| |
|

This overlay will guide you through the buttons:

ब्रह्मविष्णू ऊचतुः ।
सर्गादिपंचकृत्यस्य लक्षणं ब्रूहि नौ प्रभो ॥ १॥
सर्ग-आदि-पंच-कृत्यस्य लक्षणम् ब्रूहि नौ प्रभो ॥ १॥
sarga-ādi-paṃca-kṛtyasya lakṣaṇam brūhi nau prabho .. 1..
शिव उवाच ।
मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् ॥ २॥
मद्-कृत्य-बोधनम् गुह्यम् कृपया प्रब्रवीमि वाम् ॥ २॥
mad-kṛtya-bodhanam guhyam kṛpayā prabravīmi vām .. 2..
सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ॥ पंचैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ ॥ ३॥
सृष्टिः स्थितिः च संहारः तिरोभावः अपि अनुग्रहः ॥ मे जगत्-कृत्यम् नित्य-सिद्धम् अज-अच्युतौ ॥ ३॥
sṛṣṭiḥ sthitiḥ ca saṃhāraḥ tirobhāvaḥ api anugrahaḥ .. me jagat-kṛtyam nitya-siddham aja-acyutau .. 3..
सर्गः संसारसंरंभस्तत्प्रतिष्ठा स्थितिर्मता ॥ संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ॥ ४॥
सर्गः संसार-संरंभः तद्-प्रतिष्ठा स्थितिः मता ॥ संहारः मर्दनम् तस्य तिरोभावः तद्-उत्क्रमः ॥ ४॥
sargaḥ saṃsāra-saṃraṃbhaḥ tad-pratiṣṭhā sthitiḥ matā .. saṃhāraḥ mardanam tasya tirobhāvaḥ tad-utkramaḥ .. 4..
तन्मोक्षोऽनुग्रहस्तन्मे कृत्यमेवं हि पंचकम् ॥ कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत् ॥ ५॥
तद्-मोक्षः अनुग्रहः तत् मे कृत्यम् एवम् हि पंचकम् ॥ कृत्यम् एतत् वहति अन्यः तूष्णीम् गोपुर-बिंब-वत् ॥ ५॥
tad-mokṣaḥ anugrahaḥ tat me kṛtyam evam hi paṃcakam .. kṛtyam etat vahati anyaḥ tūṣṇīm gopura-biṃba-vat .. 5..
सर्गादि यच्चतुष्कृत्यं संसारपरिजृंभणम् ॥ पंचमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ६॥
सर्ग-आदि यत् चतुष्कृत्यम् संसार-परिजृंभणम् ॥ पंचमम् मुक्ति-हेतुः वै नित्यम् मयि च सुस्थिरम्॥
sarga-ādi yat catuṣkṛtyam saṃsāra-parijṛṃbhaṇam .. paṃcamam mukti-hetuḥ vai nityam mayi ca susthiram..
महाभूत तदिदं पंचभूतेषु दृश्यते मामकैर्जनैः ॥ सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ॥ ७॥
महाभूत तत् इदम् पंचभूतेषु दृश्यते मामकैः जनैः ॥ सृष्टिः भूमौ स्थितिः तोये संहारः पावके तथा ॥ ७॥
mahābhūta tat idam paṃcabhūteṣu dṛśyate māmakaiḥ janaiḥ .. sṛṣṭiḥ bhūmau sthitiḥ toye saṃhāraḥ pāvake tathā .. 7..
तिरोभावोऽनिले तद्वदनुग्रह इहाम्बरे ॥ सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्द्धते ॥ ८॥
तिरोभावः अनिले तद्वत् अनुग्रहः इह अम्बरे ॥ सृज्यते धरया सर्वम् अद्भिः सर्वम् प्रवर्द्धते ॥ ८॥
tirobhāvaḥ anile tadvat anugrahaḥ iha ambare .. sṛjyate dharayā sarvam adbhiḥ sarvam pravarddhate .. 8..
अर्द्यते तेजसा सर्वं वायुना चापनीयते ॥ व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ ९॥
अर्द्यते तेजसा सर्वम् वायुना च अपनीयते ॥ व्योम्ना अनुगृह्यते सर्वम् ज्ञेयम् एवम् हि सूरिभिः ॥ ९॥
ardyate tejasā sarvam vāyunā ca apanīyate .. vyomnā anugṛhyate sarvam jñeyam evam hi sūribhiḥ .. 9..
पंचकृत्यमिदं वोढुं ममास्ति मुखपंचकम् ॥ चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पंचमं मुखम् ॥ १०॥
पंचकृत्यम् इदम् वोढुम् मम अस्ति मुखपंचकम् ॥ चतुर्-दिक्षु चतुर्-वक्त्रम् तद्-मध्ये पंचमम् मुखम् ॥ १०॥
paṃcakṛtyam idam voḍhum mama asti mukhapaṃcakam .. catur-dikṣu catur-vaktram tad-madhye paṃcamam mukham .. 10..
युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ ॥ सृष्टिस्थित्यभिधं भाग्यं मत्तः प्रीतादतिप्रियम् १.१०. ॥ ११॥
युवाभ्याम् तपसा लब्धम् एतत् कृत्य-द्वयम् सुतौ ॥ सृष्टि-स्थिति-अभिधम् भाग्यम् मत्तः प्रीतात् अति प्रियम्।१०। ॥ ११॥
yuvābhyām tapasā labdham etat kṛtya-dvayam sutau .. sṛṣṭi-sthiti-abhidham bhāgyam mattaḥ prītāt ati priyam.10. .. 11..
तथा रुद्र महेशाभ्यामन्यत्कृत्यद्वयं परम् ॥ अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ॥ १२॥
तथा रुद्र महेशाभ्याम् अन्यत् कृत्य-द्वयम् परम् ॥ अनुग्रह-आख्यम् केन अपि लब्धुम् ना एव हि शक्यते ॥ १२॥
tathā rudra maheśābhyām anyat kṛtya-dvayam param .. anugraha-ākhyam kena api labdhum nā eva hi śakyate .. 12..
तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् ॥ न तद्रुद्र महेशाभ्यां विस्मृतं कर्म तादृशम् ॥ १३॥
तत् सर्वम् पौर्विकम् कर्म युवाभ्याम् काल-विस्मृतम् ॥ न तत् रुद्र महेशाभ्याम् विस्मृतम् कर्म तादृशम् ॥ १३॥
tat sarvam paurvikam karma yuvābhyām kāla-vismṛtam .. na tat rudra maheśābhyām vismṛtam karma tādṛśam .. 13..
रूपे वेशे च कृत्ये च वाहने चासने तथा ॥ आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् ॥ १४॥
रूपे वेशे च कृत्ये च वाहने च आसने तथा ॥ आयुध-आदौ च मद्-साम्यम् अस्माभिः तद्-कृते कृतम् ॥ १४॥
rūpe veśe ca kṛtye ca vāhane ca āsane tathā .. āyudha-ādau ca mad-sāmyam asmābhiḥ tad-kṛte kṛtam .. 14..
मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम् ॥ मज्ज्ञाने सति नैवं स्यान्मानं रूपे महेशवत् ॥ १५॥
मद्-ध्यान-विरहात् वत्सौ मौढ्यम् वाम् एवम् आगतम् ॥ मद्-ज्ञाने सति ना एवम् स्यात् मानम् रूपे महेश-वत् ॥ १५॥
mad-dhyāna-virahāt vatsau mauḍhyam vām evam āgatam .. mad-jñāne sati nā evam syāt mānam rūpe maheśa-vat .. 15..
तस्मान्मज्ज्ञानसिद्ध्यर्थं मंत्रमॐकारनामकम् ॥ इतः परं प्रजपतं मामकं मानभंजनम् ॥ १६॥
तस्मात् मद्-ज्ञान-सिद्धि-अर्थम् मंत्रम् अओंकार-नामकम् ॥ इतस् परम् प्रजपतम् मामकम् मान-भंजनम् ॥ १६॥
tasmāt mad-jñāna-siddhi-artham maṃtram aoṃkāra-nāmakam .. itas param prajapatam māmakam māna-bhaṃjanam .. 16..
उपादिशं निजं मंत्रमॐकारमुरुमंगलम् ॥ ॐकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः ॥ १७॥
उपादिशम् निजम् मंत्रम् अओंकारम् उरु-मंगलम् ॥ ओंकारः मद्-मुखात् जज्ञे प्रथमम् मद्-प्रबोधकः ॥ १७॥
upādiśam nijam maṃtram aoṃkāram uru-maṃgalam .. oṃkāraḥ mad-mukhāt jajñe prathamam mad-prabodhakaḥ .. 17..
वाचकोऽयमहं वाच्यो मंत्रोऽयं हि मदात्मकः ॥ तदनुस्मरणं नित्यं ममानुस्मरणं भवेत् ॥ १८॥
वाचकः अयम् अहम् वाच्यः मंत्रः अयम् हि मद्-आत्मकः ॥ तद्-अनुस्मरणम् नित्यम् मम अनुस्मरणम् भवेत् ॥ १८॥
vācakaḥ ayam aham vācyaḥ maṃtraḥ ayam hi mad-ātmakaḥ .. tad-anusmaraṇam nityam mama anusmaraṇam bhavet .. 18..
अकार उत्तरात्पूर्वमुकारः पश्चिमाननात् ॥ मकारो दक्षिणमुखाद्बिंदुः प्राण्मुखतस्तथा ॥ १९॥
अकारः उत्तरात् पूर्वम् उकारः पश्चिम-आननात् ॥ मकारः दक्षिण-मुखात् बिंदुः प्राच्-मुखतः तथा ॥ १९॥
akāraḥ uttarāt pūrvam ukāraḥ paścima-ānanāt .. makāraḥ dakṣiṇa-mukhāt biṃduḥ prāc-mukhataḥ tathā .. 19..
नादो मध्यमुखादेवं पंचधाऽसौ विजृंभितः ॥ एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत् ॥ २०॥
नादः मध्य-मुखात् एवम् पंचधा असौ विजृंभितः ॥ एकीभूतः पुनर् तद्वत् ओम् इति एक-अक्षरः भवेत् ॥ २०॥
nādaḥ madhya-mukhāt evam paṃcadhā asau vijṛṃbhitaḥ .. ekībhūtaḥ punar tadvat om iti eka-akṣaraḥ bhavet .. 20..
नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् ॥ व्याप्तमेतेन मंत्रेण शिवशक्त्योश्च बोधकः १.१०. ॥ २१॥
नाम-रूप-आत्मकम् सर्वम् वेद-भूत-कुल-द्वयम् ॥ व्याप्तम् एतेन मंत्रेण शिव-शक्त्योः च बोधकः।१०। ॥ २१॥
nāma-rūpa-ātmakam sarvam veda-bhūta-kula-dvayam .. vyāptam etena maṃtreṇa śiva-śaktyoḥ ca bodhakaḥ.10. .. 21..
अस्मात्पंचाक्षरं जज्ञे बोधकं सकलस्यतत् ॥ आकारादिक्रमेणैव नकारादियथाक्रमम् ॥ २२॥
अस्मात् पंचाक्षरम् जज्ञे बोधकम् सकलस्य तत् ॥ आकार-आदि-क्रमेण एव नकार-आदि-यथाक्रमम् ॥ २२॥
asmāt paṃcākṣaram jajñe bodhakam sakalasya tat .. ākāra-ādi-krameṇa eva nakāra-ādi-yathākramam .. 22..
अस्मात्पंचाक्षराज्जाता मातृकाः पंचभेदतः ॥ तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गाय त्रिरेव हि ॥ २३॥
अस्मात् पंचाक्षरात् जाताः मातृकाः पंच-भेदतः ॥ तस्मात् शिरः चतुर्वक्त्रात् त्रिपाद् गाय त्रिस् एव हि ॥ २३॥
asmāt paṃcākṣarāt jātāḥ mātṛkāḥ paṃca-bhedataḥ .. tasmāt śiraḥ caturvaktrāt tripād gāya tris eva hi .. 23..
वेदः सर्वस्ततो जज्ञे ततो वै मंत्रकोटयः ॥ तत्तन्मंत्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत् ॥ २४॥
वेदः सर्वः ततस् जज्ञे ततस् वै मंत्र-कोटयः ॥ तद्-तद्-मंत्रेण तद्-सिद्धिः सर्व-सिद्धिः इतस् भवेत् ॥ २४॥
vedaḥ sarvaḥ tatas jajñe tatas vai maṃtra-koṭayaḥ .. tad-tad-maṃtreṇa tad-siddhiḥ sarva-siddhiḥ itas bhavet .. 24..
अनेन मंत्रकंदेन भोगो मोक्षश्च सिद्ध्यति ॥ सकला मंत्रराजानः साक्षाद्भोगप्रदाः शुभाः ॥ २५॥
अनेन मंत्र-कंदेन भोगः मोक्षः च सिद्धि-अति ॥ सकलाः मंत्रराजानः साक्षात् भोग-प्रदाः शुभाः ॥ २५॥
anena maṃtra-kaṃdena bhogaḥ mokṣaḥ ca siddhi-ati .. sakalāḥ maṃtrarājānaḥ sākṣāt bhoga-pradāḥ śubhāḥ .. 25..
नंदिकेश्वर उवाच ।
पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मंत्रं च समादिशत्परम् ॥ निधाय तच्छीर्ष्णि करांबुजं शनैरुदण्मुखं संस्थितयोः सहांबिकः ॥ २६॥
पुनर् तयोः तत्र तिरस् पटम् गुरुः प्रकल्प्य मंत्रम् च समादिशत् परम् ॥ निधाय तद्-शीर्ष्णि कर-अंबुजम् शनैस् उदण्मुखम् संस्थितयोः सह अंबिकः ॥ २६॥
punar tayoḥ tatra tiras paṭam guruḥ prakalpya maṃtram ca samādiśat param .. nidhāya tad-śīrṣṇi kara-aṃbujam śanais udaṇmukham saṃsthitayoḥ saha aṃbikaḥ .. 26..
त्रिरुच्चार्याग्रहीन्मंत्रं यंत्रतंत्रोक्तिपूर्वकम् ॥ शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत् ॥ २७॥
त्रिस् उच्चार्य अग्रहीत् मंत्रम् यंत्र-तंत्र-उक्ति-पूर्वकम् ॥ शिष्यौ च तौ दक्षिणायाम् आत्मानम् च समर्पयत् ॥ २७॥
tris uccārya agrahīt maṃtram yaṃtra-taṃtra-ukti-pūrvakam .. śiṣyau ca tau dakṣiṇāyām ātmānam ca samarpayat .. 27..
प्रबद्धहस्तौ किल तौ तदंतिके तमेव देवं जगतुर्जगद्गुरुम् ॥ २८॥
प्रबद्ध-हस्तौ किल तौ तद्-अंतिके तम् एव देवम् जगतुः जगद्गुरुम् ॥ २८॥
prabaddha-hastau kila tau tad-aṃtike tam eva devam jagatuḥ jagadgurum .. 28..
ब्रह्माच्युतावूचतुः ।
नमो निष्कलरूपाय नमो निष्कलतेजसे ॥ नमः सकलनाथाय नमस्ते सकलात्मने ॥ २९॥
नमः निष्कल-रूपाय नमः निष्कल-तेजसे ॥ नमः सकल-नाथाय नमः ते सकल-आत्मने ॥ २९॥
namaḥ niṣkala-rūpāya namaḥ niṣkala-tejase .. namaḥ sakala-nāthāya namaḥ te sakala-ātmane .. 29..
नमः प्रणववाच्याय नमः प्रणवलिंगिने ॥ नमः सृष्ट्यादिकर्त्रे च नमः पंचमुखायते ॥ ३०॥
नमः प्रणव-वाच्याय नमः प्रणव-लिंगिने ॥ नमः सृष्टि-आदि-कर्त्रे च नमः पंचमुखायते ॥ ३०॥
namaḥ praṇava-vācyāya namaḥ praṇava-liṃgine .. namaḥ sṛṣṭi-ādi-kartre ca namaḥ paṃcamukhāyate .. 30..
पंचब्रह्मस्वरूपाय पंच कृत्यायते नमः ॥ आत्मने ब्रह्मणे तुभ्यमनंतगुणशक्तये १.१०. ॥ ३१॥
पंच-ब्रह्म-स्वरूपाय पंच कृत्यायते नमः ॥ आत्मने ब्रह्मणे तुभ्यम् अनंत-गुण-शक्तये।१०। ॥ ३१॥
paṃca-brahma-svarūpāya paṃca kṛtyāyate namaḥ .. ātmane brahmaṇe tubhyam anaṃta-guṇa-śaktaye.10. .. 31..
सकलाकलरूपाय शंभवे गुरवे नमः ॥ इति स्तुत्वा गुरुं पद्यैर्ब्रह्मा विष्णुश्च नेमतुः ॥ ३२॥
सकल-अकल-रूपाय शंभवे गुरवे नमः ॥ इति स्तुत्वा गुरुम् पद्यैः ब्रह्मा विष्णुः च नेमतुः ॥ ३२॥
sakala-akala-rūpāya śaṃbhave gurave namaḥ .. iti stutvā gurum padyaiḥ brahmā viṣṇuḥ ca nematuḥ .. 32..
ईश्वर उवाच ।
जपतं प्रणवं मंत्रं देवीदिष्टं मदात्मकम् ॥ ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् ॥ ३३॥
जपतम् प्रणवम् मंत्रम् देवी-दिष्टम् मद्-आत्मकम् ॥ ज्ञानम् च सुस्थिरम् भाग्यम् सर्वम् भवति शाश्वतम् ॥ ३३॥
japatam praṇavam maṃtram devī-diṣṭam mad-ātmakam .. jñānam ca susthiram bhāgyam sarvam bhavati śāśvatam .. 33..
ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् ॥ आद्रा र्यां! च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत् ॥ ३४॥
ज्ञानम् च सुस्थिरम् भाग्यम् सर्वम् भवति शाश्वतम् ॥ आद्राः र्यां! च चतुर्दश्याम् तत् जाप्यम् तु अक्षयम् भवेत् ॥ ३४॥
jñānam ca susthiram bhāgyam sarvam bhavati śāśvatam .. ādrāḥ ryāṃ! ca caturdaśyām tat jāpyam tu akṣayam bhavet .. 34..
सूर्यगत्या महाद्रा र्या!मेकं कोटिगुणं भवेत् ॥ मृगशीर्षांतिमो भागः पुनर्वस्वादिमस्तथा ॥ ३५॥
सूर्य-गत्या महाद्रा र्या!कोटि-गुणम् भवेत् ॥ मृगशीर्ष-अंतिमः भागः पुनर्वसु-आदिमः तथा ॥ ३५॥
sūrya-gatyā mahādrā ryā!koṭi-guṇam bhavet .. mṛgaśīrṣa-aṃtimaḥ bhāgaḥ punarvasu-ādimaḥ tathā .. 35..
आद्रा र्स!मः सदा ज्ञेयः पूजाहोमादितर्पणे ॥ दर्शनं तु प्रभाते च प्रातःसंगवकालयोः ॥ ३६॥
आद्रा र्स!मः सदा ज्ञेयः पूजा-होम-आदि-तर्पणे ॥ दर्शनम् तु प्रभाते च प्रातःसंगव-कालयोः ॥ ३६॥
ādrā rsa!maḥ sadā jñeyaḥ pūjā-homa-ādi-tarpaṇe .. darśanam tu prabhāte ca prātaḥsaṃgava-kālayoḥ .. 36..
चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत् ॥ प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते ॥ ३७॥
चतुर्दशी तथा ग्राह्या निशीथ-व्यापिनी भवेत् ॥ प्रदोष-व्यापिनी च एव पर-युक्ता प्रशस्यते ॥ ३७॥
caturdaśī tathā grāhyā niśītha-vyāpinī bhavet .. pradoṣa-vyāpinī ca eva para-yuktā praśasyate .. 37..
लिंगं बेरं च मेतुल्यं यजतां लिंगमुत्तमम् ॥ तस्माल्लिंगं परं पूज्यं बेरादपि मुमुक्षुभिः ॥ ३८॥
लिंगम् बेरम् च मेतुल्यम् यजताम् लिंगम् उत्तमम् ॥ तस्मात् लिंगम् परम् पूज्यम् बेरात् अपि मुमुक्षुभिः ॥ ३८॥
liṃgam beram ca metulyam yajatām liṃgam uttamam .. tasmāt liṃgam param pūjyam berāt api mumukṣubhiḥ .. 38..
लिंगमॐकारमंत्रेण बेरं पंचाक्षरेण तु ॥ स्वयमेव हि सद्द्रव्यैः प्रतिष्ठाप्यं परैरपि ॥ ३९॥
लिंगम् अओंकार-मंत्रेण बेरम् पंचाक्षरेण तु ॥ स्वयम् एव हि सत्-द्रव्यैः प्रतिष्ठाप्यम् परैः अपि ॥ ३९॥
liṃgam aoṃkāra-maṃtreṇa beram paṃcākṣareṇa tu .. svayam eva hi sat-dravyaiḥ pratiṣṭhāpyam paraiḥ api .. 39..
पूजयेदुपचारैश्च मत्पदं सुलभं भवेत् ॥ इति शास्य तथा शिष्यौ तत्रैवांऽतर्हितः शिवः ॥ ४०॥
पूजयेत् उपचारैः च मद्-पदम् सुलभम् भवेत् ॥ इति शास्य तथा शिष्यौ तत्र एव अंऽतर्हितः शिवः ॥ ४०॥
pūjayet upacāraiḥ ca mad-padam sulabham bhavet .. iti śāsya tathā śiṣyau tatra eva aṃ'tarhitaḥ śivaḥ .. 40..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां दशमोऽध्यायः ॥ ४१॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् दशमः अध्यायः ॥ ४१॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām daśamaḥ adhyāyaḥ .. 41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In