| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
शक्तिस्स्वाभविकी तस्य विद्या विश्वविलक्षणा ॥ एकानेकस्य रूपेण भाति भानोरिव प्रभा ॥ ७.२,७.१॥
शक्तिः स्वाभविकी तस्य विद्या विश्व-विलक्षणा ॥ एक-अनेकस्य रूपेण भाति भानोः इव प्रभा ॥ ७।२,७।१॥
śaktiḥ svābhavikī tasya vidyā viśva-vilakṣaṇā .. eka-anekasya rūpeṇa bhāti bhānoḥ iva prabhā .. 7.2,7.1..
अनंताः शक्तयो यस्या इच्छाज्ञानक्रियादयः ॥ मायाद्याश्चाभवन्वह्नोर्विस्फुलिंगा यथा तथा ॥ ७.२,७.२॥
अनंताः शक्तयः यस्याः इच्छा-ज्ञान-क्रिया-आदयः ॥ माया-आद्याः च अभवन् वह्नोः विस्फुलिंगाः यथा तथा ॥ ७।२,७।२॥
anaṃtāḥ śaktayaḥ yasyāḥ icchā-jñāna-kriyā-ādayaḥ .. māyā-ādyāḥ ca abhavan vahnoḥ visphuliṃgāḥ yathā tathā .. 7.2,7.2..
सदाशिवेश्वराद्या हि विद्या ऽविद्येश्वरादयः ॥ अभवन्पुरुषाश्चास्याः प्रकृतिश्च परात्परा ॥ ७.२,७.३॥
सदाशिव-ईश्वर-आद्याः हि विद्याः अविद्येश्वर-आदयः ॥ अभवन् पुरुषाः च अस्याः प्रकृतिः च परात्परा ॥ ७।२,७।३॥
sadāśiva-īśvara-ādyāḥ hi vidyāḥ avidyeśvara-ādayaḥ .. abhavan puruṣāḥ ca asyāḥ prakṛtiḥ ca parātparā .. 7.2,7.3..
महदादिविशेषांतास्त्वजाद्याश्चापि मूर्तयः ॥ यच्चान्यदस्ति तत्सर्वं तस्याः कार्यं न संशयः ॥ ७.२,७.४॥
महत्-आदि-विशेष-अंताः तु अज-आद्याः च अपि मूर्तयः ॥ यत् च अन्यत् अस्ति तत् सर्वम् तस्याः कार्यम् न संशयः ॥ ७।२,७।४॥
mahat-ādi-viśeṣa-aṃtāḥ tu aja-ādyāḥ ca api mūrtayaḥ .. yat ca anyat asti tat sarvam tasyāḥ kāryam na saṃśayaḥ .. 7.2,7.4..
सा शक्तिस्सर्वगा सूक्ष्मा प्रबोधानंदरूपिणी ॥ शक्तिमानुच्यते देवश्शिवश्शीतांशुभूषणः ॥ ७.२,७.५॥
सा शक्तिः सर्व-गा सूक्ष्मा प्रबोध-आनंद-रूपिणी ॥ शक्तिमान् उच्यते देवः शिवः शीतांशु-भूषणः ॥ ७।२,७।५॥
sā śaktiḥ sarva-gā sūkṣmā prabodha-ānaṃda-rūpiṇī .. śaktimān ucyate devaḥ śivaḥ śītāṃśu-bhūṣaṇaḥ .. 7.2,7.5..
वेद्यश्शिवश्शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः ॥ धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः ॥ ७.२,७.६॥
वेद्यः शिवः शिवा विद्या प्रज्ञा च एव श्रुतिः स्मृतिः ॥ धृतिः एषा स्थितिः निष्ठा ज्ञान-इच्छा-कर्म-शक्तयः ॥ ७।२,७।६॥
vedyaḥ śivaḥ śivā vidyā prajñā ca eva śrutiḥ smṛtiḥ .. dhṛtiḥ eṣā sthitiḥ niṣṭhā jñāna-icchā-karma-śaktayaḥ .. 7.2,7.6..
आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे ॥ शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः ॥ ७.२,७.७॥
आज्ञा च एव परम् ब्रह्म द्वे विद्ये च परापरे ॥ शुद्धविद्या शुद्ध-कला सर्वम् शक्ति-कृतम् यतस् ॥ ७।२,७।७॥
ājñā ca eva param brahma dve vidye ca parāpare .. śuddhavidyā śuddha-kalā sarvam śakti-kṛtam yatas .. 7.2,7.7..
माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा ॥ असच्च सच्च यत्किंचित्तया सर्वमिदं ततम् ॥ ७.२,७.८॥
माया च प्रकृतिः जीवः विकारः विकृतिः तथा ॥ असत् च सत् च यत् किंचिद् तया सर्वम् इदम् ततम् ॥ ७।२,७।८॥
māyā ca prakṛtiḥ jīvaḥ vikāraḥ vikṛtiḥ tathā .. asat ca sat ca yat kiṃcid tayā sarvam idam tatam .. 7.2,7.8..
सा देवी मायया सर्वं ब्रह्मांडं सचराचरम् ॥ मोहयत्यप्रयत्नेन मोचयत्यपि लीलया ॥ ७.२,७.९॥
सा देवी मायया सर्वम् ब्रह्मांडम् सचराचरम् ॥ मोहयति अप्रयत्नेन मोचयति अपि लीलया ॥ ७।२,७।९॥
sā devī māyayā sarvam brahmāṃḍam sacarācaram .. mohayati aprayatnena mocayati api līlayā .. 7.2,7.9..
अनया सह सर्वेशः सप्तविंशप्रकारया ॥ विश्वं व्याप्य स्थितस्तस्मान्मुक्तिरत्र प्रवर्तते ॥ ७.२,७.१०॥
अनया सह सर्व-ईशः सप्तविंश-प्रकारया ॥ विश्वम् व्याप्य स्थितः तस्मात् मुक्तिः अत्र प्रवर्तते ॥ ७।२,७।१०॥
anayā saha sarva-īśaḥ saptaviṃśa-prakārayā .. viśvam vyāpya sthitaḥ tasmāt muktiḥ atra pravartate .. 7.2,7.10..
मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः ॥ संशयाविष्टमनसो विस्मृशंति यथातथम् ॥ ७.२,७.११॥
मुमुक्षवः पुरा केचिद् मुनयः ब्रह्म-वादिनः ॥ संशय-आविष्ट-मनसः विस्मृशंति यथातथम् ॥ ७।२,७।११॥
mumukṣavaḥ purā kecid munayaḥ brahma-vādinaḥ .. saṃśaya-āviṣṭa-manasaḥ vismṛśaṃti yathātatham .. 7.2,7.11..
किं कारणं कुतो जाता जीवामः केन वा वयम् ॥ कुत्रास्माकं संप्रतिष्ठा केन वाधिष्ठिता वयम् ॥ ७.२,७.१२॥
किम् कारणम् कुतस् जाताः जीवामः केन वा वयम् ॥ कुत्र अस्माकम् संप्रतिष्ठा केन वा अधिष्ठिताः वयम् ॥ ७।२,७।१२॥
kim kāraṇam kutas jātāḥ jīvāmaḥ kena vā vayam .. kutra asmākam saṃpratiṣṭhā kena vā adhiṣṭhitāḥ vayam .. 7.2,7.12..
केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम् ॥ अविलंघ्या च विश्वस्य व्यवस्था केन वा कृता ॥ ७.२,७.१३॥
केन वर्तामहे शश्वत् सुखेषु अन्येषु च अनिशम् ॥ अविलंघ्या च विश्वस्य व्यवस्था केन वा कृता ॥ ७।२,७।१३॥
kena vartāmahe śaśvat sukheṣu anyeṣu ca aniśam .. avilaṃghyā ca viśvasya vyavasthā kena vā kṛtā .. 7.2,7.13..
कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते ॥ भूतानि योनिः पुरुषो योगी चैषां परो ऽथ वा ॥ ७.२,७.१४॥
कालस्य भावः नियतिः यदृच्छा न अत्र युज्यते ॥ भूतानि योनिः पुरुषः योगी च एषाम् परः अथ वा ॥ ७।२,७।१४॥
kālasya bhāvaḥ niyatiḥ yadṛcchā na atra yujyate .. bhūtāni yoniḥ puruṣaḥ yogī ca eṣām paraḥ atha vā .. 7.2,7.14..
अचेतनत्वात्कालादेश्चेतनत्वेपि चात्मनः ॥ सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते ॥ ७.२,७.१५॥
अचेतन-त्वात् काल-आदेः चेतन-त्वे अपि च आत्मनः ॥ सुख-दुःखानि भूत-त्वात् अनीश-त्वात् विचार्यते ॥ ७।२,७।१५॥
acetana-tvāt kāla-ādeḥ cetana-tve api ca ātmanaḥ .. sukha-duḥkhāni bhūta-tvāt anīśa-tvāt vicāryate .. 7.2,7.15..
तद्ध्यानयोगानुगतां प्रपश्यञ्छक्तिमैश्वरीम् ॥ पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम् ॥ ७.२,७.१६॥
तद्-ध्यान-योग-अनुगताम् प्रपश्यन् शक्तिम् ऐश्वरीम् ॥ पाश-विच्छेदिकाम् साक्षात् निगूढाम् स्व-गुणैः भृशम् ॥ ७।२,७।१६॥
tad-dhyāna-yoga-anugatām prapaśyan śaktim aiśvarīm .. pāśa-vicchedikām sākṣāt nigūḍhām sva-guṇaiḥ bhṛśam .. 7.2,7.16..
तया विच्छिन्नपाशास्ते सर्वकारणकारणम् ॥ शक्तिमंतं महादेवमपश्यन्दिव्यचक्षुषा ॥ ७.२,७.१७॥
तया विच्छिन्न-पाशाः ते सर्व-कारण-कारणम् ॥ शक्तिमंतम् महादेवम् अपश्यन् दिव्य-चक्षुषा ॥ ७।२,७।१७॥
tayā vicchinna-pāśāḥ te sarva-kāraṇa-kāraṇam .. śaktimaṃtam mahādevam apaśyan divya-cakṣuṣā .. 7.2,7.17..
यः कारणान्यशेषाणि कालात्मसहितानि च ॥ अप्रमेयो ऽनया शक्त्या सकलं यो ऽधितिष्ठति ॥ ७.२,७.१८॥
यः कारणानि अशेषाणि काल-आत्म-सहितानि च ॥ अप्रमेयः अनया शक्त्या सकलम् यः अधितिष्ठति ॥ ७।२,७।१८॥
yaḥ kāraṇāni aśeṣāṇi kāla-ātma-sahitāni ca .. aprameyaḥ anayā śaktyā sakalam yaḥ adhitiṣṭhati .. 7.2,7.18..
ततः प्रसादयोगेन योगेन परमेण च ॥ दृष्टेन भक्तियोगेन दिव्यः गतिमवाप्नुयुः ॥ ७.२,७.१९॥
ततस् प्रसाद-योगेन योगेन परमेण च ॥ दृष्टेन भक्ति-योगेन दिव्यः गतिम् अवाप्नुयुः ॥ ७।२,७।१९॥
tatas prasāda-yogena yogena parameṇa ca .. dṛṣṭena bhakti-yogena divyaḥ gatim avāpnuyuḥ .. 7.2,7.19..
तस्मात्सह तथा शक्त्या हृदि पश्यंति ये शिवम् ॥ तेषां शाश्वतिकी शांतिर्नैतरेषामिति श्रुतिः ॥ ७.२,७.२०॥
तस्मात् सह तथा शक्त्या हृदि पश्यंति ये शिवम् ॥ तेषाम् शाश्वतिकी शांतिः न एतरेषाम् इति श्रुतिः ॥ ७।२,७।२०॥
tasmāt saha tathā śaktyā hṛdi paśyaṃti ye śivam .. teṣām śāśvatikī śāṃtiḥ na etareṣām iti śrutiḥ .. 7.2,7.20..
न हि शक्तिमतश्शक्त्या विप्रयोगो ऽस्ति जातुचित् ॥ तस्माच्छक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः ॥ ७.२,७.२१॥
न हि शक्तिमतः शक्त्या विप्रयोगः अस्ति जातुचित् ॥ तस्मात् शक्तेः शक्तिमतः तादात्म्यात् निर्वृतिः द्वयोः ॥ ७।२,७।२१॥
na hi śaktimataḥ śaktyā viprayogaḥ asti jātucit .. tasmāt śakteḥ śaktimataḥ tādātmyāt nirvṛtiḥ dvayoḥ .. 7.2,7.21..
क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः ॥ प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता ॥ ७.२,७.२२॥
क्रमः विवक्षितः नूनम् विमुक्तौ ज्ञान-कर्मणोः ॥ प्रसादे सति सा मूर्तिः यस्मात् कर-तले स्थिता ॥ ७।२,७।२२॥
kramaḥ vivakṣitaḥ nūnam vimuktau jñāna-karmaṇoḥ .. prasāde sati sā mūrtiḥ yasmāt kara-tale sthitā .. 7.2,7.22..
देवो वा दानवो वापि पशुर्वा विहगो ऽपि वा ॥ कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः ॥ ७.२,७.२३॥
देवः वा दानवः वा अपि पशुः वा विहगः अपि वा ॥ कीरः वा अथ कृमिः वा अपि मुच्यते तद्-प्रसादतः ॥ ७।२,७।२३॥
devaḥ vā dānavaḥ vā api paśuḥ vā vihagaḥ api vā .. kīraḥ vā atha kṛmiḥ vā api mucyate tad-prasādataḥ .. 7.2,7.23..
गर्भस्थो जायमानो वा बालो वा तरुणो.पि वा ॥ वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी ॥ ७.२,७.२४॥
गर्भ-स्थः जायमानः वा बालः वा तरुणः।पि वा ॥ वृद्धः वा म्रियमाणः वा स्वर्ग-स्थः वा अथ नारकी ॥ ७।२,७।२४॥
garbha-sthaḥ jāyamānaḥ vā bālaḥ vā taruṇaḥ.pi vā .. vṛddhaḥ vā mriyamāṇaḥ vā svarga-sthaḥ vā atha nārakī .. 7.2,7.24..
पतितो वापि धर्मात्मा पंडितो मूढ एव वा ॥ प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः ॥ ७.२,७.२५॥
पतितः वा अपि धर्म-आत्मा पंडितः मूढः एव वा ॥ प्रसादे तद्-क्षणात् एव मुच्यते न अत्र संशयः ॥ ७।२,७।२५॥
patitaḥ vā api dharma-ātmā paṃḍitaḥ mūḍhaḥ eva vā .. prasāde tad-kṣaṇāt eva mucyate na atra saṃśayaḥ .. 7.2,7.25..
अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः ॥ प्रसीदति न संदेहो विगृह्य विविधान्मलान् ॥ ७.२,७.२६॥
अयोग्यानाम् च कारुण्यात् भक्तानाम् परमेश्वरः ॥ प्रसीदति न संदेहः विगृह्य विविधान् मलान् ॥ ७।२,७।२६॥
ayogyānām ca kāruṇyāt bhaktānām parameśvaraḥ .. prasīdati na saṃdehaḥ vigṛhya vividhān malān .. 7.2,7.26..
प्रसदादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति ॥ ७.२,७.२७॥
प्रसदात् एव सा भक्तिः प्रसादः भक्ति-संभवः ॥ अवस्था-भेदम् उत्प्रेक्ष्य विद्वान् तत्र न मुह्यति ॥ ७।२,७।२७॥
prasadāt eva sā bhaktiḥ prasādaḥ bhakti-saṃbhavaḥ .. avasthā-bhedam utprekṣya vidvān tatra na muhyati .. 7.2,7.27..
प्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी ॥ नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना ॥ ७.२,७.२८॥
प्रसाद-पूर्विका या इयम् भुक्ति-मुक्ति-विधायिनी ॥ ना एव सा शक्यते प्राप्तुम् नरैः एकेन जन्मना ॥ ७।२,७।२८॥
prasāda-pūrvikā yā iyam bhukti-mukti-vidhāyinī .. nā eva sā śakyate prāptum naraiḥ ekena janmanā .. 7.2,7.28..
अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ॥ विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः ॥ ७.२,७.२९॥
अनेक-जन्म-सिद्धानाम् श्रौत-स्मार्त-अनुवर्तिनाम् ॥ विरक्तानाम् प्रबुद्धानाम् प्रसीदति महेश्वरः ॥ ७।२,७।२९॥
aneka-janma-siddhānām śrauta-smārta-anuvartinām .. viraktānām prabuddhānām prasīdati maheśvaraḥ .. 7.2,7.29..
प्रसन्ने सति देवेश पशौ तस्मिन्प्रवर्तते ॥ अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरस्सरा ॥ ७.२,७.३०॥
प्रसन्ने सति देवेश पशौ तस्मिन् प्रवर्तते ॥ अस्ति नाथः मम इति अल्पा भक्तिः बुद्धि-पुरस्सरा ॥ ७।२,७।३०॥
prasanne sati deveśa paśau tasmin pravartate .. asti nāthaḥ mama iti alpā bhaktiḥ buddhi-purassarā .. 7.2,7.30..
तपसा विविधैश्शैवैर्धर्मैस्संयुज्यते नरः ॥ तत्र योगे तदभ्यासस्ततो भक्तिः परा भवेत् ॥ ७.२,७.३१॥
तपसा विविधैः शैवैः धर्मैः संयुज्यते नरः ॥ तत्र योगे तद्-अभ्यासः ततस् भक्तिः परा भवेत् ॥ ७।२,७।३१॥
tapasā vividhaiḥ śaivaiḥ dharmaiḥ saṃyujyate naraḥ .. tatra yoge tad-abhyāsaḥ tatas bhaktiḥ parā bhavet .. 7.2,7.31..
परया च तया भक्त्या प्रसादो लभ्यते परः ॥ प्रसादात्सर्वपाशेभ्यो मुक्तिर्मुक्तस्य निर्वृतिः ॥ ७.२,७.३२॥
परया च तया भक्त्या प्रसादः लभ्यते परः ॥ प्रसादात् सर्व-पाशेभ्यः मुक्तिः मुक्तस्य निर्वृतिः ॥ ७।२,७।३२॥
parayā ca tayā bhaktyā prasādaḥ labhyate paraḥ .. prasādāt sarva-pāśebhyaḥ muktiḥ muktasya nirvṛtiḥ .. 7.2,7.32..
अल्पभावो ऽपि यो मर्त्यस्सो ऽपि जन्मत्रयात्परम् ॥ नयोनियंत्रपीडायै भवेन्नैवात्र संशयः ॥ ७.२,७.३३॥
अल्प-भावः अपि यः मर्त्यः सः अपि जन्म-त्रयात् परम् ॥ भवेत् न एव अत्र संशयः ॥ ७।२,७।३३॥
alpa-bhāvaḥ api yaḥ martyaḥ saḥ api janma-trayāt param .. bhavet na eva atra saṃśayaḥ .. 7.2,7.33..
सांगा ऽनंगा च या सेवा सा भक्तिरिति कथ्यते ॥ सा पुनर्भिद्यते त्रेधा मनोवाक्कायसाधनैः ॥ ७.२,७.३४॥
सांगा अनंगा च या सेवा सा भक्तिः इति कथ्यते ॥ सा पुनर् भिद्यते त्रेधा मनः-वाच्-काय-साधनैः ॥ ७।२,७।३४॥
sāṃgā anaṃgā ca yā sevā sā bhaktiḥ iti kathyate .. sā punar bhidyate tredhā manaḥ-vāc-kāya-sādhanaiḥ .. 7.2,7.34..
शिवरूपादिचिंता या सा सेवा मानसी स्मृता ॥ जपादिर्वाचिकी सेवा कर्मपूजादि कायिकी ॥ ७.२,७.३५॥
शिव-रूप-आदि-चिंता या सा सेवा मानसी स्मृता ॥ जप-आदिः वाचिकी सेवा कर्म-पूजा-आदि कायिकी ॥ ७।२,७।३५॥
śiva-rūpa-ādi-ciṃtā yā sā sevā mānasī smṛtā .. japa-ādiḥ vācikī sevā karma-pūjā-ādi kāyikī .. 7.2,7.35..
सेयं त्रिसाधना सेवा शिवधर्मश्च कथ्यते ॥ स तु पञ्चविधः प्रोक्तः शिवेन परमात्मना ॥ ७.२,७.३६॥
सा इयम् त्रि-साधना सेवा शिव-धर्मः च कथ्यते ॥ स तु पञ्चविधः प्रोक्तः शिवेन परमात्मना ॥ ७।२,७।३६॥
sā iyam tri-sādhanā sevā śiva-dharmaḥ ca kathyate .. sa tu pañcavidhaḥ proktaḥ śivena paramātmanā .. 7.2,7.36..
तपः कर्म जपो ध्यानं ज्ञानं चेति समासतः ॥ कर्मलिङ्गार्चनाद्यं च तपश्चान्द्रायणादिकम् ॥ ७.२,७.३७॥
तपः कर्म जपः ध्यानम् ज्ञानम् च इति समासतस् ॥ कर्म-लिङ्ग-अर्चन-आद्यम् च तपः चान्द्रायण-आदिकम् ॥ ७।२,७।३७॥
tapaḥ karma japaḥ dhyānam jñānam ca iti samāsatas .. karma-liṅga-arcana-ādyam ca tapaḥ cāndrāyaṇa-ādikam .. 7.2,7.37..
जपस्त्रिधा शिवाभ्यासश्चिन्ता ध्यानं शिवस्य तु ॥ शिवागमोक्तं यज्ज्ञानं तदत्र ज्ञानमुच्यते ॥ ७.२,७.३८॥
जपः त्रिधा शिव-अभ्यासः चिन्ता ध्यानम् शिवस्य तु ॥ शिव-आगम-उक्तम् यत् ज्ञानम् तत् अत्र ज्ञानम् उच्यते ॥ ७।२,७।३८॥
japaḥ tridhā śiva-abhyāsaḥ cintā dhyānam śivasya tu .. śiva-āgama-uktam yat jñānam tat atra jñānam ucyate .. 7.2,7.38..
श्रीकंठेन शिवेनोक्तं शिवायै च शिवागमः ॥ शिवाश्रितानां कारुण्याच्छ्रेयसामेकसाधनम् ॥ ७.२,७.३९॥
श्रीकंठेन शिवेन उक्तम् शिवायै च शिव-आगमः ॥ शिव-आश्रितानाम् कारुण्यात् श्रेयसाम् एक-साधनम् ॥ ७।२,७।३९॥
śrīkaṃṭhena śivena uktam śivāyai ca śiva-āgamaḥ .. śiva-āśritānām kāruṇyāt śreyasām eka-sādhanam .. 7.2,7.39..
तस्माद्विवर्धयेद्भक्तिं शिवे परमकारणे ॥ त्यजेच्च विषयासंगं श्रेयो ऽर्थी मतिमान्नरः ॥ ७.२,७.४०॥
तस्मात् विवर्धयेत् भक्तिम् शिवे परम-कारणे ॥ त्यजेत् च विषय-आसंगम् श्रेयः अर्थी मतिमान् नरः ॥ ७।२,७।४०॥
tasmāt vivardhayet bhaktim śive parama-kāraṇe .. tyajet ca viṣaya-āsaṃgam śreyaḥ arthī matimān naraḥ .. 7.2,7.40..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वकथनं नाम सप्तमो ऽध्यायः॥
इति श्री-शिवमहापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे शिवतत्त्वकथनम् नाम सप्तमः अध्यायः॥
iti śrī-śivamahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe śivatattvakathanam nāma saptamaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In