| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् ॥ तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि ॥ १॥
शृणुध्वम् ऋषयः प्राज्ञाः शिव-क्षेत्रम् विमुक्ति-दम् ॥ तद्-आगमान् ततस् वक्ष्ये लोक-रक्षा-अर्थम् एव हि ॥ १॥
śṛṇudhvam ṛṣayaḥ prājñāḥ śiva-kṣetram vimukti-dam .. tad-āgamān tatas vakṣye loka-rakṣā-artham eva hi .. 1..
पंचाशत्कोटिविस्तीर्णा सशैलवनकानना ॥ शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति ॥ २॥
पंचाशत्-कोटि-विस्तीर्णा स शैल-वन-कानना ॥ शिव-आज्ञया हि पृथिवी लोकम् धृत्वा च तिष्ठति ॥ २॥
paṃcāśat-koṭi-vistīrṇā sa śaila-vana-kānanā .. śiva-ājñayā hi pṛthivī lokam dhṛtvā ca tiṣṭhati .. 2..
तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम् ॥ मो-क्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः ॥ ३॥
तत्र तत्र शिव-क्षेत्रम् तत्र तत्र निवासिनाम् ॥ मोक्ष-अर्थम् कृपया देवः क्षेत्रम् कल्पितवान् प्रभुः ॥ ३॥
tatra tatra śiva-kṣetram tatra tatra nivāsinām .. mokṣa-artham kṛpayā devaḥ kṣetram kalpitavān prabhuḥ .. 3..
परिग्रहादृषीणां च देवानां परिग्रहात् ॥ स्वयंभूतान्यथान्यानि लोकरक्षार्थमेव हि ॥ ४॥
परिग्रहात् ऋषीणाम् च देवानाम् परिग्रहात् ॥ स्वयंभूतानि अथ अन्यानि लोक-रक्षा-अर्थम् एव हि ॥ ४॥
parigrahāt ṛṣīṇām ca devānām parigrahāt .. svayaṃbhūtāni atha anyāni loka-rakṣā-artham eva hi .. 4..
तीर्थे क्षेत्रे सदाकार्यं स्नानदानजपादिकम् ॥ अन्यथा रोगदारिद्र य्मूकत्वाद्याप्नुयान्नरः ॥ ५॥
तीर्थे क्षेत्रे सदा कार्यम् स्नान-दान-जप-आदिकम् ॥ अन्यथा रोग-दारिद्र य्मूक-त्व-अदि आप्नुयात् नरः ॥ ५॥
tīrthe kṣetre sadā kāryam snāna-dāna-japa-ādikam .. anyathā roga-dāridra ymūka-tva-adi āpnuyāt naraḥ .. 5..
अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः ॥ स्वयंभूस्थानवासेन पुनर्मानुष्यमाप्नुयात् ॥ ६॥
अथ अस्मिन् भारते वर्षे प्राप्नोति मरणम् नरः ॥ स्वयंभू-स्थान-वासेन पुनर् मानुष्यम् आप्नुयात् ॥ ६॥
atha asmin bhārate varṣe prāpnoti maraṇam naraḥ .. svayaṃbhū-sthāna-vāsena punar mānuṣyam āpnuyāt .. 6..
क्षेत्रे पापस्य करणं दृढं भवति भूसुराः ॥ पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत् ॥ ७॥
क्षेत्रे पापस्य करणम् दृढम् भवति भूसुराः ॥ पुण्य-क्षेत्रे निवासे हि पापम् अणु अपि न आचरेत् ॥ ७॥
kṣetre pāpasya karaṇam dṛḍham bhavati bhūsurāḥ .. puṇya-kṣetre nivāse hi pāpam aṇu api na ācaret .. 7..
येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः ॥ सिंधोः शतनदीतीरे संति क्षेत्राण्यनेकशः ॥ ८॥
येन केन अपि उपायेन पुण्य-क्षेत्रे वसेत् नरः ॥ सिंधोः शत-नदी-तीरे संति क्षेत्राणि अनेकशस् ॥ ८॥
yena kena api upāyena puṇya-kṣetre vaset naraḥ .. siṃdhoḥ śata-nadī-tīre saṃti kṣetrāṇi anekaśas .. 8..
सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा ॥ तत्तत्तीरे वसेत्प्राज्ञः क्रमाद्ब्रह्मपदं लभेत् ॥ ९॥
सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा ॥ तद्-तद्-तीरे वसेत् प्राज्ञः क्रमात् ब्रह्म-पदम् लभेत् ॥ ९॥
sarasvatī nadī puṇyā proktā ṣaṣṭimukhā tathā .. tad-tad-tīre vaset prājñaḥ kramāt brahma-padam labhet .. 9..
हिमवद्गिरिजा गंगा पुण्या शतमुखा नदी ॥ तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः १.१२. ॥ १०॥
हिमवत्-गिरि-जा गंगा पुण्या शतमुखा नदी ॥ तद्-तीरे च एव काशि-आदि-पुण्य-क्षेत्राणि अनेकशस्।१२। ॥ १०॥
himavat-giri-jā gaṃgā puṇyā śatamukhā nadī .. tad-tīre ca eva kāśi-ādi-puṇya-kṣetrāṇi anekaśas.12. .. 10..
तत्र तीरं प्रशस्तं हि मृगे मृगबृहस्पतौ ॥ शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः ॥ ११॥
तत्र तीरम् प्रशस्तम् हि मृगे मृग-बृहस्पतौ ॥ शोणभद्रः दशमुखः पुण्यः अभीष्ट-फल-प्रदः ॥ ११॥
tatra tīram praśastam hi mṛge mṛga-bṛhaspatau .. śoṇabhadraḥ daśamukhaḥ puṇyaḥ abhīṣṭa-phala-pradaḥ .. 11..
तत्र स्नानोपवासेन पदं वैनायकं लभेत् ॥ चतुर्वींशमुखा पुण्या नर्मदा च महानदी ॥ १२॥
तत्र स्नान-उपवासेन पदम् वैनायकम् लभेत् ॥ चतुर्वींश-मुखा पुण्या नर्मदा च महा-नदी ॥ १२॥
tatra snāna-upavāsena padam vaināyakam labhet .. caturvīṃśa-mukhā puṇyā narmadā ca mahā-nadī .. 12..
तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् ॥ तमसा द्वादशमुखा रेवा दशमुखा नदी ॥ १३॥
तस्याम् स्नानेन वासेन पदम् वैष्णवम् आप्नुयात् ॥ तमसा द्वादश-मुखा रेवा दश-मुखा नदी ॥ १३॥
tasyām snānena vāsena padam vaiṣṇavam āpnuyāt .. tamasā dvādaśa-mukhā revā daśa-mukhā nadī .. 13..
गोदावरी महापुण्या ब्रह्मगोवधनाशिनी ॥ एकविंशमुखा प्रोक्ता रुद्र लोकप्रदायिनी ॥ १४॥
॥ एकविंश-मुखा प्रोक्ता रुद्र लोक-प्रदायिनी ॥ १४॥
.. ekaviṃśa-mukhā proktā rudra loka-pradāyinī .. 14..
कृष्णवेणी पुण्यनदी सर्वपापक्षयावहा ॥ साष्टादशमुखाप्रोक्ता विष्णुलोकप्रदायिनी ॥ १५॥
सर्व ॥ सा अष्टादश-मुखा प्रोक्ता विष्णु-लोक-प्रदायिनी ॥ १५॥
sarva .. sā aṣṭādaśa-mukhā proktā viṣṇu-loka-pradāyinī .. 15..
तुंगभद्रा दशमुखा ब्रह्मलोकप्रदायिनी ॥ सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा ॥ १६॥
॥ सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा ॥ १६॥
.. suvarṇamukharī puṇyā proktā navamukhā tathā .. 16..
तत्रैव सुप्रजायंते ब्रह्मलोकच्युतास्तथा ॥ सरस्वती च पंपा च कन्याश्वेतनदी शुभा ॥ १७॥
तत्र एव सुप्रजायंते ब्रह्म-लोक-च्युताः तथा ॥ सरस्वती च पंपा च कन्या-श्वेतनदी शुभा ॥ १७॥
tatra eva suprajāyaṃte brahma-loka-cyutāḥ tathā .. sarasvatī ca paṃpā ca kanyā-śvetanadī śubhā .. 17..
एतासां तीरवासेन इंद्र लोकमवाप्नुयात् ॥ सह्याद्रि जा महापुण्या कावेरीति महानदी ॥ १८॥
एतासाम् तीर-वासेन इंद्र लोकम् अवाप्नुयात् ॥ सह्य-अद्रि-जा महा-पुण्या कावेरी इति महा-नदी ॥ १८॥
etāsām tīra-vāsena iṃdra lokam avāpnuyāt .. sahya-adri-jā mahā-puṇyā kāverī iti mahā-nadī .. 18..
सप्तविंशमुखा प्रोक्ता सर्वाभीष्टं प्रदायिनी ॥ तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः ॥ १९॥
सप्तविंश-मुखा प्रोक्ता सर्व-अभीष्टम् प्रदायिनी ॥ तद्-तीराः स्वर्ग-दाः च एव ब्रह्म-विष्णु-पद-प्रदाः ॥ १९॥
saptaviṃśa-mukhā proktā sarva-abhīṣṭam pradāyinī .. tad-tīrāḥ svarga-dāḥ ca eva brahma-viṣṇu-pada-pradāḥ .. 19..
शिवलोकप्रदा शैवास्तथाऽभीष्टफलप्रदाः ॥ नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ १.१२. ॥ २०॥
शिव-लोक-प्रदा शैवाः तथा अभीष्ट-फल-प्रदाः ॥ नैमिषे बदरे स्नायात् मेष-गे च गुरौ रवौ।१२। ॥ २०॥
śiva-loka-pradā śaivāḥ tathā abhīṣṭa-phala-pradāḥ .. naimiṣe badare snāyāt meṣa-ge ca gurau ravau.12. .. 20..
ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा ॥ सिंधुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ ॥ २१॥
ब्रह्म-लोक-प्रदम् विद्यात् ततस् पूजा-आदिकम् तथा ॥ सिंधु-नद्याम् तथा स्नानम् सिंहे कर्कट-गे रवौ ॥ २१॥
brahma-loka-pradam vidyāt tatas pūjā-ādikam tathā .. siṃdhu-nadyām tathā snānam siṃhe karkaṭa-ge ravau .. 21..
केदारोदकपानं च स्नानं च ज्ञानदं विदुः ॥ गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ ॥ २२॥
केदार-उदक-पानम् च स्नानम् च ज्ञान-दम् विदुः ॥ गोदावर्याम् सिंह-मासे स्नायात् सिंह-बृहस्पतौ ॥ २२॥
kedāra-udaka-pānam ca snānam ca jñāna-dam viduḥ .. godāvaryām siṃha-māse snāyāt siṃha-bṛhaspatau .. 22..
शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा ॥ यमुनाशोणयोः स्नायाद्गुरौ कन्यागते रवौ ॥ २३॥
शिव-लोक-प्रदम् इति शिवेन उक्तम् तथा पुरा ॥ यमुना-शोणयोः स्नायात् गुरौ कन्या-गते रवौ ॥ २३॥
śiva-loka-pradam iti śivena uktam tathā purā .. yamunā-śoṇayoḥ snāyāt gurau kanyā-gate ravau .. 23..
धर्मलोके दंतिलोके महाभोगप्रदं विदुः ॥ कावेर्यां च तथास्नायात्तुलागे तु रवौ गुरौ ॥ २४॥
धर्म-लोके दंति-लोके महा-भोग-प्रदम् विदुः ॥ कावेर्याम् च तथा स्नायात् तुला-गे तु रवौ गुरौ ॥ २४॥
dharma-loke daṃti-loke mahā-bhoga-pradam viduḥ .. kāveryām ca tathā snāyāt tulā-ge tu ravau gurau .. 24..
विष्णोर्वचनमाहात्म्यात्सर्वाभीष्टप्रदं विदुः ॥ वृश्चिके मासि संप्राप्ते तथार्के गुरुवृश्चिके ॥ २५॥
विष्णोः वचन-माहात्म्यात् सर्व-अभीष्ट-प्रदम् विदुः ॥ वृश्चिके मासि संप्राप्ते तथा अर्के गुरु-वृश्चिके ॥ २५॥
viṣṇoḥ vacana-māhātmyāt sarva-abhīṣṭa-pradam viduḥ .. vṛścike māsi saṃprāpte tathā arke guru-vṛścike .. 25..
नर्मदायां नदीस्नानाद्विष्णुलोकमवाप्नुयात् ॥ सुवर्णमुखरीस्नानं चापगे च गुरौ रवौ ॥ २६॥
नर्मदायाम् नदी-स्नानात् विष्णु-लोकम् अवाप्नुयात् ॥ सुवर्ण-मुखरी-स्नानम् च आपगे च गुरौ रवौ ॥ २६॥
narmadāyām nadī-snānāt viṣṇu-lokam avāpnuyāt .. suvarṇa-mukharī-snānam ca āpage ca gurau ravau .. 26..
शिवलोकप्रदमिति ब्राह्मणो वचनं यथा ॥ मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ ॥ २७॥
शिव-लोक-प्रदम् इति ब्राह्मणः वचनम् यथा ॥ मृगमासि तथा स्नायात् जाह्नव्याम् मृग-गे गुरौ ॥ २७॥
śiva-loka-pradam iti brāhmaṇaḥ vacanam yathā .. mṛgamāsi tathā snāyāt jāhnavyām mṛga-ge gurau .. 27..
शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ॥ ब्रह्मविष्ण्वोः पदे भुक्त्वा तदंते ज्ञानमाप्नुयात् ॥ २८॥
शिव-लोक-प्रदम् इति ब्रह्मणः वचनम् यथा ॥ ब्रह्म-विष्ण्वोः पदे भुक्त्वा तद्-अन्ते ज्ञानम् आप्नुयात् ॥ २८॥
śiva-loka-pradam iti brahmaṇaḥ vacanam yathā .. brahma-viṣṇvoḥ pade bhuktvā tad-ante jñānam āpnuyāt .. 28..
गंगायां माघमासे तु तथाकुंभगते रवौ ॥ श्राद्धं वा पिंडदानं वा तिलोदकमथापिवा ॥ २९॥
गंगायाम् माघ-मासे तु तथा कुंभ-गते रवौ ॥ श्राद्धम् वा पिंड-दानम् वा तिल-उदकम् अथ अपि वा ॥ २९॥
gaṃgāyām māgha-māse tu tathā kuṃbha-gate ravau .. śrāddham vā piṃḍa-dānam vā tila-udakam atha api vā .. 29..
वंशद्वयपितृ-णां च कुलकोट्युद्धरं विदुः ॥ कृष्णवेण्यां प्रशंसंति मीनगे च गुरौ रवौ १.१२. ॥ ३०॥
वंश-द्वय-पितृ-णाम् च कुल-कोटि-उद्धरम् विदुः ॥ कृष्णवेण्याम् प्रशंसंति मीन-गे च गुरौ रवौ।१२। ॥ ३०॥
vaṃśa-dvaya-pitṛ-ṇām ca kula-koṭi-uddharam viduḥ .. kṛṣṇaveṇyām praśaṃsaṃti mīna-ge ca gurau ravau.12. .. 30..
तत्तत्तीर्थे च तन्मासि स्नानमिंद्र पदप्रदम् ॥ गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः ॥ ३१॥
तद्-तद्-तीर्थे च तद्-मासि स्नानम् इंद्र पद-प्रदम् ॥ गंगाम् वा सह्यजाम् वा अपि समाश्रित्य वसेत् बुधः ॥ ३१॥
tad-tad-tīrthe ca tad-māsi snānam iṃdra pada-pradam .. gaṃgām vā sahyajām vā api samāśritya vaset budhaḥ .. 31..
तत्कालकृतपापस्य क्षयो भवति निश्चितम् ॥ रुद्र लोकप्रदान्येव संति क्षेत्राण्यनेकशः ॥ ३२॥
तद्-काल-कृत-पापस्य क्षयः भवति निश्चितम् ॥ रुद्र लोक-प्रदानि एव संति क्षेत्राणि अनेकशस् ॥ ३२॥
tad-kāla-kṛta-pāpasya kṣayaḥ bhavati niścitam .. rudra loka-pradāni eva saṃti kṣetrāṇi anekaśas .. 32..
ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे ॥ तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च ॥ ३३॥
॥ तयोः तीरे हि संति एव क्षेत्राणि स्वर्ग-दानि च ॥ ३३॥
.. tayoḥ tīre hi saṃti eva kṣetrāṇi svarga-dāni ca .. 33..
संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः ॥ तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत् ॥ ३४॥
संति क्षेत्राणि तद्-मध्ये पुण्य-दानि च भूरिशस् ॥ तत्र तत्र वसन् प्राज्ञः तादृशम् च फलम् लभेत् ॥ ३४॥
saṃti kṣetrāṇi tad-madhye puṇya-dāni ca bhūriśas .. tatra tatra vasan prājñaḥ tādṛśam ca phalam labhet .. 34..
सदाचारेण सद्वृत्त्या सदा भावनयापि च ॥ वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत् ॥ ३५॥
सत्-आचारेण सत्-वृत्त्या सदा भावनया अपि च ॥ वसेत् दयालुः प्राज्ञः वै न अन्यथा तद्-फलम् लभेत् ॥ ३५॥
sat-ācāreṇa sat-vṛttyā sadā bhāvanayā api ca .. vaset dayāluḥ prājñaḥ vai na anyathā tad-phalam labhet .. 35..
पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति ॥ पुण्यक्षेत्रे कृतं पापं महदण्वपि जायते ॥ ३६॥
पुण्य-क्षेत्रे कृतम् पुण्यम् बहुधा ऋद्धिम् ऋच्छति ॥ पुण्य-क्षेत्रे कृतम् पापम् महत् अणु अपि जायते ॥ ३६॥
puṇya-kṣetre kṛtam puṇyam bahudhā ṛddhim ṛcchati .. puṇya-kṣetre kṛtam pāpam mahat aṇu api jāyate .. 36..
तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति ॥ पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा ॥ ३७॥
तद्-कालम् जीवन-अर्थः चेद् पुण्येन क्षयम् एष्यति ॥ पुण्यम् ऐश्वर्य-दम् प्राहुः कायिकम् वाचिकम् तथा ॥ ३७॥
tad-kālam jīvana-arthaḥ ced puṇyena kṣayam eṣyati .. puṇyam aiśvarya-dam prāhuḥ kāyikam vācikam tathā .. 37..
मानसं च तथा पापं तादृशं नाशयेद्द्विजाः ॥ मानसं वज्रलेपं तु कल्पकल्पानुगं तथा ॥ ३८॥
मानसम् च तथा पापम् तादृशम् नाशयेत् द्विजाः ॥ मानसम् वज्र-लेपम् तु कल्प-कल्प-अनुगम् तथा ॥ ३८॥
mānasam ca tathā pāpam tādṛśam nāśayet dvijāḥ .. mānasam vajra-lepam tu kalpa-kalpa-anugam tathā .. 38..
ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति ॥ वाचिकं जपजालेन कायिकं कायशोषणात् ॥ ३९॥
ध्यानात् एव हि तत् नश्येत् न अन्यथा नाशम् ऋच्छति ॥ वाचिकम् जप-जालेन कायिकम् काय-शोषणात् ॥ ३९॥
dhyānāt eva hi tat naśyet na anyathā nāśam ṛcchati .. vācikam japa-jālena kāyikam kāya-śoṣaṇāt .. 39..
दानाद्धनकृतं नश्येन्नाऽन्यथाकल्पकोटिभिः ॥ क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति १.१२. ॥ ४०॥
दानात् धन-कृतम् नश्येत् न अन्यथा कल्प-कोटिभिः ॥ क्वचिद् पापेन पुण्यम् च वृद्धि-पूर्वेण नश्यति।१२। ॥ ४०॥
dānāt dhana-kṛtam naśyet na anyathā kalpa-koṭibhiḥ .. kvacid pāpena puṇyam ca vṛddhi-pūrveṇa naśyati.12. .. 40..
बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः ॥ ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः ॥ ४१॥
बीज-अंशः च एव वृद्धि-अंशः भोग-अंशः पुण्य-पापयोः ॥ ज्ञान-नाश्यः हि बीज-अंशः वृद्धिः उक्त-प्रकारतः ॥ ४१॥
bīja-aṃśaḥ ca eva vṛddhi-aṃśaḥ bhoga-aṃśaḥ puṇya-pāpayoḥ .. jñāna-nāśyaḥ hi bīja-aṃśaḥ vṛddhiḥ ukta-prakārataḥ .. 41..
भोगांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः ॥ बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते ॥ ४२॥
भोग-अंशः भोग-नाश्यः तु न अन्यथा पुण्य-कोटिभिः ॥ बीज-प्ररोहे नष्टे तु शेषः भोगाय कल्पते ॥ ४२॥
bhoga-aṃśaḥ bhoga-nāśyaḥ tu na anyathā puṇya-koṭibhiḥ .. bīja-prarohe naṣṭe tu śeṣaḥ bhogāya kalpate .. 42..
देवानां पूजया चैव ब्रह्मणानां च दानतः ॥ तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम् ॥ तस्मात्पापमकृत्वैव वस्तव्यं सुखमिच्छता ॥ ४३॥
देवानाम् पूजया च एव च दानतः ॥ तपः-धिक्यात् च कालेन भोगः सह्यः भवेत् नृणाम् ॥ तस्मात् पापम् अ कृत्वा एव वस्तव्यम् सुखम् इच्छता ॥ ४३॥
devānām pūjayā ca eva ca dānataḥ .. tapaḥ-dhikyāt ca kālena bhogaḥ sahyaḥ bhavet nṛṇām .. tasmāt pāpam a kṛtvā eva vastavyam sukham icchatā .. 43..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वादशोऽध्यायः ॥ ४४॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् द्वादशः अध्यायः ॥ ४४॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām dvādaśaḥ adhyāyaḥ .. 44..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In