| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम ॥ येन पूजाविधानेन सर्वाभिष्टमवाप्यते ॥ १॥
पार्थिव-प्रतिमा-पूजा-विधानम् ब्रूहि सत्तम ॥ येन पूजा-विधानेन सर्व-अभिष्टम् अवाप्यते ॥ १॥
pārthiva-pratimā-pūjā-vidhānam brūhi sattama .. yena pūjā-vidhānena sarva-abhiṣṭam avāpyate .. 1..
सूत उवाच ।
सुसाधुपृष्टं युष्माभिः सदा सर्वार्थदायकम् ॥ सद्यो दुःखस्य शमनं शृणुत प्रब्रवीमि वः ॥ २॥
सु साधु-पृष्टम् युष्माभिः सदा सर्व-अर्थ-दायकम् ॥ सद्यस् दुःखस्य शमनम् शृणुत प्रब्रवीमि वः ॥ २॥
su sādhu-pṛṣṭam yuṣmābhiḥ sadā sarva-artha-dāyakam .. sadyas duḥkhasya śamanam śṛṇuta prabravīmi vaḥ .. 2..
अपमृत्युहरं कालमृत्योश्चापि विनाशनम् ॥ सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः ॥ ३॥
अपमृत्यु-हरम् काल-मृत्योः च अपि विनाशनम् ॥ सद्यस् कलत्र-पुत्र-आदि-धन-धान्य-प्रदम् द्विजाः ॥ ३॥
apamṛtyu-haram kāla-mṛtyoḥ ca api vināśanam .. sadyas kalatra-putra-ādi-dhana-dhānya-pradam dvijāḥ .. 3..
अन्नादिभोज्यं वस्त्रादिसर्वमुत्पद्यते यतः ॥ ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि ॥ ४॥
अन्न-आदि-भोज्यम् वस्त्र-आदि-सर्वम् उत्पद्यते यतस् ॥ ततस् मृद्-आदि-प्रतिमा-पूजा अभीष्ट-प्रदा भुवि ॥ ४॥
anna-ādi-bhojyam vastra-ādi-sarvam utpadyate yatas .. tatas mṛd-ādi-pratimā-pūjā abhīṣṭa-pradā bhuvi .. 4..
पुरुषाणां च नारीणामधिकारोत्र निश्चितम् ॥ नद्यां तडागे कूपे वा जलांतर्मृदमाहरेत् ॥ ५॥
पुरुषाणाम् च नारीणाम् अधिकारः उत्र निश्चितम् ॥ नद्याम् तडागे कूपे वा जल-अन्तर् मृदम् आहरेत् ॥ ५॥
puruṣāṇām ca nārīṇām adhikāraḥ utra niścitam .. nadyām taḍāge kūpe vā jala-antar mṛdam āharet .. 5..
संशोध्य गंधचूर्णेन पेषयित्वा सुमंडपे ॥ हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम् ॥ ६॥
संशोध्य गंध-चूर्णेन पेषयित्वा सु मंडपे ॥ हस्तेन प्रतिमाम् कुर्यात् क्षीरेण च सुसंस्कृताम् ॥ ६॥
saṃśodhya gaṃdha-cūrṇena peṣayitvā su maṃḍape .. hastena pratimām kuryāt kṣīreṇa ca susaṃskṛtām .. 6..
अंगप्रत्यंगकोपेतामायुधैश्च समन्विताम् ॥ पद्मासनस्थितां कृत्वा पूजयेदादरेण हि ॥ ७॥
अंग-प्रत्यंगक-उपेताम् आयुधैः च समन्विताम् ॥ पद्मासन-स्थिताम् कृत्वा पूजयेत् आदरेण हि ॥ ७॥
aṃga-pratyaṃgaka-upetām āyudhaiḥ ca samanvitām .. padmāsana-sthitām kṛtvā pūjayet ādareṇa hi .. 7..
विघ्नेशादित्यविष्णूनामंबायाश्च शिवस्य च ॥ शिवस्यशिवलिंगं च सर्वदा पूजयेद्द्विज ॥ ८॥
विघ्नेश-आदित्य-विष्णूनाम् अंबायाः च शिवस्य च ॥ शिवस्य शिव-लिंगम् च सर्वदा पूजयेत् द्विज ॥ ८॥
vighneśa-āditya-viṣṇūnām aṃbāyāḥ ca śivasya ca .. śivasya śiva-liṃgam ca sarvadā pūjayet dvija .. 8..
षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये ॥ पुष्पेण प्रोक्षणं कुर्यादभिषेकं समंत्रकम् ॥ ९॥
षोडशैः उपचारैः च कुर्यात् तद्-फल-सिद्धये ॥ पुष्पेण प्रोक्षणम् कुर्यात् अभिषेकम् स मंत्रकम् ॥ ९॥
ṣoḍaśaiḥ upacāraiḥ ca kuryāt tad-phala-siddhaye .. puṣpeṇa prokṣaṇam kuryāt abhiṣekam sa maṃtrakam .. 9..
शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः ॥ गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते १.१६. ॥ १०॥
शालि-अन्नेन एव नैवेद्यम् सर्वम् कुडव-मानतः ॥ गृहे तु कुडवम् ज्ञेयम् मानुषे प्रस्थम् इष्यते।१६। ॥ १०॥
śāli-annena eva naivedyam sarvam kuḍava-mānataḥ .. gṛhe tu kuḍavam jñeyam mānuṣe prastham iṣyate.16. .. 10..
दैवे प्रस्थत्रयं योग्यं स्वयंभोः प्रस्थपंचकम् ॥ एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम् ॥ ११॥
दैवे प्रस्थ-त्रयम् योग्यम् स्वयंभोः प्रस्थ-पंचकम् ॥ एवम् पूर्ण-फलम् विद्यात् अधिकम् वै द्वयम् त्रयम् ॥ ११॥
daive prastha-trayam yogyam svayaṃbhoḥ prastha-paṃcakam .. evam pūrṇa-phalam vidyāt adhikam vai dvayam trayam .. 11..
सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः ॥ द्वादशांगुलमायामं द्विगुणं च ततोऽधिकम् ॥ १२॥
सहस्र-पूजया सत्यम् सत्य-लोकम् लभेत् द्विजः ॥ द्वादश-अंगुलम् आयामम् द्विगुणम् च ततस् अधिकम् ॥ १२॥
sahasra-pūjayā satyam satya-lokam labhet dvijaḥ .. dvādaśa-aṃgulam āyāmam dviguṇam ca tatas adhikam .. 12..
प्रमाणमंगुलस्यैकं तदूर्ध्वं पंचकत्रयम् ॥ अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः ॥ १३॥
प्रमाणम् अंगुलस्य एकम् तद्-ऊर्ध्वम् पंचक-त्रयम् ॥ अयः-दारु-कृतम् पात्रम् शिवम् इति उच्यते बुधैः ॥ १३॥
pramāṇam aṃgulasya ekam tad-ūrdhvam paṃcaka-trayam .. ayaḥ-dāru-kṛtam pātram śivam iti ucyate budhaiḥ .. 13..
तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम् ॥ दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च ॥ १४॥
तद्-अष्ट-भागः प्रस्थः स्यात् तत् चतुर्-कुडवम् मतम् ॥ दश-प्रस्थम् शत-प्रस्थम् सहस्र-प्रस्थम् एव च ॥ १४॥
tad-aṣṭa-bhāgaḥ prasthaḥ syāt tat catur-kuḍavam matam .. daśa-prastham śata-prastham sahasra-prastham eva ca .. 14..
जलतैलादिगंधानां यथायोग्यं च मानतः ॥ मानुषार्षस्वयंभूनां महापूजेति कथ्यते ॥ १५॥
जल-तैल-आदि-गंधानाम् यथायोग्यम् च मानतः ॥ मानुष-आर्ष-स्वयंभूनाम् महा-पूजा इति कथ्यते ॥ १५॥
jala-taila-ādi-gaṃdhānām yathāyogyam ca mānataḥ .. mānuṣa-ārṣa-svayaṃbhūnām mahā-pūjā iti kathyate .. 15..
अभिषेकादात्मशुद्धिर्गंधात्पुण्यमवाप्यते ॥ आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते * तु. मण्डलब्राह्मणोपनिषत् .. ॥ १६॥
अभिषेकात् आत्म-शुद्धिः गंधात् पुण्यम् अवाप्यते ॥ आयुः तृप्तिः च नैवेद्यात् धूपात् अर्थम् अवाप्यते तु। मण्डलब्राह्मण-उपनिषद् ॥ ॥ १६॥
abhiṣekāt ātma-śuddhiḥ gaṃdhāt puṇyam avāpyate .. āyuḥ tṛptiḥ ca naivedyāt dhūpāt artham avāpyate tu. maṇḍalabrāhmaṇa-upaniṣad .. .. 16..
दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात् ॥ तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् ॥ १७॥
दीपात् ज्ञानम् अवाप्नोति तांबूलात् भोगम् आप्नुयात् ॥ तस्मात् स्नान-आदिकम् षट्कम् प्रयत्नेन प्रसाधयेत् ॥ १७॥
dīpāt jñānam avāpnoti tāṃbūlāt bhogam āpnuyāt .. tasmāt snāna-ādikam ṣaṭkam prayatnena prasādhayet .. 17..
नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ ॥ पूजान्ते च सदाकार्यौ भोगमोक्षार्थिभिर्नरैः ॥ १८॥
नमस्कारः जपः च एव सर्व-अभीष्ट-प्रदौ उभौ ॥ पूजा-अन्ते च सदा कार्यौ भोग-मोक्ष-अर्थिभिः नरैः ॥ १८॥
namaskāraḥ japaḥ ca eva sarva-abhīṣṭa-pradau ubhau .. pūjā-ante ca sadā kāryau bhoga-mokṣa-arthibhiḥ naraiḥ .. 18..
संपूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः ॥ देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् ॥ १९॥
संपूज्य मनसा पूर्वम् कुर्यात् तत् तत् सदा नरः ॥ देवानाम् पूजया च एव तत् तत् लोकम् अवाप्नुयात् ॥ १९॥
saṃpūjya manasā pūrvam kuryāt tat tat sadā naraḥ .. devānām pūjayā ca eva tat tat lokam avāpnuyāt .. 19..
तदवांतरलोके च यथेष्टं भोग्यमाप्यते ॥ तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः १.१६. ॥ २०॥
तत् अवांतर-लोके च यथा इष्टम् भोग्यम् आप्यते ॥ तद्-विशेषान् प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः।१६। ॥ २०॥
tat avāṃtara-loke ca yathā iṣṭam bhogyam āpyate .. tad-viśeṣān pravakṣyāmi śṛṇuta śraddhayā dvijāḥ.16. .. 20..
विघ्नेशपूजया सम्यग्भूर्लोकेऽभीष्टमाप्नुयात् ॥ शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्र के ॥ २१॥
विघ्नेश-पूजया सम्यक् भूर्लोके अभीष्टम् आप्नुयात् ॥ शुक्रवारे चतुर्थ्याम् च सिते श्रावण-भाद्र-के ॥ २१॥
vighneśa-pūjayā samyak bhūrloke abhīṣṭam āpnuyāt .. śukravāre caturthyām ca site śrāvaṇa-bhādra-ke .. 21..
भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् ॥ शतं पूजासहस्रं वा तत्संख्याकदिनैर्व्रजेत् ॥ २२॥
भिषज् ऋक्षे धनुः-मासे विघ्नेशम् विधिवत् यजेत् ॥ शतम् पूजा-सहस्रम् वा तद्-संख्याक-दिनैः व्रजेत् ॥ २२॥
bhiṣaj ṛkṣe dhanuḥ-māse vighneśam vidhivat yajet .. śatam pūjā-sahasram vā tad-saṃkhyāka-dinaiḥ vrajet .. 22..
देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम् ॥ सर्वपापप्रशमनं तत्तद्दुरितनाशनम् ॥ २३॥
देव-अग्नि-श्रद्धया नित्यम् पुत्र-दम् च इष्ट-दम् नृणाम् ॥ ॥ २३॥
deva-agni-śraddhayā nityam putra-dam ca iṣṭa-dam nṛṇām .. .. 23..
वारपूजांशिवादीनामात्मशुद्धिप्रदां विदुः ॥ तिथिनक्षत्रयोगानामाधारं सार्वकामिकम् ॥ २४॥
वार-पूजाम् शिव-आदीनाम् आत्म-शुद्धि-प्रदाम् विदुः ॥ तिथि-नक्षत्र-योगानाम् आधारम् सार्वकामिकम् ॥ २४॥
vāra-pūjām śiva-ādīnām ātma-śuddhi-pradām viduḥ .. tithi-nakṣatra-yogānām ādhāram sārvakāmikam .. 24..
तथा बृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः ॥ उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम् ॥ २५॥
तथा बृद्धि-क्षय-अभावात् पूर्ण-ब्रह्म-आत्मकम् विदुः ॥ उदयात् उदयम् वारः ब्रह्म-प्रभृति कर्मणाम् ॥ २५॥
tathā bṛddhi-kṣaya-abhāvāt pūrṇa-brahma-ātmakam viduḥ .. udayāt udayam vāraḥ brahma-prabhṛti karmaṇām .. 25..
तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् ॥ पूर्वभागः पितृ-णां तु निशि युक्तः प्रशस्यते ॥ २६॥
तिथि-आदौ देव-पूजाः हि पूर्ण-भोग-प्रदा नृणाम् ॥ पूर्वभागः पितृ-णाम् तु निशि युक्तः प्रशस्यते ॥ २६॥
tithi-ādau deva-pūjāḥ hi pūrṇa-bhoga-pradā nṛṇām .. pūrvabhāgaḥ pitṛ-ṇām tu niśi yuktaḥ praśasyate .. 26..
परभागस्तु देवानां दिवा युक्तः प्रशस्यते ॥ उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः ॥ २७॥
परभागः तु देवानाम् दिवा युक्तः प्रशस्यते ॥ उदय-व्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः ॥ २७॥
parabhāgaḥ tu devānām divā yuktaḥ praśasyate .. udaya-vyāpinī grāhyā madhyāhne yadi sā tithiḥ .. 27..
देवकार्ये तथा ग्राह्यास्थिति ऋक्षादिकाः शुभाः ॥ सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम् ॥ २८॥
देव-कार्ये तथा ऋक्ष-आदिकाः शुभाः ॥ सम्यक् विचार्य वार-आदीन् कुर्यात् पूजा-जप-आदिकम् ॥ २८॥
deva-kārye tathā ṛkṣa-ādikāḥ śubhāḥ .. samyak vicārya vāra-ādīn kuryāt pūjā-japa-ādikam .. 28..
पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना ॥ पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा ॥ २९॥
पूजा आर्यते हि अनेन इति वेदेषु अर्थस्य योजना ॥ पूर्ण-भोग-फल-सिद्धिः च जायते तेन कर्मणा ॥ २९॥
pūjā āryate hi anena iti vedeṣu arthasya yojanā .. pūrṇa-bhoga-phala-siddhiḥ ca jāyate tena karmaṇā .. 29..
मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् ॥ पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः १.१६. ॥ ३०॥
मनः-भावान् तथा ज्ञानम् इष्ट-भोग-अर्थ-योजनात् ॥ पूजा-शब्द-अर्थः एवम् हि विश्रुतः लोक-वेदयोः।१६। ॥ ३०॥
manaḥ-bhāvān tathā jñānam iṣṭa-bhoga-artha-yojanāt .. pūjā-śabda-arthaḥ evam hi viśrutaḥ loka-vedayoḥ.16. .. 30..
नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते ॥ नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम् ॥ ३१॥
नित्य-नैमित्तिकम् कालात् सद्यस् काम्ये सु अनुष्ठिते ॥ नित्यम् मासम् च पक्षम् च वर्षम् च एव यथाक्रमम् ॥ ३१॥
nitya-naimittikam kālāt sadyas kāmye su anuṣṭhite .. nityam māsam ca pakṣam ca varṣam ca eva yathākramam .. 31..
तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात् ॥ महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके ॥ ३२॥
तद्-तद्-कर्म-फल-प्राप्तिः तादृश्-पाप-क्षयः क्रमात् ॥ महागणपतेः पूजा चतुर्थ्याम् कृष्ण-पक्षके ॥ ३२॥
tad-tad-karma-phala-prāptiḥ tādṛś-pāpa-kṣayaḥ kramāt .. mahāgaṇapateḥ pūjā caturthyām kṛṣṇa-pakṣake .. 32..
पक्षपापक्षयकरी पक्षभोगफलप्रदा ॥ चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा ॥ ३३॥
॥ चैत्रे चतुर्थ्याम् पूजा च कृता मास-फल-प्रदा ॥ ३३॥
.. caitre caturthyām pūjā ca kṛtā māsa-phala-pradā .. 33..
वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्र के ॥ श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने ॥ ३४॥
वर्ष-भोग-प्रदा ज्ञेया कृता वै सिंहभाद्र-के ॥ श्रवणी-आदित्य-वारे च सप्तम्याम् हस्त-भे दिने ॥ ३४॥
varṣa-bhoga-pradā jñeyā kṛtā vai siṃhabhādra-ke .. śravaṇī-āditya-vāre ca saptamyām hasta-bhe dine .. 34..
माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् ॥ ज्येष्ठभाद्र कसौम्ये च द्वादश्यां श्रवर्णक्षके ॥ ३५॥
माघ-शुक्ले च सप्तम्याम् आदित्य-यजनम् चरेत् ॥ ज्येष्ठ-भाद्र-क-सौम्ये च द्वादश्याम् ॥ ३५॥
māgha-śukle ca saptamyām āditya-yajanam caret .. jyeṣṭha-bhādra-ka-saumye ca dvādaśyām .. 35..
द्वादश्यां विष्णुयजनमिष्टंसंपत्करं विदुः ॥ श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत् ॥ ३६॥
द्वादश्याम् विष्णु-यजनम् इष्टम् संपद्-करम् विदुः ॥ श्रावणे विष्णु-यजनम् इष्ट-आरोग्य-प्रदम् भवेत् ॥ ३६॥
dvādaśyām viṣṇu-yajanam iṣṭam saṃpad-karam viduḥ .. śrāvaṇe viṣṇu-yajanam iṣṭa-ārogya-pradam bhavet .. 36..
गवादीन्द्वादशानर्थान्सांगान्दत्वा तु यत्फलम् ॥ तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात् ॥ ३७॥
गवा-आदीन् द्वादशान् अर्थान् स अंगान् दत्वा तु यत् फलम् ॥ तत् फलम् समवाप्नोति द्वादश्याम् विष्णु-तर्पणात् ॥ ३७॥
gavā-ādīn dvādaśān arthān sa aṃgān datvā tu yat phalam .. tat phalam samavāpnoti dvādaśyām viṣṇu-tarpaṇāt .. 37..
द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः ॥ षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात् ॥ ३८॥
द्वादश्याम् द्वादशान् विप्रान् विष्णोः द्वादश-नामतः ॥ षोडशैः उपचारैः च यजेत् तद्-प्रीतिम् आप्नुयात् ॥ ३८॥
dvādaśyām dvādaśān viprān viṣṇoḥ dvādaśa-nāmataḥ .. ṣoḍaśaiḥ upacāraiḥ ca yajet tad-prītim āpnuyāt .. 38..
एवं च सर्वदेवानां तत्तद्द्वादशनामकैः ॥ द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत् ॥ ३९॥
एवम् च सर्व-देवानाम् तद्-तद्-द्वादश-नामकैः ॥ भवेत् ॥ ३९॥
evam ca sarva-devānām tad-tad-dvādaśa-nāmakaiḥ .. bhavet .. 39..
कर्कटे सोमवारे च नवम्यां मृगशीर्षके ॥ अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम् १.१६. ॥ ४०॥
कर्कटे सोमवारे च नवम्याम् मृगशीर्षके ॥ अंबाम् यजेत् भूति-कामः सर्व-भोग-फल-प्रदाम्।१६। ॥ ४०॥
karkaṭe somavāre ca navamyām mṛgaśīrṣake .. aṃbām yajet bhūti-kāmaḥ sarva-bhoga-phala-pradām.16. .. 40..
आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा ॥ आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः ॥ ४१॥
सर्व ॥ आदिवारे चतुर्दश्याम् कृष्ण-पक्षे विशेषतः ॥ ४१॥
sarva .. ādivāre caturdaśyām kṛṣṇa-pakṣe viśeṣataḥ .. 41..
आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते ॥ माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ॥ ४२॥
आर्द्रायाम् च महा-आर्द्रायाम् शिव-पूजा विशिष्यते ॥ ॥ ४२॥
ārdrāyām ca mahā-ārdrāyām śiva-pūjā viśiṣyate .. .. 42..
आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् ॥ ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेपि च ॥ ४३॥
आयुष्करी मृत्यु-हरा सर्व-सिद्धि-करी नृणाम् ॥ ज्येष्ठ-मासे महा-आर्द्रायाम् चतुर्दशी-दिने अपि च ॥ ४३॥
āyuṣkarī mṛtyu-harā sarva-siddhi-karī nṛṇām .. jyeṣṭha-māse mahā-ārdrāyām caturdaśī-dine api ca .. 43..
मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः ॥ तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम् ॥ ४४॥
मार्गशीर्ष-आर्द्रकायाम् वा षोडशैः उपचारकैः ॥ तद्-तद्-मूर्ति-शिवम् पूज्य तस्य वै पाद-दर्शनम् ॥ ४४॥
mārgaśīrṣa-ārdrakāyām vā ṣoḍaśaiḥ upacārakaiḥ .. tad-tad-mūrti-śivam pūjya tasya vai pāda-darśanam .. 44..
शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् ॥ वारादिदेवयजनं कार्तिके हि विशिष्यते ॥ ४५॥
शिवस्य यजनम् ज्ञेयम् भोग-मोक्ष-प्रदम् नृणाम् ॥ वार-आदि-देव-यजनम् कार्तिके हि विशिष्यते ॥ ४५॥
śivasya yajanam jñeyam bhoga-mokṣa-pradam nṛṇām .. vāra-ādi-deva-yajanam kārtike hi viśiṣyate .. 45..
कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः ॥ दानेन तपसा होमैर्जपेन नियमेन च ॥ ४६॥
कार्तिके मासि संप्राप्ते सर्वान् देवान् यजेत् बुधः ॥ दानेन तपसा होमैः जपेन नियमेन च ॥ ४६॥
kārtike māsi saṃprāpte sarvān devān yajet budhaḥ .. dānena tapasā homaiḥ japena niyamena ca .. 46..
षोडशैरुपचारैश्च प्रतिमा विप्रमंत्रकैः ॥ ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत् ॥ ४७॥
षोडशैः उपचारैः च प्रतिमाः विप्र-मंत्रकैः ॥ ब्राह्मणानाम् भोजनेन निष्काम-आर्ति-करः भवेत् ॥ ४७॥
ṣoḍaśaiḥ upacāraiḥ ca pratimāḥ vipra-maṃtrakaiḥ .. brāhmaṇānām bhojanena niṣkāma-ārti-karaḥ bhavet .. 47..
कार्तिके देवयजनं सर्वभोगप्रदं भवेत् ॥ व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ॥ ४८॥
सर्व भवेत् ॥ व्याधीनाम् हरणम् च एव भवेत् भूत-ग्रह-क्षयः ॥ ४८॥
sarva bhavet .. vyādhīnām haraṇam ca eva bhavet bhūta-graha-kṣayaḥ .. 48..
कार्तिकादित्यवारेषु नृणामादित्यपूजनात् ॥ तैलकार्पासदानात्तु भवेत्कुष्ठादिसंक्षयः ॥ ४९॥
॥ तैल-कार्पास-दानात् तु भवेत् कुष्ठ-आदि-संक्षयः ॥ ४९॥
.. taila-kārpāsa-dānāt tu bhavet kuṣṭha-ādi-saṃkṣayaḥ .. 49..
हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ॥ ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत् १.१६. ॥ ५०॥
हरीतकी-मरीचीनाम् वस्त्र-क्षीर-आदि-दानतः ॥ ब्रह्म-प्रतिष्ठया च एव क्षय-रोग-क्षयः भवेत्।१६। ॥ ५०॥
harītakī-marīcīnām vastra-kṣīra-ādi-dānataḥ .. brahma-pratiṣṭhayā ca eva kṣaya-roga-kṣayaḥ bhavet.16. .. 50..
दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् ॥ कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ॥ ५१॥
दीप-सर्षप-दानात् च अपस्मार-क्षयः भवेत् ॥ कृत्तिका-सोम-वारेषु शिवस्य यजनम् नृणाम् ॥ ५१॥
dīpa-sarṣapa-dānāt ca apasmāra-kṣayaḥ bhavet .. kṛttikā-soma-vāreṣu śivasya yajanam nṛṇām .. 51..
महादारिद्र्य शमनं सर्वसंपत्करं भवेत् ॥ गृहक्षेत्रादिदानाच्च गृहोपकरणादिना ॥ ५२॥
महा-दारिद्र्य शमनम् सर्व-संपत्-करम् भवेत् ॥ गृह-क्षेत्र-आदि-दानात् च गृह-उपकरण-आदिना ॥ ५२॥
mahā-dāridrya śamanam sarva-saṃpat-karam bhavet .. gṛha-kṣetra-ādi-dānāt ca gṛha-upakaraṇa-ādinā .. 52..
कृत्तिकाभौमवारेषु स्कंदस्य यजनान्नृणाम् ॥ दीपघंटादिदानाद्वै वाक्सिद्धिरचिराद्भवेत् ॥ ५३॥
कृत्तिका-भौम-वारेषु स्कंदस्य यजनात् नृणाम् ॥ दीप-घंटा-आदि-दानात् वै वाच्-सिद्धिः अचिरात् भवेत् ॥ ५३॥
kṛttikā-bhauma-vāreṣu skaṃdasya yajanāt nṛṇām .. dīpa-ghaṃṭā-ādi-dānāt vai vāc-siddhiḥ acirāt bhavet .. 53..
कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् ॥ दध्योदनस्य दानं च सत्संतानकरं भवेत् ॥ ५४॥
कृत्तिका-सौम्य-वारेषु विष्णोः वै यजनम् नृणाम् ॥ दधि-ओदनस्य दानम् च सत्-संतान-करम् भवेत् ॥ ५४॥
kṛttikā-saumya-vāreṣu viṣṇoḥ vai yajanam nṛṇām .. dadhi-odanasya dānam ca sat-saṃtāna-karam bhavet .. 54..
कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः ॥ मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम् ॥ ५५॥
कृतिका-गुरु-वारेषु ब्रह्मणः यजनात् धनैः ॥ मधु-स्वर्ण-आज्य-दानेन भोग-वृद्धिः भवेत् नृणाम् ॥ ५५॥
kṛtikā-guru-vāreṣu brahmaṇaḥ yajanāt dhanaiḥ .. madhu-svarṇa-ājya-dānena bhoga-vṛddhiḥ bhavet nṛṇām .. 55..
कृत्तिकाशुक्रवारेषु गजकोमेडयाजनात् ॥ गंधपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम् ॥ ५६॥
कृत्तिका-शुक्र-वारेषु गज-कोमेड-याजनात् ॥ गंध-पुष्प-अन्न-दानेन भोग्य-वृद्धिः भवेत् नृणाम् ॥ ५६॥
kṛttikā-śukra-vāreṣu gaja-komeḍa-yājanāt .. gaṃdha-puṣpa-anna-dānena bhogya-vṛddhiḥ bhavet nṛṇām .. 56..
वंध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः ॥ कृत्तिकाशनिवारेषु दिक्पालानां च वंदनम् ॥ ५७॥
वंध्या सु पुत्रम् लभते स्वर्ण-रौप्य-आदि-दानतः ॥ कृत्तिका-अशनि-वारेषु दिक्पालानाम् च वंदनम् ॥ ५७॥
vaṃdhyā su putram labhate svarṇa-raupya-ādi-dānataḥ .. kṛttikā-aśani-vāreṣu dikpālānām ca vaṃdanam .. 57..
दिग्गजानां च नागानां सेतुपानां च पूजनम् ॥ त्र्यंबकस्य च रुद्रस्य विष्णोः पापहरस्य च ॥ ५८॥
दिग्गजानाम् च नागानाम् सेतुपानाम् च पूजनम् ॥ त्र्यंबकस्य च रुद्रस्य विष्णोः पाप-हरस्य च ॥ ५८॥
diggajānām ca nāgānām setupānām ca pūjanam .. tryaṃbakasya ca rudrasya viṣṇoḥ pāpa-harasya ca .. 58..
ज्ञानदं ब्रह्मणश्चैव धन्वंतर्यश्विनोस्तथा ॥ रोगापमृत्युहरणं तत्कालव्याधिशांतिदम् ॥ ५९॥
ज्ञान-दम् ब्रह्मणः च एव धन्वंतरी-अश्विनोः तथा ॥ दः ॥ ५९॥
jñāna-dam brahmaṇaḥ ca eva dhanvaṃtarī-aśvinoḥ tathā .. daḥ .. 59..
लवणायसतैलानां माषादीनां च दानतः ॥ त्रिकटुफलगंधानां जलादीनां च दानतः १.१६. ॥ ६०॥
लवण-आयस-तैलानाम् माष-आदीनाम् च दानतः ॥ त्रिकटु-फल-गंधानाम् जल-आदीनाम् च दानतः।१६। ॥ ६०॥
lavaṇa-āyasa-tailānām māṣa-ādīnām ca dānataḥ .. trikaṭu-phala-gaṃdhānām jala-ādīnām ca dānataḥ.16. .. 60..
द्रवाणां कठिनानां च प्रस्थेन पलमानतः ॥ स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम् ॥ ६१॥
द्रवाणाम् कठिनानाम् च प्रस्थेन पल-मानतः ॥ स्वर्ग-प्राप्तिः धनुः-मासे हि उषःकाले च पूजनम् ॥ ६१॥
dravāṇām kaṭhinānām ca prasthena pala-mānataḥ .. svarga-prāptiḥ dhanuḥ-māse hi uṣaḥkāle ca pūjanam .. 61..
शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये ॥ शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते* ॥ ६२॥
शिव-आदीनाम् च सर्वेषाम् क्रमात् वै सर्व-सिद्धये ॥ शालि-अन्नस्य हविष्यस्य नैवेद्यम् शस्तम् उच्यते ॥ ६२॥
śiva-ādīnām ca sarveṣām kramāt vai sarva-siddhaye .. śāli-annasya haviṣyasya naivedyam śastam ucyate .. 62..
विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते ॥ मार्गशीर्षेऽन्नदस्यैव सर्वमिष्टफलं भवेत् ॥ ६३॥
विविध-अन्नस्य नैवेद्यम् धनुः-मासे विशिष्यते ॥ मार्गशीर्षे अन्न-दस्य एव सर्वम् इष्ट-फलम् भवेत् ॥ ६३॥
vividha-annasya naivedyam dhanuḥ-māse viśiṣyate .. mārgaśīrṣe anna-dasya eva sarvam iṣṭa-phalam bhavet .. 63..
पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च ॥ सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च ॥ ६४॥
पाप-क्षयम् च इष्ट-सिद्धिम् च आरोग्यम् धर्मम् एव च ॥ सम्यक् वेद-परिज्ञानम् सत्-अनुष्ठानम् एव च ॥ ६४॥
pāpa-kṣayam ca iṣṭa-siddhim ca ārogyam dharmam eva ca .. samyak veda-parijñānam sat-anuṣṭhānam eva ca .. 64..
इहामुत्र महाभोगानंते योगं च शाश्वतम् ॥ वेदांतज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत् ॥ ६५॥
इह अमुत्र योगम् च शाश्वतम् ॥ च दः लभेत् ॥ ६५॥
iha amutra yogam ca śāśvatam .. ca daḥ labhet .. 65..
मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा ॥ यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत् ॥ ६६॥
मार्गशीर्षे हि उषःकाले दिन-त्रयम् अथ अपि वा ॥ यजेत् देवान् भोग-कामः न अ धनुर्मासिकः भवेत् ॥ ६६॥
mārgaśīrṣe hi uṣaḥkāle dina-trayam atha api vā .. yajet devān bhoga-kāmaḥ na a dhanurmāsikaḥ bhavet .. 66..
यावत्संगवकालं तु धनुर्मासो विधीयते ॥ धनुर्मासे निराहारो मासमात्रं जितेंद्रियः ॥ ६७॥
यावत् संगव-कालम् तु धनुः-मासः विधीयते ॥ धनुः-मासे निराहारः मास-मात्रम् जित-इंद्रियः ॥ ६७॥
yāvat saṃgava-kālam tu dhanuḥ-māsaḥ vidhīyate .. dhanuḥ-māse nirāhāraḥ māsa-mātram jita-iṃdriyaḥ .. 67..
आमध्याह्नजपेद्विप्रो गायत्रीं वेदमातरम् ॥ पंचाक्षरादिकान्मंत्रान्पश्चादासप्तिकं जपेत् ॥ ६८॥
आ मध्याह्न-जपेत् विप्रः गायत्रीम् वेदमातरम् ॥ पंचाक्षर-आदिकान् मंत्रान् पश्चात् आसप्तिकम् जपेत् ॥ ६८॥
ā madhyāhna-japet vipraḥ gāyatrīm vedamātaram .. paṃcākṣara-ādikān maṃtrān paścāt āsaptikam japet .. 68..
ज्ञानं लब्ध्वा च देहांते विप्रो मुक्तिमवाप्नुयात् ॥ अन्येषां नरनारीणां त्रिःस्नानेन जपेन च ॥ ६९॥
ज्ञानम् लब्ध्वा च देहान्ते विप्रः मुक्तिम् अवाप्नुयात् ॥ अन्येषाम् नर-नारीणाम् त्रिस् स्नानेन जपेन च ॥ ६९॥
jñānam labdhvā ca dehānte vipraḥ muktim avāpnuyāt .. anyeṣām nara-nārīṇām tris snānena japena ca .. 69..
सदा पंचाक्षरस्यैव विशुद्धं ज्ञानमाप्यते ॥ इष्टमन्त्रान्सदा जप्त्वा महापापक्षयं लभेत् १.१६. ॥ ७०॥
सदा पंचाक्षरस्य एव विशुद्धम् ज्ञानम् आप्यते ॥ इष्ट-मन्त्रान् सदा जप्त्वा महा-पाप-क्षयम् लभेत्।१६। ॥ ७०॥
sadā paṃcākṣarasya eva viśuddham jñānam āpyate .. iṣṭa-mantrān sadā japtvā mahā-pāpa-kṣayam labhet.16. .. 70..
धनुर्मासे विशेषेण महानैवेद्यमाचरेत् ॥ शालितंडुलभारेण मरीचप्रस्थकेन च ॥ ७१॥
धनुः-मासे विशेषेण महानैवेद्यम् आचरेत् ॥ शालि-तंडुल-भारेण मरीच-प्रस्थकेन च ॥ ७१॥
dhanuḥ-māse viśeṣeṇa mahānaivedyam ācaret .. śāli-taṃḍula-bhāreṇa marīca-prasthakena ca .. 71..
गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि ॥ द्रोणयुक्तेन मुद्गेन द्वादशव्यंजनेन च ॥ ७२॥
गणनात् द्वादशम् सर्वम् मधु-आज्य-कुडवेन हि ॥ द्रोण-युक्तेन मुद्गेन द्वादश-व्यंजनेन च ॥ ७२॥
gaṇanāt dvādaśam sarvam madhu-ājya-kuḍavena hi .. droṇa-yuktena mudgena dvādaśa-vyaṃjanena ca .. 72..
घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः ॥ द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च ॥ ७३॥
घृत-पक्वैः अपूपैः च मोदकैः शालिका-आदिभिः ॥ द्वादशैः च दधि-क्षीरैः द्वादश-प्रस्थकेन च ॥ ७३॥
ghṛta-pakvaiḥ apūpaiḥ ca modakaiḥ śālikā-ādibhiḥ .. dvādaśaiḥ ca dadhi-kṣīraiḥ dvādaśa-prasthakena ca .. 73..
नारिकेलफलादीनां तथा गणनया सह ॥ द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम् ॥ ७४॥
नारिकेल-फल-आदीनाम् तथा गणनया सह ॥ द्वादश-क्रमुकैः युक्तम् षट्त्रिंशत्-पत्रकैः युतम् ॥ ७४॥
nārikela-phala-ādīnām tathā gaṇanayā saha .. dvādaśa-kramukaiḥ yuktam ṣaṭtriṃśat-patrakaiḥ yutam .. 74..
कर्पूरखुरचूर्णेन पंचसौगंधिकैर्युतम् ॥ तांबूलयुक्तं तु यदा महानैवेद्यलक्षणम्* ॥ ७५॥
॥ तांबूल-युक्तम् तु यदा महा-नैवेद्य-लक्षणम् ॥ ७५॥
.. tāṃbūla-yuktam tu yadā mahā-naivedya-lakṣaṇam .. 75..
महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् ॥ वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् ॥ ७६॥
महा-नैवेद्यम् एतत् वै देवता-अर्पण-पूर्वकम् ॥ वर्ण-अनुक्रम-पूर्वेण तत् भक्तेभ्यः प्रदापयेत् ॥ ७६॥
mahā-naivedyam etat vai devatā-arpaṇa-pūrvakam .. varṇa-anukrama-pūrveṇa tat bhaktebhyaḥ pradāpayet .. 76..
एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् ॥ महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात् ॥ ७७॥
एवम् च ओदन-नैवेद्यात् भूमौ राष्ट्रपतिः भवेत् ॥ महा-नैवेद्य-दानेन नरः स्वर्गम् अवाप्नुयात् ॥ ७७॥
evam ca odana-naivedyāt bhūmau rāṣṭrapatiḥ bhavet .. mahā-naivedya-dānena naraḥ svargam avāpnuyāt .. 77..
महानैवेद्यदानेन सहस्रेण द्विजर्षभाः ॥ सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात् ॥ ७८॥
महा-नैवेद्य-दानेन सहस्रेण द्विजर्षभाः ॥ सत्यलोके च तत् लोके पूर्णम् आयुः अवाप्नुयात् ॥ ७८॥
mahā-naivedya-dānena sahasreṇa dvijarṣabhāḥ .. satyaloke ca tat loke pūrṇam āyuḥ avāpnuyāt .. 78..
सहस्राणां च त्रिंशत्या महानैवेद्यदानतः ॥ तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् ॥ ७९॥
सहस्राणाम् च त्रिंशत्या महा-नैवेद्य-दानतः ॥ तद्-ऊर्ध्व-लोकम् आप्य एव न पुनर्जन्म-भाज् भवेत् ॥ ७९॥
sahasrāṇām ca triṃśatyā mahā-naivedya-dānataḥ .. tad-ūrdhva-lokam āpya eva na punarjanma-bhāj bhavet .. 79..
सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम् ॥ तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते १.१६. ॥ ८०॥
सहस्राणाम् च षट्त्रिंशत्-जन्म नैवेद्यम् ईरितम् ॥ तावत् नैवेद्य-दानम् तु महापूर्णम् तत् उच्यते।१६। ॥ ८०॥
sahasrāṇām ca ṣaṭtriṃśat-janma naivedyam īritam .. tāvat naivedya-dānam tu mahāpūrṇam tat ucyate.16. .. 80..
महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते ॥ जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते ॥ ८१॥
महापूर्णस्य नैवेद्यम् जन्म-नैवेद्यम् इष्यते ॥ जन्म-नैवेद्य-दानेन पुनर्जन्म न विद्यते ॥ ८१॥
mahāpūrṇasya naivedyam janma-naivedyam iṣyate .. janma-naivedya-dānena punarjanma na vidyate .. 81..
ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यमाचरेत् ॥ संक्रांतिपातजन्मर्क्षपौर्णमास्यादिसंयुते ॥ ८२॥
ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यम् आचरेत् ॥ संक्रान्ति-पात-जन्म-ऋक्ष-पौर्णमासी-आदि-संयुते ॥ ८२॥
ūrje māsi dine puṇye janma naivedyam ācaret .. saṃkrānti-pāta-janma-ṛkṣa-paurṇamāsī-ādi-saṃyute .. 82..
अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम् ॥ मासांतरेषु जन्मर्क्षपूर्णयोगदिनेपि च ॥ ८३॥
कुर्यात् ॥ मास-अंतरेषु च ॥ ८३॥
kuryāt .. māsa-aṃtareṣu ca .. 83..
मेलने च शनैर्वापि तावत्साहस्रमाचरेत् ॥ जन्मनैवेद्यदानेन जन्मार्पणफलं लभेत् ॥ ८४॥
मेलने च शनैस् वा अपि तावत् साहस्रम् आचरेत् ॥ जन्म-नैवेद्य-दानेन जन्म-अर्पण-फलम् लभेत् ॥ ८४॥
melane ca śanais vā api tāvat sāhasram ācaret .. janma-naivedya-dānena janma-arpaṇa-phalam labhet .. 84..
जन्मार्पणाच्छिवः प्रीतिः स्वसायुज्यं ददाति हि ॥ इदं तज्जन्मनैवेद्यं शिवस्यैव प्रदापयेत् ॥ ८५॥
जन्म-अर्पणात् शिवः प्रीतिः स्व-सायुज्यम् ददाति हि ॥ इदम् शिवस्य एव प्रदापयेत् ॥ ८५॥
janma-arpaṇāt śivaḥ prītiḥ sva-sāyujyam dadāti hi .. idam śivasya eva pradāpayet .. 85..
योनिलिंगस्वरूपेण शिवो जन्मनिरूपकः ॥ तस्माज्जन्मनिवृत्त्यर्थं जन्म पूजा शिवस्य हि ॥ ८६॥
योनि-लिंग-स्वरूपेण शिवः जन्म-निरूपकः ॥ तस्मात् जन्म-निवृत्ति-अर्थम् जन्म पूजा शिवस्य हि ॥ ८६॥
yoni-liṃga-svarūpeṇa śivaḥ janma-nirūpakaḥ .. tasmāt janma-nivṛtti-artham janma pūjā śivasya hi .. 86..
बिंदुनादात्मकं सर्वं जगत्स्थावरजंगमम् ॥ बिंदुः शक्तिः शिवो नादः शिवशक्त्यात्मकं जगत् ॥ ८७॥
बिंदु-नाद-आत्मकम् सर्वम् जगत् स्थावर-जंगमम् ॥ बिंदुः शक्तिः शिवः नादः शिव-शक्ति-आत्मकम् जगत् ॥ ८७॥
biṃdu-nāda-ātmakam sarvam jagat sthāvara-jaṃgamam .. biṃduḥ śaktiḥ śivaḥ nādaḥ śiva-śakti-ātmakam jagat .. 87..
नादाधारमिदं बिंदुर्बिंद्वाधारमिदं जगत् ॥ जगदाधारभूतौ हि बिंदुनादौ व्यवस्थितौ ॥ ८८॥
नाद-आधारम् इदम् बिंदुः बिंदु-आधारम् इदम् जगत् ॥ जगत्-आधार-भूतौ हि बिंदु-नादौ व्यवस्थितौ ॥ ८८॥
nāda-ādhāram idam biṃduḥ biṃdu-ādhāram idam jagat .. jagat-ādhāra-bhūtau hi biṃdu-nādau vyavasthitau .. 88..
बिन्दुनादयुतं सर्वं सकलीकरणं भवेत् ॥ सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः ॥ ८९॥
बिन्दु-नाद-युतम् सर्वम् सकलीकरणम् भवेत् ॥ सकलीकरणात् जन्म जगत् प्राप्नोति असंशयः ॥ ८९॥
bindu-nāda-yutam sarvam sakalīkaraṇam bhavet .. sakalīkaraṇāt janma jagat prāpnoti asaṃśayaḥ .. 89..
बिंदुनादात्मकं लिंगं जगत्कारणमुच्यते ॥ बिंदुर्देवीशिवो नादः शिवलिंगं तु कथ्यते १.१६. ॥ ९०॥
बिंदु-नाद-आत्मकम् लिंगम् जगत्-कारणम् उच्यते ॥ बिंदुः देवी-शिवः नादः शिव-लिंगम् तु कथ्यते।१६। ॥ ९०॥
biṃdu-nāda-ātmakam liṃgam jagat-kāraṇam ucyate .. biṃduḥ devī-śivaḥ nādaḥ śiva-liṃgam tu kathyate.16. .. 90..
तस्माज्जन्मनिवृत्त्यर्थं शिवलिंगं प्रपूजयेत् ॥ माता देवी बिंदुरूपा नादरूपः शिवः पिता ॥ ९१॥
तस्मात् जन्म-निवृत्ति-अर्थम् शिव-लिंगम् प्रपूजयेत् ॥ माता देवी बिंदु-रूपा नाद-रूपः शिवः पिता ॥ ९१॥
tasmāt janma-nivṛtti-artham śiva-liṃgam prapūjayet .. mātā devī biṃdu-rūpā nāda-rūpaḥ śivaḥ pitā .. 91..
पूजिताभ्यां पितृभ्यां तु परमानंद एव हि ॥ परमानंदलाभार्थं शिवलिंगं प्रपूजयेत् ॥ ९२॥
पूजिताभ्याम् पितृभ्याम् तु परम-आनंदः एव हि ॥ परमानंद-लाभ-अर्थम् शिव-लिंगम् प्रपूजयेत् ॥ ९२॥
pūjitābhyām pitṛbhyām tu parama-ānaṃdaḥ eva hi .. paramānaṃda-lābha-artham śiva-liṃgam prapūjayet .. 92..
सा देवी जगतां माता स शिवो जगतः पिता ॥ पित्रोः शुश्रूषके नित्यं कृपाधिक्यं हि वर्धते ॥ ९३॥
सा देवी जगताम् माता स शिवः जगतः पिता ॥ पित्रोः शुश्रूषके नित्यम् कृपा-आधिक्यम् हि वर्धते ॥ ९३॥
sā devī jagatām mātā sa śivaḥ jagataḥ pitā .. pitroḥ śuśrūṣake nityam kṛpā-ādhikyam hi vardhate .. 93..
कृपयांतर्गतैश्वर्यं पूजकस्य ददाति हि ॥ तस्मादंतर्गतानंदलाभार्थं मुनिपुंगवाः ॥ ९४॥
कृपया अंतर्गत-ऐश्वर्यम् पूजकस्य ददाति हि ॥ तस्मात् अंतर्गत-आनंद-लाभ-अर्थम् मुनि-पुंगवाः ॥ ९४॥
kṛpayā aṃtargata-aiśvaryam pūjakasya dadāti hi .. tasmāt aṃtargata-ānaṃda-lābha-artham muni-puṃgavāḥ .. 94..
पितृमातृस्वरूपेण शिवलिंगं प्रपूजयेत् ॥ भर्गः पुरुषरूपो हि भर्गा प्रकृतिरुच्यते ॥ ९५॥
पितृ-मातृ-स्व-रूपेण शिव-लिंगम् प्रपूजयेत् ॥ भर्गः पुरुष-रूपः हि भर्गा प्रकृतिः उच्यते ॥ ९५॥
pitṛ-mātṛ-sva-rūpeṇa śiva-liṃgam prapūjayet .. bhargaḥ puruṣa-rūpaḥ hi bhargā prakṛtiḥ ucyate .. 95..
अव्यक्तांतरधिष्ठानं गर्भः पुरुष उच्यते ॥ सुव्यक्तांतरधिष्ठानं गर्भः प्रकृतिरुच्यते ॥ ९६॥
अव्यक्त-अंतर् अधिष्ठानम् गर्भः पुरुषः उच्यते ॥ सु व्यक्त-अन्तर् अधिष्ठानम् गर्भः प्रकृतिः उच्यते ॥ ९६॥
avyakta-aṃtar adhiṣṭhānam garbhaḥ puruṣaḥ ucyate .. su vyakta-antar adhiṣṭhānam garbhaḥ prakṛtiḥ ucyate .. 96..
पुरुषत्वादिगर्भो हि गर्भवाञ्जनको यतः ॥ पुरुषात्प्रकृतो युक्तं प्रथमं जन्म कथ्यते ॥ ९७॥
पुरुष-त्व-आदि-गर्भः हि गर्भवान् जनकः यतस् ॥ पुरुषात् प्रकृतः युक्तम् प्रथमम् जन्म कथ्यते ॥ ९७॥
puruṣa-tva-ādi-garbhaḥ hi garbhavān janakaḥ yatas .. puruṣāt prakṛtaḥ yuktam prathamam janma kathyate .. 97..
प्रकृतेर्व्यक्ततां यातं द्वितीयं जन्म कथ्यते ॥ जन्म जंतुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ॥ ९८॥
प्रकृतेः व्यक्त-ताम् यातम् द्वितीयम् जन्म कथ्यते ॥ जन्म जंतुः मृत्यु-जन्म पुरुषात् प्रतिपद्यते ॥ ९८॥
prakṛteḥ vyakta-tām yātam dvitīyam janma kathyate .. janma jaṃtuḥ mṛtyu-janma puruṣāt pratipadyate .. 98..
अन्यतो भाव्यतेऽवश्यं मायया जन्म कथ्यते ॥ जीर्यते जन्मकालाद्यत्तस्माज्जीव इति स्मृतः ॥ ९९॥
अन्यतस् भाव्यते अवश्यम् मायया जन्म कथ्यते ॥ जीर्यते जन्म-कालात् यत् तस्मात् जीवः इति स्मृतः ॥ ९९॥
anyatas bhāvyate avaśyam māyayā janma kathyate .. jīryate janma-kālāt yat tasmāt jīvaḥ iti smṛtaḥ .. 99..
जन्यते तन्यते पाशैर्जीवशब्दार्थ एव हि ॥ जन्मपाशनिवृत्त्यर्थं जन्मलिंगं प्रपूजयेत् १.१६. ॥ १००॥
जन्यते तन्यते पाशैः जीव-शब्द-अर्थः एव हि ॥ जन्म-पाश-निवृत्ति-अर्थम् जन्मलिंगम् प्रपूजयेत्।१६। ॥ १००॥
janyate tanyate pāśaiḥ jīva-śabda-arthaḥ eva hi .. janma-pāśa-nivṛtti-artham janmaliṃgam prapūjayet.16. .. 100..
भं वृद्धिं गच्छतीत्यर्थाद्भगः प्रकृतिरुच्यते ॥ प्राकृतैः शब्दमात्राद्यैः प्राकृतेंद्रियभोजनात् ॥ १०१॥
भम् वृद्धिम् गच्छति इति अर्थात् भगः प्रकृतिः उच्यते ॥ प्राकृतैः शब्द-मात्र-आद्यैः प्राकृत-इंद्रिय-भोजनात् ॥ १०१॥
bham vṛddhim gacchati iti arthāt bhagaḥ prakṛtiḥ ucyate .. prākṛtaiḥ śabda-mātra-ādyaiḥ prākṛta-iṃdriya-bhojanāt .. 101..
भगस्येदं भोगमिति शब्दार्थो मुख्यतः श्रुतः ॥ मुख्यो भगस्तु प्रकृतिर्भगवाञ्छिव उच्यते ॥ १०२॥
भगस्य इदम् भोगम् इति शब्द-अर्थः मुख्यतस् श्रुतः ॥ मुख्यः भगः तु प्रकृतिः भगवान् शिवः उच्यते ॥ १०२॥
bhagasya idam bhogam iti śabda-arthaḥ mukhyatas śrutaḥ .. mukhyaḥ bhagaḥ tu prakṛtiḥ bhagavān śivaḥ ucyate .. 102..
भगवान्भोगदाता हि नाऽन्यो भोगप्रदायकः ॥ भगस्वामी च भगवान्भर्ग[१] इत्युच्यते बुधैः ॥ १०३॥
भगवान् भोग-दाता हि ना अन्यः भोग-प्रदायकः ॥ भग-स्वामी च भगवान् भर्ग[१] इति उच्यते बुधैः ॥ १०३॥
bhagavān bhoga-dātā hi nā anyaḥ bhoga-pradāyakaḥ .. bhaga-svāmī ca bhagavān bharga[1] iti ucyate budhaiḥ .. 103..
भगेन सहितं लिंगं भगंलिंगेन संयुतम् ॥ इहामुत्र च भोगार्थं नित्यभोगार्थमेव च ॥ १०४॥
भगेन सहितम् लिंगम् भगम् लिंगेन संयुतम् ॥ इह अमुत्र च भोग-अर्थम् नित्य-भोग-अर्थम् एव च ॥ १०४॥
bhagena sahitam liṃgam bhagam liṃgena saṃyutam .. iha amutra ca bhoga-artham nitya-bhoga-artham eva ca .. 104..
भगवंतं महादेवं शिवलिंगं प्रपूजयेत् ॥ लोकप्रसविता सूर्यस्तच्चिह्नं प्रसवाद्भवेत् ॥ १०५॥
भगवंतम् महादेवम् शिव-लिंगम् प्रपूजयेत् ॥ लोक-प्रसविता सूर्यः तत् चिह्नम् प्रसवात् भवेत् ॥ १०५॥
bhagavaṃtam mahādevam śiva-liṃgam prapūjayet .. loka-prasavitā sūryaḥ tat cihnam prasavāt bhavet .. 105..
लिंगेप्रसूतिकर्तारं लिंगिनं पुरुषो यजेत् ॥ लिंगार्थगमकं चिह्नं लिंगमित्यभिधीयते ॥ १०६॥
लिंगेप्रसूति-कर्तारम् लिंगिनम् पुरुषः यजेत् ॥ लिंग-अर्थ-गमकम् चिह्नम् लिंगम् इति अभिधीयते ॥ १०६॥
liṃgeprasūti-kartāram liṃginam puruṣaḥ yajet .. liṃga-artha-gamakam cihnam liṃgam iti abhidhīyate .. 106..
लिंगमर्थं हि पुरुषं शिवं गमयतीत्यदः ॥ शिवशक्त्योश्च चिह्नस्य मेलनं लिंगमुच्यते ॥ १०७॥
लिंगम् अर्थम् हि पुरुषम् शिवम् गमयति इति अदः ॥ शिव-शक्त्योः च चिह्नस्य मेलनम् लिंगम् उच्यते ॥ १०७॥
liṃgam artham hi puruṣam śivam gamayati iti adaḥ .. śiva-śaktyoḥ ca cihnasya melanam liṃgam ucyate .. 107..
स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते ॥ चिह्नकार्यं तु जन्मादिजन्माद्यं विनिवर्तते ॥ १०८॥
स्व-चिह्न-पूजनात् प्रीतः चिह्न-कार्यम् न वीयते ॥ चिह्न-कार्यम् तु जन्म-आदि-जन्म-आद्यम् विनिवर्तते ॥ १०८॥
sva-cihna-pūjanāt prītaḥ cihna-kāryam na vīyate .. cihna-kāryam tu janma-ādi-janma-ādyam vinivartate .. 108..
प्राकृतैः पुरुषैश्चापि बाह्याभ्यंतरसंभवैः ॥ षोडशैरुपचारैश्च शिवलिंगं प्रपूजयेत् ॥ १०९॥
प्राकृतैः पुरुषैः च अपि बाह्य-अभ्यंतर-संभवैः ॥ षोडशैः उपचारैः च शिव-लिंगम् प्रपूजयेत् ॥ १०९॥
prākṛtaiḥ puruṣaiḥ ca api bāhya-abhyaṃtara-saṃbhavaiḥ .. ṣoḍaśaiḥ upacāraiḥ ca śiva-liṃgam prapūjayet .. 109..
एवमादित्यवारे हि पूजा जन्मनिवर्तिका ॥ आदिवारे महालिंगं प्रणवेनैव पूजयेत् १.१६. ॥ ११०॥
एवम् आदित्यवारे हि पूजा जन्म-निवर्तिका ॥ आदिवारे महा-लिंगम् प्रणवेन एव पूजयेत्।१६। ॥ ११०॥
evam ādityavāre hi pūjā janma-nivartikā .. ādivāre mahā-liṃgam praṇavena eva pūjayet.16. .. 110..
आदिवारे पंचगव्यैरभिषेको विशिष्यते ॥ गोमयं गोजलं क्षीरं दध्याज्यं पंचगव्यकम् ॥ १११॥
आदिवारे पंचगव्यैः अभिषेकः विशिष्यते ॥ गोमयम् गो-जलम् क्षीरम् दधि आज्यम् पंचगव्यकम् ॥ १११॥
ādivāre paṃcagavyaiḥ abhiṣekaḥ viśiṣyate .. gomayam go-jalam kṣīram dadhi ājyam paṃcagavyakam .. 111..
क्षीराद्यं च पृथक्च्चैव मधुना चेक्षुसारकैः ॥ गव्यक्षीरान्ननैवेद्यं प्रणवेनैव कारयेत् ॥ ११२॥
क्षीर-आद्यम् च मधुना च इक्षु-सारकैः ॥ गव्य-क्षीर-अन्न-नैवेद्यम् प्रणवेन एव कारयेत् ॥ ११२॥
kṣīra-ādyam ca madhunā ca ikṣu-sārakaiḥ .. gavya-kṣīra-anna-naivedyam praṇavena eva kārayet .. 112..
प्रणवं ध्वनिलिंगं तु नादलिंगं स्वयंभुवः ॥ बिंदुलिंगं तु यंत्रं स्यान्मकारं तु प्रतिष्ठितम् ॥ ११३॥
प्रणवम् ध्वनि-लिंगम् तु नाद-लिंगम् स्वयंभुवः ॥ बिंदुलिंगम् तु यंत्रम् स्यात् मकारम् तु प्रतिष्ठितम् ॥ ११३॥
praṇavam dhvani-liṃgam tu nāda-liṃgam svayaṃbhuvaḥ .. biṃduliṃgam tu yaṃtram syāt makāram tu pratiṣṭhitam .. 113..
उकारं चरलिंगं स्यादकारं गुरुविग्रहम् ॥ षड्लिंगं पूजया नित्यं जीवन्मुक्तो न संशयः ॥ ११४॥
उकारम् चर-लिंगम् स्यात् अकारम् गुरु-विग्रहम् ॥ षष्-लिंगम् पूजया नित्यम् जीवन्मुक्तः न संशयः ॥ ११४॥
ukāram cara-liṃgam syāt akāram guru-vigraham .. ṣaṣ-liṃgam pūjayā nityam jīvanmuktaḥ na saṃśayaḥ .. 114..
शिवस्य भक्त्या पूजा हि जन्ममुक्तिकरी नृणाम् ॥ रुद्रा क्षधारणात्पादमर्धं वैभूतिधारणात् ॥ ११५॥
शिवस्य भक्त्या पूजा हि जन्म-मुक्ति-करी नृणाम् ॥ रुद्रा क्ष-धारणात् पादम् अर्धम् वैभूति-धारणात् ॥ ११५॥
śivasya bhaktyā pūjā hi janma-mukti-karī nṛṇām .. rudrā kṣa-dhāraṇāt pādam ardham vaibhūti-dhāraṇāt .. 115..
त्रिपादं मंत्रजाप्याच्च पूजया पूर्णभक्तिमान् ॥ शिवलिंगं च भक्तं च पूज्य मोक्षं लभेन्नरः ॥ ११६॥
त्रि-पादम् मंत्र-जाप्यात् च पूजया पूर्ण-भक्तिमान् ॥ शिव-लिंगम् च भक्तम् च पूज्य मोक्षम् लभेत् नरः ॥ ११६॥
tri-pādam maṃtra-jāpyāt ca pūjayā pūrṇa-bhaktimān .. śiva-liṃgam ca bhaktam ca pūjya mokṣam labhet naraḥ .. 116..
य इमं पठतेऽध्यायं शृणुयाद्वा समाहितः ॥ तस्यैव शिवभक्तिश्च वर्धते सुदृढा द्विजाः ॥ ११७॥
यः इमम् पठते अध्यायम् शृणुयात् वा समाहितः ॥ तस्य एव शिव-भक्तिः च वर्धते सु दृढा द्विजाः ॥ ११७॥
yaḥ imam paṭhate adhyāyam śṛṇuyāt vā samāhitaḥ .. tasya eva śiva-bhaktiḥ ca vardhate su dṛḍhā dvijāḥ .. 117..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षोडशोऽध्यायः ॥ ११८॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् षोडशः अध्यायः ॥ ११८॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām ṣoḍaśaḥ adhyāyaḥ .. 118..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In