| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
विग्रहं देवदेवस्य विश्वमेतच्चराचरम् ॥ तदेवं न विजानंति पशवः पाशगौरवात् ॥ ७.२,५.१॥
विग्रहम् देवदेवस्य विश्वम् एतत् चराचरम् ॥ तत् एवम् न विजानंति पशवः पाश-गौरवात् ॥ ७।२,५।१॥
vigraham devadevasya viśvam etat carācaram .. tat evam na vijānaṃti paśavaḥ pāśa-gauravāt .. 7.2,5.1..
तमेकमेव बहुधा वदंति यदुनंदन ॥ अजानन्तः परं भावमविकल्पं महर्षयः ॥ ७.२,५.२॥
तम् एकम् एव बहुधा वदंति यदु-नंदन ॥ अ जानन्तः परम् भावम् अविकल्पम् महा-ऋषयः ॥ ७।२,५।२॥
tam ekam eva bahudhā vadaṃti yadu-naṃdana .. a jānantaḥ param bhāvam avikalpam mahā-ṛṣayaḥ .. 7.2,5.2..
अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा ॥ केचिदाहुर्महादेवमनादिनिधनं परम् ॥ ७.२,५.३॥
अपरम् ब्रह्म-रूपम् च परम् ब्रह्म-आत्मकम् तथा ॥ केचिद् आहुः महादेवम् अनादिनिधनम् परम् ॥ ७।२,५।३॥
aparam brahma-rūpam ca param brahma-ātmakam tathā .. kecid āhuḥ mahādevam anādinidhanam param .. 7.2,5.3..
भूतेंद्रियांतःकरणप्रधानविषयात्मकम् ॥ अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् ॥ ७.२,५.४॥
भूत-इंद्रिय-अंतःकरण-प्रधान-विषय-आत्मकम् ॥ अपरम् ब्रह्म निर्दिष्टम् परम् ब्रह्म चित्-आत्मकम् ॥ ७।२,५।४॥
bhūta-iṃdriya-aṃtaḥkaraṇa-pradhāna-viṣaya-ātmakam .. aparam brahma nirdiṣṭam param brahma cit-ātmakam .. 7.2,5.4..
बृहत्त्वाद्बृहणत्वाद्वा ब्रह्म चेत्यभिधीयते ॥ उभे ते ब्रह्मणो रूपे ब्रह्मणो ऽधिपतेः प्रभोः ॥ विद्या ऽविद्यास्वरूपीति कैश्चिदीशो निगद्यते ॥ ७.२,५.५॥
बृहत्-त्वात् बृहण-त्वात् वा ब्रह्म च इति अभिधीयते ॥ उभे ते ब्रह्मणः रूपे ब्रह्मणः अधिपतेः प्रभोः ॥ विद्या अविद्या-स्वरूपी इति कैश्चिद् ईशः निगद्यते ॥ ७।२,५।५॥
bṛhat-tvāt bṛhaṇa-tvāt vā brahma ca iti abhidhīyate .. ubhe te brahmaṇaḥ rūpe brahmaṇaḥ adhipateḥ prabhoḥ .. vidyā avidyā-svarūpī iti kaiścid īśaḥ nigadyate .. 7.2,5.5..
विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ॥ विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ७.२,५.६॥
विद्याम् तु चेतनाम् प्राहुः तथा अविद्याम् अचेतनाम् ॥ विद्या अविद्या-आत्मकम् च एव विश्वम् विश्व-गुरोः विभोः ॥ ७।२,५।६॥
vidyām tu cetanām prāhuḥ tathā avidyām acetanām .. vidyā avidyā-ātmakam ca eva viśvam viśva-guroḥ vibhoḥ .. 7.2,5.6..
रूपमेव न संदेहो विश्वं तस्य वशे यतः ॥ भ्रांतिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ ७.२,५.७॥
रूपम् एव न संदेहः विश्वम् तस्य वशे यतस् ॥ भ्रांतिः विद्या परा च इति शार्वम् रूपम् परम् विदुः ॥ ७।२,५।७॥
rūpam eva na saṃdehaḥ viśvam tasya vaśe yatas .. bhrāṃtiḥ vidyā parā ca iti śārvam rūpam param viduḥ .. 7.2,5.7..
अयथाबुद्धिरर्थेषु बहुधा भ्रांतिरुच्यते ॥ यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ ७.२,५.८॥
अयथा बुद्धिः अर्थेषु बहुधा भ्रांतिः उच्यते ॥ यथार्थ-आकार-संवित्तिः विद्या इति परिकीर्त्यते ॥ ७।२,५।८॥
ayathā buddhiḥ artheṣu bahudhā bhrāṃtiḥ ucyate .. yathārtha-ākāra-saṃvittiḥ vidyā iti parikīrtyate .. 7.2,5.8..
विकल्परहितं तत्त्वं परमित्यभिधीयते ॥ वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः ॥ ७.२,५.९॥
विकल्प-रहितम् तत्त्वम् परम् इति अभिधीयते ॥ वैपरीत्यात् असत्-शब्दः कथ्यते वेद-वादिभिः ॥ ७।२,५।९॥
vikalpa-rahitam tattvam param iti abhidhīyate .. vaiparītyāt asat-śabdaḥ kathyate veda-vādibhiḥ .. 7.2,5.9..
तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ॥ क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ ७.२,५.१०॥
तयोः पति-त्वात् तु शिवः सत्-असत्-पतिः उच्यते ॥ क्षर-अक्षर-आत्मकम् प्राहुः क्षर-अक्षर-परम् परे ॥ ७।२,५।१०॥
tayoḥ pati-tvāt tu śivaḥ sat-asat-patiḥ ucyate .. kṣara-akṣara-ātmakam prāhuḥ kṣara-akṣara-param pare .. 7.2,5.10..
क्षरस्सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ उभे ते परमेशस्य रूपे तस्य वशे यतः ॥ ७.२,५.११॥
क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते ॥ उभे ते परमेशस्य रूपे तस्य वशे यतस् ॥ ७।२,५।११॥
kṣaraḥ sarvāṇi bhūtāni kūṭasthaḥ akṣaraḥ ucyate .. ubhe te parameśasya rūpe tasya vaśe yatas .. 7.2,5.11..
तयोः परः शिवः शांतः क्षराक्षरापरस्स्मृतः ॥ समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम् ॥ ७.२,५.१२॥
तयोः परः शिवः शांतः क्षर-अक्षर-अपरः स्मृतः ॥ समष्टि-व्यष्ठि-रूपम् च समष्टि-व्यष्टि-कारणम् ॥ ७।२,५।१२॥
tayoḥ paraḥ śivaḥ śāṃtaḥ kṣara-akṣara-aparaḥ smṛtaḥ .. samaṣṭi-vyaṣṭhi-rūpam ca samaṣṭi-vyaṣṭi-kāraṇam .. 7.2,5.12..
वदंति मुनयः केचिच्छिवं परमकारणम् ॥ समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च ॥ ७.२,५.१३॥
वदंति मुनयः केचिद् शिवम् परम-कारणम् ॥ समष्टिम् आहुः अव्यक्तम् व्यष्टिम् व्यक्तम् तथा एव च ॥ ७।२,५।१३॥
vadaṃti munayaḥ kecid śivam parama-kāraṇam .. samaṣṭim āhuḥ avyaktam vyaṣṭim vyaktam tathā eva ca .. 7.2,5.13..
ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् ॥ तयोः कारणभावेन शिवं परमकारणम् ॥ ७.२,५.१४॥
ते रूपे परमेशस्य तद्-इच्छायाः प्रवर्तनात् ॥ तयोः कारण-भावेन शिवम् परम-कारणम् ॥ ७।२,५।१४॥
te rūpe parameśasya tad-icchāyāḥ pravartanāt .. tayoḥ kāraṇa-bhāvena śivam parama-kāraṇam .. 7.2,5.14..
कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् ॥ जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः ॥ ७.२,५.१५॥
कारण-अर्थ-विदः प्राहुः समष्टि-व्यष्टि-कारणम् ॥ जाति-व्यक्ति-स्वरूपी इति कथ्यते कैश्चिद् ईश्वरः ॥ ७।२,५।१५॥
kāraṇa-artha-vidaḥ prāhuḥ samaṣṭi-vyaṣṭi-kāraṇam .. jāti-vyakti-svarūpī iti kathyate kaiścid īśvaraḥ .. 7.2,5.15..
या पिंडेप्यनुवर्तेत सा जातिरिति कथ्यते ॥ व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातेः समाश्रयम् ॥ ७.२,५.१६॥
या पिंडे अपि अनुवर्तेत सा जातिः इति कथ्यते ॥ व्यक्तिः व्यावृत्ति-रूपम् तम् पिण्ड-जातेः समाश्रयम् ॥ ७।२,५।१६॥
yā piṃḍe api anuvarteta sā jātiḥ iti kathyate .. vyaktiḥ vyāvṛtti-rūpam tam piṇḍa-jāteḥ samāśrayam .. 7.2,5.16..
जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः ॥ यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः ॥ ७.२,५.१७॥
जातयः व्यक्तयः च एव तद्-आज्ञा-परिपालिताः ॥ यतस् ततस् महादेवः जाति-व्यक्ति-वपुः स्मृतः ॥ ७।२,५।१७॥
jātayaḥ vyaktayaḥ ca eva tad-ājñā-paripālitāḥ .. yatas tatas mahādevaḥ jāti-vyakti-vapuḥ smṛtaḥ .. 7.2,5.17..
प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः ॥ प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा ॥ ७.२,५.१८॥
कथ्यते ॥ प्रधानम् प्रकृतिम् प्राहुः क्षेत्रज्ञम् पुरुषम् तथा ॥ ७।२,५।१८॥
kathyate .. pradhānam prakṛtim prāhuḥ kṣetrajñam puruṣam tathā .. 7.2,5.18..
त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः ॥ कालः कार्यप्रपञ्चस्य परिणामैककारणम् ॥ ७.२,५.१९॥
त्रयोविंशति-तत्त्वानि व्यक्तम् आहुः मनीषिणः ॥ कालः कार्य-प्रपञ्चस्य परिणाम-एक-कारणम् ॥ ७।२,५।१९॥
trayoviṃśati-tattvāni vyaktam āhuḥ manīṣiṇaḥ .. kālaḥ kārya-prapañcasya pariṇāma-eka-kāraṇam .. 7.2,5.19..
एषामीशो ऽधिपो धाता प्रवर्तकनिवर्तकः ॥ आविर्भावतिरोभावहेतुरेकः स्वराडजः ॥ ७.२,५.२०॥
एषाम् ईशः अधिपः धाता प्रवर्तक-निवर्तकः ॥ आविर्भाव-तिरोभाव-हेतुः एकः स्वराज् अजः ॥ ७।२,५।२०॥
eṣām īśaḥ adhipaḥ dhātā pravartaka-nivartakaḥ .. āvirbhāva-tirobhāva-hetuḥ ekaḥ svarāj ajaḥ .. 7.2,5.20..
तस्मात्प्रधानपुरुषव्यक्तकालस्वरूपवान् ॥ हेतुर्नेताधिपस्तेषां धाता चोक्ता महेश्वरः ॥ ७.२,५.२१॥
तस्मात् प्रधानपुरुष-व्यक्त-काल-स्व-रूपवान् ॥ हेतुः नेता अधिपः तेषाम् धाता च उक्ता महेश्वरः ॥ ७।२,५।२१॥
tasmāt pradhānapuruṣa-vyakta-kāla-sva-rūpavān .. hetuḥ netā adhipaḥ teṣām dhātā ca uktā maheśvaraḥ .. 7.2,5.21..
विराड्ढिरण्यगर्भात्मा कैश्चिदीशो निगद्यते ॥ हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट् ॥ ७.२,५.२२॥
विराज् हिरण्यगर्भ-आत्मा कैश्चिद् ईशः निगद्यते ॥ हिरण्यगर्भः लोकानाम् हेतुः विश्व-आत्मकः विराज् ॥ ७।२,५।२२॥
virāj hiraṇyagarbha-ātmā kaiścid īśaḥ nigadyate .. hiraṇyagarbhaḥ lokānām hetuḥ viśva-ātmakaḥ virāj .. 7.2,5.22..
अंतर्यामी परश्चेति कथ्यते कविभिश्शिवः ॥ प्राज्ञस्तैजसविश्वात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२३॥
अंतर्यामी परः च इति कथ्यते कविभिः शिवः ॥ प्राज्ञः तैजस-विश्वात्मा इति अपरे संप्रचक्षते ॥ ७।२,५।२३॥
aṃtaryāmī paraḥ ca iti kathyate kavibhiḥ śivaḥ .. prājñaḥ taijasa-viśvātmā iti apare saṃpracakṣate .. 7.2,5.23..
तुरीयमपरे प्राहुः सौम्यमेव परे विदुः ॥ माता मानं च मेयं च मतिं चाहुरथापरे ॥ ७.२,५.२४॥
तुरीयम् अपरे प्राहुः सौम्यम् एव परे विदुः ॥ माता मानम् च मेयम् च मतिम् च आहुः अथ अपरे ॥ ७।२,५।२४॥
turīyam apare prāhuḥ saumyam eva pare viduḥ .. mātā mānam ca meyam ca matim ca āhuḥ atha apare .. 7.2,5.24..
कर्ता क्रिया च कार्यं च करणं कारणं परे ॥ जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२५॥
कर्ता क्रिया च कार्यम् च करणम् कारणम् परे ॥ जाग्रत्-स्वप्न-सुषुप्ति-आत्मा इति अपरे संप्रचक्षते ॥ ७।२,५।२५॥
kartā kriyā ca kāryam ca karaṇam kāraṇam pare .. jāgrat-svapna-suṣupti-ātmā iti apare saṃpracakṣate .. 7.2,5.25..
तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे ॥ तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः ॥ ७.२,५.२६॥
तुरीयम् अपरे प्राहुः तुर्यातीतम् इति इतरे ॥ तम् आहुः विगुणम् केचिद् गुणवन्तम् परे विदुः ॥ ७।२,५।२६॥
turīyam apare prāhuḥ turyātītam iti itare .. tam āhuḥ viguṇam kecid guṇavantam pare viduḥ .. 7.2,5.26..
केचित्संसारिणं प्राहुस्तमसंसारिणं परे ॥ स्वतंत्रमपरे प्राहुरस्वतंत्रं परे विदुः ॥ ७.२,५.२७॥
केचिद् संसारिणम् प्राहुः तम् असंसारिणम् परे ॥ स्वतंत्रम् अपरे प्राहुः अस्वतंत्रम् परे विदुः ॥ ७।२,५।२७॥
kecid saṃsāriṇam prāhuḥ tam asaṃsāriṇam pare .. svataṃtram apare prāhuḥ asvataṃtram pare viduḥ .. 7.2,5.27..
घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः ॥ रागवंतं परे प्राहुर्वीतरागं तथा परे ॥ ७.२,५.२८॥
घोरम् इति अपरे प्राहुः सौम्यम् एव परे विदुः ॥ रागवंतम् परे प्राहुः वीत-रागम् तथा परे ॥ ७।२,५।२८॥
ghoram iti apare prāhuḥ saumyam eva pare viduḥ .. rāgavaṃtam pare prāhuḥ vīta-rāgam tathā pare .. 7.2,5.28..
निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः ॥ निरिंद्रियं परे प्राहुः सेंद्रियं च तथापरे ॥ ७.२,५.२९॥
निष्क्रियम् च परे प्राहुः स क्रियम् च इतरे जनाः ॥ निरिंद्रियम् परे प्राहुः स इंद्रियम् च तथा अपरे ॥ ७।२,५।२९॥
niṣkriyam ca pare prāhuḥ sa kriyam ca itare janāḥ .. niriṃdriyam pare prāhuḥ sa iṃdriyam ca tathā apare .. 7.2,5.29..
ध्रुवमित्यपरे प्राहुस्तमध्रुवामितीरते ॥ अरूपं केचिदाहुर्वै रूपवंतं परे विदुः ॥ ७.२,५.३०॥
ध्रुवम् इति अपरे प्राहुः तम् अध्रुवाम् इति ईरते ॥ अरूपम् केचिद् आहुः वै रूपवंतम् परे विदुः ॥ ७।२,५।३०॥
dhruvam iti apare prāhuḥ tam adhruvām iti īrate .. arūpam kecid āhuḥ vai rūpavaṃtam pare viduḥ .. 7.2,5.30..
अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः ॥ वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे ॥ ७.२,५.३१॥
अदृश्यम् अपरे प्राहुः दृश्यम् इति अपरे विदुः ॥ वाच्यम् इति अपरे प्राहुः अवाच्यम् इति च अपरे ॥ ७।२,५।३१॥
adṛśyam apare prāhuḥ dṛśyam iti apare viduḥ .. vācyam iti apare prāhuḥ avācyam iti ca apare .. 7.2,5.31..
शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे ॥ केचिच्चिन्तामयं प्राहुश्चिन्तया रहितं परे ॥ ७.२,५.३१॥
शब्द-आत्मकम् परे प्राहुः शब्दातीतम् अथ अपरे ॥ केचिद् चिन्ता-मयम् प्राहुः चिन्तया रहितम् परे ॥ ७।२,५।३१॥
śabda-ātmakam pare prāhuḥ śabdātītam atha apare .. kecid cintā-mayam prāhuḥ cintayā rahitam pare .. 7.2,5.31..
ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे ॥ केचिच्ज्ञेयमिति प्राहुरज्ञेयमिति केचन ॥ ७.२,५.३२॥
ज्ञान-आत्मकम् परे प्राहुः विज्ञानम् इति च अपरे ॥ केचिद् ज्ञेयम् इति प्राहुः अज्ञेयम् इति केचन ॥ ७।२,५।३२॥
jñāna-ātmakam pare prāhuḥ vijñānam iti ca apare .. kecid jñeyam iti prāhuḥ ajñeyam iti kecana .. 7.2,5.32..
परमेके तमेवाहुरपरं च तथा परे ॥ एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः ॥ ७.२,५.३३॥
परम् एके तम् एव आहुः अपरम् च तथा परे ॥ एवम् विकल्प्यमानम् तु याथात्म्यम् परमेष्ठिनः ॥ ७।२,५।३३॥
param eke tam eva āhuḥ aparam ca tathā pare .. evam vikalpyamānam tu yāthātmyam parameṣṭhinaḥ .. 7.2,5.33..
नाध्यवस्यंति मुनयो नानाप्रत्ययकारणात् ॥ ये पुनस्सर्वभावेन प्रपन्नाः परमेश्वरम् ॥ ७.२,५.३४॥
न अध्यवस्यंति मुनयः नाना प्रत्यय-कारणात् ॥ ये पुनर् सर्व-भावेन प्रपन्नाः परमेश्वरम् ॥ ७।२,५।३४॥
na adhyavasyaṃti munayaḥ nānā pratyaya-kāraṇāt .. ye punar sarva-bhāvena prapannāḥ parameśvaram .. 7.2,5.34..
ते हि जानंत्ययत्नेन शिवं परमकारणम् ॥ यावत्पशुर्नैव पश्यत्यनीशं पुराणं भुवनस्येशितारम् ॥ ७.२,५.३५॥
ते हि जानंति अयत्नेन शिवम् परम-कारणम् ॥ यावत् पशुः न एव पश्यति अनीशम् पुराणम् भुवनस्य ईशितारम् ॥ ७।२,५।३५॥
te hi jānaṃti ayatnena śivam parama-kāraṇam .. yāvat paśuḥ na eva paśyati anīśam purāṇam bhuvanasya īśitāram .. 7.2,5.35..
तावद्दुःखे वर्तते बद्धपाशः संसारे ऽस्मिञ्चक्रनेमिक्रमेण ॥ यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ॥ ७.२,५.३६॥
तावत् दुःखे वर्तते बद्ध-पाशः संसारे अस्मिन् चक्रनेमि-क्रमेण ॥ यदा पश्यः पश्यते रुक्म-वर्णम् कर्तारम् ईशम् पुरुषम् ब्रह्म-योनिम् ॥ ७।२,५।३६॥
tāvat duḥkhe vartate baddha-pāśaḥ saṃsāre asmin cakranemi-krameṇa .. yadā paśyaḥ paśyate rukma-varṇam kartāram īśam puruṣam brahma-yonim .. 7.2,5.36..
तदाविद्वान्पुण्यपापे विधूय निरंजनः परममुपैति साम्यम् ॥ ७.२,५.३७॥
तदा अ विद्वान् पुण्य-पापे विधूय निरंजनः परमम् उपैति साम्यम् ॥ ७।२,५।३७॥
tadā a vidvān puṇya-pāpe vidhūya niraṃjanaḥ paramam upaiti sāmyam .. 7.2,5.37..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो नाम पञ्चमो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे पशुपतित्वज्ञानयोगः नाम पञ्चमः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe paśupatitvajñānayogaḥ nāma pañcamaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In