| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम् ॥ कथं वा तत्समभ्यर्च्यं देशे काले च केन हि ॥ १॥
कथम् लिंगम् प्रतिष्ठाप्यम् कथम् वातस्य लक्षणम् ॥ कथम् वा तत् समभ्यर्च्यम् देशे काले च केन हि ॥ १॥
katham liṃgam pratiṣṭhāpyam katham vātasya lakṣaṇam .. katham vā tat samabhyarcyam deśe kāle ca kena hi .. 1..
सूत उवाच ।
युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः ॥ अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा ॥ २॥
युष्मद्-अर्थम् प्रवक्ष्यामि बुद्ध्यताम् अवधानतः ॥ अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा ॥ २॥
yuṣmad-artham pravakṣyāmi buddhyatām avadhānataḥ .. anukūle śubhe kāle puṇye tīrthe taṭe tathā .. 2..
यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम् ॥ पार्थिवेन तथाप्येनं तैजसेन यथारुचि ॥ ३॥
यथा इष्टम् लिंगम् आरोप्यम् यत्र स्यात् नित्यम् अर्चनम् ॥ पार्थिवेन तथा अपि एनम् तैजसेन यथारुचि ॥ ३॥
yathā iṣṭam liṃgam āropyam yatra syāt nityam arcanam .. pārthivena tathā api enam taijasena yathāruci .. 3..
कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत् ॥ सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ॥ ४॥
कल्प-लक्षण-संयुक्तम् लिंगम् पूजा-फलम् लभेत् ॥ सर्व-लक्षण-संयुक्तम् सद्यस् पूजा-फल-प्रदम् ॥ ४॥
kalpa-lakṣaṇa-saṃyuktam liṃgam pūjā-phalam labhet .. sarva-lakṣaṇa-saṃyuktam sadyas pūjā-phala-pradam .. 4..
चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि ॥ सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम् ॥ ५॥
चरे विशिष्यते सूक्ष्मम् स्थावरे स्थूलम् एव हि ॥ स लक्षणम् स पीठम् च स्थापयेत् शिव-निर्मितम् ॥ ५॥
care viśiṣyate sūkṣmam sthāvare sthūlam eva hi .. sa lakṣaṇam sa pīṭham ca sthāpayet śiva-nirmitam .. 5..
मंडलं चतुरस्रं वा त्रिकोणमथवा तथा ॥ खट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं ॥ ६॥
मंडलम् चतुर्-अस्रम् वा त्रि-कोणम् अथवा तथा ॥ खट्वांग-वत् मध्य-सूक्ष्मम् लिंग-पीठम् महा-फलम् ॥ ६॥
maṃḍalam catur-asram vā tri-koṇam athavā tathā .. khaṭvāṃga-vat madhya-sūkṣmam liṃga-pīṭham mahā-phalam .. 6..
प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम् ॥ येन लिंगं तेन पीठं स्थावरे हि विशिष्यते ॥ ७॥
प्रथमम् मृद्-शिला-आदिभ्यः लिगम् लोह-आदिभिः कृतम् ॥ येन लिंगम् तेन पीठम् स्थावरे हि विशिष्यते ॥ ७॥
prathamam mṛd-śilā-ādibhyaḥ ligam loha-ādibhiḥ kṛtam .. yena liṃgam tena pīṭham sthāvare hi viśiṣyate .. 7..
लिंगं पीठं चरे त्वेकं लिंगं बाणकृतं विना ॥ लिंगप्रमाणं कर्तृ-णां द्वादशांगुलमुत्तमम् ॥ ८॥
लिंगम् पीठम् चरे तु एकम् लिंगम् बाण-कृतम् विना ॥ लिंग-प्रमाणम् कर्तृ-णाम् द्वादश-अंगुलम् उत्तमम् ॥ ८॥
liṃgam pīṭham care tu ekam liṃgam bāṇa-kṛtam vinā .. liṃga-pramāṇam kartṛ-ṇām dvādaśa-aṃgulam uttamam .. 8..
न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते ॥ कर्तुरेकांगुलन्यूनं चरेपि च तथैव हि ॥ ९॥
न्यूनम् चेद् फलम् अल्पम् स्यात् अधिकम् ना एव दूष्यते ॥ कर्तुः एक-अङ्गुल-न्यूनम् च तथा एव हि ॥ ९॥
nyūnam ced phalam alpam syāt adhikam nā eva dūṣyate .. kartuḥ eka-aṅgula-nyūnam ca tathā eva hi .. 9..
आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम् ॥ तत्र गर्भगृहे रम्ये दृढे दर्पणसंनिभे १.११. ॥ १०॥
आदौ विमानम् शिल्पेन कार्यम् देव-गणैः युतम् ॥ तत्र गर्भगृहे रम्ये दृढे दर्पण-संनिभे।११। ॥ १०॥
ādau vimānam śilpena kāryam deva-gaṇaiḥ yutam .. tatra garbhagṛhe ramye dṛḍhe darpaṇa-saṃnibhe.11. .. 10..
भूषिते नवरत्नैश्च दिग्द्वारे च प्रधानकैः ॥ नीलं रक्तं च वै दूर्यं श्यामं मारकतं तथा ॥ ११॥
भूषिते नव-रत्नैः च दिग्द्वारे च प्रधानकैः ॥ नीलम् रक्तम् च वै दूर्यम् श्यामम् मारकतम् तथा ॥ ११॥
bhūṣite nava-ratnaiḥ ca digdvāre ca pradhānakaiḥ .. nīlam raktam ca vai dūryam śyāmam mārakatam tathā .. 11..
मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् ब् ॥ मध्ये लिंगं महद्द्रव्यं निक्षिपेत्सहवैदिके ॥ १२॥
मुक्ता-प्रवाल-गोमेद-वज्राणि नवरत्नकम् ॥ मध्ये लिंगम् महत् द्रव्यम् निक्षिपेत् सह वैदिके ॥ १२॥
muktā-pravāla-gomeda-vajrāṇi navaratnakam .. madhye liṃgam mahat dravyam nikṣipet saha vaidike .. 12..
संपूज्य लिंगं सद्याद्यैः पंचस्थाने यथाक्रमम् ॥ अग्नौ च हुत्वा बहुधा हविषास कलं च माम् ॥ १३॥
संपूज्य लिंगम् सद्य-आद्यैः पंच-स्थाने यथाक्रमम् ॥ अग्नौ च हुत्वा बहुधा हविषा आस कलम् च माम् ॥ १३॥
saṃpūjya liṃgam sadya-ādyaiḥ paṃca-sthāne yathākramam .. agnau ca hutvā bahudhā haviṣā āsa kalam ca mām .. 13..
अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बांधवम् ॥ दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा ॥ १४॥
अभ्यर्च्य गुरुम् आचार्यम् अर्थैः कामैः च बांधवम् ॥ दद्यात् ऐश्वर्यम् अर्थिभ्यः जडम् अपि अजडम् तथा ॥ १४॥
abhyarcya gurum ācāryam arthaiḥ kāmaiḥ ca bāṃdhavam .. dadyāt aiśvaryam arthibhyaḥ jaḍam api ajaḍam tathā .. 14..
स्थावरं जंगमं जीवं सर्वं संतोष्य यत्नतः ॥ सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते ॥ १५॥
स्थावरम् जंगमम् जीवम् सर्वम् संतोष्य यत्नतः ॥ सुवर्ण-पूरिते श्वभ्रे नवरत्नैः च पूरिते ॥ १५॥
sthāvaram jaṃgamam jīvam sarvam saṃtoṣya yatnataḥ .. suvarṇa-pūrite śvabhre navaratnaiḥ ca pūrite .. 15..
सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् ॥ उदीर्य च महामंत्रमॐकारं नादघोषितम् ॥ १६॥
सद्य-आदि ब्रह्म च उच्चार्य ध्यात्वा देवम् परम् शुभम् ॥ उदीर्य च महा-मंत्रम् अओंकारम् नाद-घोषितम् ॥ १६॥
sadya-ādi brahma ca uccārya dhyātvā devam param śubham .. udīrya ca mahā-maṃtram aoṃkāram nāda-ghoṣitam .. 16..
लिंगं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत् ॥ लिंगं सपीठं निक्षिप्य नित्यलेपेन बंधयेत् ॥ १७॥
लिंगम् तत्र प्रतिष्ठाप्य लिगम् पीठेन योजयेत् ॥ लिंगम् स पीठम् निक्षिप्य नित्य-लेपेन बंधयेत् ॥ १७॥
liṃgam tatra pratiṣṭhāpya ligam pīṭhena yojayet .. liṃgam sa pīṭham nikṣipya nitya-lepena baṃdhayet .. 17..
एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम् ॥ पंचाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा ॥ १८॥
एवम् बेरम् च संस्थाप्यम् तत्र एव परमम् शुभम् ॥ पंचाक्षरेण बेरम् तु उत्सव-अर्थम् वहिस् तथा ॥ १८॥
evam beram ca saṃsthāpyam tatra eva paramam śubham .. paṃcākṣareṇa beram tu utsava-artham vahis tathā .. 18..
बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा ॥ एवं लिंगे च बेरे च पूजा शिवपदप्रदा ॥ १९॥
बेरम् गुरुभ्यः गृह्णीयात् साधुभिः पूजितम् तु वा ॥ एवम् लिंगे च बेरे च पूजा शिव-पद-प्रदा ॥ १९॥
beram gurubhyaḥ gṛhṇīyāt sādhubhiḥ pūjitam tu vā .. evam liṃge ca bere ca pūjā śiva-pada-pradā .. 19..
पुनश्च द्विविधं प्रोक्तं स्थावरं जंगमं तथा ॥ स्थावरं लिंगमित्याहुस्तरुगुल्मादिकं तथा १.११. ॥ २०॥
पुनर् च द्विविधम् प्रोक्तम् स्थावरम् जंगमम् तथा ॥ स्थावरम् लिंगम् इति आहुः तरु-गुल्म-आदिकम् तथा।११। ॥ २०॥
punar ca dvividham proktam sthāvaram jaṃgamam tathā .. sthāvaram liṃgam iti āhuḥ taru-gulma-ādikam tathā.11. .. 20..
जंगमं लिंगमित्याहुः कृमिकीटादिकं तथा ॥ स्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम् ॥ २१॥
जंगमम् लिंगम् इति आहुः कृमि-कीट-आदिकम् तथा ॥ स्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम् ॥ २१॥
jaṃgamam liṃgam iti āhuḥ kṛmi-kīṭa-ādikam tathā .. sthāvarasya ca śuśrūṣā jaṃgamasya ca tarpaṇam .. 21..
तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः ॥ पीठमंबामयं सर्वं शिवलिंगं च चिन्मयम् ॥ २२॥
तद्-तद्-सुख-अनुरागेण शिव-पूजाम् विदुः बुधाः ॥ पीठम् अंबा-मयम् सर्वम् शिव-लिंगम् च चित्-मयम् ॥ २२॥
tad-tad-sukha-anurāgeṇa śiva-pūjām viduḥ budhāḥ .. pīṭham aṃbā-mayam sarvam śiva-liṃgam ca cit-mayam .. 22..
यथा देवीमुमामंके धृत्वा तिष्ठति शंकरः ॥ तथा लिंगमिदं पीठं धृत्वा तिष्ठति संततम् ॥ २३॥
यथा देवीम् उमाम् अंके धृत्वा तिष्ठति शंकरः ॥ तथा लिंगम् इदम् पीठम् धृत्वा तिष्ठति संततम् ॥ २३॥
yathā devīm umām aṃke dhṛtvā tiṣṭhati śaṃkaraḥ .. tathā liṃgam idam pīṭham dhṛtvā tiṣṭhati saṃtatam .. 23..
एवं स्थाप्य महालिंगं पूजयेदुपचारकैः ॥ नित्यपूजा यथा शक्तिध्वजादिकरणं तथा ॥ २४॥
एवम् स्थाप्य महा-लिंगम् पूजयेत् उपचारकैः ॥ नित्य-पूजा यथा शक्ति-ध्वज-आदि-करणम् तथा ॥ २४॥
evam sthāpya mahā-liṃgam pūjayet upacārakaiḥ .. nitya-pūjā yathā śakti-dhvaja-ādi-karaṇam tathā .. 24..
इति संस्थापयेल्लिंगं साक्षाच्छिवपदप्रदम् ॥ अथवा चरलिंगं तु षोडशैरुपचारकैः ॥ २५॥
इति संस्थापयेत् लिंगम् साक्षात् शिव-पद-प्रदम् ॥ अथवा चर-लिंगम् तु षोडशैः उपचारकैः ॥ २५॥
iti saṃsthāpayet liṃgam sākṣāt śiva-pada-pradam .. athavā cara-liṃgam tu ṣoḍaśaiḥ upacārakaiḥ .. 25..
पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् ॥ आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च ॥ २६॥
पूजयेत् च यथान्यायम् क्रमात् शिव-पद-प्रदम् ॥ आवाहनम् च आसनम् च अर्घ्यम् पाद्यम् तथा एव च ॥ २६॥
pūjayet ca yathānyāyam kramāt śiva-pada-pradam .. āvāhanam ca āsanam ca arghyam pādyam tathā eva ca .. 26..
तदंगाचमनं चैव स्नानमभ्यंगपूर्वकम् ॥ वस्त्रं गंधं तथा पुष्पं धूपं दीपं निवेदनम् ॥ २७॥
तद्-अंग-आचमनम् च एव स्नानम् अभ्यंग-पूर्वकम् ॥ वस्त्रम् गंधम् तथा पुष्पम् धूपम् दीपम् निवेदनम् ॥ २७॥
tad-aṃga-ācamanam ca eva snānam abhyaṃga-pūrvakam .. vastram gaṃdham tathā puṣpam dhūpam dīpam nivedanam .. 27..
नीराजनं च तांबूलं नमस्कारो विसर्जनम् ॥ अथवाऽर्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि ॥ २८॥
नीराजनम् च तांबूलम् नमस्कारः विसर्जनम् ॥ अथवा अर्घ्य-आदिकम् कृत्वा तम् यथाविधि ॥ २८॥
nīrājanam ca tāṃbūlam namaskāraḥ visarjanam .. athavā arghya-ādikam kṛtvā tam yathāvidhi .. 28..
अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् ॥ यथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम् ॥ २९॥
अथ अभिषेकम् नैवेद्यम् नमस्कारम् च तर्पणम् ॥ यथाशक्ति सदा कुर्यात् क्रमात् शिव-पद-प्रदम् ॥ २९॥
atha abhiṣekam naivedyam namaskāram ca tarpaṇam .. yathāśakti sadā kuryāt kramāt śiva-pada-pradam .. 29..
अथवा मानुषे लिंगेप्यार्षे दैवे स्वयंभुवि ॥ स्थापितेऽपूर्वके लिंगे सोपचारं यथा तथा १.११. ॥ ३०॥
अथवा मानुषे लिंगे इपि आर्षे दैवे स्वयंभुवि ॥ स्थापिते अपूर्वके लिंगे स उपचारम् यथा तथा।११। ॥ ३०॥
athavā mānuṣe liṃge ipi ārṣe daive svayaṃbhuvi .. sthāpite apūrvake liṃge sa upacāram yathā tathā.11. .. 30..
पूजोपकरणे दत्ते यत्किंचित्फलमश्नुते ॥ प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ॥ ३१॥
पूजा-उपकरणे दत्ते यत् किंचिद् फलम् अश्नुते ॥ प्रदक्षिणा-नमस्कारैः क्रमात् शिव-पद-प्रदम् ॥ ३१॥
pūjā-upakaraṇe datte yat kiṃcid phalam aśnute .. pradakṣiṇā-namaskāraiḥ kramāt śiva-pada-pradam .. 31..
लिंगं दर्शनमात्रं वा नियमेन शिवप्रदम् ॥ मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ॥ ३२॥
लिंगम् दर्शन-मात्रम् वा नियमेन शिव-प्रदम् ॥ मृद्-पिष्ट-गो-शकृत्-पुष्पैः करवीरेण वा फलैः ॥ ३२॥
liṃgam darśana-mātram vā niyamena śiva-pradam .. mṛd-piṣṭa-go-śakṛt-puṣpaiḥ karavīreṇa vā phalaiḥ .. 32..
गुडेन नवनीतेन भस्मनान्नैर्यथारुचि ॥ लिंगं यत्नेन कृत्वांते यजेत्तदनुसारतः ॥ ३३॥
गुडेन नवनीतेन भस्मना अन्नैः यथारुचि ॥ लिंगम् यत्नेन कृत्वा अंते यजेत् तद्-अनुसारतः ॥ ३३॥
guḍena navanītena bhasmanā annaiḥ yathāruci .. liṃgam yatnena kṛtvā aṃte yajet tad-anusārataḥ .. 33..
अंगुष्ठादावपि तथा पूजामिच्छंति केचन ॥ लिंगकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित् ॥ ३४॥
अंगुष्ठ-आदौ अपि तथा पूजाम् इच्छंति केचन ॥ लिंग-कर्मणि सर्वत्र निषेधः अस्ति न कर्हिचित् ॥ ३४॥
aṃguṣṭha-ādau api tathā pūjām icchaṃti kecana .. liṃga-karmaṇi sarvatra niṣedhaḥ asti na karhicit .. 34..
सर्वत्र फलदाता हि प्रयासानुगुणं शिवः ॥ अथवा लिंगदानं वा लिंगमौल्यमथापि वा ॥ ३५॥
सर्वत्र फल-दाता हि प्रयास-अनुगुणम् शिवः ॥ अथवा लिंग-दानम् वा लिंग-मौल्यम् अथ अपि वा ॥ ३५॥
sarvatra phala-dātā hi prayāsa-anuguṇam śivaḥ .. athavā liṃga-dānam vā liṃga-maulyam atha api vā .. 35..
श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् ॥ अथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ॥ ३६॥
श्रद्धया शिव-भक्ताय दत्तम् शिव-पद-प्रदम् ॥ अथवा प्रणवम् नित्यम् जपेत् दश-सहस्रकम् ॥ ३६॥
śraddhayā śiva-bhaktāya dattam śiva-pada-pradam .. athavā praṇavam nityam japet daśa-sahasrakam .. 36..
संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ जपकाले मकारांतं मनःशुद्धिकरं भजेत् ॥ ३७॥
संध्ययोः च सहस्रम् वा ज्ञेयम् शिव-पद-प्रदम् ॥ जप-काले मकार-अंतम् मनः-शुद्धि-करम् भजेत् ॥ ३७॥
saṃdhyayoḥ ca sahasram vā jñeyam śiva-pada-pradam .. japa-kāle makāra-aṃtam manaḥ-śuddhi-karam bhajet .. 37..
समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम् ॥ समानप्रणवं चेमं बिंदुनादयुतं विदुः ॥ ३८॥
समाधौ मानसम् प्रोक्तम् उपांशु सार्वकालिकम् ॥ समान-प्रणवम् च इमम् बिंदु-नाद-युतम् विदुः ॥ ३८॥
samādhau mānasam proktam upāṃśu sārvakālikam .. samāna-praṇavam ca imam biṃdu-nāda-yutam viduḥ .. 38..
अथ पंचाक्षरं नित्यं जपेदयुतमादरात् ॥ संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ ३९॥
अथ पंचाक्षरम् नित्यम् जपेत् अयुतम् आदरात् ॥ संध्ययोः च सहस्रम् वा ज्ञेयम् शिव-पद-प्रदम् ॥ ३९॥
atha paṃcākṣaram nityam japet ayutam ādarāt .. saṃdhyayoḥ ca sahasram vā jñeyam śiva-pada-pradam .. 39..
प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते ॥ दीक्षायुक्तं गुरोर्ग्राह्यं मंत्रं ह्यथ फलाप्तये १.११. ॥ ४०॥
प्रणवेन आदि-संयुक्तम् ब्राह्मणानाम् विशिष्यते ॥ दीक्षा-युक्तम् गुरोः ग्राह्यम् मंत्रम् हि अथ फल-आप्तये।११। ॥ ४०॥
praṇavena ādi-saṃyuktam brāhmaṇānām viśiṣyate .. dīkṣā-yuktam guroḥ grāhyam maṃtram hi atha phala-āptaye.11. .. 40..
कुंभस्नानं मंत्रदीक्षां मातृकान्यासमेव च ॥ ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ॥ ४१॥
कुंभ-स्नानम् मंत्र-दीक्षाम् मातृका-न्यासम् एव च ॥ ब्राह्मणः सत्य-पूत-आत्मा गुरुः ज्ञानी विशिष्यते ॥ ४१॥
kuṃbha-snānam maṃtra-dīkṣām mātṛkā-nyāsam eva ca .. brāhmaṇaḥ satya-pūta-ātmā guruḥ jñānī viśiṣyate .. 41..
द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् ब् ॥ स्त्रीणां च क्वचिदिच्छंति नमो तं च यथाविधि ॥ ४२॥
द्विजानाम् च नमः-पूर्वम् अन्येषाम् च नमः-न्तकम् ॥ स्त्रीणाम् च क्वचिद् इच्छंति तम् च यथाविधि ॥ ४२॥
dvijānām ca namaḥ-pūrvam anyeṣām ca namaḥ-ntakam .. strīṇām ca kvacid icchaṃti tam ca yathāvidhi .. 42..
विप्रस्त्रीणां नमः पूर्वमिदमिच्छंति केचन ॥ पंचकोटिजपं कृत्वा सदा शिवसमो भवेत् ॥ ४३॥
विप्र-स्त्रीणाम् नमः पूर्वम् इदम् इच्छंति केचन ॥ पंच-कोटि-जपम् कृत्वा सदा शिव-समः भवेत् ॥ ४३॥
vipra-strīṇām namaḥ pūrvam idam icchaṃti kecana .. paṃca-koṭi-japam kṛtvā sadā śiva-samaḥ bhavet .. 43..
एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत् ॥ जपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक् ॥ ४४॥
एक-द्वि-त्रि-चतुर्-कोट्या अ ब्रह्म-आदीनाम् पदम् व्रजेत् ॥ जपेत् अक्षर-लक्षम् वा अक्षराणाम् पृथक् पृथक् ॥ ४४॥
eka-dvi-tri-catur-koṭyā a brahma-ādīnām padam vrajet .. japet akṣara-lakṣam vā akṣarāṇām pṛthak pṛthak .. 44..
अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् ॥ सहस्रं तु सहस्राणां सहस्रेण दिनेन हि ॥ ४५॥
अथवा अक्षर-लक्षम् वा ज्ञेयम् शिव-पद-प्रदम् ॥ सहस्रम् तु सहस्राणाम् सहस्रेण दिनेन हि ॥ ४५॥
athavā akṣara-lakṣam vā jñeyam śiva-pada-pradam .. sahasram tu sahasrāṇām sahasreṇa dinena hi .. 45..
जपेन्मंत्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् ॥ अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ॥ ४६॥
जपेत् मंत्र-आदिष्ट-सिद्धिः नित्यम् ब्राह्मण-भोजनात् ॥ अष्टोत्तरसहस्रम् वै गायत्रीम् प्रातर् एव हि ॥ ४६॥
japet maṃtra-ādiṣṭa-siddhiḥ nityam brāhmaṇa-bhojanāt .. aṣṭottarasahasram vai gāyatrīm prātar eva hi .. 46..
ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान् ॥ वेदमंत्रांस्तु सूक्तानि जपेन्नियममास्थितः ॥ ४७॥
ब्राह्मणः तु जपेत् नित्यम् क्रमात् शिव-पद-प्रदान् ॥ वेद-मंत्रान् तु सूक्तानि जपेत् नियमम् आस्थितः ॥ ४७॥
brāhmaṇaḥ tu japet nityam kramāt śiva-pada-pradān .. veda-maṃtrān tu sūktāni japet niyamam āsthitaḥ .. 47..
एकं दशार्णं मंत्रं च शतोनं च तदूर्ध्वकम् ॥ अयुतं च सहस्रं च शतमेकं विना भवेत् ॥ ४८॥
एकम् दश-अर्णम् मंत्रम् च शत-ऊनम् च तद्-ऊर्ध्वकम् ॥ अयुतम् च सहस्रम् च शतम् एकम् विना भवेत् ॥ ४८॥
ekam daśa-arṇam maṃtram ca śata-ūnam ca tad-ūrdhvakam .. ayutam ca sahasram ca śatam ekam vinā bhavet .. 48..
वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् ॥ अन्यान्बहुतरान्मंत्राञ्जपेदक्षरलक्षतः ॥ ४९॥
वेद-पारायणम् च एव ज्ञेयम् शिव-पद-प्रदम् ॥ अन्यान् बहुतरान् मंत्रान् जपेत् अक्षर-लक्षतः ॥ ४९॥
veda-pārāyaṇam ca eva jñeyam śiva-pada-pradam .. anyān bahutarān maṃtrān japet akṣara-lakṣataḥ .. 49..
एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः ॥ ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् १.११. ॥ ५०॥
एक-अक्षरान् तथा मंत्रान् जपेत् अक्षर-कोटितः ॥ ततस् परम् जपेत् च एव सहस्रम् भक्ति-पूर्वकम्।११। ॥ ५०॥
eka-akṣarān tathā maṃtrān japet akṣara-koṭitaḥ .. tatas param japet ca eva sahasram bhakti-pūrvakam.11. .. 50..
एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत् ॥ नित्यं रुचिकरं त्वेकं मंत्रमामरणांतिकम् ॥ ५१॥
एवम् कुर्यात् यथाशक्ति क्रमात् शिव पदम् लभेत् ॥ नित्यम् रुचि-करम् तु एकम् मंत्रम् आमरणांतिकम् ॥ ५१॥
evam kuryāt yathāśakti kramāt śiva padam labhet .. nityam ruci-karam tu ekam maṃtram āmaraṇāṃtikam .. 51..
जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया ॥ पुष्पारामादिकं वापि तथा संमार्जनादिकम् ॥ ५२॥
जपेत् सहस्रम् ओम् इति सर्व-अभीष्टम् शिव-आज्ञया ॥ पुष्प-आराम-आदिकम् वा अपि तथा संमार्जन-आदिकम् ॥ ५२॥
japet sahasram om iti sarva-abhīṣṭam śiva-ājñayā .. puṣpa-ārāma-ādikam vā api tathā saṃmārjana-ādikam .. 52..
शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत् ॥ शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ॥ ५३॥
शिवाय कृत्वा शिव-पदम् लभेत् ॥ शिव-क्षेत्रे तथा वासम् नित्यम् कुर्यात् च भक्तितः ॥ ५३॥
śivāya kṛtvā śiva-padam labhet .. śiva-kṣetre tathā vāsam nityam kuryāt ca bhaktitaḥ .. 53..
जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् ॥ तस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः ॥ ५४॥
जडानाम् अजडानाम् च सर्वेषाम् भुक्ति-मुक्ति-दम् ॥ तस्मात् वासम् शिव-क्षेत्रे कुर्यत् आमरणम् बुधः ॥ ५४॥
jaḍānām ajaḍānām ca sarveṣām bhukti-mukti-dam .. tasmāt vāsam śiva-kṣetre kuryat āmaraṇam budhaḥ .. 54..
लिंगाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः ॥ सहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके ॥ ५५॥
लिंगात् हस्त-शतम् पुण्यम् क्षेत्रे मानुषके विदुः ॥ सहस्र-अरत्नि-मात्रम् तु पुण्य-क्षेत्रे तथा आर्षके ॥ ५५॥
liṃgāt hasta-śatam puṇyam kṣetre mānuṣake viduḥ .. sahasra-aratni-mātram tu puṇya-kṣetre tathā ārṣake .. 55..
दैवलिंगे तथा ज्ञेयं सहस्रारत्निमानतः ॥ धनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि ॥ ५६॥
दैव-लिंगे तथा ज्ञेयम् सहस्र-अरत्नि-मानतः ॥ धनुष्प्रमाण-साहस्रम् पुण्यम् क्षेत्रे स्वयम् भुवि ॥ ५६॥
daiva-liṃge tathā jñeyam sahasra-aratni-mānataḥ .. dhanuṣpramāṇa-sāhasram puṇyam kṣetre svayam bhuvi .. 56..
पुण्यक्षेत्रे स्थिता वापी कूपाद्यं पुष्कराणि च ॥ शिवगंगेति विज्ञेयं शिवस्य वचनं यथा ॥ ५७॥
पुण्य-क्षेत्रे स्थिता वापी कूप-आद्यम् पुष्कराणि च ॥ शिवगंगा इति विज्ञेयम् शिवस्य वचनम् यथा ॥ ५७॥
puṇya-kṣetre sthitā vāpī kūpa-ādyam puṣkarāṇi ca .. śivagaṃgā iti vijñeyam śivasya vacanam yathā .. 57..
तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् ॥ शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ॥ ५८॥
तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवम् व्रजेत् ॥ शिव-क्षेत्रम् समाश्रित्य वसेत् आमरणम् तथा ॥ ५८॥
tatra snātvā tathā dattvā japitvā hi śivam vrajet .. śiva-kṣetram samāśritya vaset āmaraṇam tathā .. 58..
दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा ॥ आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा ॥ ५९॥
दाहम् दश-अहम् मास्यम् वा सपिंडीकरणम् तु वा ॥ आब्दिकम् वा शिव-क्षेत्रे क्षेत्रे पिंडम् अथ अपि वा ॥ ५९॥
dāham daśa-aham māsyam vā sapiṃḍīkaraṇam tu vā .. ābdikam vā śiva-kṣetre kṣetre piṃḍam atha api vā .. 59..
सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत् ॥ अथवा सप्तरात्रं वा वसेद्वा पंचरात्रकम् १.११. ॥ ६०॥
सर्व-पाप-विनिर्मुक्तः सद्यस् शिव-पदम् लभेत् ॥ अथवा सप्त-रात्रम् वा वसेत् वा पंच-रात्रकम्।११। ॥ ६०॥
sarva-pāpa-vinirmuktaḥ sadyas śiva-padam labhet .. athavā sapta-rātram vā vaset vā paṃca-rātrakam.11. .. 60..
त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् ॥ स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ॥ ६१॥
त्रि-रात्रम् एक-रात्रम् वा क्रमात् शिवपदम् लभेत् ॥ स्व-वर्ण-अनुगुणम् लोके स्व-आचारात् प्राप्नुते नरः ॥ ६१॥
tri-rātram eka-rātram vā kramāt śivapadam labhet .. sva-varṇa-anuguṇam loke sva-ācārāt prāpnute naraḥ .. 61..
वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः ॥ सर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ॥ ६२॥
वर्ण-उद्धारेण भक्त्या च तद्-फल-अतिशयम् नरः ॥ सर्वम् कृतम् कामनया सद्यस् फलम् अवाप्नुयात् ॥ ६२॥
varṇa-uddhāreṇa bhaktyā ca tad-phala-atiśayam naraḥ .. sarvam kṛtam kāmanayā sadyas phalam avāpnuyāt .. 62..
सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् ॥ प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ॥ ६३॥
सर्वम् कृतम् अकामेन साक्षात् शिव-पद-प्रदम् ॥ प्रातर् मध्याह्न-सायाह्नम् अहर्-त्रिषु एकतस् क्रमात् ॥ ६३॥
sarvam kṛtam akāmena sākṣāt śiva-pada-pradam .. prātar madhyāhna-sāyāhnam ahar-triṣu ekatas kramāt .. 63..
प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा ॥ सायाह्नं शांतिकं ज्ञेयं रात्रावपि तथैव हि ॥ ६४॥
प्रातर् विधि-करम् ज्ञेयम् मध्याह्नम् कामिकम् तथा ॥ सायाह्नम् शांतिकम् ज्ञेयम् रात्रौ अपि तथा एव हि ॥ ६४॥
prātar vidhi-karam jñeyam madhyāhnam kāmikam tathā .. sāyāhnam śāṃtikam jñeyam rātrau api tathā eva hi .. 64..
कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि ॥ शिवपूजा विशेषेण तत्कालेऽभीष्टसिद्धिदा ॥ ६५॥
कालः निशीथः वै प्रोक्तः मध्य-याम-द्वयम् निशि ॥ शिव-पूजा विशेषेण तद्-काले अभीष्ट-सिद्धि-दा ॥ ६५॥
kālaḥ niśīthaḥ vai proktaḥ madhya-yāma-dvayam niśi .. śiva-pūjā viśeṣeṇa tad-kāle abhīṣṭa-siddhi-dā .. 65..
एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ॥ कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ॥ ६६॥
एवम् ज्ञात्वा नरः कुर्वन् यथा उक्त-फल-भाज् भवेत् ॥ कलौ युगे विशेषेण फल-सिद्धिः तु कर्मणा ॥ ६६॥
evam jñātvā naraḥ kurvan yathā ukta-phala-bhāj bhavet .. kalau yuge viśeṣeṇa phala-siddhiḥ tu karmaṇā .. 66..
उक्तेन केनचिद्वापि अधिकारविभेदतः ॥ सद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ॥ ६७॥
उक्तेन केनचिद् वा अपि अधिकार-विभेदतः ॥ सत्-वृत्तिः पाप-भीरुः चेद् तद्-तद्-फलम् अवाप्नुयात् ॥ ६७॥
uktena kenacid vā api adhikāra-vibhedataḥ .. sat-vṛttiḥ pāpa-bhīruḥ ced tad-tad-phalam avāpnuyāt .. 67..
ऋषय ऊचुः ।
अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः ॥ सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ॥ ६८॥
अथ क्षेत्राणि पुण्यानि समासात् कथयस्व नः ॥ सर्वाः स्त्रियः च पुरुषाः यानि आश्रित्य पदम् लभेत् ॥ ६८॥
atha kṣetrāṇi puṇyāni samāsāt kathayasva naḥ .. sarvāḥ striyaḥ ca puruṣāḥ yāni āśritya padam labhet .. 68..
सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा ॥ ६९॥
सूत योगि-वर-श्रेष्ठ शिव-क्षेत्र-आगमान् तथा ॥ ६९॥
sūta yogi-vara-śreṣṭha śiva-kṣetra-āgamān tathā .. 69..
सूत उवाच ।
शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् ॥ ७०॥
शृणुत श्रद्धया सर्व-क्षेत्राणि च तद्-आगमान् ॥ ७०॥
śṛṇuta śraddhayā sarva-kṣetrāṇi ca tad-āgamān .. 70..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायांएकदशोऽध्यायः ॥ ॥ ७१॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् एकदशः अध्यायः ॥ ॥ ७१॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām ekadaśaḥ adhyāyaḥ .. .. 71..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In