| |
|

This overlay will guide you through the buttons:

कृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि शिवेन परिभाषितम् ॥ वेदसारे शिवज्ञानं स्वाश्रितानां विमुक्तये ॥ ७.२,८.१॥
भगवन् श्रोतुम् इच्छामि शिवेन परिभाषितम् ॥ ॥ ७।२,८।१॥
bhagavan śrotum icchāmi śivena paribhāṣitam .. .. 7.2,8.1..
अभक्तानामबुद्धीनामयुक्तानामगोचरम् ॥ अर्थैर्दशर्धैः संयुक्तं गूढमप्राज्ञनिंदितम् ॥ ७.२,८.२॥
अभक्तानाम् अबुद्धीनाम् अयुक्तानाम् अगोचरम् ॥ अर्थैः दश-ऋधैः संयुक्तम् गूढम् अप्राज्ञ-निंदितम् ॥ ७।२,८।२॥
abhaktānām abuddhīnām ayuktānām agocaram .. arthaiḥ daśa-ṛdhaiḥ saṃyuktam gūḍham aprājña-niṃditam .. 7.2,8.2..
वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ॥ वेदात्षडंगादुद्धृत्य सांख्याद्योगाच्च कृत्स्नशः ॥ ७.२,८.३॥
वर्ण-आश्रम-कृतैः धर्मैः विपरीतम् क्वचिद् समम् ॥ वेदात् षष्-अंगात् उद्धृत्य सांख्यात् योगात् च कृत्स्नशस् ॥ ७।२,८।३॥
varṇa-āśrama-kṛtaiḥ dharmaiḥ viparītam kvacid samam .. vedāt ṣaṣ-aṃgāt uddhṛtya sāṃkhyāt yogāt ca kṛtsnaśas .. 7.2,8.3..
शतकोटिप्रमाणेन विस्तीर्णं ग्रंथसंख्यया ॥ कथितं परमेशेन तत्र पूजा कथं प्रभोः ॥ ७.२,८.४॥
शत-कोटि-प्रमाणेन विस्तीर्णम् ग्रंथ-संख्यया ॥ कथितम् परमेशेन तत्र पूजा कथम् प्रभोः ॥ ७।२,८।४॥
śata-koṭi-pramāṇena vistīrṇam graṃtha-saṃkhyayā .. kathitam parameśena tatra pūjā katham prabhoḥ .. 7.2,8.4..
कस्याधिकारः पूजादौ ज्ञानयोगादयः कथम् ॥ तत्सर्वं विस्तरादेव वक्तुमर्हसि सुव्रत ॥ ७.२,८.५॥
कस्य अधिकारः पूजा-आदौ ज्ञान-योग-आदयः कथम् ॥ तत् सर्वम् विस्तरात् एव वक्तुम् अर्हसि सुव्रत ॥ ७।२,८।५॥
kasya adhikāraḥ pūjā-ādau jñāna-yoga-ādayaḥ katham .. tat sarvam vistarāt eva vaktum arhasi suvrata .. 7.2,8.5..
उपमन्युरुवाच॥
शैवं संक्षिप्य वेदोक्तं शिवेन परिभाषितम् ॥ स्तुतिनिंदादिरहितं सद्यः प्रत्ययकारणम् ॥ ७.२,८.६॥
शैवम् संक्षिप्य वेद-उक्तम् शिवेन परिभाषितम् ॥ स्तुति-निन्दा-आदि-रहितम् सद्यस् प्रत्यय-कारणम् ॥ ७।२,८।६॥
śaivam saṃkṣipya veda-uktam śivena paribhāṣitam .. stuti-nindā-ādi-rahitam sadyas pratyaya-kāraṇam .. 7.2,8.6..
गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम् ॥ कथयिष्ये समासेन तस्य शक्यो न विस्तरः ॥ ७.२,८.७॥
गुरु-प्रसाद-जम् दिव्यम् अनायासेन मुक्ति-दम् ॥ कथयिष्ये समासेन तस्य शक्यः न विस्तरः ॥ ७।२,८।७॥
guru-prasāda-jam divyam anāyāsena mukti-dam .. kathayiṣye samāsena tasya śakyaḥ na vistaraḥ .. 7.2,8.7..
सिसृक्षया पुराव्यक्ताच्छिवः स्थाणुर्महेश्वरः ॥ सत्कार्यकारणोपेतस्स्वयमाविरभूत्प्रभुः ॥ ७.२,८.८॥
सिसृक्षया पुरा अव्यक्तात् शिवः स्थाणुः महेश्वरः ॥ सत्कार्य-कारण-उपेतः स्वयम् आविरभूत् प्रभुः ॥ ७।२,८।८॥
sisṛkṣayā purā avyaktāt śivaḥ sthāṇuḥ maheśvaraḥ .. satkārya-kāraṇa-upetaḥ svayam āvirabhūt prabhuḥ .. 7.2,8.8..
जनयामास च तदा ऋषिर्विश्वाधिकः प्रभुः ॥ देवानां प्रथमं देवं ब्रह्माणं ब्रह्मणस्पतिम् ॥ ७.२,८.९॥
जनयामास च तदा ऋषिः विश्व-अधिकः प्रभुः ॥ देवानाम् प्रथमम् देवम् ब्रह्माणम् ब्रह्मणस्पतिम् ॥ ७।२,८।९॥
janayāmāsa ca tadā ṛṣiḥ viśva-adhikaḥ prabhuḥ .. devānām prathamam devam brahmāṇam brahmaṇaspatim .. 7.2,8.9..
ब्रह्मापि पितरं देवं जायमानं न्यवैक्षत ॥ तं जायमानं जनको देवः प्रापश्यदाज्ञया ॥ ७.२,८.१०॥
ब्रह्मा अपि पितरम् देवम् जायमानम् न्यवैक्षत ॥ तम् जायमानम् जनकः देवः प्रापश्यत् आज्ञया ॥ ७।२,८।१०॥
brahmā api pitaram devam jāyamānam nyavaikṣata .. tam jāyamānam janakaḥ devaḥ prāpaśyat ājñayā .. 7.2,8.10..
दृष्टो रुद्रेण देवो ऽसावसृजद्विश्वमीश्वरः ॥ वर्णाश्रमव्यवस्थां च चकार स पृथक्पृथक् ॥ ७.२,८.११॥
दृष्टः रुद्रेण देवः असौ असृजत् विश्वम् ईश्वरः ॥ वर्ण-आश्रम-व्यवस्थाम् च चकार स पृथक् पृथक् ॥ ७।२,८।११॥
dṛṣṭaḥ rudreṇa devaḥ asau asṛjat viśvam īśvaraḥ .. varṇa-āśrama-vyavasthām ca cakāra sa pṛthak pṛthak .. 7.2,8.11..
सोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत ॥ धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः ॥ ७.२,८.१२॥
सोमम् ससर्ज यज्ञ-अर्थे सोमात् द्यौः समजायत ॥ धरा च वह्निः सूर्यः च यज्ञः विष्णुः शचीपतिः ॥ ७।२,८।१२॥
somam sasarja yajña-arthe somāt dyauḥ samajāyata .. dharā ca vahniḥ sūryaḥ ca yajñaḥ viṣṇuḥ śacīpatiḥ .. 7.2,8.12..
ते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः ॥ प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः ॥ ७.२,८.१३॥
ते च अन्ये च सुराः रुद्रम् रुद्राध्यायेन तुष्टुवुः ॥ प्रसन्न-वदनः तस्थौ देवानाम् अग्रतस् प्रभुः ॥ ७।२,८।१३॥
te ca anye ca surāḥ rudram rudrādhyāyena tuṣṭuvuḥ .. prasanna-vadanaḥ tasthau devānām agratas prabhuḥ .. 7.2,8.13..
अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः ॥ तमपृच्छंस्ततो देवाः को भवानिति मोहिताः ॥ ७.२,८.१४॥
अपहृत्य स्व-लीला-अर्थम् तेषाम् ज्ञानम् महेश्वरः ॥ तम् अपृच्छन् ततस् देवाः कः भवान् इति मोहिताः ॥ ७।२,८।१४॥
apahṛtya sva-līlā-artham teṣām jñānam maheśvaraḥ .. tam apṛcchan tatas devāḥ kaḥ bhavān iti mohitāḥ .. 7.2,8.14..
सो ऽब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः ॥ आसं प्रथममेवाहं वर्तामि च सुरोत्तमाः ॥ ७.२,८.१५॥
सः अब्रवीत् भगवान् रुद्रः हि अहम् एकः पुरातनः ॥ आसम् प्रथमम् एव अहम् वर्तामि च सुर-उत्तमाः ॥ ७।२,८।१५॥
saḥ abravīt bhagavān rudraḥ hi aham ekaḥ purātanaḥ .. āsam prathamam eva aham vartāmi ca sura-uttamāḥ .. 7.2,8.15..
भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन ॥ अहमेव जगत्सर्वं तर्पयामि स्वतेजसा ॥ ७.२,८.१६॥
भविष्यामि च मत्तः अन्यः व्यतिरिक्तः न कश्चन ॥ अहम् एव जगत् सर्वम् तर्पयामि स्व-तेजसा ॥ ७।२,८।१६॥
bhaviṣyāmi ca mattaḥ anyaḥ vyatiriktaḥ na kaścana .. aham eva jagat sarvam tarpayāmi sva-tejasā .. 7.2,8.16..
मत्तो ऽधिकः समो नास्ति मां यो वेद स मुच्यते ॥ इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधत्त स ॥ ७.२,८.१७॥
मत्तः अधिकः समः ना अस्ति माम् यः वेद स मुच्यते ॥ इति उक्त्वा भगवान् रुद्रः तत्र एव अंतरधत्त स ॥ ७।२,८।१७॥
mattaḥ adhikaḥ samaḥ nā asti mām yaḥ veda sa mucyate .. iti uktvā bhagavān rudraḥ tatra eva aṃtaradhatta sa .. 7.2,8.17..
अपश्यंतस्तमीशानं स्तुवंतश्चैव सामभिः ॥ व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् ॥ ७.२,८.१७॥
अ पश्यंतः तम् ईशानम् स्तुवंतः च एव सामभिः ॥ व्रतम् पाशुपतम् कृत्वा तु अथर्वशिरसि स्थितम् ॥ ७।२,८।१७॥
a paśyaṃtaḥ tam īśānam stuvaṃtaḥ ca eva sāmabhiḥ .. vratam pāśupatam kṛtvā tu atharvaśirasi sthitam .. 7.2,8.17..
भस्मसंछन्नसर्वांगा बभूवुरमरास्तदा ॥ अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ॥ ७.२,८.१८॥
भस्म-संछन्न-सर्व-अंगाः बभूवुः अमराः तदा ॥ अथ तेषाम् प्रसाद-अर्थम् पशूनाम् पतिः ईश्वरः ॥ ७।२,८।१८॥
bhasma-saṃchanna-sarva-aṃgāḥ babhūvuḥ amarāḥ tadā .. atha teṣām prasāda-artham paśūnām patiḥ īśvaraḥ .. 7.2,8.18..
सगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः ॥ यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः ॥ ७.२,८.२०॥
स गणः च उमया सार्धम् सान्निध्यम् अकरोत् प्रभुः ॥ यम् विनिद्राः जित-श्वासाः योगिनः दग्ध-किल्बिषाः ॥ ७।२,८।२०॥
sa gaṇaḥ ca umayā sārdham sānnidhyam akarot prabhuḥ .. yam vinidrāḥ jita-śvāsāḥ yoginaḥ dagdha-kilbiṣāḥ .. 7.2,8.20..
हृदि पश्यंति तं देवं ददृशुर्देवपुंगवाः ॥ यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम् ॥ ७.२,८.२१॥
हृदि पश्यंति तम् देवम् ददृशुः देव-पुंगवाः ॥ याम् आहुः परमाम् शक्तिम् ईश्वर-इच्छा-अनुवर्तिनीम् ॥ ७।२,८।२१॥
hṛdi paśyaṃti tam devam dadṛśuḥ deva-puṃgavāḥ .. yām āhuḥ paramām śaktim īśvara-icchā-anuvartinīm .. 7.2,8.21..
तामपश्यन्महेशस्य वामतो वामलोचनाम् ॥ ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम् ॥ ७.२,८.२२॥
ताम् अपश्यत् महेशस्य वामतस् वाम-लोचनाम् ॥ ये विनिर्धूत-संसाराः प्राप्ताः शैवम् परम् पदम् ॥ ७।२,८।२२॥
tām apaśyat maheśasya vāmatas vāma-locanām .. ye vinirdhūta-saṃsārāḥ prāptāḥ śaivam param padam .. 7.2,8.22..
नित्यसिद्धाश्च ये वान्यं ते च दृष्टा गणेश्वराः ॥ अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम् ॥ ७.२,८.२३॥
नित्य-सिद्धाः च ये वा अन्यम् ते च दृष्टाः गणेश्वराः ॥ अथ तम् तुष्टुवुः देवाः देव्या सह महेश्वरम् ॥ ७।२,८।२३॥
nitya-siddhāḥ ca ye vā anyam te ca dṛṣṭāḥ gaṇeśvarāḥ .. atha tam tuṣṭuvuḥ devāḥ devyā saha maheśvaram .. 7.2,8.23..
स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि ॥ देवो ऽपि देवानालोक्य घृणया वृषभध्वजः ॥ ७.२,८.२४॥
स्तोत्रैः माहेश्वरैः दिव्यैः श्रोतैः पौराणिकैः अपि ॥ देवः अपि देवान् आलोक्य घृणया वृषभध्वजः ॥ ७।२,८।२४॥
stotraiḥ māheśvaraiḥ divyaiḥ śrotaiḥ paurāṇikaiḥ api .. devaḥ api devān ālokya ghṛṇayā vṛṣabhadhvajaḥ .. 7.2,8.24..
तुष्टो ऽस्मीत्याह सुप्रीतस्स्वभावमधुरां गिरम् ॥ अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम् ॥ अर्थमहत्तमं देवाः पप्रच्छुरिममादरात् ॥ ७.२,८.२५॥
तुष्टः अस्मि इति आह सु प्रीतः स्वभाव-मधुराम् गिरम् ॥ अथ सु प्रीत-मनसम् प्रणिपत्य वृषध्वजम् ॥ अर्थ-महत्तमम् देवाः पप्रच्छुः इमम् आदरात् ॥ ७।२,८।२५॥
tuṣṭaḥ asmi iti āha su prītaḥ svabhāva-madhurām giram .. atha su prīta-manasam praṇipatya vṛṣadhvajam .. artha-mahattamam devāḥ papracchuḥ imam ādarāt .. 7.2,8.25..
भगवन्केन मार्गेण पूजनीयो ऽसि भूतले ॥ कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः ॥ ७.२,८.२६॥
भगवन् केन मार्गेण पूजनीयः असि भू-तले ॥ कस्य अधिकारः पूजायाम् वक्तुम् अर्हसि तत्त्वतः ॥ ७।२,८।२६॥
bhagavan kena mārgeṇa pūjanīyaḥ asi bhū-tale .. kasya adhikāraḥ pūjāyām vaktum arhasi tattvataḥ .. 7.2,8.26..
ततः सस्मितमालोक्य देवीं देववरोहरः ॥ स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम् ॥ ७.२,८.२७॥
ततस् स स्मितम् आलोक्य देवीम् देव-वरः हरः ॥ स्व-रूपम् दर्शयामास घोरम् सूर्य-आत्मकम् परम् ॥ ७।२,८।२७॥
tatas sa smitam ālokya devīm deva-varaḥ haraḥ .. sva-rūpam darśayāmāsa ghoram sūrya-ātmakam param .. 7.2,8.27..
सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम् ॥ शक्तिभिर्मूर्तिभिश्चांगैर्ग्रहैर्देवैश्च संवृतम् ॥ ७.२,८.२८॥
सर्व-ऐश्वर्य-गुण-उपेतम् सर्व-तेजः-मयम् परम् ॥ शक्तिभिः मूर्तिभिः च अंगैः ग्रहैः देवैः च संवृतम् ॥ ७।२,८।२८॥
sarva-aiśvarya-guṇa-upetam sarva-tejaḥ-mayam param .. śaktibhiḥ mūrtibhiḥ ca aṃgaiḥ grahaiḥ devaiḥ ca saṃvṛtam .. 7.2,8.28..
अष्टबाहुं चतुर्वक्त्रमर्धनारीकमद्भुतम् ॥ दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः ॥ ७.२,८.२९॥
अष्ट-बाहुम् चतुर्-वक्त्रम् अर्धनारीकम् अद्भुतम् ॥ दृष्ट्वा एवम् अद्भुत-आकारम् देवाः विष्णु-पुरोगमाः ॥ ७।२,८।२९॥
aṣṭa-bāhum catur-vaktram ardhanārīkam adbhutam .. dṛṣṭvā evam adbhuta-ākāram devāḥ viṣṇu-purogamāḥ .. 7.2,8.29..
बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम् ॥ पञ्चभूतानि शेषाणि तन्मयं च चराचरम् ॥ ७.२,८.३०॥
बुद्ध्वा दिवाकरम् देवम् देवीम् च एव निशाकरम् ॥ पञ्चभूतानि शेषाणि तन्मयम् च चराचरम् ॥ ७।२,८।३०॥
buddhvā divākaram devam devīm ca eva niśākaram .. pañcabhūtāni śeṣāṇi tanmayam ca carācaram .. 7.2,8.30..
एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै ॥ ., ७.२,८३१॥
एवम् उक्त्वा नमश्चक्रुः तस्मै च अर्घ्यम् प्रदाय वै ॥ ।, ७।२,८३१॥
evam uktvā namaścakruḥ tasmai ca arghyam pradāya vai .. ., 7.2,831..
सिंदूरवर्णाय सुमण्डलाय सुवर्णवर्णाभरणाय तुभ्यम् ॥ पद्माभनेत्राय सपंकजाय ब्रह्मेन्द्रनारायणकारणाय ॥ ७.२,८.३२॥
सिंदूर-वर्णाय सु मण्डलाय सुवर्ण-वर्ण-आभरणाय तुभ्यम् ॥ पद्म-आभ-नेत्राय स पंकजाय ब्रह्म-इन्द्र-नारायण-कारणाय ॥ ७।२,८।३२॥
siṃdūra-varṇāya su maṇḍalāya suvarṇa-varṇa-ābharaṇāya tubhyam .. padma-ābha-netrāya sa paṃkajāya brahma-indra-nārāyaṇa-kāraṇāya .. 7.2,8.32..
सुरत्नपूर्णं ससुवर्णतोयं सुकुंकुमाद्यं सकुशं सपुष्पम् ॥ प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद ॥ ७.२,८.३३॥
सु रत्न-पूर्णम् स सुवर्ण-तोयम् सु कुंकुम-आद्यम् स कुशम् स पुष्पम् ॥ प्रदत्तम् आदाय स हेम-पात्रम् प्रशस्तम् अर्घ्यम् भगवन् प्रसीद ॥ ७।२,८।३३॥
su ratna-pūrṇam sa suvarṇa-toyam su kuṃkuma-ādyam sa kuśam sa puṣpam .. pradattam ādāya sa hema-pātram praśastam arghyam bhagavan prasīda .. 7.2,8.33..
नमश्शिवाय शांताय सगणायादिहेतवे ॥ रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये ॥ ७.२,८.३४॥
नमः शिवाय शांताय स गणाय आदि-हेतवे ॥ रुद्राय विष्णवे तुभ्यम् ब्रह्मणे सूर्य-मूर्तये ॥ ७।२,८।३४॥
namaḥ śivāya śāṃtāya sa gaṇāya ādi-hetave .. rudrāya viṣṇave tubhyam brahmaṇe sūrya-mūrtaye .. 7.2,8.34..
यश्शिवं मण्डले सौरे संपूज्यैव समाहितः ॥ प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम् ॥ ७.२,८.३५॥
यः शिवम् मण्डले सौरे संपूज्य एव समाहितः ॥ प्रातर् मध्याह्न-सायाह्ने प्रदद्यात् अर्घ्यम् उत्तमम् ॥ ७।२,८।३५॥
yaḥ śivam maṇḍale saure saṃpūjya eva samāhitaḥ .. prātar madhyāhna-sāyāhne pradadyāt arghyam uttamam .. 7.2,8.35..
प्रणमेद्वा पठेदेताञ्छ्लोकाञ्छ्रुतिमुखानिमान् ॥ न तस्य दुर्ल्लभं किंचिद्भक्तश्चेन्मुच्यते दृढम् ॥ ७.२,८.३६॥
प्रणमेत् वा पठेत् एतान् श्लोकान् श्रुति-मुखान् इमान् ॥ न तस्य दुर्ल्लभम् किंचिद् भक्तः चेद् मुच्यते दृढम् ॥ ७।२,८।३६॥
praṇamet vā paṭhet etān ślokān śruti-mukhān imān .. na tasya durllabham kiṃcid bhaktaḥ ced mucyate dṛḍham .. 7.2,8.36..
तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम् ॥ धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा ॥ ७.२,८.३७॥
तस्मात् अभ्यर्चयेत् नित्यम् शिवम् आदित्य-रूपिणम् ॥ धर्म-काम-अर्थ-मुक्ति-अर्थम् मनसा कर्मणा गिरा ॥ ७।२,८।३७॥
tasmāt abhyarcayet nityam śivam āditya-rūpiṇam .. dharma-kāma-artha-mukti-artham manasā karmaṇā girā .. 7.2,8.37..
अथ देवान्समालोक्य मण्डलस्थो महेश्वरः ॥ सर्वागमोत्तरं दत्त्वा शास्त्रमंतरधाद्धरः ॥ ७.२,८.३८॥
अथ देवान् समालोक्य मण्डल-स्थः महेश्वरः ॥ सर्व-आगम-उत्तरम् दत्त्वा शास्त्रम् अंतरधात् हरः ॥ ७।२,८।३८॥
atha devān samālokya maṇḍala-sthaḥ maheśvaraḥ .. sarva-āgama-uttaram dattvā śāstram aṃtaradhāt haraḥ .. 7.2,8.38..
तत्र पूजाधिकारो ऽयं ब्रह्मक्षत्रविशामिति ॥ ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम् ॥ ७.२,८.३९॥
तत्र पूजा-अधिकारः अयम् ब्रह्म-क्षत्र-विशाम् इति ॥ ज्ञात्वा प्रणम्य देवेशम् देवाः जग्मुः यथागतम् ॥ ७।२,८।३९॥
tatra pūjā-adhikāraḥ ayam brahma-kṣatra-viśām iti .. jñātvā praṇamya deveśam devāḥ jagmuḥ yathāgatam .. 7.2,8.39..
अथ कालेन महता तस्मिञ्छास्त्रे तिरोहिते ॥ भर्तारं परिपप्रच्छ तदंकस्था महेश्वरी ॥ ७.२,८.४०॥
अथ कालेन महता तस्मिन् शास्त्रे तिरोहिते ॥ भर्तारम् परिपप्रच्छ तद्-अंक-स्था महेश्वरी ॥ ७।२,८।४०॥
atha kālena mahatā tasmin śāstre tirohite .. bhartāram paripapraccha tad-aṃka-sthā maheśvarī .. 7.2,8.40..
तया स चोदितो देवो देव्या चन्द्रविभूषणः ॥ अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम् ॥ ७.२,८.४१॥
तया स चोदितः देवः देव्या चन्द्र-विभूषणः ॥ अवदत् करम् उद्धृत्य शास्त्रम् सर्व-आगम-उत्तरम् ॥ ७।२,८।४१॥
tayā sa coditaḥ devaḥ devyā candra-vibhūṣaṇaḥ .. avadat karam uddhṛtya śāstram sarva-āgama-uttaram .. 7.2,8.41..
प्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः ॥ मयागस्त्येन गुरुणा दधीचेन महर्षिणा ॥ ७.२,८.४२॥
प्रवर्तितम् च तत् लोके नियोगात् परमेष्ठिनः ॥ मया अगस्त्येन गुरुणा दधीचेन महा-ऋषिणा ॥ ७।२,८।४२॥
pravartitam ca tat loke niyogāt parameṣṭhinaḥ .. mayā agastyena guruṇā dadhīcena mahā-ṛṣiṇā .. 7.2,8.42..
स्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् ॥ स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसंततिम् ॥ ७.२,८.४३॥
स्वयम् अपि अवतीर्य उर्व्याम् युग-आवर्तेषु शूलधृक् ॥ स्व-आश्रितानाम् विमुक्ति-अर्थम् कुरुते ज्ञान-संततिम् ॥ ७।२,८।४३॥
svayam api avatīrya urvyām yuga-āvarteṣu śūladhṛk .. sva-āśritānām vimukti-artham kurute jñāna-saṃtatim .. 7.2,8.43..
ऋभुस्सत्यो भार्गवश्च ह्यंगिराः सविता द्विजाः ॥ मृत्युः शतक्रतुर्धीमान्वसिष्ठो मुनिपुंगवः ॥ ७.२,८.४४॥
ऋभुः सत्यः भार्गवः च हि अंगिराः सविता द्विजाः ॥ मृत्युः शतक्रतुः धीमान् वसिष्ठः मुनि-पुंगवः ॥ ७।२,८।४४॥
ṛbhuḥ satyaḥ bhārgavaḥ ca hi aṃgirāḥ savitā dvijāḥ .. mṛtyuḥ śatakratuḥ dhīmān vasiṣṭhaḥ muni-puṃgavaḥ .. 7.2,8.44..
सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः ॥ शततेजास्स्वयं धर्मो नारायण इति श्रुतः ॥ ७.२,८.४५॥
सारस्वतः त्रिधामा च त्रिवृतः मुनि-पुंगवः ॥ शत-तेजाः स्वयम् धर्मः नारायणः इति श्रुतः ॥ ७।२,८।४५॥
sārasvataḥ tridhāmā ca trivṛtaḥ muni-puṃgavaḥ .. śata-tejāḥ svayam dharmaḥ nārāyaṇaḥ iti śrutaḥ .. 7.2,8.45..
स्वरक्षश्चारुणिर्धीमांस्तथा चैव कृतंजयः ॥ कृतंजयो भरद्वाजो गौतमः कविरुत्तमः ॥ ७.२,८.४६॥
स्वरक्षः च अरुणिः धीमान् तथा च एव कृतंजयः ॥ कृतंजयः भरद्वाजः गौतमः कविः उत्तमः ॥ ७।२,८।४६॥
svarakṣaḥ ca aruṇiḥ dhīmān tathā ca eva kṛtaṃjayaḥ .. kṛtaṃjayaḥ bharadvājaḥ gautamaḥ kaviḥ uttamaḥ .. 7.2,8.46..
वाचःस्रवा मुनिस्साक्षात्तथा सूक्ष्मायणिः शुचिः ॥ तृणबिंदुर्मुनिः कृष्णः शक्तिः शाक्तेय उत्तरः ॥ ७.२,८.४७॥
वाचःस्रवाः मुनिः साक्षात् तथा सूक्ष्मायणिः शुचिः ॥ तृणबिंदुः मुनिः कृष्णः शक्तिः शाक्तेयः उत्तरः ॥ ७।२,८।४७॥
vācaḥsravāḥ muniḥ sākṣāt tathā sūkṣmāyaṇiḥ śuciḥ .. tṛṇabiṃduḥ muniḥ kṛṣṇaḥ śaktiḥ śākteyaḥ uttaraḥ .. 7.2,8.47..
जातूकर्ण्यो हरिस्साक्षात्कृष्णद्वैपायनो मुनिः ॥ व्यासावताराञ्छृण्वंतु कल्पयोगेश्वरान्क्रमात् ॥ ७.२,८.४८॥
जातूकर्ण्यः हरिः साक्षात् कृष्णद्वैपायनः मुनिः ॥ व्यास-अवतारान् शृण्वन्तु कल्प-योग-ईश्वरान् क्रमात् ॥ ७।२,८।४८॥
jātūkarṇyaḥ hariḥ sākṣāt kṛṣṇadvaipāyanaḥ muniḥ .. vyāsa-avatārān śṛṇvantu kalpa-yoga-īśvarān kramāt .. 7.2,8.48..
लैंगे व्यासावतारा हि द्वापरां तेषु सुव्रताः ॥ योगाचार्यावताराश्च तथा शिष्येषु शूलिनः ॥ ७.२,८.४९॥
लैंगे व्यास-अवताराः हि तेषु सुव्रताः ॥ योग-आचार्य-अवताराः च तथा शिष्येषु शूलिनः ॥ ७।२,८।४९॥
laiṃge vyāsa-avatārāḥ hi teṣu suvratāḥ .. yoga-ācārya-avatārāḥ ca tathā śiṣyeṣu śūlinaḥ .. 7.2,8.49..
तत्र तत्र विभोः शिष्याश्चत्वारः स्युर्महौजसः ॥ शिष्यास्तेषां प्रशिष्याश्च शतशो ऽथ सहस्रशः ॥ ७.२,८.५०॥
तत्र तत्र विभोः शिष्याः चत्वारः स्युः महा-ओजसः ॥ शिष्याः तेषाम् प्रशिष्याः च शतशस् अथ सहस्रशस् ॥ ७।२,८।५०॥
tatra tatra vibhoḥ śiṣyāḥ catvāraḥ syuḥ mahā-ojasaḥ .. śiṣyāḥ teṣām praśiṣyāḥ ca śataśas atha sahasraśas .. 7.2,8.50..
तेषां संभावनाल्लोके शैवाज्ञाकरणादिभिः ॥ भाग्यवंतो विमुच्यंते भक्त्या चात्यंतभाविताः ॥ ७.२,८.५१॥
तेषाम् संभावनात् लोके शैव-आज्ञा-करण-आदिभिः ॥ भाग्यवंतः विमुच्यंते भक्त्या च अत्यंत-भाविताः ॥ ७।२,८।५१॥
teṣām saṃbhāvanāt loke śaiva-ājñā-karaṇa-ādibhiḥ .. bhāgyavaṃtaḥ vimucyaṃte bhaktyā ca atyaṃta-bhāvitāḥ .. 7.2,8.51..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वज्ञाने व्यासावतारवर्णनं नामाष्टमो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे शिवतत्त्वज्ञाने व्यासावतारवर्णनम् नाम अष्टमः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe śivatattvajñāne vyāsāvatāravarṇanam nāma aṣṭamaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In