| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम् ॥ १॥
देश-आदीन् क्रमशस् ब्रूहि सूत सर्व-अर्थ-वित्तम् ॥ १॥
deśa-ādīn kramaśas brūhi sūta sarva-artha-vittam .. 1..
सूत उवाच ।
शुद्धं गृहं समफलं देवयज्ञादिकर्मसु ॥ २॥
शुद्धम् गृहम् सम-फलम् देव-यज्ञ-आदि-कर्मसु ॥ २॥
śuddham gṛham sama-phalam deva-yajña-ādi-karmasu .. 2..
ततो दशगुणं गोष्ठं जलतीरं ततो दश ॥ ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् ॥ ३॥
ततस् दशगुणम् गोष्ठम् जल-तीरम् ततस् दश ॥ ततस् दशगुणम् बिल्व-तुलसी-अश्वत्थ-मूलकम् ॥ ३॥
tatas daśaguṇam goṣṭham jala-tīram tatas daśa .. tatas daśaguṇam bilva-tulasī-aśvattha-mūlakam .. 3..
ततो देवालयं विद्यात्तीर्थतीरं ततो दश ॥ ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ॥ ४॥
ततस् देवालयम् विद्यात् तीर्थ-तीरम् ततस् दश ॥ ततस् दशगुणम् नद्याः तीर्थ-नद्याः ततस् दश ॥ ४॥
tatas devālayam vidyāt tīrtha-tīram tatas daśa .. tatas daśaguṇam nadyāḥ tīrtha-nadyāḥ tatas daśa .. 4..
सप्तगंगानदीतीरं तस्या दशगुणं भवेत् ॥ गंगा गोदावरी चैव कावेरी ताम्रपर्णिका ॥ ५॥
सप्त-गंगा-नदी-तीरम् तस्याः दशगुणम् भवेत् ॥ गंगा गोदावरी च एव कावेरी ताम्रपर्णिका ॥ ५॥
sapta-gaṃgā-nadī-tīram tasyāḥ daśaguṇam bhavet .. gaṃgā godāvarī ca eva kāverī tāmraparṇikā .. 5..
सिंधुश्च सरयू रेवा सप्तगंगाः प्रकीर्तिताः ॥ ततोऽब्धितीरं दश च पर्वताग्रे ततो दश ॥ ६॥
सिंधुः च सरयूः रेवा सप्त-गंगाः प्रकीर्तिताः ॥ ततस् अब्धि-तीरम् दश च पर्वत-अग्रे ततस् दश ॥ ६॥
siṃdhuḥ ca sarayūḥ revā sapta-gaṃgāḥ prakīrtitāḥ .. tatas abdhi-tīram daśa ca parvata-agre tatas daśa .. 6..
सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः ॥ कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा ॥ ७॥
सर्वस्मात् अधिकम् ज्ञेयम् यत्र वा रोचते मनः ॥ कृते पूर्ण-फलम् ज्ञेयम् यज्ञ-दान-आदिकम् तथा ॥ ७॥
sarvasmāt adhikam jñeyam yatra vā rocate manaḥ .. kṛte pūrṇa-phalam jñeyam yajña-dāna-ādikam tathā .. 7..
त्रेतायुगे त्रिपादं च द्वापरेऽर्धं सदा स्मृतम् ॥ कलौ पादं तु विज्ञेयं तत्पादोनं ततोर्द्धके ॥ ८॥
त्रेता-युगे त्रि-पादम् च द्वापरे अर्धम् सदा स्मृतम् ॥ कलौ पादम् तु विज्ञेयम् तद्-पाद-ऊनम् ततस् ऊर्द्धके ॥ ८॥
tretā-yuge tri-pādam ca dvāpare ardham sadā smṛtam .. kalau pādam tu vijñeyam tad-pāda-ūnam tatas ūrddhake .. 8..
शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः ॥ तस्माद्दशगुणं ज्ञेयं रविसंक्रमणे बुधाः ॥ ९॥
शुद्ध-आत्मनः शुद्ध-दिनम् पुण्यम् सम-फलम् विदुः ॥ तस्मात् दशगुणम् ज्ञेयम् रवि-संक्रमणे बुधाः ॥ ९॥
śuddha-ātmanaḥ śuddha-dinam puṇyam sama-phalam viduḥ .. tasmāt daśaguṇam jñeyam ravi-saṃkramaṇe budhāḥ .. 9..
विषुवे तद्दशगुणमयने तद्दश स्मृतम् ॥ तद्दश मृगसंक्रांतौ तच्चंद्र ग्रहणे दश ॥ १०॥
विषुवे तत् दशगुणम् अयने तत् दश स्मृतम् ॥ तत् दश मृग-संक्रांतौ तत् चंद्र ग्रहणे दश ॥ १०॥
viṣuve tat daśaguṇam ayane tat daśa smṛtam .. tat daśa mṛga-saṃkrāṃtau tat caṃdra grahaṇe daśa .. 10..
ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः ॥ जगद्रूपस्य सूर्यस्य विषयोगाच्च रोगदम् १.१५. ॥ ११॥
ततस् च सूर्य-ग्रहणे पूर्ण-काल-उत्तमे विदुः ॥ जगत्-रूपस्य सूर्यस्य विष-योगात् च रोग-दम्।१५। ॥ ११॥
tatas ca sūrya-grahaṇe pūrṇa-kāla-uttame viduḥ .. jagat-rūpasya sūryasya viṣa-yogāt ca roga-dam.15. .. 11..
अतस्तद्विषशांत्यर्थं स्नानदानजपांश्चरेत् ॥ विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ॥ १२॥
अतस् तद्-विष-शांति-अर्थम् स्नान-दान-जपान् चरेत् ॥ विष-शांति-अर्थ-काल-त्वात् स कालः पुण्य-दः स्मृतः ॥ १२॥
atas tad-viṣa-śāṃti-artham snāna-dāna-japān caret .. viṣa-śāṃti-artha-kāla-tvāt sa kālaḥ puṇya-daḥ smṛtaḥ .. 12..
जन्मर्क्षे च व्रतांते च सूर्यरागोपमं विदुः ॥ महतां संगकालश्च कोट्यर्कग्रहणं विदुः ॥ १३॥
जन्म-ऋक्षे च व्रत-अन्ते च सूर्य-राग-उपमम् विदुः ॥ महताम् संग-कालः च कोटि-अर्क-ग्रहणम् विदुः ॥ १३॥
janma-ṛkṣe ca vrata-ante ca sūrya-rāga-upamam viduḥ .. mahatām saṃga-kālaḥ ca koṭi-arka-grahaṇam viduḥ .. 13..
तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा ॥ पूजायाः पात्रमेते हि पापसंक्षयकारणम् ॥ १४॥
तपः-निष्ठाः ज्ञान-निष्ठाः योगिनः यतयः तथा ॥ पूजायाः पात्रम् एते हि पाप-संक्षय-कारणम् ॥ १४॥
tapaḥ-niṣṭhāḥ jñāna-niṣṭhāḥ yoginaḥ yatayaḥ tathā .. pūjāyāḥ pātram ete hi pāpa-saṃkṣaya-kāraṇam .. 14..
चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः ॥ ब्राह्मणस्तु भवेत्पात्रं संपूर्णफलभोगदम् ॥ १५॥
चतुर्विंशति-लक्षम् वा गायत्र्या जप-संयुतः ॥ ब्राह्मणः तु भवेत् पात्रम् संपूर्ण-फल-भोग-दम् ॥ १५॥
caturviṃśati-lakṣam vā gāyatryā japa-saṃyutaḥ .. brāhmaṇaḥ tu bhavet pātram saṃpūrṇa-phala-bhoga-dam .. 15..
पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते ॥ दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते ॥ १६॥
पतनात् त्रायते इति पात्रम् शास्त्रे प्रयुज्यते ॥ दातुः च पातकात् त्राणात् पात्रम् इति अभिधीयते ॥ १६॥
patanāt trāyate iti pātram śāstre prayujyate .. dātuḥ ca pātakāt trāṇāt pātram iti abhidhīyate .. 16..
गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा ॥ यथाऽर्थहिनो लोकेऽस्मिन्परस्यार्थं न यच्छति ॥ १७॥
गायकम् त्रायते पातात् गायत्री इति उच्यते हि सा ॥ यथा अर्थ-हिनः लोके अस्मिन् परस्य अर्थम् न यच्छति ॥ १७॥
gāyakam trāyate pātāt gāyatrī iti ucyate hi sā .. yathā artha-hinaḥ loke asmin parasya artham na yacchati .. 17..
अर्थवानिह यो लोके परस्यार्थं प्रयच्छति ॥ स्वयं शुद्धो हि पूतात्मा नरान्संत्रातुमर्हति ॥ १८॥
अर्थवान् इह यः लोके परस्य अर्थम् प्रयच्छति ॥ स्वयम् शुद्धः हि पूत-आत्मा नरान् संत्रातुम् अर्हति ॥ १८॥
arthavān iha yaḥ loke parasya artham prayacchati .. svayam śuddhaḥ hi pūta-ātmā narān saṃtrātum arhati .. 18..
गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते ॥ तस्माद्दाने जपे होमे पूजायां सर्वकर्मणि ॥ १९॥
गायत्री-जप-शुद्धः हि शुद्ध-ब्राह्मणः उच्यते ॥ तस्मात् दाने जपे होमे पूजायाम् सर्व-कर्मणि ॥ १९॥
gāyatrī-japa-śuddhaḥ hi śuddha-brāhmaṇaḥ ucyate .. tasmāt dāne jape home pūjāyām sarva-karmaṇi .. 19..
दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोर्हति ॥ अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम् ॥ २०॥
दानम् कर्तुम् तथा त्रातुम् पात्रम् तु ॥ अन्नस्य क्षुधितम् पात्रम् नारी-नर-मय-आत्मकम् ॥ २०॥
dānam kartum tathā trātum pātram tu .. annasya kṣudhitam pātram nārī-nara-maya-ātmakam .. 20..
ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम् ॥ तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम् १.१५. ॥ २१॥
ब्राह्मणम् श्रेष्ठम् आहूय यद्-काले सु समाहितम् ॥ तद्-अर्थम् शब्दम् अर्थम् वा सत्-बोधकम् अभीष्ट-दम्।१५। ॥ २१॥
brāhmaṇam śreṣṭham āhūya yad-kāle su samāhitam .. tad-artham śabdam artham vā sat-bodhakam abhīṣṭa-dam.15. .. 21..
इच्छावतः प्रदानं च संपूर्णफलदं विदुः ॥ यत्प्रश्नानंतरं दत्तं तदर्धं फलदं विदुः ॥ २२॥
इच्छावतः प्रदानम् च संपूर्ण-फल-दम् विदुः ॥ यद्-प्रश्न-अनंतरम् दत्तम् तद्-अर्धम् फल-दम् विदुः ॥ २२॥
icchāvataḥ pradānam ca saṃpūrṇa-phala-dam viduḥ .. yad-praśna-anaṃtaram dattam tad-ardham phala-dam viduḥ .. 22..
यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः ॥ जातिमात्रस्य विप्रस्य दीनवृत्तेर्द्विजर्षभाः ॥ २३॥
यत् सेवकाय दत्तम् स्यात् तत् पाद-फल-दम् विदुः ॥ जाति-मात्रस्य विप्रस्य दीन-वृत्तेः द्विजर्षभाः ॥ २३॥
yat sevakāya dattam syāt tat pāda-phala-dam viduḥ .. jāti-mātrasya viprasya dīna-vṛtteḥ dvijarṣabhāḥ .. 23..
दत्तमर्थं हि भोगाय भूर्लोकेदशवार्षिकम् ॥ वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम् ॥ २४॥
दत्तम् अर्थम् हि भोगाय भूर्लोके दश-वार्षिकम् ॥ वेद-युक्तस्य विप्रस्य स्वर्गे हि दश-वार्षिकम् ॥ २४॥
dattam artham hi bhogāya bhūrloke daśa-vārṣikam .. veda-yuktasya viprasya svarge hi daśa-vārṣikam .. 24..
गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम् ॥ विष्णुभक्तस्य विप्रस्य दत्तं वैकुंठदं विदुः ॥ २५॥
गायत्री-जप-युक्तस्य सत्ये हि दश-वार्षिकम् ॥ विष्णु-भक्तस्य विप्रस्य दत्तम् वैकुंठ-दम् विदुः ॥ २५॥
gāyatrī-japa-yuktasya satye hi daśa-vārṣikam .. viṣṇu-bhaktasya viprasya dattam vaikuṃṭha-dam viduḥ .. 25..
शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः ॥ तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते ॥ २६॥
शिव-भक्तस्य विप्रस्य दत्तम् कैलास-दम् विदुः ॥ तद्-तद्-लोक-उपभोग-अर्थम् सर्वेषाम् दानम् इष्यते ॥ २६॥
śiva-bhaktasya viprasya dattam kailāsa-dam viduḥ .. tad-tad-loka-upabhoga-artham sarveṣām dānam iṣyate .. 26..
दशांगमन्नं विप्रस्य भानुवारे ददन्नरः ॥ परजन्मनि चारोग्यं दशवर्षं समश्नुते ॥ २७॥
दश-अंगम् अन्नम् विप्रस्य भानुवारे ददन् नरः ॥ पर-जन्मनि च आरोग्यम् दश-वर्षम् समश्नुते ॥ २७॥
daśa-aṃgam annam viprasya bhānuvāre dadan naraḥ .. para-janmani ca ārogyam daśa-varṣam samaśnute .. 27..
बहुमानमथाह्वानमभ्यंगं पादसेवनम् ॥ वासो गंधाद्यर्चनं च घृतापूपरसोत्तरम् ॥ २८॥
बहु-मानम् अथ आह्वानम् अभ्यंगम् पाद-सेवनम् ॥ वासः गंध-आदि-अर्चनम् च घृत-अपूप-रस-उत्तरम् ॥ २८॥
bahu-mānam atha āhvānam abhyaṃgam pāda-sevanam .. vāsaḥ gaṃdha-ādi-arcanam ca ghṛta-apūpa-rasa-uttaram .. 28..
षड्रसं व्यंजनं चैव तांबूलं दक्षिणोत्तरम् ॥ नमश्चानुगमश्चैव स्वन्नदानं दशांगकम् ॥ २९॥
षष्-रसम् व्यंजनम् च एव तांबूलम् दक्षिण-उत्तरम् ॥ नमः च अनुगमः च एव सु अन्न-दानम् दश-अङ्गकम् ॥ २९॥
ṣaṣ-rasam vyaṃjanam ca eva tāṃbūlam dakṣiṇa-uttaram .. namaḥ ca anugamaḥ ca eva su anna-dānam daśa-aṅgakam .. 29..
दशांगमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः ॥ अर्कवारे तथाऽऽरोग्यं शतवर्षं समश्नुते ॥ ३०॥
दश-अंगम् अन्नम् विप्रेभ्यः दशभ्यः वै ददन् नरः ॥ अर्कवारे तथा आरोग्यम् शत-वर्षम् समश्नुते ॥ ३०॥
daśa-aṃgam annam viprebhyaḥ daśabhyaḥ vai dadan naraḥ .. arkavāre tathā ārogyam śata-varṣam samaśnute .. 30..
सोमवारादिवारेषु तत्तद्वारगुणं फलम् ॥ अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि १.१५. ॥ ३१॥
सोमवार-आदि-वारेषु तद्-तद्-वार-गुणम् फलम् ॥ अन्न-दानस्य विज्ञेयम् भूर्लोके पर-जन्मनि।१५। ॥ ३१॥
somavāra-ādi-vāreṣu tad-tad-vāra-guṇam phalam .. anna-dānasya vijñeyam bhūrloke para-janmani.15. .. 31..
सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम् ॥ अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते ॥ ३२॥
सप्तसु अपि च वारेषु दशभ्यः च दश-अंगकम् ॥ अन्नम् दत्त्वा शतम् वर्षम् आरोग्य-आदिकम् अश्नुते ॥ ३२॥
saptasu api ca vāreṣu daśabhyaḥ ca daśa-aṃgakam .. annam dattvā śatam varṣam ārogya-ādikam aśnute .. 32..
एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः ॥ सहस्रवर्षमारोग्यं शर्वलोके समश्नुते ॥ ३३॥
एवम् शतेभ्यः विप्रेभ्यः भानुवारे ददन् नरः ॥ सहस्र-वर्षम् आरोग्यम् शर्व-लोके समश्नुते ॥ ३३॥
evam śatebhyaḥ viprebhyaḥ bhānuvāre dadan naraḥ .. sahasra-varṣam ārogyam śarva-loke samaśnute .. 33..
सहस्रेभ्यस्तथा दत्त्वाऽयुतवर्षं समश्नुते ॥ एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता ॥ ३४॥
सहस्रेभ्यः तथा दत्त्वा अयुत-वर्षम् समश्नुते ॥ एवम् सोम-आदि-वारेषु विज्ञेयम् हि विपश्चिता ॥ ३४॥
sahasrebhyaḥ tathā dattvā ayuta-varṣam samaśnute .. evam soma-ādi-vāreṣu vijñeyam hi vipaścitā .. 34..
भानुवारे सहस्राणां गायत्रीपूतचेतसाम् ॥ अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते ॥ ३५॥
भानुवारे सहस्राणाम् गायत्री-पूत-चेतसाम् ॥ अन्नम् दत्त्वा सत्य-लोके हि आरोग्य-आदि समश्नुते ॥ ३५॥
bhānuvāre sahasrāṇām gāyatrī-pūta-cetasām .. annam dattvā satya-loke hi ārogya-ādi samaśnute .. 35..
अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते ॥ अन्नं दत्त्वा तु लक्षाणां रुद्र लोके समश्नुते ॥ ३६॥
अयुतानाम् तथा दत्त्वा विष्णु-लोके समश्नुते ॥ अन्नम् दत्त्वा तु लक्षाणाम् रुद्र लोके समश्नुते ॥ ३६॥
ayutānām tathā dattvā viṣṇu-loke samaśnute .. annam dattvā tu lakṣāṇām rudra loke samaśnute .. 36..
बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः ॥ यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः ॥ ३७॥
बालानाम् ब्रह्म-बुद्ध्या हि देयम् विद्या-अर्थिभिः नरैः ॥ यूनाम् च विष्णु-बुद्ध्या हि पुत्र-काम-अर्थिभिः नरैः ॥ ३७॥
bālānām brahma-buddhyā hi deyam vidyā-arthibhiḥ naraiḥ .. yūnām ca viṣṇu-buddhyā hi putra-kāma-arthibhiḥ naraiḥ .. 37..
वृद्धानां रुद्र बुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः ॥ बालस्त्रीभारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः ॥ ३८॥
वृद्धानाम् रुद्र बुद्ध्या हि देयम् ज्ञान-अर्थिभिः नरैः ॥ बाल-स्त्री-भारती-बुद्ध्या बुद्धि-कामैः नर-उत्तमैः ॥ ३८॥
vṛddhānām rudra buddhyā hi deyam jñāna-arthibhiḥ naraiḥ .. bāla-strī-bhāratī-buddhyā buddhi-kāmaiḥ nara-uttamaiḥ .. 38..
लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः ॥ वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः ॥ ३९॥
लक्ष्मी-बुद्ध्या युव-स्त्रीषु भोग-कामैः नर-उत्तमैः ॥ वृद्धासु पार्वती-बुद्ध्या देयम् आत्म-अर्थिभिः जनैः ॥ ३९॥
lakṣmī-buddhyā yuva-strīṣu bhoga-kāmaiḥ nara-uttamaiḥ .. vṛddhāsu pārvatī-buddhyā deyam ātma-arthibhiḥ janaiḥ .. 39..
शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् ॥ शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः ॥ ४०॥
शिल-वृत्त्या उञ्छ-वृत्त्या च गुरु-दक्षिणया अर्जितम् ॥ शुद्ध-द्रव्यम् इति प्राहुः तत् पूर्ण-फल-दम् विदुः ॥ ४०॥
śila-vṛttyā uñcha-vṛttyā ca guru-dakṣiṇayā arjitam .. śuddha-dravyam iti prāhuḥ tat pūrṇa-phala-dam viduḥ .. 40..
शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते ॥ कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते १.१५. ॥ ४१॥
शुक्ल-प्रतिग्रहात् दत्तम् मध्यमम् द्रव्यम् उच्यते ॥ कृषि-वाणिज्यक-उपेतम् अधमम् द्रव्यम् उच्यते।१५। ॥ ४१॥
śukla-pratigrahāt dattam madhyamam dravyam ucyate .. kṛṣi-vāṇijyaka-upetam adhamam dravyam ucyate.15. .. 41..
क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् ॥ उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ॥ ४२॥
क्षत्रियाणाम् विशाम् च एव शौर्य-वाणिज्यक-अर्जितम् ॥ उत्तमम् द्रव्यम् इति आहुः शूद्राणाम् भृतक-अर्जितम् ॥ ४२॥
kṣatriyāṇām viśām ca eva śaurya-vāṇijyaka-arjitam .. uttamam dravyam iti āhuḥ śūdrāṇām bhṛtaka-arjitam .. 42..
स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा ॥ गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम् ॥ ४३॥
स्त्रीणाम् धर्म-अर्थिनाम् द्रव्यम् पैतृकम् भर्तृकम् तथा ॥ गवा-आदीनाम् द्वादशीनाम् चैत्र-आदिषु यथाक्रमम् ॥ ४३॥
strīṇām dharma-arthinām dravyam paitṛkam bhartṛkam tathā .. gavā-ādīnām dvādaśīnām caitra-ādiṣu yathākramam .. 43..
संभूय वा पुण्यकाले दद्यादिष्टसमृद्धये ॥ गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ॥ ४४॥
संभूय वा पुण्य-काले दद्यात् इष्ट-समृद्धये ॥ गो-भू-तिल-हिरण्य-आज्य-वासः-धान्य-गुडानि च ॥ ४४॥
saṃbhūya vā puṇya-kāle dadyāt iṣṭa-samṛddhaye .. go-bhū-tila-hiraṇya-ājya-vāsaḥ-dhānya-guḍāni ca .. 44..
रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा ॥ गोदानाद्दत्तगव्येन गोमयेनोपकारिणा ॥ ४५॥
रौप्यम् लवणकूष्माण्डे कन्या-द्वादशकम् तथा ॥ गो-दानात् दत्त-गव्येन गोमयेन उपकारिणा ॥ ४५॥
raupyam lavaṇakūṣmāṇḍe kanyā-dvādaśakam tathā .. go-dānāt datta-gavyena gomayena upakāriṇā .. 45..
धनधान्याद्याश्रितानां दुरितानां निवारणम् ॥ जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः ॥ ४६॥
धन-धान्य-आदि-आश्रितानाम् दुरितानाम् निवारणम् ॥ जल-स्नेह-आदि-आश्रितानाम् दुरितानाम् तु गो-जलैः ॥ ४६॥
dhana-dhānya-ādi-āśritānām duritānām nivāraṇam .. jala-sneha-ādi-āśritānām duritānām tu go-jalaiḥ .. 46..
कायिकादित्राणां तु क्षीरदध्याज्यकैस्तथा ॥ तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता ॥ ४७॥
कायिक-आदित्राणाम् तु क्षीर-दधि-आज्यकैः तथा ॥ तथा तेषाम् च पुष्टिः च विज्ञेया हि विपश्चिता ॥ ४७॥
kāyika-āditrāṇām tu kṣīra-dadhi-ājyakaiḥ tathā .. tathā teṣām ca puṣṭiḥ ca vijñeyā hi vipaścitā .. 47..
भूदानं तु प्रतिष्ठार्थमिह चाऽमुत्र च द्विजाः ॥ तिलदानं बलार्थं हि सदा मृत्युजयं विदुः ॥ ४८॥
भू-दानम् तु प्रतिष्ठा-अर्थम् इह च अ अमुत्र च द्विजाः ॥ तिल-दानम् बल-अर्थम् हि सदा मृत्यु-जयम् विदुः ॥ ४८॥
bhū-dānam tu pratiṣṭhā-artham iha ca a amutra ca dvijāḥ .. tila-dānam bala-artham hi sadā mṛtyu-jayam viduḥ .. 48..
हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा ॥ आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः ॥ ४९॥
हिरण्यम् जाठर-अग्नेः तु वृद्धि-दम् वीर्य-दम् तथा ॥ आज्यम् पुष्टि-करम् विद्यात् वस्त्रम् आयुष्करम् विदुः ॥ ४९॥
hiraṇyam jāṭhara-agneḥ tu vṛddhi-dam vīrya-dam tathā .. ājyam puṣṭi-karam vidyāt vastram āyuṣkaram viduḥ .. 49..
धान्यमन्नं समृद्ध्यर्थं मधुराहारदं गुडम् ॥ रौप्यं रेतोभिवृद्ध्यर्थं षड्रसार्थं तु लावणम् ॥ ५०॥
धान्यम् अन्नम् समृद्धि-अर्थम् मधुर-आहार-दम् गुडम् ॥ रौप्यम् रेतः-अभिवृद्धि-अर्थम् षष्-रस-अर्थम् तु लावणम् ॥ ५०॥
dhānyam annam samṛddhi-artham madhura-āhāra-dam guḍam .. raupyam retaḥ-abhivṛddhi-artham ṣaṣ-rasa-artham tu lāvaṇam .. 50..
सर्वं सर्वसमृद्ध्यर्थं कूष्मांडं पुष्टिदं विदुः ॥ प्राप्तिदं सर्वभोगानामिह चाऽमुत्र च द्विजाः १.१५. ॥ ५१॥
सर्वम् सर्व-समृद्धि-अर्थम् कूष्मांडम् पुष्टि-दम् विदुः ॥ प्राप्ति-दम् सर्व-भोगानाम् इह च अ अमुत्र च द्विजाः।१५। ॥ ५१॥
sarvam sarva-samṛddhi-artham kūṣmāṃḍam puṣṭi-dam viduḥ .. prāpti-dam sarva-bhogānām iha ca a amutra ca dvijāḥ.15. .. 51..
यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् ॥ पनसाम्रकपित्थानां वृक्षाणां फलमेव च ॥ ५२॥
यावत् जीवनम् उक्तम् हि कन्या-दानम् तु भोग-दम् ॥ पनस-आम्र-कपित्थानाम् वृक्षाणाम् फलम् एव च ॥ ५२॥
yāvat jīvanam uktam hi kanyā-dānam tu bhoga-dam .. panasa-āmra-kapitthānām vṛkṣāṇām phalam eva ca .. 52..
कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा ॥ माषादीनां च मुद्गानां फलं शाकादिकं तथा ॥ ५३॥
कदल्यादि-औषधीनाम् च फलम् गुल्म-उद्भवम् तथा ॥ माष-आदीनाम् च मुद्गानाम् फलम् शाक-आदिकम् तथा ॥ ५३॥
kadalyādi-auṣadhīnām ca phalam gulma-udbhavam tathā .. māṣa-ādīnām ca mudgānām phalam śāka-ādikam tathā .. 53..
मरीचिसर्षपाद्यानां शाकोपकरणं तथा ॥ यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता ॥ ५४॥
मरीचि-सर्षप-आद्यानाम् शाक-उपकरणम् तथा ॥ यत् ऋतौ यत् फलम् सिद्धम् तत् देयम् हि विपश्चिता ॥ ५४॥
marīci-sarṣapa-ādyānām śāka-upakaraṇam tathā .. yat ṛtau yat phalam siddham tat deyam hi vipaścitā .. 54..
श्रोत्रादींद्रियतृप्तिश्च सदा देया विपश्चिता ॥ शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा ॥ ५५॥
श्रोत्र-आदि-इंद्रिय-तृप्तिः च सदा देया विपश्चिता ॥ शब्द-आदि-दश-भोग-अर्थम् दिश्-आदीनाम् च तुष्टि-दा ॥ ५५॥
śrotra-ādi-iṃdriya-tṛptiḥ ca sadā deyā vipaścitā .. śabda-ādi-daśa-bhoga-artham diś-ādīnām ca tuṣṭi-dā .. 55..
वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम् ॥ कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते ॥ ५६॥
वेद-शास्त्रम् समादाय बुद्ध्वा गुरु-मुखात् स्वयम् ॥ कर्मणाम् फलम् अस्ति इति बुद्धिः आस्तिक्यम् उच्यते ॥ ५६॥
veda-śāstram samādāya buddhvā guru-mukhāt svayam .. karmaṇām phalam asti iti buddhiḥ āstikyam ucyate .. 56..
बंधुराजभयाद्बुद्धिश्रद्धा सा च कनीयसी ॥ सर्वाभावे दरिद्र स्तु वाचा वा कर्मणा यजेत् ॥ ५७॥
बंधु-राज-भयात् बुद्धि-श्रद्धा सा च कनीयसी ॥ सर्व-अभावे दरिद्रः स्तु वाचा वा कर्मणा यजेत् ॥ ५७॥
baṃdhu-rāja-bhayāt buddhi-śraddhā sā ca kanīyasī .. sarva-abhāve daridraḥ stu vācā vā karmaṇā yajet .. 57..
वाचिकं यजनं विद्यान्मंत्रस्तोत्रजपादिकम् ॥ तीर्थयात्राव्रताद्यं हि कायिकं यजनं विदुः ॥ ५८॥
वाचिकम् यजनम् विद्यात् मंत्र-स्तोत्र-जप-आदिकम् ॥ तीर्थ-यात्रा-व्रत-आद्यम् हि कायिकम् यजनम् विदुः ॥ ५८॥
vācikam yajanam vidyāt maṃtra-stotra-japa-ādikam .. tīrtha-yātrā-vrata-ādyam hi kāyikam yajanam viduḥ .. 58..
येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु ॥ देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते ॥ ५९॥
येन केन अपि उपायेन हि अल्पम् वा यदि वा बहु ॥ देवता-अर्पण-बुद्ध्या च कृतम् भोगाय कल्पते ॥ ५९॥
yena kena api upāyena hi alpam vā yadi vā bahu .. devatā-arpaṇa-buddhyā ca kṛtam bhogāya kalpate .. 59..
तपश्चर्या च दानं च कर्तव्यमुभयं सदा ॥ प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम् ॥ ६०॥
तपः चर्या च दानम् च कर्तव्यम् उभयम् सदा ॥ प्रतिश्रयम् प्रदातव्यम् स्व-वर्ण-गुण-शोभितम् ॥ ६०॥
tapaḥ caryā ca dānam ca kartavyam ubhayam sadā .. pratiśrayam pradātavyam sva-varṇa-guṇa-śobhitam .. 60..
देवानां तृप्तयेऽत्यर्थं सर्वभोगप्रदं बुधैः ॥ इहाऽमुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः ॥ ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत् १.१५. ॥ ६१॥
देवानाम् तृप्तये अत्यर्थम् सर्व-भोग-प्रदम् बुधैः ॥ इह अ अमुत्र उत्तमम् जन्म-सत्-आभोगम् लभेत् बुधः ॥ ईश्वर-अर्पण-बुद्ध्या हि कृत्वा मोक्ष-फलम् लभेत्।१५। ॥ ६१॥
devānām tṛptaye atyartham sarva-bhoga-pradam budhaiḥ .. iha a amutra uttamam janma-sat-ābhogam labhet budhaḥ .. īśvara-arpaṇa-buddhyā hi kṛtvā mokṣa-phalam labhet.15. .. 61..
य इमं पठतेऽध्यायं यः शृणोति सदा नरः ॥ तस्य वैधर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते ॥ ६२॥
यः इमम् पठते अध्यायम् यः शृणोति सदा नरः ॥ तस्य वैधर्म-बुद्धिः च ज्ञान-सिद्धिः प्रजायते ॥ ६२॥
yaḥ imam paṭhate adhyāyam yaḥ śṛṇoti sadā naraḥ .. tasya vaidharma-buddhiḥ ca jñāna-siddhiḥ prajāyate .. 62..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचदशोध्यायः ॥ ६३॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् पंचदशः उध्यायः ॥ ६३॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām paṃcadaśaḥ udhyāyaḥ .. 63..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In