| |
|

This overlay will guide you through the buttons:

कृष्ण उवाच॥
युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु ॥ अवतारान्हि शर्वस्य शिष्यांश्च भगवन्वद ॥ ७.२,९.१॥
युग-आवर्तेषु सर्वेषु योग-आचार्य-छलेन तु ॥ अवतारान् हि शर्वस्य शिष्यान् च भगवन् वद ॥ ७।२,९।१॥
yuga-āvarteṣu sarveṣu yoga-ācārya-chalena tu .. avatārān hi śarvasya śiṣyān ca bhagavan vada .. 7.2,9.1..
उपमन्युरुवाच॥
श्वेतः सुतारो मदनः सुहोत्रः कङ्क एव च ॥ लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च ॥ ७.२,९.२॥
श्वेतः सुतारः मदनः सुहोत्रः कङ्कः एव च ॥ लौगाक्षिः च महा-मायः जैगीषव्यः तथा एव च ॥ ७।२,९।२॥
śvetaḥ sutāraḥ madanaḥ suhotraḥ kaṅkaḥ eva ca .. laugākṣiḥ ca mahā-māyaḥ jaigīṣavyaḥ tathā eva ca .. 7.2,9.2..
दधिवाहश्च ऋषभो मुनिरुग्रो ऽत्रिरेव च ॥ सुपालको गौतमश्च तथा वेदशिरा मुनिः ॥ ७.२,९.३॥
दधिवाहः च ऋषभः मुनिः उग्रः अत्रिः एव च ॥ सुपालकः गौतमः च तथा वेदशिराः मुनिः ॥ ७।२,९।३॥
dadhivāhaḥ ca ṛṣabhaḥ muniḥ ugraḥ atriḥ eva ca .. supālakaḥ gautamaḥ ca tathā vedaśirāḥ muniḥ .. 7.2,9.3..
गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः ॥ जटामाली चाट्टहासो दारुको लांगुली तथा ॥ ७.२,९.४॥
गोकर्णः च गुहावासी शिखण्डी च अपरः स्मृतः ॥ जटामाली च अट्टहासः दारुकः लांगुली तथा ॥ ७।२,९।४॥
gokarṇaḥ ca guhāvāsī śikhaṇḍī ca aparaḥ smṛtaḥ .. jaṭāmālī ca aṭṭahāsaḥ dārukaḥ lāṃgulī tathā .. 7.2,9.4..
महाकालश्च शूली च डंडी मुण्डीश एव च ॥ सविष्णुस्सोमशर्मा च लकुलीश्वर एव च ॥ ७.२,९.५॥
महाकालः च शूली च डंडी मुण्डीशः एव च ॥ स विष्णुः सोमशर्मा च लकुलि-ईश्वरः एव च ॥ ७।२,९।५॥
mahākālaḥ ca śūlī ca ḍaṃḍī muṇḍīśaḥ eva ca .. sa viṣṇuḥ somaśarmā ca lakuli-īśvaraḥ eva ca .. 7.2,9.5..
एते वाराह कल्पे ऽस्मिन्सप्तमस्यांतरो मनोः ॥ अष्टाविंशतिसंख्याता योगाचार्या युगक्रमात् ॥ ७.२,९.६॥
एते वाराह कल्पे अस्मिन् सप्तमस्य अंतरः मनोः ॥ अष्टाविंशति-संख्याताः योग-आचार्याः युग-क्रमात् ॥ ७।२,९।६॥
ete vārāha kalpe asmin saptamasya aṃtaraḥ manoḥ .. aṣṭāviṃśati-saṃkhyātāḥ yoga-ācāryāḥ yuga-kramāt .. 7.2,9.6..
शिष्याः प्रत्येकमेतेषां चत्वारश्शांतचेतसः ॥ श्वेतादयश्च रुष्यांतांस्तान्ब्रवीमि यथाक्रमम् ॥ ७.२,९.७॥
शिष्याः प्रत्येकम् एतेषाम् चत्वारः शांत-चेतसः ॥ श्वेत-आदयः च रुष्य अन्तान् तान् ब्रवीमि यथाक्रमम् ॥ ७।२,९।७॥
śiṣyāḥ pratyekam eteṣām catvāraḥ śāṃta-cetasaḥ .. śveta-ādayaḥ ca ruṣya antān tān bravīmi yathākramam .. 7.2,9.7..
श्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ॥ दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा ॥ ७.२,९.८॥
श्वेतः श्वेतशिखः च एव श्वेताश्वः श्वेतलोहितः ॥ दुन्दुभिः शतरूपः च ऋचीकः केतुमन्त् तथा ॥ ७।२,९।८॥
śvetaḥ śvetaśikhaḥ ca eva śvetāśvaḥ śvetalohitaḥ .. dundubhiḥ śatarūpaḥ ca ṛcīkaḥ ketumant tathā .. 7.2,9.8..
विकोशश्च विकेशश्च विपाशः पाशनाशनः ॥ सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः ॥ ७.२,९.९॥
विकोशः च विकेशः च विपाशः पाशनाशनः ॥ सुमुखः दुर्मुखः च एव दुर्गमः दुरतिक्रमः ॥ ७।२,९।९॥
vikośaḥ ca vikeśaḥ ca vipāśaḥ pāśanāśanaḥ .. sumukhaḥ durmukhaḥ ca eva durgamaḥ duratikramaḥ .. 7.2,9.9..
सनत्कुमारस्सनकः सनंदश्च सनातनः ॥ सुधामा विरजाश्चैव शंखश्चांडज एव च ॥ ७.२,९.१०॥
सनत्कुमारः सनकः सनंदः च सनातनः ॥ सुधामा विरजाः च एव शंखः च अंडजः एव च ॥ ७।२,९।१०॥
sanatkumāraḥ sanakaḥ sanaṃdaḥ ca sanātanaḥ .. sudhāmā virajāḥ ca eva śaṃkhaḥ ca aṃḍajaḥ eva ca .. 7.2,9.10..
सारस्वतश्च मेघश्च मेघवाहस्सुवाहकः ॥ कपिलश्चासुरिः पञ्चशिखो बाष्कल एव च ॥ ७.२,९.११॥
सारस्वतः च मेघः च मेघवाहः सुवाहकः ॥ कपिलः च आसुरिः पञ्चशिखः बाष्कलः एव च ॥ ७।२,९।११॥
sārasvataḥ ca meghaḥ ca meghavāhaḥ suvāhakaḥ .. kapilaḥ ca āsuriḥ pañcaśikhaḥ bāṣkalaḥ eva ca .. 7.2,9.11..
पराशराश्च गर्गश्च भार्गवश्चांगिरास्तथा ॥ बलबन्धुर्निरामित्राः केतुशृंगस्तपोधनः ॥ ७.२,९.१२॥
पराशराः च गर्गः च भार्गवः च अंगिराः तथा ॥ बलबन्धुः निरामित्राः केतुशृंगः तपोधनः ॥ ७।२,९।१२॥
parāśarāḥ ca gargaḥ ca bhārgavaḥ ca aṃgirāḥ tathā .. balabandhuḥ nirāmitrāḥ ketuśṛṃgaḥ tapodhanaḥ .. 7.2,9.12..
लंबोदरश्च लंबश्च लम्बात्मा लंबकेशकः ॥ सर्वज्ञस्समबुद्धिश्च साध्यसिद्धिस्तथैव च ॥ ७.२,९.१३॥
लंबोदरः च लंबः च लम्बात्मा लंबकेशकः ॥ सर्वज्ञः सम-बुद्धिः च साध्य-सिद्धिः तथा एव च ॥ ७।२,९।१३॥
laṃbodaraḥ ca laṃbaḥ ca lambātmā laṃbakeśakaḥ .. sarvajñaḥ sama-buddhiḥ ca sādhya-siddhiḥ tathā eva ca .. 7.2,9.13..
सुधामा कश्यपश्चैव वसिष्ठो विरजास्तथा ॥ अत्रिरुग्रो गुरुश्रेष्ठः श्रवनोथ श्रविष्टकः ॥ ७.२,९.१४॥
सुधामा कश्यपः च एव वसिष्ठः विरजाः तथा ॥ अत्रिः उग्रः गुरु-श्रेष्ठः श्रवनाः उथ श्रविष्टकः ॥ ७।२,९।१४॥
sudhāmā kaśyapaḥ ca eva vasiṣṭhaḥ virajāḥ tathā .. atriḥ ugraḥ guru-śreṣṭhaḥ śravanāḥ utha śraviṣṭakaḥ .. 7.2,9.14..
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ काश्यपो ह्युशनाश्चैव च्यवनश्च बृहस्पतिः ॥ ७.२,९.१५॥
कुणिः च कुणिबाहुः च कुशरीरः कुनेत्रकः ॥ काश्यपः हि उशनाः च एव च्यवनः च बृहस्पतिः ॥ ७।२,९।१५॥
kuṇiḥ ca kuṇibāhuḥ ca kuśarīraḥ kunetrakaḥ .. kāśyapaḥ hi uśanāḥ ca eva cyavanaḥ ca bṛhaspatiḥ .. 7.2,9.15..
उतथ्यो वामदेवश्च महाकालो महा ऽनिलः ॥ वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः ॥ ७.२,९.१६॥
उतथ्यः वामदेवः च महाकालः महा-अनिलः ॥ वाचःश्रवाः सुवीरः च श्यावकः च यतीश्वरः ॥ ७।२,९।१६॥
utathyaḥ vāmadevaḥ ca mahākālaḥ mahā-anilaḥ .. vācaḥśravāḥ suvīraḥ ca śyāvakaḥ ca yatīśvaraḥ .. 7.2,9.16..
हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ॥ सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः ॥ ७.२,९.१७॥
हिरण्यनाभः कौशल्यः लोकाक्षिः कुथुमिः तथा ॥ सुमन्तुः जैमिनिः च एव कुबन्धः कुशकन्धरः ॥ ७।२,९।१७॥
hiraṇyanābhaḥ kauśalyaḥ lokākṣiḥ kuthumiḥ tathā .. sumantuḥ jaiminiḥ ca eva kubandhaḥ kuśakandharaḥ .. 7.2,9.17..
प्लक्षो दार्भायणिश्चैव केतुमान्गौतमस्तथा ॥ भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ॥ ७.२,९.१८॥
प्लक्षः दार्भायणिः च एव केतुमान् गौतमः तथा ॥ भल्लवी मधुपिंगः च श्वेतकेतुः तथा एव च ॥ ७।२,९।१८॥
plakṣaḥ dārbhāyaṇiḥ ca eva ketumān gautamaḥ tathā .. bhallavī madhupiṃgaḥ ca śvetaketuḥ tathā eva ca .. 7.2,9.18..
उशिजो बृहदश्वश्च देवलः कविरेव च ॥ शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः ॥ ७.२,९.१९॥
उशिजः बृहदश्वः च देवलः कविः एव च ॥ शालिहोत्रः सुवेषः च युवनाश्वः शरद्वसुः ॥ ७।२,९।१९॥
uśijaḥ bṛhadaśvaḥ ca devalaḥ kaviḥ eva ca .. śālihotraḥ suveṣaḥ ca yuvanāśvaḥ śaradvasuḥ .. 7.2,9.19..
अक्षपादः कणादश्च उलूको वत्स एव च ॥ कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च ॥ ७.२,९.२०॥
अक्षपादः कणादः च उलूकः वत्सः एव च ॥ कुलिकः च एव गर्गः च मित्रकः रुष्यः एव च ॥ ७।२,९।२०॥
akṣapādaḥ kaṇādaḥ ca ulūkaḥ vatsaḥ eva ca .. kulikaḥ ca eva gargaḥ ca mitrakaḥ ruṣyaḥ eva ca .. 7.2,9.20..
एते शिष्या महेशस्य योगाचार्यस्वरूपिणः ॥ संख्या च शतमेतेषां सह द्वादशसंख्यया ॥ ७.२,९.२१॥
एते शिष्याः महेशस्य योग-आचार्य-स्वरूपिणः ॥ संख्या च शतम् एतेषाम् सह द्वादश-संख्यया ॥ ७।२,९।२१॥
ete śiṣyāḥ maheśasya yoga-ācārya-svarūpiṇaḥ .. saṃkhyā ca śatam eteṣām saha dvādaśa-saṃkhyayā .. 7.2,9.21..
सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥ सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदांगपारगाः ॥ ७.२,९.२२॥
सर्वे पाशुपताः सिद्धाः भस्म-उद्धूलित-विग्रहाः ॥ सर्व-शास्त्र-अर्थ-तत्त्व-ज्ञाः वेद-वेदांग-पारगाः ॥ ७।२,९।२२॥
sarve pāśupatāḥ siddhāḥ bhasma-uddhūlita-vigrahāḥ .. sarva-śāstra-artha-tattva-jñāḥ veda-vedāṃga-pāragāḥ .. 7.2,9.22..
शिवाश्रमरतास्सर्वे शिवज्ञानपरायणाः ॥ सर्वे संगविनिर्मुक्ताः शिवैकासक्तचेतसः ॥ ७.२,९.२३॥
शिव-आश्रम-रताः सर्वे शिव-ज्ञान-परायणाः ॥ सर्वे संग-विनिर्मुक्ताः शिव-एक-आसक्त-चेतसः ॥ ७।२,९।२३॥
śiva-āśrama-ratāḥ sarve śiva-jñāna-parāyaṇāḥ .. sarve saṃga-vinirmuktāḥ śiva-eka-āsakta-cetasaḥ .. 7.2,9.23..
सर्वद्वंद्वसहा धीराः सर्वभूतहिते रताः ॥ ऋजवो मृदवः स्वस्था जितक्रोधा जितेंद्रियाः ॥ ७.२,९.२४॥
सर्व-द्वंद्व-सहाः धीराः सर्व-भूत-हिते रताः ॥ ऋजवः मृदवः स्वस्थाः जित-क्रोधाः जित-इंद्रियाः ॥ ७।२,९।२४॥
sarva-dvaṃdva-sahāḥ dhīrāḥ sarva-bhūta-hite ratāḥ .. ṛjavaḥ mṛdavaḥ svasthāḥ jita-krodhāḥ jita-iṃdriyāḥ .. 7.2,9.24..
रुद्राक्षमालाभरणास्त्रिपुंड्रांकितमस्तकाः ॥ शिखाजटास्सर्वजटा अजटा मुंडशीर्षकाः ॥ ७.२,९.२५॥
रुद्र-अक्ष-माला-आभरणाः त्रिपुंड्र-अंकित-मस्तकाः ॥ शिखा-जटाः सर्व-जटाः अजटाः मुंड-शीर्षकाः ॥ ७।२,९।२५॥
rudra-akṣa-mālā-ābharaṇāḥ tripuṃḍra-aṃkita-mastakāḥ .. śikhā-jaṭāḥ sarva-jaṭāḥ ajaṭāḥ muṃḍa-śīrṣakāḥ .. 7.2,9.25..
फलमूलाशनप्रायाः प्राणायामपरायणाः ॥ शिवाभिमानसंपन्नाः शिवध्यानैकतत्पराः ॥ ७.२,९.२६॥
फल-मूल-अशन-प्रायाः प्राणायाम-परायणाः ॥ शिव-अभिमान-संपन्नाः शिव-ध्यान-एक-तत्पराः ॥ ७।२,९।२६॥
phala-mūla-aśana-prāyāḥ prāṇāyāma-parāyaṇāḥ .. śiva-abhimāna-saṃpannāḥ śiva-dhyāna-eka-tatparāḥ .. 7.2,9.26..
समुन्मथितसंसारविषवृक्षांकुरोद्गमाः ॥ प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति ॥ ७.२,९.२७॥
॥ प्रयातुम् एव सन्नद्धाः परम् शिव-पुरम् प्रति ॥ ७।२,९।२७॥
.. prayātum eva sannaddhāḥ param śiva-puram prati .. 7.2,9.27..
सदेशिकानिमान्मत्वा नित्यं यश्शिवमर्चयेत् ॥ स याति शिवसायुज्यं नात्र कार्या विचारणा ॥ ७.२,९.२८॥
स देशिकान् इमान् मत्वा नित्यम् यः शिवम् अर्चयेत् ॥ स याति शिव-सायुज्यम् न अत्र कार्या विचारणा ॥ ७।२,९।२८॥
sa deśikān imān matvā nityam yaḥ śivam arcayet .. sa yāti śiva-sāyujyam na atra kāryā vicāraṇā .. 7.2,9.28..
इति श्रीशिवमहापु सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवस्य योगावतारवर्णनं नाम नवमो ऽध्यायः॥
इति श्री-शिवमहापु सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे शिवस्य योगावतारवर्णनम् नाम नवमः अध्यायः॥
iti śrī-śivamahāpu saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe śivasya yogāvatāravarṇanam nāma navamaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In