७.२, ४.६१ ॥
प्राणः पिनाकी सर्वेषाम् प्राणिनाम् भगवान् प्रभुः ॥प्राण-स्थितिः तु सर्वेषाम् अंबिका च अंबु-रूपिणी ॥ ७।२, ४।६१ ॥
prāṇaḥ pinākī sarveṣām prāṇinām bhagavān prabhuḥ ..prāṇa-sthitiḥ tu sarveṣām aṃbikā ca aṃbu-rūpiṇī .. 7.2, 4.61 ..
बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा ॥क्षेत्रज्ञत्वं तदा धत्ते भगवानंतकांतकः ॥ ७.२, ४.६२ ॥
बिभर्ति क्षेत्र-ताम् देवी त्रिपुरांतक-वल्लभा ॥क्षेत्रज्ञ-त्वम् तदा धत्ते भगवान् अन्तक-अन्तकः ॥ ७।२, ४।६२ ॥
bibharti kṣetra-tām devī tripurāṃtaka-vallabhā ..kṣetrajña-tvam tadā dhatte bhagavān antaka-antakaḥ .. 7.2, 4.62 ..
अहः शूलायुधो देवः शूलपाणिप्रिया निशा ॥आकाशः शंकरो देवः पृथिवी शंकरप्रिया ॥ ७.२, ४.६३ ॥
अहर् शूल-आयुधः देवः शूलपाणि-प्रिया निशा ॥आकाशः शंकरः देवः पृथिवी शंकर-प्रिया ॥ ७।२, ४।६३ ॥
ahar śūla-āyudhaḥ devaḥ śūlapāṇi-priyā niśā ..ākāśaḥ śaṃkaraḥ devaḥ pṛthivī śaṃkara-priyā .. 7.2, 4.63 ..
समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका ॥वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया ॥ ७.२, ४.६४ ॥
samudro bhagavānīśo velā śailendrakanyakā ||vṛkṣo vṛṣadhvajo devo latā viśveśvarapriyā || 7.2, 4.64 ||
samudro bhagavānīśo velā śailendrakanyakā ||vṛkṣo vṛṣadhvajo devo latā viśveśvarapriyā || 7.2, 4.64 ||
पुंल्लिंगमखिलं धत्ते भगवान्पुरशासनः ॥स्त्रिलिंगं चाखिलं धत्ते देवी देवमनोरमा ॥ ७.२, ४.६५ ॥
पुंल्लिंगम् अखिलम् धत्ते भगवान् पुरशासनः ॥च अखिलम् धत्ते देवी देव-मनोरमा ॥ ७।२, ४।६५ ॥
puṃlliṃgam akhilam dhatte bhagavān puraśāsanaḥ ..ca akhilam dhatte devī deva-manoramā .. 7.2, 4.65 ..
शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ॥अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ ७.२, ४.६६ ॥
शब्द-जालम् अशेषम् तु धत्ते सर्वस्य वल्लभा ॥अर्थ-स्वरूपम् अखिलम् धत्ते मुग्ध-इन्दुशेखरः ॥ ७।२, ४।६६ ॥
śabda-jālam aśeṣam tu dhatte sarvasya vallabhā ..artha-svarūpam akhilam dhatte mugdha-induśekharaḥ .. 7.2, 4.66 ..
यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ॥सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ७.२, ४.६७ ॥
यस्य यस्य पदार्थस्य या या शक्तिः उदाहृता ॥सा सा विश्वेश्वरी देवी स स सर्वः महेश्वरः ॥ ७।२, ४।६७ ॥
yasya yasya padārthasya yā yā śaktiḥ udāhṛtā ..sā sā viśveśvarī devī sa sa sarvaḥ maheśvaraḥ .. 7.2, 4.67 ..
यत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् ॥तत्तदाह महाभागास्तयोस्तेजोविजृंभितम् ॥ ७.२, ४.६८ ॥
यत् परम् यत् पवित्रम् च यत् पुण्यम् यत् च मंगलम् ॥तत् तत् आह महाभागाः तयोः तेजः-विजृंभितम् ॥ ७।२, ४।६८ ॥
yat param yat pavitram ca yat puṇyam yat ca maṃgalam ..tat tat āha mahābhāgāḥ tayoḥ tejaḥ-vijṛṃbhitam .. 7.2, 4.68 ..
यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ॥तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत् ॥ ७.२, ४.६९ ॥
यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ॥तथा तेजः तयोः एतत् व्याप्य दीपयते जगत् ॥ ७।२, ४।६९ ॥
yathā dīpasya dīptasya śikhā dīpayate gṛham ..tathā tejaḥ tayoḥ etat vyāpya dīpayate jagat .. 7.2, 4.69 ..
तृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः ॥सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥ ७.२, ४.७० ॥
॥सन्निकर्ष-क्रम-वशात् तयोः इति परा श्रुतिः ॥ ७।२, ४।७० ॥
..sannikarṣa-krama-vaśāt tayoḥ iti parā śrutiḥ .. 7.2, 4.70 ..
सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ ॥पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा ॥ ७.२, ४.७१ ॥
सर्व-आकार-आत्मकौ एतौ सर्व-श्रेयः-विधायिनौ ॥पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा ॥ ७।२, ४।७१ ॥
sarva-ākāra-ātmakau etau sarva-śreyaḥ-vidhāyinau ..pūjanīyau namaskāryau ciṃtanīyau ca sarvadā .. 7.2, 4.71 ..
यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः ॥कथितं हि मया ते ऽद्य न तु तावदियत्तया ॥ ७.२, ४.७२ ॥
यथाप्रज्ञम् इदम् कृष्ण याथात्म्यम् परमेशयोः ॥कथितम् हि मया ते अद्य न तु तावत् इयत् तया ॥ ७।२, ४।७२ ॥
yathāprajñam idam kṛṣṇa yāthātmyam parameśayoḥ ..kathitam hi mayā te adya na tu tāvat iyat tayā .. 7.2, 4.72 ..
तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः ॥महतामपि सर्वेषां मनसो ऽपि बहिर्गतम् ॥ ७.२, ४.७३ ॥
तत् कथम् शक्यते वक्तुम् याथात्म्यम् परमेशयोः ॥महताम् अपि सर्वेषाम् मनसः अपि बहिस् गतम् ॥ ७।२, ४।७३ ॥
tat katham śakyate vaktum yāthātmyam parameśayoḥ ..mahatām api sarveṣām manasaḥ api bahis gatam .. 7.2, 4.73 ..
अंतर्गतमनन्यानामीश्वरार्पितचेतसाम् ॥अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत् ॥ ७.२, ४.७४ ॥
अंतर्गतम् अनन्यानाम् ईश्वर-अर्पित-चेतसाम् ॥अन्येषाम् बुद्धि-अन् आरूढम् आरूढम् च यथा एव तत् ॥ ७।२, ४।७४ ॥
aṃtargatam ananyānām īśvara-arpita-cetasām ..anyeṣām buddhi-an ārūḍham ārūḍham ca yathā eva tat .. 7.2, 4.74 ..
येयमुक्ता विभूतिर्वै प्राकृती सा परा मता ॥अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः ॥ ७.२, ४.७५ ॥
या इयम् उक्ता विभूतिः वै प्राकृती सा परा मता ॥अप्राकृताम् पराम् अन्याम् गुह्याम् गुह्य-विदः विदुः ॥ ७।२, ४।७५ ॥
yā iyam uktā vibhūtiḥ vai prākṛtī sā parā matā ..aprākṛtām parām anyām guhyām guhya-vidaḥ viduḥ .. 7.2, 4.75 ..
यतो वाचो निवर्तंते मनसा चेन्द्रियैस्सह ॥अप्राकृती परा चैषा विभूतिः पारमेश्वरी ॥ ७.२, ४.७६ ॥
यतस् वाचः निवर्तन्ते मनसा च इन्द्रियैः सह ॥अप्राकृती परा च एषा विभूतिः पारमेश्वरी ॥ ७।२, ४।७६ ॥
yatas vācaḥ nivartante manasā ca indriyaiḥ saha ..aprākṛtī parā ca eṣā vibhūtiḥ pārameśvarī .. 7.2, 4.76 ..
सैवेह परमं धाम सैवेह परमा गतिः ॥सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः ॥ ७.२, ४.७७ ॥
सा एव इह परमम् धाम सा एव इह परमा गतिः ॥सा एव इह परमा काष्ठा विभूतिः परमेष्ठिनः ॥ ७।२, ४।७७ ॥
sā eva iha paramam dhāma sā eva iha paramā gatiḥ ..sā eva iha paramā kāṣṭhā vibhūtiḥ parameṣṭhinaḥ .. 7.2, 4.77 ..
तां प्राप्तुं प्रयतंते ऽत्र जितश्वासा जितेंद्रियाः ॥गर्भकारा गृहद्वारं निश्छिद्रं घटितुं यथा ॥ ७.२, ४.७८ ॥
ताम् प्राप्तुम् प्रयतंते अत्र जित-श्वासाः जित-इंद्रियाः ॥गर्भकाराः गृह-द्वारम् निश्छिद्रम् घटितुम् यथा ॥ ७।२, ४।७८ ॥
tām prāptum prayataṃte atra jita-śvāsāḥ jita-iṃdriyāḥ ..garbhakārāḥ gṛha-dvāram niśchidram ghaṭitum yathā .. 7.2, 4.78 ..
संसाराशीविषालीढमृतसंजीवनौषधम् ॥विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन ॥ ७.२, ४.७९ ॥
॥विभूतिम् शिवयोः विद्वान् न बिभेति कुतश्चन ॥ ७।२, ४।७९ ॥
..vibhūtim śivayoḥ vidvān na bibheti kutaścana .. 7.2, 4.79 ..
यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः ॥सो ऽपरो भूतिमुल्लंघ्य परां भूतिं समश्नुते ॥ ७.२, ४.८० ॥
यः पराम् अपराम् च एव विभूतिम् वेत्ति तत्त्वतः ॥सः अपरः भूतिम् उल्लंघ्य पराम् भूतिम् समश्नुते ॥ ७।२, ४।८० ॥
yaḥ parām aparām ca eva vibhūtim vetti tattvataḥ ..saḥ aparaḥ bhūtim ullaṃghya parām bhūtim samaśnute .. 7.2, 4.80 ..
एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ॥रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति ॥ ७.२, ४.८१ ॥
एतत् ते कथितम् कृष्ण याथात्म्यम् परम-आत्मनोः ॥रहस्यम् अपि योग्यः असि भर्ग-भक्तः भवान् इति ॥ ७।२, ४।८१ ॥
etat te kathitam kṛṣṇa yāthātmyam parama-ātmanoḥ ..rahasyam api yogyaḥ asi bharga-bhaktaḥ bhavān iti .. 7.2, 4.81 ..
नाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ॥व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥ ७.२, ४.८२ ॥
न अ शिष्येभ्यः अपि अ शैवेभ्यः न अभक्तेभ्यः कदाचन ॥व्याहरेत् ईशयोः भूतिम् इति वेद-अनुशासनम् ॥ ७।२, ४।८२ ॥
na a śiṣyebhyaḥ api a śaivebhyaḥ na abhaktebhyaḥ kadācana ..vyāharet īśayoḥ bhūtim iti veda-anuśāsanam .. 7.2, 4.82 ..
तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि ॥त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥ ७.२, ४.८३ ॥
तस्मात् त्वम् अति कल्याण-परेभ्यः कथयेत् न हि ॥त्वादृशेभ्यः अनुरूपेभ्यः कथय एतत् न च अन्यथा ॥ ७।२, ४।८३ ॥
tasmāt tvam ati kalyāṇa-parebhyaḥ kathayet na hi ..tvādṛśebhyaḥ anurūpebhyaḥ kathaya etat na ca anyathā .. 7.2, 4.83 ..
विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ॥संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ७.२, ४.८४ ॥
विभूतिम् एताम् शिवयोः योग्येभ्यः यः प्रदापयेत् ॥संसार-सागरात् मुक्तः शिव-सायुज्यम् आप्नुयात् ॥ ७।२, ४।८४ ॥
vibhūtim etām śivayoḥ yogyebhyaḥ yaḥ pradāpayet ..saṃsāra-sāgarāt muktaḥ śiva-sāyujyam āpnuyāt .. 7.2, 4.84 ..
कीर्तनादस्य नश्यंति महान्त्यः पापकोटयः ॥त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः ॥ ७.२, ४.८५ ॥
कीर्तनात् अस्य नश्यंति महान्त्यः पाप-कोटयः ॥त्रिस् चतुर्धा समभ्यस्तैः विनश्यंति ततस् अधिकाः ॥ ७।२, ४।८५ ॥
kīrtanāt asya naśyaṃti mahāntyaḥ pāpa-koṭayaḥ ..tris caturdhā samabhyastaiḥ vinaśyaṃti tatas adhikāḥ .. 7.2, 4.85 ..
नश्यंत्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा ॥विद्या च वर्धते शैवी मतिस्सत्ये प्रवर्तते ॥ ७.२, ४.८६ ॥
नश्यंति अनिष्ट-रिपवः वर्धन्ते सुहृदः तथा ॥विद्या च वर्धते शैवी मतिः सत्ये प्रवर्तते ॥ ७।२, ४।८६ ॥
naśyaṃti aniṣṭa-ripavaḥ vardhante suhṛdaḥ tathā ..vidyā ca vardhate śaivī matiḥ satye pravartate .. 7.2, 4.86 ..
भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे ॥यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम् ॥ ७.२, ४.८७ ॥
भक्तिः पराः शिवे स अम्बे स अनुगे स परिच्छिदे ॥यत् यत् इष्टतमम् च अन्यत् तत् तत् आप्नोति असंशयम् ॥ ७।२, ४।८७ ॥
bhaktiḥ parāḥ śive sa ambe sa anuge sa paricchide ..yat yat iṣṭatamam ca anyat tat tat āpnoti asaṃśayam .. 7.2, 4.87 ..
अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि ॥प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते ॥पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्ल्लभम् ॥ ७.२, ४.८८ ॥
अन्तर् शुचिः शिवे भक्तः विस्रब्धः कीर्तयेत् यदि ॥प्रबलैः कर्मभिः पूर्वैः फलम् चेद् प्रतिबध्यते ॥पुनर् पुनर् समभ्यस्येत् तस्य ना अस्ति इह दुर्ल्लभम् ॥ ७।२, ४।८८ ॥
antar śuciḥ śive bhaktaḥ visrabdhaḥ kīrtayet yadi ..prabalaiḥ karmabhiḥ pūrvaiḥ phalam ced pratibadhyate ..punar punar samabhyasyet tasya nā asti iha durllabham .. 7.2, 4.88 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशंकरविभूतियोगो नाम चतुर्थो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे गौरीशंकरविभूतियोगः नाम चतुर्थः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe gaurīśaṃkaravibhūtiyogaḥ nāma caturthaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In