| |
|

This overlay will guide you through the buttons:

सूत उवाच॥
तत्र स्कंदसरो नाम सरस्सागरसन्निभम् ॥ अमृतस्वादुशिशिरस्वच्छा गाधलघूदकम् ॥ ॥
तत्र स्कंदसरः नाम सरः-सागर-सन्निभम् ॥ अमृत-स्वादु-शिशिर-सु अच्छाः गाध-लघु-उदकम् ॥ ॥
tatra skaṃdasaraḥ nāma saraḥ-sāgara-sannibham .. amṛta-svādu-śiśira-su acchāḥ gādha-laghu-udakam .. ..
समंततः संघटितं स्फटिको पलसंचयैः ॥ सर्वर्तुकुसुमैः फुल्लैश्छादिताखिलदिङ्मुखम् ॥ ॥
समंततः संघटितम् स्फटिकः पल-संचयैः ॥ सर्व-ऋतु-कुसुमैः फुल्लैः छादित-अखिल-दिङ्मुखम् ॥ ॥
samaṃtataḥ saṃghaṭitam sphaṭikaḥ pala-saṃcayaiḥ .. sarva-ṛtu-kusumaiḥ phullaiḥ chādita-akhila-diṅmukham .. ..
शैवलैरुत्पलैः पद्मैः कुमुदैस्तारकोपमैः ॥ तरंगैरभ्रसंकाशैराकाशमिव भूमिगम् ॥ ७.२,४१.१॥
शैवलैः उत्पलैः पद्मैः कुमुदैः तारक-उपमैः ॥ तरंगैः अभ्र-संकाशैः आकाशम् इव भूमि-गम् ॥ ७।२,४१।१॥
śaivalaiḥ utpalaiḥ padmaiḥ kumudaiḥ tāraka-upamaiḥ .. taraṃgaiḥ abhra-saṃkāśaiḥ ākāśam iva bhūmi-gam .. 7.2,41.1..
सुखावतरणारोहैः स्थलैर्नीलशिलामयैः ॥ सोपानमार्गौ रुचिरैश्शोभमानाष्टदिङ्मुखम् ॥ ७.२,४१.२॥
सुख-अवतरण-आरोहैः स्थलैः नील-शिला-मयैः ॥ सोपान-मार्गौ रुचिरैः शोभमान-अष्ट-दिश्-मुखम् ॥ ७।२,४१।२॥
sukha-avataraṇa-ārohaiḥ sthalaiḥ nīla-śilā-mayaiḥ .. sopāna-mārgau ruciraiḥ śobhamāna-aṣṭa-diś-mukham .. 7.2,41.2..
तत्रावतीर्णैश्च यथा तत्रोत्तीर्णश्च भूयसा ॥ स्नातैः सितोपवीतैश्च शुक्लाकौपीनवल्कलैः ॥ ७.२,४१.३॥
तत्र अवतीर्णैः च यथा तत्र उत्तीर्णः च भूयसा ॥ स्नातैः सित-उपवीतैः च ॥ ७।२,४१।३॥
tatra avatīrṇaiḥ ca yathā tatra uttīrṇaḥ ca bhūyasā .. snātaiḥ sita-upavītaiḥ ca .. 7.2,41.3..
जटाशिखायनैर्मुंडैस्त्रिपुंड्रकृतमंडनैः ॥ विरागविवशस्मेरमुखैर्मुनिकुमारकैः ॥ ७.२,४१.४॥
जटा-शिखायनैः मुंडैः त्रिपुंड्र-कृत-मंडनैः ॥ विराग-विवश-स्मेर-मुखैः मुनि-कुमारकैः ॥ ७।२,४१।४॥
jaṭā-śikhāyanaiḥ muṃḍaiḥ tripuṃḍra-kṛta-maṃḍanaiḥ .. virāga-vivaśa-smera-mukhaiḥ muni-kumārakaiḥ .. 7.2,41.4..
घटैः कमलिनीपत्रपुटैश्च कलशैः शिवैः ॥ कमण्डलुभिरन्यैश्च तादृशैः करकादिभिः ॥ ७.२,४१.५॥
घटैः कमलिनी-पत्र-पुटैः च कलशैः शिवैः ॥ कमण्डलुभिः अन्यैः च तादृशैः करक-आदिभिः ॥ ७।२,४१।५॥
ghaṭaiḥ kamalinī-patra-puṭaiḥ ca kalaśaiḥ śivaiḥ .. kamaṇḍalubhiḥ anyaiḥ ca tādṛśaiḥ karaka-ādibhiḥ .. 7.2,41.5..
आत्मार्थं च परार्थं च देवतार्थं विशेषतः ॥ आनीयमानसलिलमात्तपुष्पं च नित्यशः ॥ ७.२,४१.६॥
आत्म-अर्थम् च पर-अर्थम् च देवता-अर्थम् विशेषतः ॥ आनीयमान-सलिलम् आत्त-पुष्पम् च नित्यशस् ॥ ७।२,४१।६॥
ātma-artham ca para-artham ca devatā-artham viśeṣataḥ .. ānīyamāna-salilam ātta-puṣpam ca nityaśas .. 7.2,41.6..
अंतर्जलशिलारूढैर्नीचानां स्पर्शशंकया ॥ आचारवद्भिर्मुनिभिः कृतभस्मांगधूसरैः ॥ ७.२,४१.७॥
अन्तर् जल-शिला-आरूढैः नीचानाम् स्पर्श-शंकया ॥ आचारवद्भिः मुनिभिः कृत-भस्म-अंग-धूसरैः ॥ ७।२,४१।७॥
antar jala-śilā-ārūḍhaiḥ nīcānām sparśa-śaṃkayā .. ācāravadbhiḥ munibhiḥ kṛta-bhasma-aṃga-dhūsaraiḥ .. 7.2,41.7..
इतस्ततो ऽप्सु मज्जद्भिरिष्टशिष्टैः शिलागतैः ॥ तिलैश्च साक्षतैः पुष्पैस्त्यक्तदर्भपवित्रकैः ॥ ७.२,४१.८॥
इतस् ततस् अप्सु मज्जद्भिः इष्ट-शिष्टैः शिला-गतैः ॥ तिलैः च स अक्षतैः पुष्पैः त्यक्त-दर्भ-पवित्रकैः ॥ ७।२,४१।८॥
itas tatas apsu majjadbhiḥ iṣṭa-śiṣṭaiḥ śilā-gataiḥ .. tilaiḥ ca sa akṣataiḥ puṣpaiḥ tyakta-darbha-pavitrakaiḥ .. 7.2,41.8..
देवाद्यमृषिमध्यं च निर्वर्त्य पितृतर्पणम् ॥ निवेदयेदभिज्ञेभ्यो नित्यस्नानगतान् द्विजान् ॥ ७.२,४१.९॥
देव-आद्यम् ऋषि-मध्यम् च निर्वर्त्य पितृ-तर्पणम् ॥ निवेदयेत् अभिज्ञेभ्यः नित्य-स्नान-गतान् द्विजान् ॥ ७।२,४१।९॥
deva-ādyam ṛṣi-madhyam ca nirvartya pitṛ-tarpaṇam .. nivedayet abhijñebhyaḥ nitya-snāna-gatān dvijān .. 7.2,41.9..
स्थानेस्थाने कृतानेकबलिपुष्पसमीरणैः ॥ सौरार्घ्यपूर्वं कुर्वद्भिःस्थंडलेभ्यर्चनादिकम् ॥ ७.२,४१.१०॥
स्थाने स्थाने कृत-अनेक-बलि-पुष्प-समीरणैः ॥ सौर-अर्घ्य-पूर्वम् कुर्वद्भिः स्थंडलेभ्यः अर्चन-आदिकम् ॥ ७।२,४१।१०॥
sthāne sthāne kṛta-aneka-bali-puṣpa-samīraṇaiḥ .. saura-arghya-pūrvam kurvadbhiḥ sthaṃḍalebhyaḥ arcana-ādikam .. 7.2,41.10..
क्वचिन्निमज्जदुन्मज्जत्प्रस्रस्तगजयूथपम् ॥ क्वचिच्च तृषयायातमृगीमृगतुरंगमम् ॥ ७.२,४१.११॥
क्वचिद् निमज्जत् उन्मज्जत् प्रस्रस्त-गज-यूथपम् ॥ क्वचिद् च तृषया आयात-मृगी-मृग-तुरंगमम् ॥ ७।२,४१।११॥
kvacid nimajjat unmajjat prasrasta-gaja-yūthapam .. kvacid ca tṛṣayā āyāta-mṛgī-mṛga-turaṃgamam .. 7.2,41.11..
क्वचित्पीतजनोत्तीर्णमयूरवरवारणम् ॥ क्वचित्कृततटाघातवृषप्रतिवृषोज्ज्वलम् ॥ ७.२,४१.१२॥
क्वचिद् पीत-जन-उत्तीर्ण-मयूर-वर-वारणम् ॥ क्वचिद् कृत-तट-आघात-वृष-प्रतिवृष-उज्ज्वलम् ॥ ७।२,४१।१२॥
kvacid pīta-jana-uttīrṇa-mayūra-vara-vāraṇam .. kvacid kṛta-taṭa-āghāta-vṛṣa-prativṛṣa-ujjvalam .. 7.2,41.12..
क्वचित्कारंडवरवैः क्वचित्सारसकूजितैः ॥ क्वचिच्च कोकनिनदैः क्वचिद्भ्रमरगीतिभिः ॥ ७.२,४१.१३॥
क्वचिद् कारंडव-रवैः क्वचिद् सारस-कूजितैः ॥ क्वचिद् च कोक-निनदैः क्वचिद् भ्रमर-गीतिभिः ॥ ७।२,४१।१३॥
kvacid kāraṃḍava-ravaiḥ kvacid sārasa-kūjitaiḥ .. kvacid ca koka-ninadaiḥ kvacid bhramara-gītibhiḥ .. 7.2,41.13..
स्नानपानादिकरणैः स्वसंपद्द्रुमजीविभिः ॥ प्रणयात्प्राणिभिस्तैस्तैर्भाषमाणमिवासकृत् ॥ ७.२,४१.१४॥
स्नान-पान-आदि-करणैः स्व-संपद्-द्रुम-जीविभिः ॥ प्रणयात् प्राणिभिः तैः तैः भाषमाणम् इव असकृत् ॥ ७।२,४१।१४॥
snāna-pāna-ādi-karaṇaiḥ sva-saṃpad-druma-jīvibhiḥ .. praṇayāt prāṇibhiḥ taiḥ taiḥ bhāṣamāṇam iva asakṛt .. 7.2,41.14..
कूलशाखिशिखालीनकोकिलाकुलकूजितैः ॥ आतपोपहतान्सर्वान्नामंत्रयदिवानिशम् ॥ ७.२,४१.१५॥
कूल-शाखि-शिखा-आलीन-कोकिल-आकुल-कूजितैः ॥ आतप-उपहतान् सर्वान् ना अमंत्रयत् इवानिशम् ॥ ७।२,४१।१५॥
kūla-śākhi-śikhā-ālīna-kokila-ākula-kūjitaiḥ .. ātapa-upahatān sarvān nā amaṃtrayat ivāniśam .. 7.2,41.15..
उत्तरे तस्य सरसस्तीरे कल्पतरोरधः ॥ वेद्यां वज्रशिलामय्यां मृदुले मृगचर्मणि ॥ ७.२,४१.१६॥
उत्तरे तस्य सरसः तीरे कल्पतरोः अधस् ॥ वेद्याम् वज्र-शिला-मय्याम् मृदुले मृग-चर्मणि ॥ ७।२,४१।१६॥
uttare tasya sarasaḥ tīre kalpataroḥ adhas .. vedyām vajra-śilā-mayyām mṛdule mṛga-carmaṇi .. 7.2,41.16..
सनत्कुमारमासीनं शश्वद्बालवपुर्धरम् ॥ तत्कालमात्रोपरतं समाधेरचलात्मनः ॥ ७.२,४१.१७॥
सनत्कुमारम् आसीनम् शश्वत् बाल-वपुः-धरम् ॥ तद्-काल-मात्र-उपरतम् समाधेः अचल-आत्मनः ॥ ७।२,४१।१७॥
sanatkumāram āsīnam śaśvat bāla-vapuḥ-dharam .. tad-kāla-mātra-uparatam samādheḥ acala-ātmanaḥ .. 7.2,41.17..
उपास्यमानं मुनिभिर्योगींद्रैरपि पूजितम् ॥ ददृशुर्नैमिषेयास्ते प्रणताश्चोपतस्थिरे ॥ ७.२,४१.१८॥
उपास्यमानम् मुनिभिः योगि-इंद्रैः अपि पूजितम् ॥ ददृशुः नैमिषेयाः ते प्रणताः च उपतस्थिरे ॥ ७।२,४१।१८॥
upāsyamānam munibhiḥ yogi-iṃdraiḥ api pūjitam .. dadṛśuḥ naimiṣeyāḥ te praṇatāḥ ca upatasthire .. 7.2,41.18..
यावत्पृष्टवते तस्मै प्रोचुः स्वागतकारणम् ॥ तुमुलः शुश्रुवे तावद्दिवि दुंदुभिनिस्वनः ॥ ७.२,४१.१९॥
यावत् पृष्टवते तस्मै प्रोचुः स्वागत-कारणम् ॥ तुमुलः शुश्रुवे तावत् दिवि दुंदुभि-निस्वनः ॥ ७।२,४१।१९॥
yāvat pṛṣṭavate tasmai procuḥ svāgata-kāraṇam .. tumulaḥ śuśruve tāvat divi duṃdubhi-nisvanaḥ .. 7.2,41.19..
ददृशे तत्क्षणे तस्मिन्विमानं भानुसन्निभम् ॥ गणेश्वरैरसंख्येयैः संवृतं च समंततः ॥ ७.२,४१.२०॥
ददृशे तद्-क्षणे तस्मिन् विमानम् भानु-सन्निभम् ॥ गणेश्वरैः असंख्येयैः संवृतम् च समंततः ॥ ७।२,४१।२०॥
dadṛśe tad-kṣaṇe tasmin vimānam bhānu-sannibham .. gaṇeśvaraiḥ asaṃkhyeyaiḥ saṃvṛtam ca samaṃtataḥ .. 7.2,41.20..
अप्सरोगणसंकीर्णं रुद्रकन्याभिरावृतम् ॥ मृदंगमुरजोद्घुष्टं वेणुवीणारवान्वितम् ॥ ७.२,४१.२१॥
अप्सरः-गण-संकीर्णम् रुद्र-कन्याभिः आवृतम् ॥ मृदंग-मुरज-उद्घुष्टम् वेणु-वीणा-रव-अन्वितम् ॥ ७।२,४१।२१॥
apsaraḥ-gaṇa-saṃkīrṇam rudra-kanyābhiḥ āvṛtam .. mṛdaṃga-muraja-udghuṣṭam veṇu-vīṇā-rava-anvitam .. 7.2,41.21..
चित्ररत्नवितानाढ्यं मुक्तादामविराजितम् ॥ मुनिभिस्सिद्धगंधर्वैर्यक्षचारणकिन्नरैः ॥ ७.२,४१.२२॥
चित्र-रत्न-वितान-आढ्यम् मुक्ता-दाम-विराजितम् ॥ मुनिभिः सिद्ध-गंधर्वैः यक्ष-चारण-किन्नरैः ॥ ७।२,४१।२२॥
citra-ratna-vitāna-āḍhyam muktā-dāma-virājitam .. munibhiḥ siddha-gaṃdharvaiḥ yakṣa-cāraṇa-kinnaraiḥ .. 7.2,41.22..
नृत्यद्भिश्चैव गायद्भिर्वादयद्भिश्च संवृतम् ॥ वीरगोवृषचिह्नेन विद्रमद्रुमयष्टिना ॥ ७.२,४१.२३॥
नृत्यद्भिः च एव गायद्भिः वादयद्भिः च संवृतम् ॥ वीर-गो-वृष-चिह्नेन विद्रम-द्रुम-यष्टिना ॥ ७।२,४१।२३॥
nṛtyadbhiḥ ca eva gāyadbhiḥ vādayadbhiḥ ca saṃvṛtam .. vīra-go-vṛṣa-cihnena vidrama-druma-yaṣṭinā .. 7.2,41.23..
कृतगोपुरसत्कारं केतुना मान्यहेतुना ॥ तस्य मध्ये विमानस्य चामरद्वितयांतरे ॥ ७.२,४१.२४॥
कृत-गोपुर-सत्कारम् केतुना मान्य-हेतुना ॥ तस्य मध्ये विमानस्य चामर-द्वितय-अंतरे ॥ ७।२,४१।२४॥
kṛta-gopura-satkāram ketunā mānya-hetunā .. tasya madhye vimānasya cāmara-dvitaya-aṃtare .. 7.2,41.24..
छत्त्रस्य मणिदंडस्य चंद्रस्येव शुचेरधः ॥ दिव्यसिंहासनारूढं देव्या सुयशया सह ॥ ७.२,४१.२५॥
छत्त्रस्य मणि-दंडस्य चंद्रस्य इव शुचेः अधस् ॥ दिव्य-सिंहासन-आरूढम् देव्या सुयशया सह ॥ ७।२,४१।२५॥
chattrasya maṇi-daṃḍasya caṃdrasya iva śuceḥ adhas .. divya-siṃhāsana-ārūḍham devyā suyaśayā saha .. 7.2,41.25..
श्रिया च वपुषा चैव त्रिभिश्चापि विलोचनैः ॥ प्राकारैरभिकृत्यानां प्रत्यभिज्ञापकं प्रभोः ॥ ७.२,४१.२६॥
श्रिया च वपुषा च एव त्रिभिः च अपि विलोचनैः ॥ प्राकारैः अभिकृत्यानाम् प्रत्यभिज्ञापकम् प्रभोः ॥ ७।२,४१।२६॥
śriyā ca vapuṣā ca eva tribhiḥ ca api vilocanaiḥ .. prākāraiḥ abhikṛtyānām pratyabhijñāpakam prabhoḥ .. 7.2,41.26..
अविलंघ्य जगत्कर्तुराज्ञापनमिवागतम् ॥ सर्वानुग्रहणं शंभोः साक्षादिव पुरःस्थितम् ॥ ७.२,४१.२७॥
अ विलंघ्य जगत्कर्तुः आज्ञापनम् इव आगतम् ॥ सर्व-अनुग्रहणम् शंभोः साक्षात् इव पुरस् स्थितम् ॥ ७।२,४१।२७॥
a vilaṃghya jagatkartuḥ ājñāpanam iva āgatam .. sarva-anugrahaṇam śaṃbhoḥ sākṣāt iva puras sthitam .. 7.2,41.27..
शिलादतनयं साक्षाच्छ्रीमच्छूलवरायुधम् ॥ विश्वेश्वरगणाध्यक्षं विश्वेश्वरमिवापरम् ॥ ७.२,४१.२८॥
शिलाद-तनयम् साक्षात् श्रीमत्-शूल-वर-आयुधम् ॥ विश्व-ईश्वर-गण-अध्यक्षम् विश्वेश्वरम् इव अपरम् ॥ ७।२,४१।२८॥
śilāda-tanayam sākṣāt śrīmat-śūla-vara-āyudham .. viśva-īśvara-gaṇa-adhyakṣam viśveśvaram iva aparam .. 7.2,41.28..
विश्वस्यापि विधात्ःणां निग्रहानुग्रहक्षमम् ॥ चतुर्बाहुमुदारांगं चन्द्ररेखाविभूषितम् ॥ ७.२,४१.२९॥
विश्वस्य अपि विधात्ःणाम् निग्रह-अनुग्रह-क्षमम् ॥ चतुर्-बाहुम् उदार-अंगम् चन्द्र-रेखा-विभूषितम् ॥ ७।२,४१।२९॥
viśvasya api vidhātḥṇām nigraha-anugraha-kṣamam .. catur-bāhum udāra-aṃgam candra-rekhā-vibhūṣitam .. 7.2,41.29..
कंठे नागेन मौलौ च शशांकेनाप्यलंकृतम् ॥ सविग्रहमिवैश्वर्यं सामर्थ्यमिव सक्रियम् ॥ ७.२,४१.३०॥
कंठे नागेन मौलौ च शशांकेन अपि अलंकृतम् ॥ स विग्रहम् इव ऐश्वर्यम् सामर्थ्यम् इव स क्रियम् ॥ ७।२,४१।३०॥
kaṃṭhe nāgena maulau ca śaśāṃkena api alaṃkṛtam .. sa vigraham iva aiśvaryam sāmarthyam iva sa kriyam .. 7.2,41.30..
समाप्तमिव निर्वाणं सर्वज्ञमिव संगतम् ॥ दृष्ट्वा प्रहृष्टवदनो ब्रह्मपुत्रः सहर्षिभिः ॥ ७.२,४१.३१॥
समाप्तम् इव निर्वाणम् सर्वज्ञम् इव संगतम् ॥ दृष्ट्वा प्रहृष्ट-वदनः ब्रह्म-पुत्रः सह ऋषिभिः ॥ ७।२,४१।३१॥
samāptam iva nirvāṇam sarvajñam iva saṃgatam .. dṛṣṭvā prahṛṣṭa-vadanaḥ brahma-putraḥ saha ṛṣibhiḥ .. 7.2,41.31..
तस्थौ प्राञ्जलिरुत्थाय तस्यात्मानमिवार्पयन् ॥ अथ तत्रांतरे तस्मिन्विमाने चावनिं गते ॥ ७.२,४१.३२॥
तस्थौ प्राञ्जलिः उत्थाय तस्य आत्मानम् इव अर्पयन् ॥ अथ तत्र अन्तरे तस्मिन् विमाने च अवनिम् गते ॥ ७।२,४१।३२॥
tasthau prāñjaliḥ utthāya tasya ātmānam iva arpayan .. atha tatra antare tasmin vimāne ca avanim gate .. 7.2,41.32..
प्रणम्य दण्डवद्देवं स्तुत्वा व्यज्ञापयन्मुनीम् ॥ षट्कुलीया इमे दीर्घं नैमिषे सत्रमास्थिताः ॥ आगता ब्रह्मणादिष्टाः पूर्वमेवाभिकांक्षया ॥ ७.२,४१.३३॥
प्रणम्य दण्ड-वत् देवम् स्तुत्वा व्यज्ञापयत् मुनीम् ॥ षट्कुलीयाः इमे दीर्घम् नैमिषे सत्रम् आस्थिताः ॥ आगताः ब्रह्मणा आदिष्टाः पूर्वम् एव अभिकांक्षया ॥ ७।२,४१।३३॥
praṇamya daṇḍa-vat devam stutvā vyajñāpayat munīm .. ṣaṭkulīyāḥ ime dīrgham naimiṣe satram āsthitāḥ .. āgatāḥ brahmaṇā ādiṣṭāḥ pūrvam eva abhikāṃkṣayā .. 7.2,41.33..
श्रुत्वा वाक्यं ब्रह्मपुत्रस्य नंदीछित्त्वा पाशान्दृष्टिपातेन सद्यः ॥ शैवं धर्मं चैश्वरं ज्ञानयोगं दत्त्वा भूयो देवपार्श्वं जगाम ॥ ७.२,४१.३४॥
श्रुत्वा वाक्यम् ब्रह्म-पुत्रस्य नंदी-छित्त्वा पाशान् दृष्टिपातेन सद्यस् ॥ शैवम् धर्मम् च ऐश्वरम् ज्ञान-योगम् दत्त्वा भूयस् देव-पार्श्वम् जगाम ॥ ७।२,४१।३४॥
śrutvā vākyam brahma-putrasya naṃdī-chittvā pāśān dṛṣṭipātena sadyas .. śaivam dharmam ca aiśvaram jñāna-yogam dattvā bhūyas deva-pārśvam jagāma .. 7.2,41.34..
सनत्कुमारेण च तत्समस्तं व्यासाय साक्षाद्गुरवे ममोक्तम् ॥ व्यासेन चोक्तं महितेन मह्यं मया च तद्वः कथितं समासात् ॥ ७.२,४१.३५॥
सनत्कुमारेण च तत् समस्तम् व्यासाय साक्षात् गुरवे मम उक्तम् ॥ व्यासेन च उक्तम् महितेन मह्यम् मया च तत् वः कथितम् समासात् ॥ ७।२,४१।३५॥
sanatkumāreṇa ca tat samastam vyāsāya sākṣāt gurave mama uktam .. vyāsena ca uktam mahitena mahyam mayā ca tat vaḥ kathitam samāsāt .. 7.2,41.35..
नावेदविद्भ्यः कथनीयमेतत्पुराणरत्नं पुरशासनस्य ॥ नाभक्तशिष्याय च नास्तिकेभ्यो दत्तं हि मोहान्निरयं ददाति ॥ ७.२,४१.३६॥
न अ वेद-विद्भ्यः कथनीयम् एतत् पुराण-रत्नम् पुरशासनस्य ॥ न अभक्त-शिष्याय च नास्तिकेभ्यः दत्तम् हि मोहात् निरयम् ददाति ॥ ७।२,४१।३६॥
na a veda-vidbhyaḥ kathanīyam etat purāṇa-ratnam puraśāsanasya .. na abhakta-śiṣyāya ca nāstikebhyaḥ dattam hi mohāt nirayam dadāti .. 7.2,41.36..
मार्गेण सेवानुगतेन यैस्तद्दत्तं गृहीतं पठितं श्रुतं वा ॥ तेभ्यः सुखं धर्ममुखं त्रिवर्गं निर्वाणमंते नियतं ददाति ॥ ७.२,४१.३७॥
मार्गेण सेवा-अनुगतेन यैः तत् दत्तम् गृहीतम् पठितम् श्रुतम् वा ॥ तेभ्यः सुखम् धर्म-मुखम् त्रिवर्गम् निर्वाणम् अन्ते नियतम् ददाति ॥ ७।२,४१।३७॥
mārgeṇa sevā-anugatena yaiḥ tat dattam gṛhītam paṭhitam śrutam vā .. tebhyaḥ sukham dharma-mukham trivargam nirvāṇam ante niyatam dadāti .. 7.2,41.37..
परस्परस्योपकृतं भवद्भिर्मया च पौराणिकमार्गयोगात् ॥ अतो गमिष्ये ऽहमवाप्तकामः समस्तमेवास्तु शिवं सदा नः ॥ ७.२,४१.३८॥
परस्परस्य उपकृतम् भवद्भिः मया च पौराणिक-मार्ग-योगात् ॥ अतस् गमिष्ये अहम् अवाप्त-कामः समस्तम् एव अस्तु शिवम् सदा नः ॥ ७।२,४१।३८॥
parasparasya upakṛtam bhavadbhiḥ mayā ca paurāṇika-mārga-yogāt .. atas gamiṣye aham avāpta-kāmaḥ samastam eva astu śivam sadā naḥ .. 7.2,41.38..
सूते कृताशिषि गते मुनयः सुवृत्ता यागे च पर्यवसिते महति प्रयोगे ॥ काले कलौ च विषयैः कलुषायमाणे वाराणसीपरिसरे वसतिं विनेतुः ॥ ७.२,४१.३९॥
सूते कृत-आशिषि गते मुनयः सु वृत्ताः यागे च पर्यवसिते महति प्रयोगे ॥ काले कलौ च विषयैः कलुषायमाणे वाराणसी-परिसरे वसतिम् विनेतुः ॥ ७।२,४१।३९॥
sūte kṛta-āśiṣi gate munayaḥ su vṛttāḥ yāge ca paryavasite mahati prayoge .. kāle kalau ca viṣayaiḥ kaluṣāyamāṇe vārāṇasī-parisare vasatim vinetuḥ .. 7.2,41.39..
अथ च ते पशुपाशमुमुक्षयाखिलतया कृतपाशुपतव्रताः ॥ अधिकृताखिलबोधसमाधयः परमनिर्वृतिमापुरनिंदिताः ॥ ७.२,४१.४०॥
अथ च ते पशु-पाश-मुमुक्षया अखिल-तया कृत-पाशुपत-व्रताः ॥ अधिकृत-अखिल-बोध-समाधयः परम-निर्वृतिम् आपुः अनिंदिताः ॥ ७।२,४१।४०॥
atha ca te paśu-pāśa-mumukṣayā akhila-tayā kṛta-pāśupata-vratāḥ .. adhikṛta-akhila-bodha-samādhayaḥ parama-nirvṛtim āpuḥ aniṃditāḥ .. 7.2,41.40..
व्यास उवाच ७.२,४१.४१॥
एतच्छिवपुराणं हि समाप्तं हितमादरात् ॥ पठितव्यं प्रयत्नेन श्रोतव्यं च तथैव हि ॥ ७.२,४१.४१॥
एतत् शिव-पुराणम् हि समाप्तम् हितम् आदरात् ॥ पठितव्यम् प्रयत्नेन श्रोतव्यम् च तथा एव हि ॥ ७।२,४१।४१॥
etat śiva-purāṇam hi samāptam hitam ādarāt .. paṭhitavyam prayatnena śrotavyam ca tathā eva hi .. 7.2,41.41..
नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च ॥ अभक्ताय महेशस्य तथा धर्मध्वजाय च ॥ ७.२,४१.४२॥
नास्तिकाय न वक्तव्यम् अश्रद्धाय शठाय च ॥ अभक्ताय महेशस्य तथा धर्मध्वजाय च ॥ ७।२,४१।४२॥
nāstikāya na vaktavyam aśraddhāya śaṭhāya ca .. abhaktāya maheśasya tathā dharmadhvajāya ca .. 7.2,41.42..
एतच्छ्रुत्या ह्येकवारं भवेत्पापं हि भस्मसात् ॥ अभक्तो भक्तिमाप्नोति भक्तो भक्तिसमृद्धिभाक् ॥ ७.२,४१.४३॥
एतद्-श्रुत्या हि एक-वारम् भवेत् पापम् हि भस्मसात् ॥ अभक्तः भक्तिम् आप्नोति भक्तः भक्ति-समृद्धि-भाज् ॥ ७।२,४१।४३॥
etad-śrutyā hi eka-vāram bhavet pāpam hi bhasmasāt .. abhaktaḥ bhaktim āpnoti bhaktaḥ bhakti-samṛddhi-bhāj .. 7.2,41.43..
पुनः श्रुते च सद्भक्तिर्मुक्तिस्स्याच्च श्रुतेः पुनः ॥ तस्मात्पुनःपुनश्चैव श्रोतव्यं हि मुमुक्षुभिः ॥ ७.२,४१.४४॥
पुनर् श्रुते च सत्-भक्तिः मुक्तिः स्यात् च श्रुतेः पुनर् ॥ तस्मात् पुनर् पुनर् च एव श्रोतव्यम् हि मुमुक्षुभिः ॥ ७।२,४१।४४॥
punar śrute ca sat-bhaktiḥ muktiḥ syāt ca śruteḥ punar .. tasmāt punar punar ca eva śrotavyam hi mumukṣubhiḥ .. 7.2,41.44..
पञ्चावृत्तिः प्रकर्तव्या पुराणस्यास्य सद्धिया ॥ परं फलं समुद्दिश्य तत्प्राप्नोति न संशयः ॥ ७.२,४१.४५॥
पञ्चावृत्तिः प्रकर्तव्या पुराणस्य अस्य सत्-धिया ॥ परम् फलम् समुद्दिश्य तत् प्राप्नोति न संशयः ॥ ७।२,४१।४५॥
pañcāvṛttiḥ prakartavyā purāṇasya asya sat-dhiyā .. param phalam samuddiśya tat prāpnoti na saṃśayaḥ .. 7.2,41.45..
पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः ॥ सप्तकृत्वस्तदावृत्त्यालभन्त शिवदर्शनम् ॥ ७.२,४१.४६॥
पुरातनाः च राजानः विप्राः वैश्याः च सत्तमाः ॥ सप्त-कृत्वस् तद्-आवृत्त्य अलभन्त शिव-दर्शनम् ॥ ७।२,४१।४६॥
purātanāḥ ca rājānaḥ viprāḥ vaiśyāḥ ca sattamāḥ .. sapta-kṛtvas tad-āvṛttya alabhanta śiva-darśanam .. 7.2,41.46..
श्रोष्यत्यथापि यश्चेदं मानवो भक्तितत्परः ॥ इह भुक्त्वाखिलान्भोगानंते मुक्तिं लभेच्च सः ॥ ७.२,४१.४७॥
श्रोष्यति अथ अपि यः च इदम् मानवः भक्ति-तत्परः ॥ इह भुक्त्वा अखिलान् भोगान् अन्ते मुक्तिम् लभेत् च सः ॥ ७।२,४१।४७॥
śroṣyati atha api yaḥ ca idam mānavaḥ bhakti-tatparaḥ .. iha bhuktvā akhilān bhogān ante muktim labhet ca saḥ .. 7.2,41.47..
एतच्छिवपुराणं हि शिवस्यातिप्रियं परम् ॥ भुक्तिमुक्तिप्रदं ब्रह्मसंमितं भक्तिवर्धनम् ॥ ७.२,४१.४८॥
एतत् शिव-पुराणम् हि शिवस्य अति प्रियम् परम् ॥ भुक्ति-मुक्ति-प्रदम् ब्रह्म-संमितम् भक्ति-वर्धनम् ॥ ७।२,४१।४८॥
etat śiva-purāṇam hi śivasya ati priyam param .. bhukti-mukti-pradam brahma-saṃmitam bhakti-vardhanam .. 7.2,41.48..
एतच्छिवपुराणस्य वक्तुः श्रोतुश्च सर्वदा ॥ सगणस्ससुतस्सांबश्शं करोतु स शंकरः ॥ ७.२,४१.४९॥
एतत् शिव-पुराणस्य वक्तुः श्रोतुः च सर्वदा ॥ स गणः स सुतः स अम्बः शम् करोतु स शंकरः ॥ ७।२,४१।४९॥
etat śiva-purāṇasya vaktuḥ śrotuḥ ca sarvadā .. sa gaṇaḥ sa sutaḥ sa ambaḥ śam karotu sa śaṃkaraḥ .. 7.2,41.49..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे व्यासोपदेशश्रीशिवमहापुराणमाहात्म्यवर्णनं नामैकचत्वारिंशोऽध्यायः ७.२,४१.५०॥
इति श्री-शिवमहापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे व्यासोपदेशश्रीशिवमहापुराणमाहात्म्यवर्णनम् नाम एकचत्वारिंशः अध्यायः।२,४१।५०॥
iti śrī-śivamahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe vyāsopadeśaśrīśivamahāpurāṇamāhātmyavarṇanam nāma ekacatvāriṃśaḥ adhyāyaḥ.2,41.50..
समाप्तोऽयं ग्रन्थः ७.२,४१.५१॥
समाप्तः अयम् ग्रन्थः।२,४१।५१॥
samāptaḥ ayam granthaḥ.2,41.51..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In