| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
अग्नियज्ञं देवयज्क्तं ब्रह्मयज्क्तं तथैव च ॥ गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ॥ १॥
अग्नि-यज्ञम् देव-यज्क्तम् ब्रह्म-यज्क्तम् तथा एव च ॥ गुरु-पूजाम् ब्रह्म-तृप्तिम् क्रमेण ब्रूहि नः प्रभो ॥ १॥
agni-yajñam deva-yajktam brahma-yajktam tathā eva ca .. guru-pūjām brahma-tṛptim krameṇa brūhi naḥ prabho .. 1..
सूत उवाच ।
अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ॥ ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ॥ २॥
अग्नौ जुहोति यत् द्रव्यम् अग्नि-यज्ञः सः उच्यते ॥ ब्रह्मचर्य-आश्रम-स्थानाम् समिध्-आधानम् एव हि ॥ २॥
agnau juhoti yat dravyam agni-yajñaḥ saḥ ucyate .. brahmacarya-āśrama-sthānām samidh-ādhānam eva hi .. 2..
समिदग्रौ व्रताद्यं च विशेषयजनादिकम् ॥ प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ॥ ३॥
समिध्-अग्रौ व्रत-आद्यम् च विशेष-यजन-आदिकम् ॥ प्रथम-आश्रमिणाम् एवम् यावत् औपासनम् द्विजाः ॥ ३॥
samidh-agrau vrata-ādyam ca viśeṣa-yajana-ādikam .. prathama-āśramiṇām evam yāvat aupāsanam dvijāḥ .. 3..
आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ॥ हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ॥ ४॥
आत्मनि आरोपित-अग्नीनाम् वनिनाम् यतिनाम् द्विजाः ॥ हितम् च मित-मेध्य-अन्नम् स्व-काले भोजनम् हुतिः ॥ ४॥
ātmani āropita-agnīnām vaninām yatinām dvijāḥ .. hitam ca mita-medhya-annam sva-kāle bhojanam hutiḥ .. 4..
औपासनाग्निसंधानं समारभ्य सुरक्षितम् ॥ कुंडे वाप्यथ भांडे वा तदजस्रं समीरितम् ॥ ५॥
औपासन-अग्नि-संधानम् समारभ्य सु रक्षितम् ॥ कुंडे वा अपि अथ भांडे वा तत् अजस्रम् समीरितम् ॥ ५॥
aupāsana-agni-saṃdhānam samārabhya su rakṣitam .. kuṃḍe vā api atha bhāṃḍe vā tat ajasram samīritam .. 5..
अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम् ॥ अग्नित्यागभयादुक्तं समारोपितमुच्यते ॥ ६॥
अग्निम् आत्मनि अरण्याम् वा राज-दैव-वशात् ध्रुवम् ॥ अग्नि-त्याग-भयात् उक्तम् समारोपितम् उच्यते ॥ ६॥
agnim ātmani araṇyām vā rāja-daiva-vaśāt dhruvam .. agni-tyāga-bhayāt uktam samāropitam ucyate .. 6..
संपत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः ॥ आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा ॥ ७॥
संपत्-करी तथा ज्ञेया सायम् अग्नि-आहुतिः द्विजाः ॥ आयुष्करी इति विज्ञेया प्रातर् सूर्य-आहुतिः तथा ॥ ७॥
saṃpat-karī tathā jñeyā sāyam agni-āhutiḥ dvijāḥ .. āyuṣkarī iti vijñeyā prātar sūrya-āhutiḥ tathā .. 7..
अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् ॥ इंद्रा दीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत् ॥ ८॥
अग्नि-यज्ञः हि अयम् प्रोक्तः दिवा सूर्य-निवेशनात् ॥ इंद्र-आदीन् सकलान् देवान् उद्दिश्य अग्नौ जुहोति यत् ॥ ८॥
agni-yajñaḥ hi ayam proktaḥ divā sūrya-niveśanāt .. iṃdra-ādīn sakalān devān uddiśya agnau juhoti yat .. 8..
देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् ॥ चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम् ॥ ९॥
देवयज्ञम् हि तम् विद्यात् स्थालीपाक-आदिकान् क्रतून् ॥ चौल-आदिकम् तथा ज्ञेयम् लौकिक-अग्नौ प्रतिष्ठितम् ॥ ९॥
devayajñam hi tam vidyāt sthālīpāka-ādikān kratūn .. caula-ādikam tathā jñeyam laukika-agnau pratiṣṭhitam .. 9..
ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् ॥ ब्रह्मयज्ञ इति प्रोक्तो वेदस्याऽध्ययनं भवेत् १.१४. ॥ १०॥
ब्रह्मयज्ञम् द्विजः कुर्यात् देवानाम् तृप्तये सकृत् ॥ ब्रह्मयज्ञः इति प्रोक्तः वेदस्य अध्ययनम् भवेत्।१४। ॥ १०॥
brahmayajñam dvijaḥ kuryāt devānām tṛptaye sakṛt .. brahmayajñaḥ iti proktaḥ vedasya adhyayanam bhavet.14. .. 10..
नित्यानंतरमासोयं ततस्तु न विधीयते ॥ अनग्नौ देवयजनं शृणुत श्रद्धयादरात् ॥ ११॥
नित्य-अनन्तर-मासः इयम् ततस् तु न विधीयते ॥ अनग्नौ देवयजनम् शृणुत श्रद्धया आदरात् ॥ ११॥
nitya-anantara-māsaḥ iyam tatas tu na vidhīyate .. anagnau devayajanam śṛṇuta śraddhayā ādarāt .. 11..
आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः ॥ सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः ॥ १२॥
आदि-सृष्टौ महादेवः सर्वज्ञः करुणाकरः ॥ सर्व-लोक-उपकार-अर्थम् वारान् कल्पितवान् प्रभुः ॥ १२॥
ādi-sṛṣṭau mahādevaḥ sarvajñaḥ karuṇākaraḥ .. sarva-loka-upakāra-artham vārān kalpitavān prabhuḥ .. 12..
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः ॥ १३॥
सर्व ॥ आदौ आरोग्य-दम् वारम् स्व-वारम् कृतवान् प्रभुः ॥ १३॥
sarva .. ādau ārogya-dam vāram sva-vāram kṛtavān prabhuḥ .. 13..
संपत्कारं स्वमायाया वरं च कृतवांस्ततः ॥ जनने दुर्गतिक्रांते कुमारस्य ततः परम् ॥ १४॥
संपत्-कारम् स्व-मायायाः वरम् च कृतवान् ततस् ॥ जनने दुर्गति-क्रांते कुमारस्य ततस् परम् ॥ १४॥
saṃpat-kāram sva-māyāyāḥ varam ca kṛtavān tatas .. janane durgati-krāṃte kumārasya tatas param .. 14..
आलस्यदुरितक्रांत्यै वारं कल्पितवान्प्रभुः ॥ रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया ॥ १५॥
आलस्य-दुरित-क्रान्त्यै वारम् कल्पितवान् प्रभुः ॥ रक्षकस्य तथा विष्णोः लोकानाम् हित-काम्यया ॥ १५॥
ālasya-durita-krāntyai vāram kalpitavān prabhuḥ .. rakṣakasya tathā viṣṇoḥ lokānām hita-kāmyayā .. 15..
पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः ॥ आयुष्करं ततो वारमायुषां कर्तुरेव हि ॥ १६॥
पुष्टि-अर्थम् च एव रक्षा-अर्थम् वारम् कल्पितवान् प्रभुः ॥ आयुष्करम् ततस् वारम् आयुषाम् कर्तुः एव हि ॥ १६॥
puṣṭi-artham ca eva rakṣā-artham vāram kalpitavān prabhuḥ .. āyuṣkaram tatas vāram āyuṣām kartuḥ eva hi .. 16..
त्रैलोक्यसृष्टिकर्त्तुर्हि ब्रह्मणः परमेष्ठिनः ॥ जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः ॥ १७॥
त्रैलोक्य-सृष्टि-कर्त्तुः हि ब्रह्मणः परमेष्ठिनः ॥ जगत्-आयुष्य-सिद्धि-अर्थम् वारम् कल्पितवान् प्रभुः ॥ १७॥
trailokya-sṛṣṭi-karttuḥ hi brahmaṇaḥ parameṣṭhinaḥ .. jagat-āyuṣya-siddhi-artham vāram kalpitavān prabhuḥ .. 17..
आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते ॥ तयोः कर्त्रोस्ततो वारमिंद्र स्य च यमस्य च ॥ १८॥
आदौ त्रैलोक्य-वृद्धि-अर्थम् पुण्य-पापे प्रकल्पिते ॥ तयोः कर्त्रोः ततस् वारम् इंद्र च यमस्य च ॥ १८॥
ādau trailokya-vṛddhi-artham puṇya-pāpe prakalpite .. tayoḥ kartroḥ tatas vāram iṃdra ca yamasya ca .. 18..
भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम् ॥ आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान् ॥ १९॥
भोग-प्रदम् मृत्यु-हरम् लोकानाम् च प्रकल्पितम् ॥ आदित्य-आदीन् स्व-स्वरूपान् सुख-दुःखस्य सूचकान् ॥ १९॥
bhoga-pradam mṛtyu-haram lokānām ca prakalpitam .. āditya-ādīn sva-svarūpān sukha-duḥkhasya sūcakān .. 19..
वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान् ॥ स्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा १.१४. ॥ २०॥
वार-ईशान् कल्पयित्वा आदौ ज्योतिश्चक्रे प्रतिष्ठितान् ॥ स्व-स्व-वारे तु तेषाम् तु पूजा स्व-स्व-फल-प्रदा।१४। ॥ २०॥
vāra-īśān kalpayitvā ādau jyotiścakre pratiṣṭhitān .. sva-sva-vāre tu teṣām tu pūjā sva-sva-phala-pradā.14. .. 20..
आरोग्यं संपदश्चैव व्याधीनां शांतिरेव च ॥ पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम् ॥ २१॥
आरोग्यम् संपदः च एव व्याधीनाम् शांतिः एव च ॥ पुष्टिः आयुः तथा भोगः मृतेः हानिः यथाक्रमम् ॥ २१॥
ārogyam saṃpadaḥ ca eva vyādhīnām śāṃtiḥ eva ca .. puṣṭiḥ āyuḥ tathā bhogaḥ mṛteḥ hāniḥ yathākramam .. 21..
वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम् ॥ अन्येषामपि देवानां पूजायाः फलदः शिवः ॥ २२॥
वार-क्रम-फलम् प्राहुः देव-प्रीति-पुरःसरम् ॥ अन्येषाम् अपि देवानाम् पूजायाः फल-दः शिवः ॥ २२॥
vāra-krama-phalam prāhuḥ deva-prīti-puraḥsaram .. anyeṣām api devānām pūjāyāḥ phala-daḥ śivaḥ .. 22..
देवानां प्रीतये पूजापंचधैव प्रकल्पिता ॥ तत्तन्मंत्रजपो होमो दानं चैव तपस्तथा ॥ २३॥
देवानाम् प्रीतये पूजा पंचधा एव प्रकल्पिता ॥ तद्-तद्-मंत्र-जपः होमः दानम् च एव तपः तथा ॥ २३॥
devānām prītaye pūjā paṃcadhā eva prakalpitā .. tad-tad-maṃtra-japaḥ homaḥ dānam ca eva tapaḥ tathā .. 23..
स्थंडिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे ॥ समाराधनमित्येवं षोडशैरुपचारकैः ॥ २४॥
स्थंडिले प्रतिमायाम् च हि अग्नौ ब्राह्मण-विग्रहे ॥ समाराधनम् इति एवम् षोडशैः उपचारकैः ॥ २४॥
sthaṃḍile pratimāyām ca hi agnau brāhmaṇa-vigrahe .. samārādhanam iti evam ṣoḍaśaiḥ upacārakaiḥ .. 24..
उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम् ॥ नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शांतये ॥ २५॥
उत्तर-उत्तर-वैशिष्ट्यात् पूर्व-अभावे तथा उत्तरम् ॥ नेत्रयोः शिरसः रोगे तथा कुष्ठस्य शांतये ॥ २५॥
uttara-uttara-vaiśiṣṭyāt pūrva-abhāve tathā uttaram .. netrayoḥ śirasaḥ roge tathā kuṣṭhasya śāṃtaye .. 25..
आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः ॥ दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा ॥ २६॥
आदित्यम् पूजयित्वा तु ब्राह्मणान् भोजयेत् ततस् ॥ दिनम् मासम् तथा वर्षम् वर्ष-त्रयम् अथवा अपि वा ॥ २६॥
ādityam pūjayitvā tu brāhmaṇān bhojayet tatas .. dinam māsam tathā varṣam varṣa-trayam athavā api vā .. 26..
प्रारब्धं प्रबलं चेत्स्यान्नश्येद्रो गजरादिकम् ॥ जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः ॥ २७॥
प्रारब्धम् प्रबलम् चेद् स्यात् नश्येत् रः गजर-आदिकम् ॥ जप-आद्यम् इष्टदेवस्य वार-आदीनाम् फलम् विदुः ॥ २७॥
prārabdham prabalam ced syāt naśyet raḥ gajara-ādikam .. japa-ādyam iṣṭadevasya vāra-ādīnām phalam viduḥ .. 27..
पापशांतिर्विशेषेण ह्यादिवारे निवेदयेत् ॥ आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम् ॥ २८॥
पाप-शांतिः विशेषेण हि आदिवारे निवेदयेत् ॥ आदित्यस्य एव देवानाम् ब्राह्मणानाम् विशिष्ट-दम् ॥ २८॥
pāpa-śāṃtiḥ viśeṣeṇa hi ādivāre nivedayet .. ādityasya eva devānām brāhmaṇānām viśiṣṭa-dam .. 28..
सोमवारे च लक्ष्म्यादीन्संपदर्थं यजेद्बुधः ॥ आज्यान्नेन तथा विप्रान्सपत्नीकांश्च भोजयेत् ॥ २९॥
सोमवारे च लक्ष्मी-आदीन् संपद्-अर्थम् यजेत् बुधः ॥ आज्य-अन्नेन तथा विप्रान् स पत्नीकान् च भोजयेत् ॥ २९॥
somavāre ca lakṣmī-ādīn saṃpad-artham yajet budhaḥ .. ājya-annena tathā viprān sa patnīkān ca bhojayet .. 29..
काल्यादीन्भौम वारे तु यजेद्रो गप्रशांतये ॥ माषमुद्गाढकान्नेन ब्रह्मणांश्चैव भोजयेत् १.१४. ॥ ३०॥
काली-आदीन् भौम वारे तु यजेत् रो ग-प्रशान्तये ॥ माष-मुद्ग-आढक-अन्नेन ब्रह्मणान् च एव भोजयेत्।१४। ॥ ३०॥
kālī-ādīn bhauma vāre tu yajet ro ga-praśāntaye .. māṣa-mudga-āḍhaka-annena brahmaṇān ca eva bhojayet.14. .. 30..
सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्बुधः ॥ पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा ॥ ३१॥
सौम्यवारे तथा विष्णुम् दधि-अन्नेन यजेत् बुधः ॥ पुत्र-मित्र-कलत्र-आदि-पुष्टिः भवति सर्वदा ॥ ३१॥
saumyavāre tathā viṣṇum dadhi-annena yajet budhaḥ .. putra-mitra-kalatra-ādi-puṣṭiḥ bhavati sarvadā .. 31..
आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये ॥ उपवीतेन वस्त्रेण क्षीराज्येन यजेद्बुधः ॥ ३२॥
आयुष्कामः गुरोः वारे देवानाम् पुष्टि-सिद्धये ॥ उपवीतेन वस्त्रेण क्षीर-आज्येन यजेत् बुधः ॥ ३२॥
āyuṣkāmaḥ guroḥ vāre devānām puṣṭi-siddhaye .. upavītena vastreṇa kṣīra-ājyena yajet budhaḥ .. 32..
भोगार्थं भृगवारे तु यजेद्देवान्समाहितः ॥ षड्रसोपेतमन्नं च दद्याद्ब्राह्मणतृप्तये ॥ ३३॥
भोग-अर्थम् भृगवारे तु यजेत् देवान् समाहितः ॥ षष्-रस-उपेतम् अन्नम् च दद्यात् ब्राह्मण-तृप्तये ॥ ३३॥
bhoga-artham bhṛgavāre tu yajet devān samāhitaḥ .. ṣaṣ-rasa-upetam annam ca dadyāt brāhmaṇa-tṛptaye .. 33..
स्त्रीणां च तृप्तये तद्वद्देयं वस्त्रादिकं शुभम् ॥ अपमृत्युहरे मंदे रुद्रा द्री श्चं! यजेद्बुधः ॥ ३४॥
स्त्रीणाम् च तृप्तये तद्वत् देयम् वस्त्र-आदिकम् शुभम् ॥ अपमृत्यु-हरे मंदे रुद्राः द्री श्चं! यजेत् बुधः ॥ ३४॥
strīṇām ca tṛptaye tadvat deyam vastra-ādikam śubham .. apamṛtyu-hare maṃde rudrāḥ drī ścaṃ! yajet budhaḥ .. 34..
तिलहोमेन दानेन तिलान्नेन च भोजयेत् ॥ इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत् ॥ ३५॥
तिल-होमेन दानेन तिल-अन्नेन च भोजयेत् ॥ इत्थम् यजेत् च विबुधान् आरोग्य-आदि-फलम् लभेत् ॥ ३५॥
tila-homena dānena tila-annena ca bhojayet .. ittham yajet ca vibudhān ārogya-ādi-phalam labhet .. 35..
देवानां नित्ययजने विशेषयजनेपि च ॥ स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे ॥ ३६॥
देवानाम् नित्य-यजने विशेष-यजने अपि च ॥ स्नाने दाने जपे होमे ब्राह्मणानाम् च तर्पणे ॥ ३६॥
devānām nitya-yajane viśeṣa-yajane api ca .. snāne dāne jape home brāhmaṇānām ca tarpaṇe .. 36..
तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने ॥ आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः ॥ ३७॥
तिथि-नक्षत्र-योगे च तद्-तद्-देव-प्रपूजने ॥ आदिवार-आदिवारेषु सर्वज्ञः जगत्-ईश्वरः ॥ ३७॥
tithi-nakṣatra-yoge ca tad-tad-deva-prapūjane .. ādivāra-ādivāreṣu sarvajñaḥ jagat-īśvaraḥ .. 37..
तत्तद्रू पेण सर्वेषामारोग्यादिफलप्रदः ॥ देशकालानुसारेण तथा पात्रानुसारतः ॥ ३८॥
तद्-तद्-रूपेण सर्वेषाम् आरोग्य-आदि-फल-प्रदः ॥ देश-काल-अनुसारेण तथा पात्र-अनुसारतः ॥ ३८॥
tad-tad-rūpeṇa sarveṣām ārogya-ādi-phala-pradaḥ .. deśa-kāla-anusāreṇa tathā pātra-anusārataḥ .. 38..
द्र व्यश्रद्धानुसारेण तथा लोकानुसारतः ब् ॥ तारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति ॥ ३९॥
द्र-व्य-श्रद्धा-अनुसारेण तथा लोक-अनुसारतः ॥ तारतम्य-क्रमात् देवः तु आरोग्य-आदीन् प्रयच्छति ॥ ३९॥
dra-vya-śraddhā-anusāreṇa tathā loka-anusārataḥ .. tāratamya-kramāt devaḥ tu ārogya-ādīn prayacchati .. 39..
शुभादावशुभांते च जन्मर्क्षेषु गृहे गृही ॥ आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत् १.१४. ॥ ४०॥
शुभ-आदौ अशुभ-अंते च जन्म-ऋक्षेषु गृहे गृही ॥ आरोग्य-आदि-समृद्धि-अर्थम् आदित्य-आदीन् ग्रहान् यजेत्।१४। ॥ ४०॥
śubha-ādau aśubha-aṃte ca janma-ṛkṣeṣu gṛhe gṛhī .. ārogya-ādi-samṛddhi-artham āditya-ādīn grahān yajet.14. .. 40..
तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम् ॥ समंत्रकं ब्राह्मणानामन्येषां चैव तांत्रिकम् ॥ ४१॥
तस्मात् वै देवयजनम् सर्व-अभीष्ट-फल-प्रदम् ॥ स मंत्रकम् ब्राह्मणानाम् अन्येषाम् च एव तांत्रिकम् ॥ ४१॥
tasmāt vai devayajanam sarva-abhīṣṭa-phala-pradam .. sa maṃtrakam brāhmaṇānām anyeṣām ca eva tāṃtrikam .. 41..
यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः ॥ सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ॥ ४२॥
यथाशक्त्या अनुरूपेण कर्तव्यम् सर्वदा नरैः ॥ सप्तसु अपि च वारेषु नरैः शुभ-फल-ईप्सुभिः ॥ ४२॥
yathāśaktyā anurūpeṇa kartavyam sarvadā naraiḥ .. saptasu api ca vāreṣu naraiḥ śubha-phala-īpsubhiḥ .. 42..
दरिद्र स्तपसा देवान्यजेदाढ्यो धनेन हि ॥ पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह ॥ ४३॥
दरिद्रः स्तपसा देवान् यजेत् आढ्यः धनेन हि ॥ पुनर् च एवंविधम् धर्मम् कुरुते श्रद्धया सह ॥ ४३॥
daridraḥ stapasā devān yajet āḍhyaḥ dhanena hi .. punar ca evaṃvidham dharmam kurute śraddhayā saha .. 43..
पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ॥ छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम् ॥ ४४॥
पुनर् च भोगान् विविधान् भुक्त्वा भूमौ प्रजायते ॥ छायाम् जलाशयम् ब्रह्म-प्रतिष्ठाम् धर्म-संचयम् ॥ ४४॥
punar ca bhogān vividhān bhuktvā bhūmau prajāyate .. chāyām jalāśayam brahma-pratiṣṭhām dharma-saṃcayam .. 44..
सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ॥ कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ॥ ४५॥
सर्वम् च वित्तवान् कुर्यात् सदा भोग-प्रसिद्धये ॥ कालात् च पुण्य-पाकेन ज्ञान-सिद्धिः प्रजायते ॥ ४५॥
sarvam ca vittavān kuryāt sadā bhoga-prasiddhaye .. kālāt ca puṇya-pākena jñāna-siddhiḥ prajāyate .. 45..
य इमं शृणुतेऽध्यायं पठते वा नरो द्विजाः ॥ श्रवणस्योपकर्त्ता च देवयज्ञफलं लभेत् ॥ ४६॥
यः इमम् शृणुते अध्यायम् पठते वा नरः द्विजाः ॥ श्रवणस्य उपकर्त्ता च देवयज्ञ-फलम् लभेत् ॥ ४६॥
yaḥ imam śṛṇute adhyāyam paṭhate vā naraḥ dvijāḥ .. śravaṇasya upakarttā ca devayajña-phalam labhet .. 46..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां चतुर्दशोऽध्यायः ॥ ४७॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् चतुर्दशः अध्यायः ॥ ४७॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām caturdaśaḥ adhyāyaḥ .. 47..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In