| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः ॥ धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥ १॥
सत्-आचारम् श्रावय आशु येन लोकान् जयेत् बुधः ॥ धर्म-अधर्म-मयान् ब्रूहि स्वर्ग-नारक-दान् तथा ॥ १॥
sat-ācāram śrāvaya āśu yena lokān jayet budhaḥ .. dharma-adharma-mayān brūhi svarga-nāraka-dān tathā .. 1..
सूत उवाच ।
सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः ॥ वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥ २॥
सत्-आचार-युतः विद्वान् ब्राह्मणः नाम नामतः ॥ वेद-आचार-युतः विप्रः हि एतैः एकैकवान् द्विजः ॥ २॥
sat-ācāra-yutaḥ vidvān brāhmaṇaḥ nāma nāmataḥ .. veda-ācāra-yutaḥ vipraḥ hi etaiḥ ekaikavān dvijaḥ .. 2..
अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः ॥ किंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया ॥ ३॥
अल्प-आचार-उल्प-वेदः च क्षत्रियः राज-सेवकः ॥ किंचिद् आचारवान् वैश्यः कृषि-वाणिज्य-कृत्-तया ॥ ३॥
alpa-ācāra-ulpa-vedaḥ ca kṣatriyaḥ rāja-sevakaḥ .. kiṃcid ācāravān vaiśyaḥ kṛṣi-vāṇijya-kṛt-tayā .. 3..
शूद्र ब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ॥ असूयालुः परद्रो ही चंडालद्विज उच्यते ॥ ४॥
शूद्र ब्राह्मणः इति उक्तः स्वयम् एव हि कर्षकः ॥ असूयालुः पर-द्रः ही चंडाल-द्विजः उच्यते ॥ ४॥
śūdra brāhmaṇaḥ iti uktaḥ svayam eva hi karṣakaḥ .. asūyāluḥ para-draḥ hī caṃḍāla-dvijaḥ ucyate .. 4..
पृथिवीपालको राजा इतरेक्षत्रिया मताः ॥ धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ॥ ५॥
पृथिवी-पालकः राजा इतर-इक्षत्रियाः मताः ॥ धान्य-आदि-क्रयवान् वैश्यः इतरः वणिज् उच्यते ॥ ५॥
pṛthivī-pālakaḥ rājā itara-ikṣatriyāḥ matāḥ .. dhānya-ādi-krayavān vaiśyaḥ itaraḥ vaṇij ucyate .. 5..
ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते ॥ कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ॥ ६॥
ब्रह्म-क्षत्रिय-वैश्यानाम् शुश्रूषुः शूद्रः उच्यते ॥ कर्षकः वृषलः ज्ञेयः इतरे च एव दस्यवः ॥ ६॥
brahma-kṣatriya-vaiśyānām śuśrūṣuḥ śūdraḥ ucyate .. karṣakaḥ vṛṣalaḥ jñeyaḥ itare ca eva dasyavaḥ .. 6..
सर्वो ह्युषःप्राचीमुखश्चिन्तयेद्देवपूर्वकान् ॥ धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ॥ ७॥
सर्वः हि उषः-प्राचीमुखः चिन्तयेत् देव-पूर्वकान् ॥ धर्मान् अर्थान् च तद्-क्लेशान् आयम् च व्ययम् एव च ॥ ७॥
sarvaḥ hi uṣaḥ-prācīmukhaḥ cintayet deva-pūrvakān .. dharmān arthān ca tad-kleśān āyam ca vyayam eva ca .. 7..
आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च ॥ व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ॥ ८॥
आयुः द्वेषः च मरणम् पापम् भाग्यम् तथा एव च ॥ व्याधिः पुष्टिः तथा शक्तिः प्रातर् उत्थान-दिश्-फलम् ॥ ८॥
āyuḥ dveṣaḥ ca maraṇam pāpam bhāgyam tathā eva ca .. vyādhiḥ puṣṭiḥ tathā śaktiḥ prātar utthāna-diś-phalam .. 8..
निशांत्यायामोषा ज्ञेया यामार्धं संधिरुच्यते ॥ तत्काले तु समुत्थाय विण्मूत्रे विसृजेद्द्विजः ॥ ९॥
निशा-अंत्यायाम् ऊषा ज्ञेया याम-अर्धम् संधिः उच्यते ॥ तद्-काले तु समुत्थाय विष्-मूत्रे विसृजेत् द्विजः ॥ ९॥
niśā-aṃtyāyām ūṣā jñeyā yāma-ardham saṃdhiḥ ucyate .. tad-kāle tu samutthāya viṣ-mūtre visṛjet dvijaḥ .. 9..
गृहाद्दूरं ततो गत्वा बाह्यतः प्रवृतस्तथा ॥ उदण्मुखः समाविश्य प्रतिबंधेऽन्यदिण्मुखः १.१३. ॥ १०॥
गृहात् दूरम् ततस् गत्वा बाह्यतस् प्रवृतः तथा ॥ उदक्-मुखः समाविश्य प्रतिबन्धे अन्य-दिश्-मुखः।१३। ॥ १०॥
gṛhāt dūram tatas gatvā bāhyatas pravṛtaḥ tathā .. udak-mukhaḥ samāviśya pratibandhe anya-diś-mukhaḥ.13. .. 10..
जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः ॥ लिंगं पिधाय वामेन मुखमन्येन पाणिना ॥ ११॥
जल-अग्नि-ब्राह्मण-आदीनाम् देवानाम् न आभिमुख्यतः ॥ लिंगम् पिधाय वामेन मुखम् अन्येन पाणिना ॥ ११॥
jala-agni-brāhmaṇa-ādīnām devānām na ābhimukhyataḥ .. liṃgam pidhāya vāmena mukham anyena pāṇinā .. 11..
मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् ॥ उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः ॥ १२॥
मलम् उत्सृज्य च उत्थाय न पश्येत् च एव तत् मलम् ॥ उद्धृतेन जलेन एव शौचम् कुर्यात् जलात् बहिस् ॥ १२॥
malam utsṛjya ca utthāya na paśyet ca eva tat malam .. uddhṛtena jalena eva śaucam kuryāt jalāt bahis .. 12..
अथवा देवपित्रार्षतीर्थावतरणं विना ॥ सप्त वा पंच वा त्रीन्वा गुदं संशोधयेन्मृदा ॥ १३॥
अथवा देव-पितृ-आर्ष-तीर्थ-अवतरणम् विना ॥ सप्त वा पंच वा त्रीन् वा गुदम् संशोधयेत् मृदा ॥ १३॥
athavā deva-pitṛ-ārṣa-tīrtha-avataraṇam vinā .. sapta vā paṃca vā trīn vā gudam saṃśodhayet mṛdā .. 13..
लिंगे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते ॥ तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् ॥ १४॥
लिंगे कर्कोट-मात्रम् तु गुदे प्रसृतिः इष्यते ॥ ततस् उत्थाय पद्-हस्त-शौचम् गण्डूषम् अष्टकम् ॥ १४॥
liṃge karkoṭa-mātram tu gude prasṛtiḥ iṣyate .. tatas utthāya pad-hasta-śaucam gaṇḍūṣam aṣṭakam .. 14..
येन केन च पत्रेण काष्ठेन च जलाद्बहिः ॥ कार्यं संत्यज्य तर्ज्जनीं दंतधावनमीरितम् ॥ १५॥
येन केन च पत्रेण काष्ठेन च जलात् बहिस् ॥ कार्यम् संत्यज्य तर्ज्जनीम् दन्तधावनम् ईरितम् ॥ १५॥
yena kena ca patreṇa kāṣṭhena ca jalāt bahis .. kāryam saṃtyajya tarjjanīm dantadhāvanam īritam .. 15..
जलदेवान्नमस्कृत्य मंत्रेण स्नानमाचरेत् ॥ अशक्तः कंठदघ्नं वा कटिदघ्नमथापि वा ॥ १६॥
जलदेवान् नमस्कृत्य मंत्रेण स्नानम् आचरेत् ॥ अशक्तः कंठ-दघ्नम् वा कटि-दघ्नम् अथ अपि वा ॥ १६॥
jaladevān namaskṛtya maṃtreṇa snānam ācaret .. aśaktaḥ kaṃṭha-daghnam vā kaṭi-daghnam atha api vā .. 16..
आजानु जलमाविश्य मंत्रस्नानं समाचरेत् ॥ देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च ॥ १७॥
आजानु जलम् आविश्य मंत्रस्नानम् समाचरेत् ॥ देव-आदीन् तर्पयेत् विद्वान् तत्र तीर्थ-जलेन च ॥ १७॥
ājānu jalam āviśya maṃtrasnānam samācaret .. deva-ādīn tarpayet vidvān tatra tīrtha-jalena ca .. 17..
धौतवस्त्रं समादाय पंचकच्छेन धारयेत् ॥ उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु ॥ १८॥
धौत-वस्त्रम् समादाय पंचकच्छेन धारयेत् ॥ उत्तरीयम् च किम् च एव धार्यम् सर्वेषु कर्मसु ॥ १८॥
dhauta-vastram samādāya paṃcakacchena dhārayet .. uttarīyam ca kim ca eva dhāryam sarveṣu karmasu .. 18..
नद्यादितीर्थस्नाने तु स्नानवस्त्रं न शोधयेत् ॥ वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः ॥ १९॥
नदी-आदि-तीर्थ-स्नाने तु स्नान-वस्त्रम् न शोधयेत् ॥ वापी-कूप-गृह-आदौ तु स्नानात् ऊर्ध्वम् नयेत् बुधः ॥ १९॥
nadī-ādi-tīrtha-snāne tu snāna-vastram na śodhayet .. vāpī-kūpa-gṛha-ādau tu snānāt ūrdhvam nayet budhaḥ .. 19..
शिलादार्वादिके वापि जले वापि स्थलेपि वा ॥ संशोध्य पीडयेद्वस्त्रं पितृ-णां तृप्तये द्विजाः १.१३. ॥ २०॥
शिला-दार्व-आदिके वा अपि जले वा अपि स्थले इपि वा ॥ संशोध्य पीडयेत् वस्त्रम् पितृणाम् तृप्तये द्विजाः।१३। ॥ २०॥
śilā-dārva-ādike vā api jale vā api sthale ipi vā .. saṃśodhya pīḍayet vastram pitṛṇām tṛptaye dvijāḥ.13. .. 20..
जाबालकोक्तमंत्रेण भस्मना च त्रिपुंड्रकम् ॥ अन्यथा चेज्जले पात इतस्तन्नरकमृच्छति ॥ २१॥
जाबालक-उक्त-मंत्रेण भस्मना च त्रिपुंड्रकम् ॥ अन्यथा चेद् जले पातः इतस् तत् नरकम् ऋच्छति ॥ २१॥
jābālaka-ukta-maṃtreṇa bhasmanā ca tripuṃḍrakam .. anyathā ced jale pātaḥ itas tat narakam ṛcchati .. 21..
आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशांतये ॥ यस्येति मंत्रं पादे तु संधिप्रोक्षणमुच्यते ॥ २२॥
आपोहिष्ठा इति शिरसि प्रोक्षयेत् पाप-शांतये ॥ यस्य इति मंत्रम् पादे तु संधि-प्रोक्षणम् उच्यते ॥ २२॥
āpohiṣṭhā iti śirasi prokṣayet pāpa-śāṃtaye .. yasya iti maṃtram pāde tu saṃdhi-prokṣaṇam ucyate .. 22..
पादे मूर्ध्नि हृदि चैव मूर्ध्नि हृत्पाद एव च ॥ हृत्पादमूर्ध्नि संप्रोक्ष्य मंत्रस्नानं विदुर्बुधाः ॥ २३॥
पादे मूर्ध्नि हृदि च एव मूर्ध्नि हृद्-पादे एव च ॥ हृद्-पाद-मूर्ध्नि संप्रोक्ष्य मंत्र-स्नानम् विदुः बुधाः ॥ २३॥
pāde mūrdhni hṛdi ca eva mūrdhni hṛd-pāde eva ca .. hṛd-pāda-mūrdhni saṃprokṣya maṃtra-snānam viduḥ budhāḥ .. 23..
ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभयेऽपि च ॥ अत्यागतिकाले च मंत्रस्नानं समाचरेत् ॥ २४॥
ईषत् स्पर्शे च दौः स्वास्थ्ये राज-राष्ट्र-भये अपि च ॥ अत्यागति-काले च मंत्रस्नानम् समाचरेत् ॥ २४॥
īṣat sparśe ca dauḥ svāsthye rāja-rāṣṭra-bhaye api ca .. atyāgati-kāle ca maṃtrasnānam samācaret .. 24..
प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः ॥ अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत् ॥ २५॥
प्रातर् सूर्य-अनुवाकेन सायम् अग्नि-अनुवाकतः ॥ अपः पीत्वा तथा मध्ये पुनर् प्रोक्षणम् आचरेत् ॥ २५॥
prātar sūrya-anuvākena sāyam agni-anuvākataḥ .. apaḥ pītvā tathā madhye punar prokṣaṇam ācaret .. 25..
गायत्र्! या जपमंत्रांते त्रिरूर्ध्वं प्राग्विनिक्षिपेत् ॥ मंत्रेण सह चैकं वै मध्येऽर्घ्यं तु रवेर्द्विजा ॥ २६॥
गायत्र! या जप-मंत्र-अंते त्रिस् ऊर्ध्वम् प्राक् विनिक्षिपेत् ॥ मंत्रेण सह च एकम् वै मध्ये अर्घ्यम् तु रवेः द्विजा ॥ २६॥
gāyatra! yā japa-maṃtra-aṃte tris ūrdhvam prāk vinikṣipet .. maṃtreṇa saha ca ekam vai madhye arghyam tu raveḥ dvijā .. 26..
अथ जाते च सायाह्ने भुवि पश्चिमदिण्मुखः ॥ उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा ॥ २७॥
अथ जाते च सायाह्ने भुवि पश्चिम-दिश्-मुखः ॥ उद्धृत्य दद्यात् प्रातर् तु मध्याह्न-इंगुलिभिः तथा ॥ २७॥
atha jāte ca sāyāhne bhuvi paścima-diś-mukhaḥ .. uddhṛtya dadyāt prātar tu madhyāhna-iṃgulibhiḥ tathā .. 27..
अंगुलीनां च रंध्रेण लंबं पश्येद्दिवाकरम् ॥ आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् ॥ २८॥
अंगुलीनाम् च रंध्रेण लंबम् पश्येत् दिवाकरम् ॥ आत्म-प्रदक्षिणम् कृत्वा शुद्ध-आचमनम् आचरेत् ॥ २८॥
aṃgulīnām ca raṃdhreṇa laṃbam paśyet divākaram .. ātma-pradakṣiṇam kṛtvā śuddha-ācamanam ācaret .. 28..
सायं मुहूर्तादर्वाक्तु कृता संध्या वृथा भवेत् ॥ अकालात्काल इत्युक्तो दिनेऽतीते यथाक्रमम् ॥ २९॥
सायम् मुहूर्तात् अर्वाक् तु कृता संध्या वृथा भवेत् ॥ अकालात् कालः इति उक्तः दिने अतीते यथाक्रमम् ॥ २९॥
sāyam muhūrtāt arvāk tu kṛtā saṃdhyā vṛthā bhavet .. akālāt kālaḥ iti uktaḥ dine atīte yathākramam .. 29..
दिवाऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् ॥ आदर्शाहात्पराऽतीते गायत्रीं लक्षमभ्यसेत् १.१३. ॥ ३०॥
दिवा अतीते च गायत्रीम् शतम् नित्ये क्रमात् जपेत् ॥ आदर्श-अहात् परा अतीते गायत्रीम् लक्षम् अभ्यसेत्।१३। ॥ ३०॥
divā atīte ca gāyatrīm śatam nitye kramāt japet .. ādarśa-ahāt parā atīte gāyatrīm lakṣam abhyaset.13. .. 30..
मासातीते तु नित्ये हि पुनश्चोपनयं चरेत् ॥ ईशो गौरीगुहो विष्णुर्ब्रह्मा चेंद्र श्च वै यमः ॥ ३१॥
मास-अतीते तु नित्ये हि पुनर् च उपनयम् चरेत् ॥ ईशः गौरीगुहः विष्णुः ब्रह्मा च इंद्रः च वै यमः ॥ ३१॥
māsa-atīte tu nitye hi punar ca upanayam caret .. īśaḥ gaurīguhaḥ viṣṇuḥ brahmā ca iṃdraḥ ca vai yamaḥ .. 31..
एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये ॥ ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत् ॥ ३२॥
एवम् रूपान् च वै देवान् तर्पयेत् अर्थ-सिद्धये ॥ ब्रह्मार्पणम् ततस् कृत्वा शुद्ध-आचमनम् आचरेत् ॥ ३२॥
evam rūpān ca vai devān tarpayet artha-siddhaye .. brahmārpaṇam tatas kṛtvā śuddha-ācamanam ācaret .. 32..
तीर्थदक्षिणतः शस्ते मठे मंत्रालये बुधः ॥ तत्र देवालये वापि गृहे वा नियतस्थले ॥ ३३॥
तीर्थ-दक्षिणतस् शस्ते मठे मंत्रालये बुधः ॥ तत्र देवालये वा अपि गृहे वा नियत-स्थले ॥ ३३॥
tīrtha-dakṣiṇatas śaste maṭhe maṃtrālaye budhaḥ .. tatra devālaye vā api gṛhe vā niyata-sthale .. 33..
सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः ॥ प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः ॥ ३४॥
सर्वान् देवान् नमस्कृत्य स्थिर-बुद्धिः स्थिर-आसनः ॥ प्रणवम् पूर्वम् अभ्यस्य गायत्रीम् अभ्यसेत् ततस् ॥ ३४॥
sarvān devān namaskṛtya sthira-buddhiḥ sthira-āsanaḥ .. praṇavam pūrvam abhyasya gāyatrīm abhyaset tatas .. 34..
जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत् ॥ त्रैलोक्यसृष्टिकर्त्तारं स्थितिकर्तारमच्युतम् ॥ ३५॥
जीव-ब्रह्म-ऐक्य-विषयम् बुद्ध्वा प्रणवम् अभ्यसेत् ॥ त्रैलोक्य-सृष्टि-कर्त्तारम् स्थिति-कर्तारम् अच्युतम् ॥ ३५॥
jīva-brahma-aikya-viṣayam buddhvā praṇavam abhyaset .. trailokya-sṛṣṭi-karttāram sthiti-kartāram acyutam .. 35..
संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे ॥ ज्ञानकर्मेंद्रि याणां च मनोवृत्तीर्धियस्तथा ॥ ३६॥
संहर्तारम् तथा रुद्रम् स्व-प्रकाशम् उपास्महे ॥ ज्ञान-कर्म-इंद्रि च मनः-वृत्तीः धियः तथा ॥ ३६॥
saṃhartāram tathā rudram sva-prakāśam upāsmahe .. jñāna-karma-iṃdri ca manaḥ-vṛttīḥ dhiyaḥ tathā .. 36..
भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा ॥ इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः ॥ ३७॥
भोग-मोक्ष-प्रदे धर्मे ज्ञाने च प्रेरयेत् सदा ॥ इत्थम् अर्थम् धिया अध्यायन् ब्रह्म प्राप्नोति निश्चयः ॥ ३७॥
bhoga-mokṣa-prade dharme jñāne ca prerayet sadā .. ittham artham dhiyā adhyāyan brahma prāpnoti niścayaḥ .. 37..
केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये ॥ सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुंगवः ॥ ३८॥
केवलम् वा जपेत् नित्यम् ब्राह्मण्यस्य च पूर्तये ॥ सहस्रम् अभ्यसेत् नित्यम् प्रातर् ब्राह्मण-पुंगवः ॥ ३८॥
kevalam vā japet nityam brāhmaṇyasya ca pūrtaye .. sahasram abhyaset nityam prātar brāhmaṇa-puṃgavaḥ .. 38..
अन्येषां च यथा शक्तिमध्याह्ने च शतं जपेत् ॥ सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ॥ ३९॥
अन्येषाम् च यथा शक्ति-मध्याह्ने च शतम् जपेत् ॥ सायम् द्विदशकम् ज्ञेयम् शिखा-अष्टक-समन्वितम् ॥ ३९॥
anyeṣām ca yathā śakti-madhyāhne ca śatam japet .. sāyam dvidaśakam jñeyam śikhā-aṣṭaka-samanvitam .. 39..
मूलाधारं समारभ्य द्वादशांतस्थितांस्तथा ॥ विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान् १.१३. ॥ ४०॥
मूलाधारम् समारभ्य द्वादशांत-स्थितान् तथा ॥ विद्येश-ब्रह्म-विष्णु-ईश-जीवात्म-परमेश्वरान्।१३। ॥ ४०॥
mūlādhāram samārabhya dvādaśāṃta-sthitān tathā .. vidyeśa-brahma-viṣṇu-īśa-jīvātma-parameśvarān.13. .. 40..
ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत् ॥ तानेव ब्रह्मरंध्रादौ कायाद्बाह्ये च भावयेत् ॥ ४१॥
ब्रह्म-बुद्ध्या तद्-ऐक्यम् च भावनया जपेत् ॥ तान् एव ब्रह्मरंध्र-आदौ कायात् बाह्ये च भावयेत् ॥ ४१॥
brahma-buddhyā tad-aikyam ca bhāvanayā japet .. tān eva brahmaraṃdhra-ādau kāyāt bāhye ca bhāvayet .. 41..
महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् ॥ एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः ॥ ४२॥
महत्-तत्त्वम् समारभ्य शरीरम् तु सहस्रकम् ॥ एकैकस्मात् जपात् एकम् अतिक्रम्य शनैस् शनैस् ॥ ४२॥
mahat-tattvam samārabhya śarīram tu sahasrakam .. ekaikasmāt japāt ekam atikramya śanais śanais .. 42..
परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् ॥ शतद्विदशकं देहं शिखाष्टकसमन्वितम् ॥ ४३॥
परस्मिन् योजयेत् जीवम् जपतत्त्वम् उदाहृतम् ॥ शत-द्वि-दशकम् देहम् शिखा-अष्टक-समन्वितम् ॥ ४३॥
parasmin yojayet jīvam japatattvam udāhṛtam .. śata-dvi-daśakam deham śikhā-aṣṭaka-samanvitam .. 43..
मंत्राणां जप एवं हि जपमादिक्रमाद्विदुः ॥ सहस्रं ब्राह्मदं विद्याच्छतमैंद्र प्रदं विदुः ॥ ४४॥
मंत्राणाम् जपे एवम् हि जपम् आदि-क्रमात् विदुः ॥ सहस्रम् ब्राह्म-दम् विद्यात् शतम् ऐंद्र प्रदम् विदुः ॥ ४४॥
maṃtrāṇām jape evam hi japam ādi-kramāt viduḥ .. sahasram brāhma-dam vidyāt śatam aiṃdra pradam viduḥ .. 44..
इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते ॥ दिवाकरमुपस्थाय नित्यमित्थं समाचरेत् ॥ ४५॥
इतरत् तु आत्म-रक्षा-अर्थम् ब्रह्मयोनिषु जायते ॥ दिवाकरम् उपस्थाय नित्यम् इत्थम् समाचरेत् ॥ ४५॥
itarat tu ātma-rakṣā-artham brahmayoniṣu jāyate .. divākaram upasthāya nityam ittham samācaret .. 45..
लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः ॥ गायत्र्! या लक्षहीनं तु वेदकार्येन योजयेत् ॥ ४६॥
लक्ष-द्वादश-युक्तः तु पूर्णब्राह्मणः ईरितः ॥ गायत्र! या लक्ष-हीनम् तु वेद-कार्येन योजयेत् ॥ ४६॥
lakṣa-dvādaśa-yuktaḥ tu pūrṇabrāhmaṇaḥ īritaḥ .. gāyatra! yā lakṣa-hīnam tu veda-kāryena yojayet .. 46..
आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् ॥ प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ॥ ४७॥
आसप्ततेः तु नियमम् पश्चात् प्रव्राजनम् चरेत् ॥ प्रातर् द्वादश-साहस्रम् प्रव्राजी-प्रणवम् जपेत् ॥ ४७॥
āsaptateḥ tu niyamam paścāt pravrājanam caret .. prātar dvādaśa-sāhasram pravrājī-praṇavam japet .. 47..
दिने दिने त्वतिक्रांते नित्यमेवं क्रमाज्जपेत् ॥ मासादौ क्रमशोऽतीते सार्धलक्षजपेन हि ॥ ४८॥
दिने दिने तु अतिक्रांते नित्यम् एवम् क्रमात् जपेत् ॥ मास-आदौ क्रमशस् अतीते सार्ध-लक्ष-जपेन हि ॥ ४८॥
dine dine tu atikrāṃte nityam evam kramāt japet .. māsa-ādau kramaśas atīte sārdha-lakṣa-japena hi .. 48..
अत ऊर्ध्वमतिक्रांते पुनः प्रैषं समाचरेत् ॥ एवं कृत्वा दोषशांतिरन्यथा रौरवं व्रजेत् ॥ ४९॥
अतस् ऊर्ध्वम् अतिक्रांते पुनर् प्रैषम् समाचरेत् ॥ एवम् कृत्वा दोष-शांतिः अन्यथा रौरवम् व्रजेत् ॥ ४९॥
atas ūrdhvam atikrāṃte punar praiṣam samācaret .. evam kṛtvā doṣa-śāṃtiḥ anyathā rauravam vrajet .. 49..
धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः ॥ ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत् १.१३. ॥ ५०॥
धर्म-अर्थयोः ततस् यत्नम् कुर्यात् कामी न च इतरः ॥ ब्राह्मणः मुक्ति-कामः स्यात् ब्रह्म-ज्ञानम् सदा अभ्यसेत्।१३। ॥ ५०॥
dharma-arthayoḥ tatas yatnam kuryāt kāmī na ca itaraḥ .. brāhmaṇaḥ mukti-kāmaḥ syāt brahma-jñānam sadā abhyaset.13. .. 50..
धर्मादर्थोऽर्थतो भोगो भोगाद्वैराग्यसंभवः ॥ धर्मार्जितार्थभोगेन वैराग्यमुपजायते ॥ ५१॥
धर्मात् अर्थः अर्थतः भोगः भोगात् वैराग्य-संभवः ॥ धर्म-अर्जित-अर्थ-भोगेन वैराग्यम् उपजायते ॥ ५१॥
dharmāt arthaḥ arthataḥ bhogaḥ bhogāt vairāgya-saṃbhavaḥ .. dharma-arjita-artha-bhogena vairāgyam upajāyate .. 51..
विपरीतार्थभोगेन राग एव प्रजायते ॥ धर्मश्च द्विविधः प्रोक्तो द्र व्यदेहद्वयेन च ॥ ५२॥
विपरीत-अर्थ-भोगेन रागः एव प्रजायते ॥ धर्मः च द्विविधः प्रोक्तः द्र-व्य-देह-द्वयेन च ॥ ५२॥
viparīta-artha-bhogena rāgaḥ eva prajāyate .. dharmaḥ ca dvividhaḥ proktaḥ dra-vya-deha-dvayena ca .. 52..
द्र व्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम् ॥ धनेन धनमाप्नोति तपसा दिव्यरूपताम् ॥ ५३॥
द्र व्यम् इज्या-आदि-रूपम् स्यात् तीर्थ-स्नान-आदि दैहिकम् ॥ धनेन धनम् आप्नोति तपसा दिव्य-रूप-ताम् ॥ ५३॥
dra vyam ijyā-ādi-rūpam syāt tīrtha-snāna-ādi daihikam .. dhanena dhanam āpnoti tapasā divya-rūpa-tām .. 53..
निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः ॥ कृतादौ हि तपःश्लोघ्यं द्र व्यधर्मः कलौ युगे ॥ ५४॥
निष्कामः शुद्धिम् आप्नोति शुद्ध्या ज्ञानम् न संशयः ॥ कृत-आदौ हि तपः-श्लोघ्यम् कलौ युगे ॥ ५४॥
niṣkāmaḥ śuddhim āpnoti śuddhyā jñānam na saṃśayaḥ .. kṛta-ādau hi tapaḥ-śloghyam kalau yuge .. 54..
कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा ॥ द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ॥ ५५॥
कृते ध्यानात् ज्ञान-सिद्धिः त्रेतायाम् तपसा तथा ॥ द्वापरे यजनात् ज्ञानम् प्रतिमा-पूजया कलौ ॥ ५५॥
kṛte dhyānāt jñāna-siddhiḥ tretāyām tapasā tathā .. dvāpare yajanāt jñānam pratimā-pūjayā kalau .. 55..
यादृशं पुण्यं पापं वा तादृशं फलमेव हि ॥ द्र व्यदेहांगभेदेन न्यूनवृद्धिक्षयादिकम् ॥ ५६॥
यादृशम् पुण्यम् पापम् वा तादृशम् फलम् एव हि ॥ द्र-व्य-देह-अंग-भेदेन न्यून-वृद्धि-क्षय-आदिकम् ॥ ५६॥
yādṛśam puṇyam pāpam vā tādṛśam phalam eva hi .. dra-vya-deha-aṃga-bhedena nyūna-vṛddhi-kṣaya-ādikam .. 56..
अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः ॥ अधर्माद्दुःखमाप्नोति धर्माद्वै सुखमेधते ॥ ५७॥
अधर्मः हिंसिका-रूपः धर्मः तु सुख-रूपकः ॥ अधर्मात् दुःखम् आप्नोति धर्मात् वै सुखम् एधते ॥ ५७॥
adharmaḥ hiṃsikā-rūpaḥ dharmaḥ tu sukha-rūpakaḥ .. adharmāt duḥkham āpnoti dharmāt vai sukham edhate .. 57..
विद्यादुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः ॥ धर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये ॥ ५८॥
विद्या-दुर्वृत्तितः दुःखम् सुखम् विद्यात् सु वृत्तितः ॥ धर्म-अर्जनम् अतस् कुर्यात् भोग-मोक्ष-प्रसिद्धये ॥ ५८॥
vidyā-durvṛttitaḥ duḥkham sukham vidyāt su vṛttitaḥ .. dharma-arjanam atas kuryāt bhoga-mokṣa-prasiddhaye .. 58..
सकुटुंबस्य विप्रस्य चतुर्जनयुतस्य च ॥ शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम् ॥ ५९॥
स कुटुम्बस्य विप्रस्य चतुर्-जन-युतस्य च ॥ शत-वर्षस्य वृत्तिम् तु दद्यात् तत् ब्रह्म-लोक-दम् ॥ ५९॥
sa kuṭumbasya viprasya catur-jana-yutasya ca .. śata-varṣasya vṛttim tu dadyāt tat brahma-loka-dam .. 59..
चांद्रा यणसहस्रं तु ब्रह्मलोकप्रदं विदुः ॥ सहस्रस्य कुटुंबस्य प्रतिष्ठां क्षत्रियश्चरेत् १.१३. ॥ ६०॥
चांद्रा यण-सहस्रम् तु ब्रह्म-लोक-प्रदम् विदुः ॥ सहस्रस्य कुटुम्बस्य प्रतिष्ठाम् क्षत्रियः चरेत्।१३। ॥ ६०॥
cāṃdrā yaṇa-sahasram tu brahma-loka-pradam viduḥ .. sahasrasya kuṭumbasya pratiṣṭhām kṣatriyaḥ caret.13. .. 60..
इंद्र लोकप्रदं विद्यादयुतं ब्रह्मलोकदम् ॥ यां देवतां पुरस्कृत्य दानमाचरते नरः ॥ ६१॥
इंद्र लोक-प्रदम् विद्यात् अयुतम् ब्रह्म-लोक-दम् ॥ याम् देवताम् पुरस्कृत्य दानम् आचरते नरः ॥ ६१॥
iṃdra loka-pradam vidyāt ayutam brahma-loka-dam .. yām devatām puraskṛtya dānam ācarate naraḥ .. 61..
तत्तल्लोकमवाप्नोति इति वेदविदो विदुः ॥ अर्थहीनः सदा कुर्यात्तपसा मार्जनं तथा ॥ ६२॥
तत् तत् लोकम् अवाप्नोति इति वेद-विदः विदुः ॥ अर्थ-हीनः सदा कुर्यात् तपसा मार्जनम् तथा ॥ ६२॥
tat tat lokam avāpnoti iti veda-vidaḥ viduḥ .. artha-hīnaḥ sadā kuryāt tapasā mārjanam tathā .. 62..
तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते ॥ अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः ॥ ६३॥
तीर्थात् च तपसा प्राप्यम् सुखम् अक्षय्यम् अश्नुते ॥ अर्थ-अर्जनम् अथो वक्ष्ये न्यायतः सु समाहितः ॥ ६३॥
tīrthāt ca tapasā prāpyam sukham akṣayyam aśnute .. artha-arjanam atho vakṣye nyāyataḥ su samāhitaḥ .. 63..
कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धितः ॥ अदैन्यादनतिक्लेशाद्ब्राह्मणो धनमर्जयेत् ॥ ६४॥
कृतात् प्रतिग्रहात् च एव याजनात् च विशुद्धितः ॥ अदैन्यात् अनतिक्लेशात् ब्राह्मणः धनम् अर्जयेत् ॥ ६४॥
kṛtāt pratigrahāt ca eva yājanāt ca viśuddhitaḥ .. adainyāt anatikleśāt brāhmaṇaḥ dhanam arjayet .. 64..
क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः ॥ न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते ॥ ६५॥
क्षत्रियः बाहु-वीर्येण कृषि-गो-रक्षणात् विशः ॥ न्याय-अर्जितस्य वित्तस्य दानात् सिद्धिम् समश्नुते ॥ ६५॥
kṣatriyaḥ bāhu-vīryeṇa kṛṣi-go-rakṣaṇāt viśaḥ .. nyāya-arjitasya vittasya dānāt siddhim samaśnute .. 65..
ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् ॥ मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ॥ ६६॥
ज्ञान-सिद्ध्या मोक्ष-सिद्धिः सर्वेषाम् गुरु-अनुग्रहात् ॥ मोक्षात् स्व-रूप-सिद्धिः स्यात् पर-आनन्दम् समश्नुते ॥ ६६॥
jñāna-siddhyā mokṣa-siddhiḥ sarveṣām guru-anugrahāt .. mokṣāt sva-rūpa-siddhiḥ syāt para-ānandam samaśnute .. 66..
सत्संगात्सर्वमेतद्वै नराणां जायते द्विजाः ॥ धनधान्यादिकं सर्वं देयं वै गृहमेधिना ॥ ६७॥
सत्-संगात् सर्वम् एतत् वै नराणाम् जायते द्विजाः ॥ धन-धान्य-आदिकम् सर्वम् देयम् वै गृहमेधिना ॥ ६७॥
sat-saṃgāt sarvam etat vai narāṇām jāyate dvijāḥ .. dhana-dhānya-ādikam sarvam deyam vai gṛhamedhinā .. 67..
यद्यत्काले वस्तुजातं फलं वा धान्यमेव च ॥ तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ॥ ६८॥
यत् यत् काले वस्तु-जातम् फलम् वा धान्यम् एव च ॥ तत् तत् सर्वम् ब्राह्मणेभ्यः देयम् वै हितम् इच्छता ॥ ६८॥
yat yat kāle vastu-jātam phalam vā dhānyam eva ca .. tat tat sarvam brāhmaṇebhyaḥ deyam vai hitam icchatā .. 68..
जलं चैव सदा देयमन्नं क्षुद्व्याधिशांतये ॥ क्षेत्रं धान्यं तथाऽऽमान्नमन्नमेवं चतुर्विधम् ॥ ६९॥
जलम् च एव सदा देयम् अन्नम् क्षुध्-व्याधि-शांतये ॥ क्षेत्रम् धान्यम् तथा आम-अन्नम् अन्नम् एवम् चतुर्विधम् ॥ ६९॥
jalam ca eva sadā deyam annam kṣudh-vyādhi-śāṃtaye .. kṣetram dhānyam tathā āma-annam annam evam caturvidham .. 69..
यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते ॥ तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः १.१३. ॥ ७०॥
यावत्कालम् यत् अन्नम् वै भुक्त्वा श्रवणम् एधते ॥ तावत्-कृतस्य पुण्यस्य तु अर्धम् दातुः न संशयः।१३। ॥ ७०॥
yāvatkālam yat annam vai bhuktvā śravaṇam edhate .. tāvat-kṛtasya puṇyasya tu ardham dātuḥ na saṃśayaḥ.13. .. 70..
ग्रहीताहिगृहीतस्य दानाद्वै तपसा तथा ॥ पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत् ॥ ७१॥
ग्रहीता अहि-गृहीतस्य दानात् वै तपसा तथा ॥ पाप-संशोधनम् कुर्यात् अन्यथा रौरवम् व्रजेत् ॥ ७१॥
grahītā ahi-gṛhītasya dānāt vai tapasā tathā .. pāpa-saṃśodhanam kuryāt anyathā rauravam vrajet .. 71..
आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः ॥ नित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः ॥ ७२॥
आत्म-वित्तम् त्रिधा कुर्यात् धर्म-वृद्धि-आत्म-भोगतः ॥ नित्यम् नैमित्तकम् काम्यम् कर्म कुर्यात् तु धर्मतः ॥ ७२॥
ātma-vittam tridhā kuryāt dharma-vṛddhi-ātma-bhogataḥ .. nityam naimittakam kāmyam karma kuryāt tu dharmataḥ .. 72..
वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः ॥ हितेन मितमे ध्येन भोगं भोगांशतश्चरेत् ॥ ७३॥
वित्तस्य वर्धनम् कुर्यात् वृद्धि-अंशेन हि साधकः ॥ हितेन मितमे ध्येन भोगम् भोग-अंशतः चरेत् ॥ ७३॥
vittasya vardhanam kuryāt vṛddhi-aṃśena hi sādhakaḥ .. hitena mitame dhyena bhogam bhoga-aṃśataḥ caret .. 73..
कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये ॥ शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत् ॥ ७४॥
कृषि-अर्जिते दश-अंशम् हि देयम् पापस्य शुद्धये ॥ शेषेण कुर्यात् धर्म-आदि अन्यथा रौरवम् व्रजेत् ॥ ७४॥
kṛṣi-arjite daśa-aṃśam hi deyam pāpasya śuddhaye .. śeṣeṇa kuryāt dharma-ādi anyathā rauravam vrajet .. 74..
अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति ॥ वृद्धिवाणिज्यके देयष्षडंशो हि विचक्षणैः ॥ ७५॥
अथवा पाप-बुद्धिः स्यात् क्षयम् वा सत्यम् एष्यति ॥ वृद्धि-वाणिज्यके देयः षष्-अंशः हि विचक्षणैः ॥ ७५॥
athavā pāpa-buddhiḥ syāt kṣayam vā satyam eṣyati .. vṛddhi-vāṇijyake deyaḥ ṣaṣ-aṃśaḥ hi vicakṣaṇaiḥ .. 75..
शुद्धप्रतिग्रहे देयश्चतुर्थांशो द्विजोत्तमैः ॥ अकस्मादुत्थितेऽर्थे हि देयमर्धं द्विजोत्तमैः ॥ ७६॥
शुद्ध-प्रतिग्रहे देयः चतुर्थ-अंशः द्विजोत्तमैः ॥ अकस्मात् उत्थिते अर्थे हि देयम् अर्धम् द्विजोत्तमैः ॥ ७६॥
śuddha-pratigrahe deyaḥ caturtha-aṃśaḥ dvijottamaiḥ .. akasmāt utthite arthe hi deyam ardham dvijottamaiḥ .. 76..
असत्प्रतिग्रहसर्वं दुर्दानं सागरे क्षिपेत् ॥ आहूय दानं कर्तव्यमात्मभोगसमृद्धये ॥ ७७॥
असत्-प्रतिग्रह-सर्वम् दुर्दानम् सागरे क्षिपेत् ॥ आहूय दानम् कर्तव्यम् आत्म-भोग-समृद्धये ॥ ७७॥
asat-pratigraha-sarvam durdānam sāgare kṣipet .. āhūya dānam kartavyam ātma-bhoga-samṛddhaye .. 77..
पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः ब् ॥ जन्मांतरे ऋणी हि स्याददत्ते पृष्टवस्तुनि ॥ ७८॥
पृष्टम् सर्वम् सदा देयम् आत्म-शक्ति-अनुसारतः ॥ जन्मांतरे ऋणी हि स्यात् अदत्ते पृष्ट-वस्तुनि ॥ ७८॥
pṛṣṭam sarvam sadā deyam ātma-śakti-anusārataḥ .. janmāṃtare ṛṇī hi syāt adatte pṛṣṭa-vastuni .. 78..
परेषां च तथा दोषं न प्रशंसेद्विचक्षणः ॥ विशेषेण तथा ब्रह्मञ्छ्रुतं दृष्टं च नो वदेत् ॥ ७९॥
परेषाम् च तथा दोषम् न प्रशंसेत् विचक्षणः ॥ विशेषेण तथा ब्रह्मन् श्रुतम् दृष्टम् च नः वदेत् ॥ ७९॥
pareṣām ca tathā doṣam na praśaṃset vicakṣaṇaḥ .. viśeṣeṇa tathā brahman śrutam dṛṣṭam ca naḥ vadet .. 79..
न वदेत्सर्वजंतूनां हृदि रोषकरं बुधः ॥ संध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये १.१३. ॥ ८०॥
न वदेत् सर्व-जंतूनाम् हृदि रोष-करम् बुधः ॥ संध्ययोः अग्नि-कार्यम् च कुर्यात् ऐश्वर्य-सिद्धये।१३। ॥ ८०॥
na vadet sarva-jaṃtūnām hṛdi roṣa-karam budhaḥ .. saṃdhyayoḥ agni-kāryam ca kuryāt aiśvarya-siddhaye.13. .. 80..
अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि ॥ तंडुलं धान्यमाज्यं वा फलं कंदं हविस्तथा ॥ ८१॥
अशक्तः तु एक-काले वा सूर्य-अग्नी च यथाविधि ॥ तंडुलम् धान्यम् आज्यम् वा फलम् कंदम् हविः तथा ॥ ८१॥
aśaktaḥ tu eka-kāle vā sūrya-agnī ca yathāvidhi .. taṃḍulam dhānyam ājyam vā phalam kaṃdam haviḥ tathā .. 81..
स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि ॥ प्रधानहोममात्रं वा हव्याभावे समाचरेत् ॥ ८२॥
स्थालीपाकम् तथा कुर्यात् यथान्यायम् यथाविधि ॥ प्रधान-होम-मात्रम् वा हव्य-अभावे समाचरेत् ॥ ८२॥
sthālīpākam tathā kuryāt yathānyāyam yathāvidhi .. pradhāna-homa-mātram vā havya-abhāve samācaret .. 82..
नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः ॥ अथवा जपमात्रं वा सूर्यवंदनमेव च ॥ ८३॥
नित्य-संधानम् इति उक्तम् तम् अजस्रम् विदुः बुधाः ॥ अथवा जप-मात्रम् वा सूर्य-वंदनम् एव च ॥ ८३॥
nitya-saṃdhānam iti uktam tam ajasram viduḥ budhāḥ .. athavā japa-mātram vā sūrya-vaṃdanam eva ca .. 83..
एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ॥ ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ॥ ८४॥
एवम् आत्म-अर्थिनः कुर्युः अर्थ-अर्थी च यथाविधि ॥ ब्रह्मयज्ञ-रताः नित्यम् देव-पूजा-रताः तथा ॥ ८४॥
evam ātma-arthinaḥ kuryuḥ artha-arthī ca yathāvidhi .. brahmayajña-ratāḥ nityam deva-pūjā-ratāḥ tathā .. 84..
अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ॥ ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ॥ ८५॥
अग्नि-पूजा-पराः नित्यम् गुरु-पूजा-रताः तथा ॥ ब्राह्मणानाम् तृप्ति-कराः सर्वे स्वर्गस्य भागिनः ॥ ८५॥
agni-pūjā-parāḥ nityam guru-pūjā-ratāḥ tathā .. brāhmaṇānām tṛpti-karāḥ sarve svargasya bhāginaḥ .. 85..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां त्रयोदशोऽध्यायः ॥ ८६॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् त्रयोदशः अध्यायः ॥ ८६॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām trayodaśaḥ adhyāyaḥ .. 86..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In