| |
|

This overlay will guide you through the buttons:

श्रीशिवमहापुराणम्
श्री-शिव-महापुराणम्
śrī-śiva-mahāpurāṇam
अथ श्रीशिवमहापुराणं विद्येश्वरसंहिता प्रारभ्यते
अथ श्री-शिव-महा-पुराणम् विद्येश्वर-संहिता प्रारभ्यते
atha śrī-śiva-mahā-purāṇam vidyeśvara-saṃhitā prārabhyate
श्रीगणेशाय नमः
श्री-गणेशाय नमः
śrī-gaṇeśāya namaḥ
श्रीगुरुभ्यो नमः
श्री-गुरुभ्यः नमः
śrī-gurubhyaḥ namaḥ
श्रिसरस्वत्यै नमः
श्रि-सरस्वत्यै नमः
śri-sarasvatyai namaḥ
अथ शिवपुराणे प्रथमा विद्येश्वरसंहिता प्रारभ्यते
अथ शिवपुराणे प्रथमा विद्येश्वर-संहिता प्रारभ्यते
atha śivapurāṇe prathamā vidyeśvara-saṃhitā prārabhyate
आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम् ॥ पंचाननं प्रबलपंचविनोदशीलं संभावये मनसिशंकरमम्बिकेशम् ॥ १॥
आदि-अन्त-मंगलम् अजात-समान-भावम् आर्यम् तम् ईशम् अजर-अमरम् आत्मदेवम् ॥ पंचाननम् प्रबल-पंच-विनोद-शीलम् संभावये मनसि शंकरम् अम्बिकेशम् ॥ १॥
ādi-anta-maṃgalam ajāta-samāna-bhāvam āryam tam īśam ajara-amaram ātmadevam .. paṃcānanam prabala-paṃca-vinoda-śīlam saṃbhāvaye manasi śaṃkaram ambikeśam .. 1..
व्यास उवाच ।
धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे ॥ प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ॥ २॥
धर्मक्षेत्रे महा-क्षेत्रे गंगा-कालिन्दिसंगमे ॥ प्रयागे परमे पुण्ये ब्रह्म-लोकस्य वर्त्मनि ॥ २॥
dharmakṣetre mahā-kṣetre gaṃgā-kālindisaṃgame .. prayāge parame puṇye brahma-lokasya vartmani .. 2..
मुनयः शंसितात्मानस्सत्यव्रतपरायणाः ॥ महौजसो महाभागा महासत्रं वितेनिरे ॥ ३॥
मुनयः शंसित-आत्मानः सत्य-व्रत-परायणाः ॥ महा-ओजसः महाभागाः महा-सत्रम् वितेनिरे ॥ ३॥
munayaḥ śaṃsita-ātmānaḥ satya-vrata-parāyaṇāḥ .. mahā-ojasaḥ mahābhāgāḥ mahā-satram vitenire .. 3..
तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ॥ आजगाम मुनीन्द्र ष्टुं सूतः पौराणिकोत्तमः ॥ ४॥
तत्र सत्रम् समाकर्ण्य व्यास-शिष्यः महा-मुनिः ॥ आजगाम मुनि-इन्द्र सूतः पौराणिक-उत्तमः ॥ ४॥
tatra satram samākarṇya vyāsa-śiṣyaḥ mahā-muniḥ .. ājagāma muni-indra sūtaḥ paurāṇika-uttamaḥ .. 4..
तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा ॥ चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ॥ ५॥
तम् दृष्ट्वा सूत-मायान्तम् हर्षिताः मुनयः तदा ॥ चेतसा सु प्रसन्नेन पूजाम् चक्रुः यथाविधि ॥ ५॥
tam dṛṣṭvā sūta-māyāntam harṣitāḥ munayaḥ tadā .. cetasā su prasannena pūjām cakruḥ yathāvidhi .. 5..
ततो विनयसंयुक्ता प्रोचुः सांजलयश्च ते ॥ सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ॥ ६॥
ततस् विनय-संयुक्ता प्रोचुः स अंजलयः च ते ॥ सु प्रसन्नाः महात्मानः स्तुतिम् कृत्वा अयथाविधि ॥ ६॥
tatas vinaya-saṃyuktā procuḥ sa aṃjalayaḥ ca te .. su prasannāḥ mahātmānaḥ stutim kṛtvā ayathāvidhi .. 6..
रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात् ॥ पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ॥ ७॥
रोमहर्षण सर्वज्ञ भवान् वै भाग्य-गौरवात् ॥ पुराण-विद्याम् अखिलाम् व्यासात् प्रति अर्थम् ईयिवान् ॥ ७॥
romaharṣaṇa sarvajña bhavān vai bhāgya-gauravāt .. purāṇa-vidyām akhilām vyāsāt prati artham īyivān .. 7..
तस्मादाश्चर्य्यभूतानां कथानां त्वं हि भाजनम् ॥ रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ ८॥
तस्मात् आश्चर्य्य-भूतानाम् कथानाम् त्वम् हि भाजनम् ॥ रत्नानाम् उरु-साराणाम् रत्न-आकरः इव अर्णवः ॥ ८॥
tasmāt āścaryya-bhūtānām kathānām tvam hi bhājanam .. ratnānām uru-sārāṇām ratna-ākaraḥ iva arṇavaḥ .. 8..
यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ॥ न त्वयाऽविदितं किंचित्त्रिषु लोकेषु विद्यते ॥ ९॥
यत् च भूतम् च भव्यम् च यत् च अन्यत् वस्तु वर्तते ॥ न त्वया अ विदितम् किंचिद् त्रिषु लोकेषु विद्यते ॥ ९॥
yat ca bhūtam ca bhavyam ca yat ca anyat vastu vartate .. na tvayā a viditam kiṃcid triṣu lokeṣu vidyate .. 9..
त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ॥ कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ॥ १०॥
त्वम् मद्-दिष्ट-वशात् अस्य दर्शन-अर्थम् इह आगतः ॥ कुर्वन् किम् अपि नः श्रेयः न वृथा गंतुम् अर्हसि ॥ १०॥
tvam mad-diṣṭa-vaśāt asya darśana-artham iha āgataḥ .. kurvan kim api naḥ śreyaḥ na vṛthā gaṃtum arhasi .. 10..
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ॥ न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः १.१. ॥ ११॥
तत्त्वम् श्रुतम् स्म नः सर्वम् पूर्वम् एव शुभ-अशुभम् ॥ न तृप्तिम् अधिगच्छामः श्रवण-इच्छाः मुहुर् मुहुर्।१। ॥ ११॥
tattvam śrutam sma naḥ sarvam pūrvam eva śubha-aśubham .. na tṛptim adhigacchāmaḥ śravaṇa-icchāḥ muhur muhur.1. .. 11..
इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ॥ तद्र हस्यमपि ब्रूहि यदि तेऽनुग्रहो भवेत् ॥ १२॥
इदानीम् एकम् एव अस्ति श्रोतव्यम् सूत सत्-मते ॥ हस्यम् अपि ब्रूहि यदि ते अनुग्रहः भवेत् ॥ १२॥
idānīm ekam eva asti śrotavyam sūta sat-mate .. hasyam api brūhi yadi te anugrahaḥ bhavet .. 12..
प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ॥ दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ १३॥
प्राप्ते कलि-युगे घोरे नराः पुण्य-विवर्जिताः ॥ दुराचार-रताः सर्वे सत्य-वार्ता-पराङ्मुखाः ॥ १३॥
prāpte kali-yuge ghore narāḥ puṇya-vivarjitāḥ .. durācāra-ratāḥ sarve satya-vārtā-parāṅmukhāḥ .. 13..
परापवादनिरताः परद्र व्याभिलाषिणः ॥ परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ १४॥
पर-अपवाद-निरताः पर-द्र-व्य-अभिलाषिणः ॥ पर-स्त्री-सक्त-मनसः पर-हिंसा-परायणाः ॥ १४॥
para-apavāda-niratāḥ para-dra-vya-abhilāṣiṇaḥ .. para-strī-sakta-manasaḥ para-hiṃsā-parāyaṇāḥ .. 14..
देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः ॥ मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः ॥ १५॥
देह-आत्म-दृष्टया मूढाः नास्तिकाः पशु-बुद्धयः ॥ मातृ-पितृ-कृत-द्वेषाः स्त्री-देवाः काम-किंकराः ॥ १५॥
deha-ātma-dṛṣṭayā mūḍhāḥ nāstikāḥ paśu-buddhayaḥ .. mātṛ-pitṛ-kṛta-dveṣāḥ strī-devāḥ kāma-kiṃkarāḥ .. 15..
विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ॥ धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ १६॥
विप्राः लोभ-ग्रह-ग्रस्ताः वेद-विक्रय-जीविनः ॥ धन-अर्जन-अर्थम् अभ्यस्त-विद्याः मद-विमोहिताः ॥ १६॥
viprāḥ lobha-graha-grastāḥ veda-vikraya-jīvinaḥ .. dhana-arjana-artham abhyasta-vidyāḥ mada-vimohitāḥ .. 16..
त्यक्तस्वजातिकर्माणः प्रायशःपरवंचकाः ॥ त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः ॥ १७॥
त्यक्त-स्व-जाति-कर्माणः प्रायशस् पर-वंचकाः ॥ त्रिकालसंध्यया हीनाः ब्रह्म-बोध-विवर्जिताः ॥ १७॥
tyakta-sva-jāti-karmāṇaḥ prāyaśas para-vaṃcakāḥ .. trikālasaṃdhyayā hīnāḥ brahma-bodha-vivarjitāḥ .. 17..
अदयाः पंडितं मन्यास्स्वाचारव्रतलोपकाः ॥ कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ॥ १८॥
अदयाः पंडितम् मन्याः सु आचार-व्रत-लोपकाः ॥ कृषि-उद्यम-रताः क्रूर-स्वभावाः मलिन-आशयाः ॥ १८॥
adayāḥ paṃḍitam manyāḥ su ācāra-vrata-lopakāḥ .. kṛṣi-udyama-ratāḥ krūra-svabhāvāḥ malina-āśayāḥ .. 18..
क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ॥ असत्संगाः पापरता व्यभिचारपरायणाः ॥ १९॥
क्षत्रियाः च तथा सर्वे स्वधर्म-त्याग-शीलिनः ॥ असत्-संगाः पाप-रताः व्यभिचार-परायणाः ॥ १९॥
kṣatriyāḥ ca tathā sarve svadharma-tyāga-śīlinaḥ .. asat-saṃgāḥ pāpa-ratāḥ vyabhicāra-parāyaṇāḥ .. 19..
अशूरा अरणप्रीताः पलायनपरायणाः ॥ कुचौरवृत्तयः शूद्रा ः! कामकिंकरचेतसः ॥ २०॥
अ शूराः अरण-प्रीताः पलायन-परायणाः ॥ कु चौर-वृत्तयः शूद्राः! काम-किंकर-चेतसः ॥ २०॥
a śūrāḥ araṇa-prītāḥ palāyana-parāyaṇāḥ .. ku caura-vṛttayaḥ śūdrāḥ! kāma-kiṃkara-cetasaḥ .. 20..
शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ॥ शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा १.१. ॥ २१॥
शस्त्र-अस्त्र-विद्यया हीनाः धेनु-विप्र-अवन-उज्झिताः ॥ शरण्य-अवन-हीनाः च कामि-न्यूति-मृगाः सदा।१। ॥ २१॥
śastra-astra-vidyayā hīnāḥ dhenu-vipra-avana-ujjhitāḥ .. śaraṇya-avana-hīnāḥ ca kāmi-nyūti-mṛgāḥ sadā.1. .. 21..
प्रजापालनसद्धर्मविहीना भोगतत्पराः ॥ प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ॥ २२॥
प्रजा-पालन-सद्धर्म-विहीनाः भोग-तत्पराः ॥ प्रजा-संहारकाः दुष्टाः जीव-हिंसा-कराः मुदा ॥ २२॥
prajā-pālana-saddharma-vihīnāḥ bhoga-tatparāḥ .. prajā-saṃhārakāḥ duṣṭāḥ jīva-hiṃsā-karāḥ mudā .. 22..
वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ॥ कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ॥ २३॥
वैश्याः संस्कार-हीनाः ते स्वधर्म-त्याग-शीलिनः ॥ कुपथाः स्व-अर्जन-रताः तुलाकर्म-कुवृत्तयः ॥ २३॥
vaiśyāḥ saṃskāra-hīnāḥ te svadharma-tyāga-śīlinaḥ .. kupathāḥ sva-arjana-ratāḥ tulākarma-kuvṛttayaḥ .. 23..
गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ॥ अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ॥ २४॥
गुरु-देव-द्विजातीनाम् भक्ति-हीनाः कु बुद्धयः ॥ अभोजित-द्विजाः प्रायस् कृपणाः बद्ध-मुष्टयः ॥ २४॥
guru-deva-dvijātīnām bhakti-hīnāḥ ku buddhayaḥ .. abhojita-dvijāḥ prāyas kṛpaṇāḥ baddha-muṣṭayaḥ .. 24..
कामिनीजारभावेषु सुरता मलिनाशयाः ॥ लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः ॥ २५॥
कामिनी-जार-भावेषु सुरताः मलिन-आशयाः ॥ ॥ २५॥
kāminī-jāra-bhāveṣu suratāḥ malina-āśayāḥ .. .. 25..
तद्वच्छूद्रा श्च ये केचिद्ब्राह्मणाचारतत्पराः ॥ उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः ॥ २६॥
तद्वत् शूद्राः च ये केचिद् ब्राह्मण-आचार-तत्पराः ॥ उज्ज्वल-आकृतयः मूढाः स्वधर्म-त्याग-शीलिनः ॥ २६॥
tadvat śūdrāḥ ca ye kecid brāhmaṇa-ācāra-tatparāḥ .. ujjvala-ākṛtayaḥ mūḍhāḥ svadharma-tyāga-śīlinaḥ .. 26..
कर्तारस्तपसां भूयो द्विजतेजोपहारकाः ॥ शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः ॥ २७॥
कर्तारः तपसाम् भूयस् द्विज-तेज-उपहारकाः ॥ मंत्र-उच्चार-परायणाः ॥ २७॥
kartāraḥ tapasām bhūyas dvija-teja-upahārakāḥ .. maṃtra-uccāra-parāyaṇāḥ .. 27..
शालिग्रामशिलादीनां पूजकाहोमतत्पराः ॥ प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः ॥ २८॥
शालिग्राम-शिला-आदीनाम् पूजका होम-तत्पराः ॥ प्रतिकूल-विचाराः च कुटिलाः द्विज-दूषकाः ॥ २८॥
śāligrāma-śilā-ādīnām pūjakā homa-tatparāḥ .. pratikūla-vicārāḥ ca kuṭilāḥ dvija-dūṣakāḥ .. 28..
धनवंतः कुकर्म्माणो विद्यावन्तो विवादिनः ॥ आख्यायोपासना धर्मवक्तारो धर्मलोपकाः ॥ २९॥
धनवंतः कु कर्म्माणः विद्यावन्तः विवादिनः ॥ आख्याय उपासनाः धर्म-वक्तारः धर्म-लोपकाः ॥ २९॥
dhanavaṃtaḥ ku karmmāṇaḥ vidyāvantaḥ vivādinaḥ .. ākhyāya upāsanāḥ dharma-vaktāraḥ dharma-lopakāḥ .. 29..
सुभूपाकृतयो दंभाः सुदातारो महामदाः ॥ विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् ॥ ३०॥
॥ विप्र-आदीन् सेवकान् मत्वा मन्यमानाः निजम् प्रभुम् ॥ ३०॥
.. vipra-ādīn sevakān matvā manyamānāḥ nijam prabhum .. 30..
स्वधर्मरहिता मूढाः संकराः क्रूरबुद्धयः ॥ महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः १.१. ॥ ३१॥
स्वधर्म-रहिताः मूढाः संकराः क्रूर-बुद्धयः ॥ महा-अभिमानिनः नित्यम् चतुर्-वर्ण-विलोपकाः।१। ॥ ३१॥
svadharma-rahitāḥ mūḍhāḥ saṃkarāḥ krūra-buddhayaḥ .. mahā-abhimāninaḥ nityam catur-varṇa-vilopakāḥ.1. .. 31..
सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः ॥ सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः ॥ ३२॥
सु कुलीनान् निजान् मत्वा चतुर्-वर्णैः विवर्तनाः ॥ सर्व-वर्ण-भ्रष्ट-कराः मूढाः सत्-कर्म-कारिणः ॥ ३२॥
su kulīnān nijān matvā catur-varṇaiḥ vivartanāḥ .. sarva-varṇa-bhraṣṭa-karāḥ mūḍhāḥ sat-karma-kāriṇaḥ .. 32..
स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ॥ श्वशुरद्रो हकारिण्यो निर्भया मलिनाशनाः ॥ ३३॥
स्त्रियः च प्रायशस् भ्रष्टाः भर्तृ-अवज्ञान-कारिकाः ॥ श्वशुर-द्रः हकारिण्यः निर्भयाः मलिन-अशनाः ॥ ३३॥
striyaḥ ca prāyaśas bhraṣṭāḥ bhartṛ-avajñāna-kārikāḥ .. śvaśura-draḥ hakāriṇyaḥ nirbhayāḥ malina-aśanāḥ .. 33..
कुहावभावनिरताः कुशीलास्स्मरविह्वलाः ॥ जारसंगरता नित्यं स्वस्वामिविमुखास्तथा ॥ ३४॥
कुहाव-भाव-निरताः कुशीलाः स्मर-विह्वलाः ॥ जार-संगरताः नित्यम् स्व-स्वामि-विमुखाः तथा ॥ ३४॥
kuhāva-bhāva-niratāḥ kuśīlāḥ smara-vihvalāḥ .. jāra-saṃgaratāḥ nityam sva-svāmi-vimukhāḥ tathā .. 34..
तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ॥ अविद्यापाठका नित्यं रोगग्रसितदेहकाः ॥ ३५॥
तनयाः मातृ-पित्रोः च भक्ति-हीनाः दुराशयाः ॥ अविद्या-पाठकाः नित्यम् रोग-ग्रसित-देहकाः ॥ ३५॥
tanayāḥ mātṛ-pitroḥ ca bhakti-hīnāḥ durāśayāḥ .. avidyā-pāṭhakāḥ nityam roga-grasita-dehakāḥ .. 35..
एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ॥ परलोकेपीह लोके कथं सूत गतिर्भवेत् ॥ ३६॥
एतेषाम् नष्टबुद्धीनाम् स्वधर्म-त्याग-शीलिनाम् ॥ पर-लोके अपि इह लोके कथम् सूत गतिः भवेत् ॥ ३६॥
eteṣām naṣṭabuddhīnām svadharma-tyāga-śīlinām .. para-loke api iha loke katham sūta gatiḥ bhavet .. 36..
इति चिंताकुलं चित्तं जायते सततं हि नः ॥ परोपकारसदृशो नास्ति धर्मो परः खलु ॥ ३७॥
इति चिंता-आकुलम् चित्तम् जायते सततम् हि नः ॥ पर-उपकार-सदृशः न अस्ति परः खलु ॥ ३७॥
iti ciṃtā-ākulam cittam jāyate satatam hi naḥ .. para-upakāra-sadṛśaḥ na asti paraḥ khalu .. 37..
लघूपायेन येनैषां भवेत्सद्योघनाशनम् ॥ सर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ ३८॥
लघु-उपायेन येन एषाम् भवेत् सत्-योघ-नाशनम् ॥ सर्व्व-सिद्धान्त-विद् त्वम् हि कृपया तत् वद अधुना ॥ ३८॥
laghu-upāyena yena eṣām bhavet sat-yogha-nāśanam .. sarvva-siddhānta-vid tvam hi kṛpayā tat vada adhunā .. 38..
व्यास उवाच ।
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ॥ मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ॥ ३९॥
इति आकर्ण्य वचः तेषाम् मुनीनाम् भावितात्मनाम् ॥ मनसा शंकरम् स्मृत्वा सूतः प्रोवाच तान् मुनीन् ॥ ३९॥
iti ākarṇya vacaḥ teṣām munīnām bhāvitātmanām .. manasā śaṃkaram smṛtvā sūtaḥ provāca tān munīn .. 39..
इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः ॥ ॥ ४०॥
इति श्री-शैवे महापुराणे विद्येश्वरसंहितायाम् मुनिप्रश्नवर्णनः नाम प्रथमः अध्यायः ॥ ॥ ४०॥
iti śrī-śaive mahāpurāṇe vidyeśvarasaṃhitāyām munipraśnavarṇanaḥ nāma prathamaḥ adhyāyaḥ .. .. 40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In