| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
प्रणवस्य च माहात्म्यं षड्लिंगस्य महामुने ॥ शिवभक्तस्य पूजां च क्रमशो ब्रूहि नःप्रभो ॥ १॥
प्रणवस्य च माहात्म्यम् षष्-लिंगस्य महा-मुने ॥ शिव-भक्तस्य पूजाम् च क्रमशस् ब्रूहि नः प्रभो ॥ १॥
praṇavasya ca māhātmyam ṣaṣ-liṃgasya mahā-mune .. śiva-bhaktasya pūjām ca kramaśas brūhi naḥ prabho .. 1..
सूत उवाच ।
तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः ॥ अस्योत्तरं महादेवो जानाति स्म न चापरः ॥ २॥
तपोधनैः भवद्भिः च सम्यक् प्रश्नः तु अयम् कृतः ॥ अस्य उत्तरम् महादेवः जानाति स्म न च अपरः ॥ २॥
tapodhanaiḥ bhavadbhiḥ ca samyak praśnaḥ tu ayam kṛtaḥ .. asya uttaram mahādevaḥ jānāti sma na ca aparaḥ .. 2..
अथापि वक्ष्ये तमहं शिवस्य कृपयैव हि ॥ शिवोऽस्माकं च युष्माकं रक्षां गृह्णातु भूरिशः ॥ ३॥
अथा अपि वक्ष्ये तम् अहम् शिवस्य कृपया एव हि ॥ शिवः अस्माकम् च युष्माकम् रक्षाम् गृह्णातु भूरिशस् ॥ ३॥
athā api vakṣye tam aham śivasya kṛpayā eva hi .. śivaḥ asmākam ca yuṣmākam rakṣām gṛhṇātu bhūriśas .. 3..
प्रो हि प्रकृतिजातस्य संसारस्य महोदधेः ॥ नवं नावांतरमिति प्रणवं वै विदुर्बुधाः ॥ ४॥
प्र उ हि प्रकृति-जातस्य संसारस्य महा-उदधेः ॥ नवम् नावा-अंतरम् इति प्रणवम् वै विदुः बुधाः ॥ ४॥
pra u hi prakṛti-jātasya saṃsārasya mahā-udadheḥ .. navam nāvā-aṃtaram iti praṇavam vai viduḥ budhāḥ .. 4..
प्रः प्रपंचो न नास्तिवो युष्माकं प्रणवं विदुः ॥ प्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः ॥ ५॥
प्रः प्रपंचः न युष्माकम् प्रणवम् विदुः ॥ प्रकर्षेण नयेत् यस्मात् मोक्षम् वः प्रणवम् विदुः ॥ ५॥
praḥ prapaṃcaḥ na yuṣmākam praṇavam viduḥ .. prakarṣeṇa nayet yasmāt mokṣam vaḥ praṇavam viduḥ .. 5..
स्वजापकानां योगिनां स्वमंत्रपूजकस्य च ॥ सर्वकर्मक्षयं कृत्वा दिव्यज्ञानं तु नूतनम् ॥ ६॥
स्व-जापकानाम् योगिनाम् स्व-मंत्र-पूजकस्य च ॥ सर्व-कर्म-क्षयम् कृत्वा दिव्य-ज्ञानम् तु नूतनम् ॥ ६॥
sva-jāpakānām yoginām sva-maṃtra-pūjakasya ca .. sarva-karma-kṣayam kṛtvā divya-jñānam tu nūtanam .. 6..
तमेव मायारहितं नूतनं परिचक्षते ॥ प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम् ॥ ७॥
तम् एव माया-रहितम् नूतनम् परिचक्षते ॥ प्रकर्षेण महात्मानम् नवम् शुद्ध-स्वरूपकम् ॥ ७॥
tam eva māyā-rahitam nūtanam paricakṣate .. prakarṣeṇa mahātmānam navam śuddha-svarūpakam .. 7..
नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः ॥ प्रणवं द्विविधं प्रोक्तं सूक्ष्मस्थूलविभेदतः ॥ ८॥
नूतनम् वै करोति इति प्रणवम् तम् विदुः बुधाः ॥ प्रणवम् द्विविधम् प्रोक्तम् सूक्ष्म-स्थूल-विभेदतः ॥ ८॥
nūtanam vai karoti iti praṇavam tam viduḥ budhāḥ .. praṇavam dvividham proktam sūkṣma-sthūla-vibhedataḥ .. 8..
सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पंचाक्षरं विदुः ॥ सूक्ष्ममव्यक्तपंचार्णं सुव्यक्तार्णं तथेतरत् ॥ ९॥
सूक्ष्मम् एकाक्षरम् विद्यात् स्थूलम् पंचाक्षरम् विदुः ॥ सूक्ष्मम् अव्यक्त-पंच-अर्णम् सु व्यक्त-अर्णम् तथा इतरत् ॥ ९॥
sūkṣmam ekākṣaram vidyāt sthūlam paṃcākṣaram viduḥ .. sūkṣmam avyakta-paṃca-arṇam su vyakta-arṇam tathā itarat .. 9..
जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्य हि ॥ मंत्रेणार्थानुसंधानं स्वदेहविलयावधि १.१७. ॥ १०॥
जीवन्मुक्तस्य सूक्ष्मम् हि सर्व-सारम् हि तस्य हि ॥ मंत्रेण अर्थ-अनुसंधानम् स्व-देह-विलय-अवधि।१७। ॥ १०॥
jīvanmuktasya sūkṣmam hi sarva-sāram hi tasya hi .. maṃtreṇa artha-anusaṃdhānam sva-deha-vilaya-avadhi.17. .. 10..
स्वदेहेगलिते पूर्णं शिवं प्राप्नोति निश्चयः ॥ केवलं मंत्रजापी तु योगं प्राप्नोति निश्चयः ॥ ११॥
स्व-देहे गलिते पूर्णम् शिवम् प्राप्नोति निश्चयः ॥ केवलम् मंत्र-जापी तु योगम् प्राप्नोति निश्चयः ॥ ११॥
sva-dehe galite pūrṇam śivam prāpnoti niścayaḥ .. kevalam maṃtra-jāpī tu yogam prāpnoti niścayaḥ .. 11..
षट्त्रिंशत्कोटिजापी तु निश्चयं योगमाप्नुयात् ॥ सूक्ष्मं च द्विविधं ज्ञेयं ह्रस्वदीर्घविभेदतः ॥ १२॥
षट्त्रिंशत्-कोटि-जापी तु निश्चयम् योगम् आप्नुयात् ॥ सूक्ष्मम् च द्विविधम् ज्ञेयम् ह्रस्व-दीर्घ-विभेदतः ॥ १२॥
ṣaṭtriṃśat-koṭi-jāpī tu niścayam yogam āpnuyāt .. sūkṣmam ca dvividham jñeyam hrasva-dīrgha-vibhedataḥ .. 12..
अकारश्च उकारश्च मकारश्च ततः परम् ॥ बिंदुनादयुतं तद्धि शब्दकालकलान्वितम् ॥ १३॥
अकारः च उकारः च मकारः च ततस् परम् ॥ बिंदु-नाद-युतम् तत् हि शब्द-काल-कला-अन्वितम् ॥ १३॥
akāraḥ ca ukāraḥ ca makāraḥ ca tatas param .. biṃdu-nāda-yutam tat hi śabda-kāla-kalā-anvitam .. 13..
दीर्घप्रणवमेवं हि योगिनामेव हृद्गतम् ॥ मकारं तंत्रितत्त्वं हि ह्रस्वप्रणव उच्यते ॥ १४॥
दीर्घ-प्रणवम् एवम् हि योगिनाम् एव हृद्-गतम् ॥ मकारम् तंत्रि-तत्त्वम् हि ह्रस्वप्रणवः उच्यते ॥ १४॥
dīrgha-praṇavam evam hi yoginām eva hṛd-gatam .. makāram taṃtri-tattvam hi hrasvapraṇavaḥ ucyate .. 14..
शिवः शक्तिस्तयोरैक्यं मकारं तु त्रिकात्मकम् ॥ ह्रस्वमेवं हि जाप्यं स्यात्सर्वपापक्षयैषिणाम् ॥ १५॥
शिवः शक्तिः तयोः ऐक्यम् मकारम् तु त्रिक-आत्मकम् ॥ ह्रस्वम् एवम् हि जाप्यम् स्यात् सर्व-पाप-क्षय-एषिणाम् ॥ १५॥
śivaḥ śaktiḥ tayoḥ aikyam makāram tu trika-ātmakam .. hrasvam evam hi jāpyam syāt sarva-pāpa-kṣaya-eṣiṇām .. 15..
भूवायुकनकार्णोद्योःशब्दाद्याश्च तथा दश ॥ आशान्वयेदशपुनः प्रवृत्ता इति कथ्यते ॥ १६॥
भू-वायु-कनक-अर्ण-उद्योः शब्द-आद्याः च तथा दश ॥ प्रवृत्ता इति कथ्यते ॥ १६॥
bhū-vāyu-kanaka-arṇa-udyoḥ śabda-ādyāḥ ca tathā daśa .. pravṛttā iti kathyate .. 16..
ह्रस्वमेव प्रवृत्तानां निवृत्तानां तु दीर्घकम् ॥ व्याहृत्यादौ च मंत्रादौ कामं शब्दकलायुतम् ॥ १७॥
ह्रस्वम् एव प्रवृत्तानाम् निवृत्तानाम् तु दीर्घकम् ॥ व्याहृति-आदौ च मंत्र-आदौ कामम् शब्द-कला-युतम् ॥ १७॥
hrasvam eva pravṛttānām nivṛttānām tu dīrghakam .. vyāhṛti-ādau ca maṃtra-ādau kāmam śabda-kalā-yutam .. 17..
वेदादौ च प्रयोज्यं स्याद्वंदने संध्ययोरपि ॥ नवकौटिजपाञ्जप्त्वा संशुद्धः पुरुषो भवेत् ॥ १८॥
वेद-आदौ च प्रयोज्यम् स्यात् वंदने संध्ययोः अपि ॥ नव-कौटिजपान् जप्त्वा संशुद्धः पुरुषः भवेत् ॥ १८॥
veda-ādau ca prayojyam syāt vaṃdane saṃdhyayoḥ api .. nava-kauṭijapān japtvā saṃśuddhaḥ puruṣaḥ bhavet .. 18..
पुनश्च नवकोट्या तु पृथिवीजयमाप्नुयात् ॥ पुनश्च नवकोट्या तु ह्यपांजयमवाप्नुयात् ॥ १९॥
पुनर् च नव-कोट्या तु पृथिवी-जयम् आप्नुयात् ॥ पुनर् च नव-कोट्या तु हि अपांजयम् अवाप्नुयात् ॥ १९॥
punar ca nava-koṭyā tu pṛthivī-jayam āpnuyāt .. punar ca nava-koṭyā tu hi apāṃjayam avāpnuyāt .. 19..
पुनश्च नवकोट्या तु तेजसांजयमाप्नुयात् ॥ पुनश्च नवकोट्या तु वायोर्जयमवाप्नुयात् ॥ आकाशजयमाप्नोति नवकोटिजपेन वै १.१७. ॥ २०॥
पुनर् च नव-कोट्या तु तेजसांजयम् आप्नुयात् ॥ पुनर् च नव-कोट्या तु वायोः जयम् अवाप्नुयात् ॥ आकाशजयम् आप्नोति नव-कोटि-जपेन वै।१७। ॥ २०॥
punar ca nava-koṭyā tu tejasāṃjayam āpnuyāt .. punar ca nava-koṭyā tu vāyoḥ jayam avāpnuyāt .. ākāśajayam āpnoti nava-koṭi-japena vai.17. .. 20..
गंधादीनांक्रमेणैवनवकोटिजपेणवै ॥ अहंकारस्य च पुनर्नव कोटिजपेन वै ॥ २१॥
गंध-आदीनाम् क्रमेण एव नव-कोटि-जपेण वै ॥ अहंकारस्य च पुनर्नव कोटि-जपेन वै ॥ २१॥
gaṃdha-ādīnām krameṇa eva nava-koṭi-japeṇa vai .. ahaṃkārasya ca punarnava koṭi-japena vai .. 21..
सहस्रमंत्रजप्तेन नित्यशुद्धो भवेत्पुमान् ॥ ततः परं स्वसिद्ध्यर्थं जपो भवति हि द्विजाः ॥ २२॥
सहस्र-मंत्र-जप्तेन नित्य-शुद्धः भवेत् पुमान् ॥ ततस् परम् स्व-सिद्धि-अर्थम् जपः भवति हि द्विजाः ॥ २२॥
sahasra-maṃtra-japtena nitya-śuddhaḥ bhavet pumān .. tatas param sva-siddhi-artham japaḥ bhavati hi dvijāḥ .. 22..
एवमष्टोत्तरशतकोटिजप्तेन वै पुनः ॥ प्रणवेन प्रबुद्धस्तु शुद्धयोगमवाप्नुयात् ॥ २३॥
एवम् अष्टोत्तरशत-कोटि-जप्तेन वै पुनर् ॥ प्रणवेन प्रबुद्धः तु शुद्धयोगम् अवाप्नुयात् ॥ २३॥
evam aṣṭottaraśata-koṭi-japtena vai punar .. praṇavena prabuddhaḥ tu śuddhayogam avāpnuyāt .. 23..
शुद्धयोगेन संयुक्तो जीवन्मुक्तो न संशयः ॥ सदा जपन्सदाध्यायञ्छिवं प्रणवरूपिणम् ॥ २४॥
शुद्ध-योगेन संयुक्तः जीवन्मुक्तः न संशयः ॥ सदा जपन् सदा अध्यायन् शिवम् प्रणव-रूपिणम् ॥ २४॥
śuddha-yogena saṃyuktaḥ jīvanmuktaḥ na saṃśayaḥ .. sadā japan sadā adhyāyan śivam praṇava-rūpiṇam .. 24..
समाधिस्थो महायोगीशिव एव न संशयः ॥ ऋषिच्छंदोदेवतादि न्यस्य देहेपुनर्जपेत् ॥ २५॥
समाधि-स्थः महा-योगी शिवः एव न संशयः ॥ ऋषि-छंदः-देवता-आदि न्यस्य देहे पुनर् जपेत् ॥ २५॥
samādhi-sthaḥ mahā-yogī śivaḥ eva na saṃśayaḥ .. ṛṣi-chaṃdaḥ-devatā-ādi nyasya dehe punar japet .. 25..
प्रणवं मातृकायुक्तं देहे न्यस्य ऋषिर्भवेत् ॥ दशमातृषडध्वादि सर्वं न्यासफलं लभेत् ॥ २६॥
प्रणवम् मातृका-युक्तम् देहे न्यस्य ऋषिः भवेत् ॥ लभेत् ॥ २६॥
praṇavam mātṛkā-yuktam dehe nyasya ṛṣiḥ bhavet .. labhet .. 26..
प्रवृत्तानां च मिश्राणां स्थूलप्रणवमिष्यते ॥ क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः ॥ २७॥
प्रवृत्तानाम् च मिश्राणाम् स्थूलप्रणवम् इष्यते ॥ क्रिया-तपः-जपैः युक्ताः त्रिविधाः शिव-योगिनः ॥ २७॥
pravṛttānām ca miśrāṇām sthūlapraṇavam iṣyate .. kriyā-tapaḥ-japaiḥ yuktāḥ trividhāḥ śiva-yoginaḥ .. 27..
धनादिविभवैश्चैव कराद्यंगैर्नमादिभिः ॥ क्रियया पूजया युक्तः क्रियायोगीति कथ्यते ॥ २८॥
धन-आदि-विभवैः च एव कर-आदि-अंगैः नम-आदिभिः ॥ क्रियया पूजया युक्तः क्रियायोगी इति कथ्यते ॥ २८॥
dhana-ādi-vibhavaiḥ ca eva kara-ādi-aṃgaiḥ nama-ādibhiḥ .. kriyayā pūjayā yuktaḥ kriyāyogī iti kathyate .. 28..
पूजायुक्तश्च मितभुग्बाह्येंद्रि यजयान्वितः ॥ परद्रो हादिरहितस्तपोयोगीति कथ्यते ॥ २९॥
पूजा-युक्तः च मित-भुज् बाह्य-इंद्रि यजया अन्वितः ॥ परद्रोह-आदि-रहितः तपः-योगी इति कथ्यते ॥ २९॥
pūjā-yuktaḥ ca mita-bhuj bāhya-iṃdri yajayā anvitaḥ .. paradroha-ādi-rahitaḥ tapaḥ-yogī iti kathyate .. 29..
एतैर्युक्तः सदा क्रुद्धः सर्वकामादिवर्जितः ॥ सदा जपपरः शांतोजपयोगीति तं विदुः १.१७. ॥ ३०॥
एतैः युक्तः सदा क्रुद्धः सर्व-काम-आदि-वर्जितः ॥ सदा जप-परः शांतः जप-योगी इति तम् विदुः।१७। ॥ ३०॥
etaiḥ yuktaḥ sadā kruddhaḥ sarva-kāma-ādi-varjitaḥ .. sadā japa-paraḥ śāṃtaḥ japa-yogī iti tam viduḥ.17. .. 30..
उपचारैः षोडशभिः पूजया शिवयोगिनाम् ॥ सालोक्यादिक्रमेणैव शुद्धो मुक्तिं लभेन्नरः ॥ ३१॥
उपचारैः षोडशभिः पूजया शिव-योगिनाम् ॥ सालोक्य-आदि-क्रमेण एव शुद्धः मुक्तिम् लभेत् नरः ॥ ३१॥
upacāraiḥ ṣoḍaśabhiḥ pūjayā śiva-yoginām .. sālokya-ādi-krameṇa eva śuddhaḥ muktim labhet naraḥ .. 31..
जपयोगमथो वक्ष्ये गदतः शृणुत द्विजाः ॥ तपःकर्तुर्जपः प्रोक्तो यज्जपन्परिमार्जते ॥ ३२॥
जप-योगम् अथो वक्ष्ये गदतः शृणुत द्विजाः ॥ तपः-कर्तुः जपः प्रोक्तः यत् जपन् परिमार्जते ॥ ३२॥
japa-yogam atho vakṣye gadataḥ śṛṇuta dvijāḥ .. tapaḥ-kartuḥ japaḥ proktaḥ yat japan parimārjate .. 32..
शिवनाम नमःपूर्वं चतुर्थ्यां पंचतत्त्वकम् ॥ स्थूलप्रणवरूपं हि शिवपंचाक्षरं द्विजाः ॥ ३३॥
शिव-नाम नमः-पूर्वम् चतुर्थ्याम् पंचतत्त्वकम् ॥ स्थूल-प्रणव-रूपम् हि शिवपंचाक्षरम् द्विजाः ॥ ३३॥
śiva-nāma namaḥ-pūrvam caturthyām paṃcatattvakam .. sthūla-praṇava-rūpam hi śivapaṃcākṣaram dvijāḥ .. 33..
पंचाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः ॥ प्रणवेनादिसंयुक्तं सदा पंचाक्षरं जपेत् ॥ ३४॥
पंचाक्षर-जपेन एव सर्व-सिद्धिम् लभेत् नरः ॥ प्रणवेन आदि-संयुक्तम् सदा पंचाक्षरम् जपेत् ॥ ३४॥
paṃcākṣara-japena eva sarva-siddhim labhet naraḥ .. praṇavena ādi-saṃyuktam sadā paṃcākṣaram japet .. 34..
गुरूपदेशं संगम्य सुखवासे सुभूतले ॥ पूर्वपक्षे समारभ्य कृष्णभूतावधि द्विजाः ॥ ३५॥
गुरु-उपदेशम् संगम्य सुख-वासे ॥ पूर्वपक्षे समारभ्य कृष्ण-भूत-अवधि द्विजाः ॥ ३५॥
guru-upadeśam saṃgamya sukha-vāse .. pūrvapakṣe samārabhya kṛṣṇa-bhūta-avadhi dvijāḥ .. 35..
माघं भाद्रं विशिष्टं तु सर्वकालोत्तमोत्तमम् ॥ एकवारं मिताशीतु वाग्यतो नियतेंद्रि यः ॥ ३६॥
माघम् भाद्रम् विशिष्टम् तु सर्व-काल-उत्तम-उत्तमम् ॥ एक-वारम् वाग्यतः यः ॥ ३६॥
māgham bhādram viśiṣṭam tu sarva-kāla-uttama-uttamam .. eka-vāram vāgyataḥ yaḥ .. 36..
स्वस्य राजपितृ-णां च शुश्रूषणं च नित्यशः ॥ सहस्रजपमात्रेण भवेच्छुद्धोऽन्यथा ऋणी ॥ ३७॥
स्वस्य राज-पितृ-णाम् च शुश्रूषणम् च नित्यशस् ॥ सहस्र-जप-मात्रेण भवेत् शुद्धः अन्यथा ऋणी ॥ ३७॥
svasya rāja-pitṛ-ṇām ca śuśrūṣaṇam ca nityaśas .. sahasra-japa-mātreṇa bhavet śuddhaḥ anyathā ṛṇī .. 37..
पंचाक्षरं पंचलक्षं जपेच्छिवमनुस्मरन् ॥ पद्मासनस्थं शिवदं गंगाचंद्र कलान्वितम् ॥ ३८॥
पंचाक्षरम् पंचलक्षम् जपेत् शिवम् अनुस्मरन् ॥ पद्मासन-स्थम् शिव-दम् गंगा-चंद्र कला-अन्वितम् ॥ ३८॥
paṃcākṣaram paṃcalakṣam japet śivam anusmaran .. padmāsana-stham śiva-dam gaṃgā-caṃdra kalā-anvitam .. 38..
वामोरुस्थितशक्त्या च विराजं तं महागणैः ॥ मृगटंकधरं देवं वरदाभयपाणिकम् ॥ ३९॥
वाम-ऊरु-स्थित-शक्त्या च विराजम् तम् महा-गणैः ॥ मृग-टंक-धरम् देवम् वर-द-अभय-पाणिकम् ॥ ३९॥
vāma-ūru-sthita-śaktyā ca virājam tam mahā-gaṇaiḥ .. mṛga-ṭaṃka-dharam devam vara-da-abhaya-pāṇikam .. 39..
सदानुग्रहकर्त्तारं सदा शिवमनुस्मरन् ॥ संपूज्य मनसा पूर्वं हृदिवासूर्यमंडले १.१७. ॥ ४०॥
सदा अनुग्रह-कर्त्तारम् सदा शिवम् अनुस्मरन् ॥ संपूज्य मनसा पूर्वम् हृदि इव सूर्य-मंडले।१७। ॥ ४०॥
sadā anugraha-karttāram sadā śivam anusmaran .. saṃpūjya manasā pūrvam hṛdi iva sūrya-maṃḍale.17. .. 40..
जपेत्पंचाक्षरीं विद्यां प्राण्मुखः शुद्धकर्मकृत् ॥ प्रातः कृष्णचतुर्दश्यां नित्यकर्मसमाप्य च ॥ ४१॥
जपेत् पंचाक्षरीम् विद्याम् प्राच्-मुखः शुद्ध-कर्म-कृत् ॥ प्रातर् कृष्ण-चतुर्दश्याम् नित्य-कर्म समाप्य च ॥ ४१॥
japet paṃcākṣarīm vidyām prāc-mukhaḥ śuddha-karma-kṛt .. prātar kṛṣṇa-caturdaśyām nitya-karma samāpya ca .. 41..
मनोरमे शुचौ देशे नियतः शुद्धमानसः ॥ पंचाक्षरस्य मंत्रस्य सहस्रं द्वादशं जपेत् ॥ ४२॥
मनोरमे शुचौ देशे नियतः शुद्ध-मानसः ॥ पंच-अक्षरस्य मंत्रस्य सहस्रम् द्वादशम् जपेत् ॥ ४२॥
manorame śucau deśe niyataḥ śuddha-mānasaḥ .. paṃca-akṣarasya maṃtrasya sahasram dvādaśam japet .. 42..
वरयेच्च सपत्नीकाञ्छैवान्वै ब्राह्मणोत्तमान् ॥ एकं गुरुवरं शिष्टं वरयेत्सांबमूर्तिकम् ॥ ४३॥
वरयेत् च सपत्नीकान् शैवान् वै ब्राह्मण-उत्तमान् ॥ एकम् गुरु-वरम् शिष्टम् वरयेत् स अंब-मूर्तिकम् ॥ ४३॥
varayet ca sapatnīkān śaivān vai brāhmaṇa-uttamān .. ekam guru-varam śiṣṭam varayet sa aṃba-mūrtikam .. 43..
ईशानं चाथ पुरुषमघोरं वाममेव च ॥ सद्योजातं च पंचैव शिवभक्तान्द्विजोत्तमान् ॥ ४४॥
ईशानम् च अथ पुरुषम् अघोरम् वामम् एव च ॥ सद्योजातम् च पंच एव शिव-भक्तान् द्विजोत्तमान् ॥ ४४॥
īśānam ca atha puruṣam aghoram vāmam eva ca .. sadyojātam ca paṃca eva śiva-bhaktān dvijottamān .. 44..
पूजाद्र व्याणि संपाद्य शिवपूजां समारभेत् ॥ शिवपूजां च विधिवत्कृत्वा होमं समारभेत् ॥ ४५॥
पूजा-द्र संपाद्य शिव-पूजाम् समारभेत् ॥ शिव-पूजाम् च विधिवत् कृत्वा होमम् समारभेत् ॥ ४५॥
pūjā-dra saṃpādya śiva-pūjām samārabhet .. śiva-pūjām ca vidhivat kṛtvā homam samārabhet .. 45..
मुखांतं च स्वसूत्रेण कृत्वा होमं समारभेत् ॥ दशैकं वा शतैकं वा सहस्रैकमथापि वा ॥ ४६॥
मुख-अंतम् च स्व-सूत्रेण कृत्वा होमम् समारभेत् ॥ दश-एकम् वा शत-एकम् वा सहस्र-एकम् अथ अपि वा ॥ ४६॥
mukha-aṃtam ca sva-sūtreṇa kṛtvā homam samārabhet .. daśa-ekam vā śata-ekam vā sahasra-ekam atha api vā .. 46..
कापिलेन घृतेनैव जुहुयात्स्वयमेव हि ॥ कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतं बुधः ॥ ४७॥
कापिलेन घृतेन एव जुहुयात् स्वयम् एव हि ॥ कारयेत् शिव-भक्तैः वा अपि अष्टोत्तरशतम् बुधः ॥ ४७॥
kāpilena ghṛtena eva juhuyāt svayam eva hi .. kārayet śiva-bhaktaiḥ vā api aṣṭottaraśatam budhaḥ .. 47..
होमान्ते दक्षिणा देया गुरोर्गोमिथुनं तथा ॥ ईशानादिस्वरूपांस्तान्गुरुं सांबं विभाव्य च ॥ ४८॥
होम-अन्ते दक्षिणा देया गुरोः गो-मिथुनम् तथा ॥ ईशान-आदि-स्वरूपान् तान् गुरुम् स अंबम् विभाव्य च ॥ ४८॥
homa-ante dakṣiṇā deyā guroḥ go-mithunam tathā .. īśāna-ādi-svarūpān tān gurum sa aṃbam vibhāvya ca .. 48..
तेषां पत्सिक्ततोयेन स्वशिरः स्नानमाचरेत् ॥ षट्त्रिंशत्कोटितीर्थेषु सद्यः स्नानफलं लभेत् ॥ ४९॥
तेषाम् पद्-सिक्त-तोयेन स्व-शिरः स्नानम् आचरेत् ॥ षट्त्रिंशत्-कोटि-तीर्थेषु सद्यस् स्नान-फलम् लभेत् ॥ ४९॥
teṣām pad-sikta-toyena sva-śiraḥ snānam ācaret .. ṣaṭtriṃśat-koṭi-tīrtheṣu sadyas snāna-phalam labhet .. 49..
दशांगमन्नं तेषां वै दद्याद्वैभक्तिपूर्वकम् ॥ पराबुद्ध्या गुरोः पत्नीमीशानादिक्रमेण तु १.१७. ॥ ५०॥
दश-अंगम् अन्नम् तेषाम् वै दद्यात् वैभक्ति-पूर्वकम् ॥ परा-बुद्ध्या गुरोः पत्नीम् ईशान-आदि-क्रमेण तु।१७। ॥ ५०॥
daśa-aṃgam annam teṣām vai dadyāt vaibhakti-pūrvakam .. parā-buddhyā guroḥ patnīm īśāna-ādi-krameṇa tu.17. .. 50..
परमान्नेन संपूज्य यथाविभवविस्तरम् ॥ रुद्रा क्षवस्त्रपूर्वं च वटकापूपकैर्युतम् ॥ ५१॥
परमान्नेन संपूज्य यथा विभव-विस्तरम् ॥ रुद्रा क्ष-वस्त्र-पूर्वम् च वटक-अपूपकैः युतम् ॥ ५१॥
paramānnena saṃpūjya yathā vibhava-vistaram .. rudrā kṣa-vastra-pūrvam ca vaṭaka-apūpakaiḥ yutam .. 51..
बलिदानं ततः कृत्वा भूरिभोजनमाचरेत् ॥ ततः संप्रार्थ्य देवेशं जपं तावत्समापयेत् ॥ ५२॥
बलि-दानम् ततस् कृत्वा भूरि-भोजनम् आचरेत् ॥ ततस् संप्रार्थ्य देवेशम् जपम् तावत् समापयेत् ॥ ५२॥
bali-dānam tatas kṛtvā bhūri-bhojanam ācaret .. tatas saṃprārthya deveśam japam tāvat samāpayet .. 52..
पुरश्चरणमेवं तु कृत्वा मन्त्रीभवेन्नरः ॥ पुनश्च पंचलक्षेण सर्वपापक्षयो भवेत् ॥ ५३॥
पुरश्चरणम् एवम् तु कृत्वा मन्त्री भवेत् नरः ॥ पुनर् च पंच-लक्षेण सर्व-पाप-क्षयः भवेत् ॥ ५३॥
puraścaraṇam evam tu kṛtvā mantrī bhavet naraḥ .. punar ca paṃca-lakṣeṇa sarva-pāpa-kṣayaḥ bhavet .. 53..
अतलादि समारभ्य सत्यलोकावधिक्रमात् ॥ पंचलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात् ॥ ५४॥
समारभ्य सत्य-लोकौ अधि क्रमात् ॥ पंच-लक्ष-जपात् तद्-तद्-लोक-ऐश्वर्यम् अवाप्नुयात् ॥ ५४॥
samārabhya satya-lokau adhi kramāt .. paṃca-lakṣa-japāt tad-tad-loka-aiśvaryam avāpnuyāt .. 54..
मध्ये मृतश्चेद्भोगांते भूमौ तज्जापको भवेत् ॥ पुनश्च पंचलक्षेण ब्रह्मसामीप्यमाप्नुयात् ॥ ५५॥
मध्ये मृतः चेद् भोग-अन्ते भूमौ तद्-जापकः भवेत् ॥ पुनर् च पंचलक्षेण ब्रह्म-सामीप्यम् आप्नुयात् ॥ ५५॥
madhye mṛtaḥ ced bhoga-ante bhūmau tad-jāpakaḥ bhavet .. punar ca paṃcalakṣeṇa brahma-sāmīpyam āpnuyāt .. 55..
पुनश्च पंचलक्षेण सारूप्यैश्वर्यमाप्नुयात् ॥ आहत्य शतलक्षेण साक्षाद्ब्रह्मसमो भवेत् ॥ ५६॥
पुनर् च पंच-लक्षेण सारूप्य-ऐश्वर्यम् आप्नुयात् ॥ आहत्य शत-लक्षेण साक्षात् ब्रह्म-समः भवेत् ॥ ५६॥
punar ca paṃca-lakṣeṇa sārūpya-aiśvaryam āpnuyāt .. āhatya śata-lakṣeṇa sākṣāt brahma-samaḥ bhavet .. 56..
कार्यब्रह्मण एवं हि सायुज्यं प्रतिपद्य वै ॥ यथेष्टं भोगमाप्नोति तद्ब्रह्मप्रलयावधि ॥ ५७॥
कार्य-ब्रह्मणः एवम् हि सायुज्यम् प्रतिपद्य वै ॥ यथा इष्टम् भोगम् आप्नोति तत् ब्रह्म-प्रलय-अवधि ॥ ५७॥
kārya-brahmaṇaḥ evam hi sāyujyam pratipadya vai .. yathā iṣṭam bhogam āpnoti tat brahma-pralaya-avadhi .. 57..
पुनः कल्पांतरे वृत्ते ब्रह्मपुत्रः सजायते ॥ पुनश्च तपसा दीप्तः क्रमान्मुक्तो भविष्यति ॥ ५८॥
पुनर् कल्प-अंतरे वृत्ते ब्रह्म-पुत्रः सजायते ॥ पुनर् च तपसा दीप्तः क्रमात् मुक्तः भविष्यति ॥ ५८॥
punar kalpa-aṃtare vṛtte brahma-putraḥ sajāyate .. punar ca tapasā dīptaḥ kramāt muktaḥ bhaviṣyati .. 58..
पृथ्व्यादिकार्यभूतेभ्यो लोका वै निर्मिताः क्रमात् ॥ पातालादि च सत्यांतं ब्रह्मलोकाश्चतुर्दश ॥ ५९॥
पृथ्वी-आदि-कार्य-भूतेभ्यः लोकाः वै निर्मिताः क्रमात् ॥ पाताल-आदि च सत्य-अंतम् ब्रह्म-लोकाः चतुर्दश ॥ ५९॥
pṛthvī-ādi-kārya-bhūtebhyaḥ lokāḥ vai nirmitāḥ kramāt .. pātāla-ādi ca satya-aṃtam brahma-lokāḥ caturdaśa .. 59..
सत्यादूर्ध्वं क्षमांतं वैविष्णुलोकाश्चतुर्दश ॥ क्षमलोके कार्यविष्णुर्वैकुंठे वरपत्तने १.१७. ॥ ६०॥
सत्यात् ऊर्ध्वम् क्षमा-अंतम् वैविष्णु-लोकाः चतुर्दश ॥ क्षम-लोके कार्य-विष्णुः वैकुंठे वर-पत्तने।१७। ॥ ६०॥
satyāt ūrdhvam kṣamā-aṃtam vaiviṣṇu-lokāḥ caturdaśa .. kṣama-loke kārya-viṣṇuḥ vaikuṃṭhe vara-pattane.17. .. 60..
कार्यलक्ष्म्या महाभोगिरक्षां कृत्वाऽधितिष्ठति ॥ तदूर्ध्वगाश्च शुच्यंतां लोकाष्टाविंशतिः स्थिताः ॥ ६१॥
कार्य-लक्ष्म्या महा-भोगि-रक्षाम् कृत्वा अधितिष्ठति ॥ तद्-ऊर्ध्व-गाः च लोक-अष्टाविंशतिः स्थिताः ॥ ६१॥
kārya-lakṣmyā mahā-bhogi-rakṣām kṛtvā adhitiṣṭhati .. tad-ūrdhva-gāḥ ca loka-aṣṭāviṃśatiḥ sthitāḥ .. 61..
शुचौ लोके तु कैलासे रुद्रो वै भूतहृत्स्थितः ॥ षडुत्तराश्च पंचाशदहिंसांतास्तदूर्ध्वगाः ॥ ६२॥
शुचौ लोके तु कैलासे रुद्रः वै भूत-हृत् स्थितः ॥ षष्-उत्तराः च पंचाशत्-अहिंसा-अंताः तद्-ऊर्ध्व-गाः ॥ ६२॥
śucau loke tu kailāse rudraḥ vai bhūta-hṛt sthitaḥ .. ṣaṣ-uttarāḥ ca paṃcāśat-ahiṃsā-aṃtāḥ tad-ūrdhva-gāḥ .. 62..
अहिंसालोकमास्थाय ज्ञानकैलासके पुरे ॥ कार्येश्वरस्तिरोभावं सर्वान्कृत्वाधितिष्ठति ॥ ६३॥
अहिंसा-लोकम् आस्थाय ज्ञान-कैलासके पुरे ॥ कार्य-ईश्वरः तिरोभावम् सर्वान् कृत्वा अधितिष्ठति ॥ ६३॥
ahiṃsā-lokam āsthāya jñāna-kailāsake pure .. kārya-īśvaraḥ tirobhāvam sarvān kṛtvā adhitiṣṭhati .. 63..
तदंते कालचक्रं हि कालातीतस्ततः परम् ॥ शिवेनाधिष्ठितस्तत्र कालश्चक्रेश्वराह्वयः ॥ ६४॥
तद्-अन्ते कालचक्रम् हि कालातीतः ततस् परम् ॥ शिवेन अधिष्ठितः तत्र कालः चक्रेश्वर-आह्वयः ॥ ६४॥
tad-ante kālacakram hi kālātītaḥ tatas param .. śivena adhiṣṭhitaḥ tatra kālaḥ cakreśvara-āhvayaḥ .. 64..
माहिषं धर्ममास्थाय सर्वान्कालेन युंजति ॥ असत्यश्चाशुचिश्चैव हिंसा चैवाथ निर्घृणा ॥ ६५॥
माहिषम् धर्मम् आस्थाय सर्वान् कालेन युंजति ॥ असत्यः च अशुचिः च एव हिंसा च एव अथ निर्घृणा ॥ ६५॥
māhiṣam dharmam āsthāya sarvān kālena yuṃjati .. asatyaḥ ca aśuciḥ ca eva hiṃsā ca eva atha nirghṛṇā .. 65..
असत्यादिचतुष्पादः सर्वांशः कामरूपधृक् ॥ नास्तिक्यलक्ष्मीर्दुःसंगो वेदबाह्यध्वनिः सदा ॥ ६६॥
॥ नास्तिक्य-लक्ष्मीः दुःसंगः वेद-बाह्य-ध्वनिः सदा ॥ ६६॥
.. nāstikya-lakṣmīḥ duḥsaṃgaḥ veda-bāhya-dhvaniḥ sadā .. 66..
क्रोधसंगः कृष्णवर्णो महामहिषवेषवान् ॥ तावन्महेश्वरः प्रोक्तस्तिरोधास्तावदेव हि ॥ ६७॥
क्रोध-संगः कृष्ण-वर्णः महा-महिष-वेषवान् ॥ तावत् महेश्वरः प्रोक्तः तिरोधाः तावत् एव हि ॥ ६७॥
krodha-saṃgaḥ kṛṣṇa-varṇaḥ mahā-mahiṣa-veṣavān .. tāvat maheśvaraḥ proktaḥ tirodhāḥ tāvat eva hi .. 67..
तदर्वाक्कर्मभोगो हि तदूर्ध्वं ज्ञानभोगकम् ॥ तदर्वाक्कर्ममाया हि ज्ञानमाया तदूर्ध्वकम् ॥ ६८॥
तद्-अर्वाक् कर्म-भोगः हि तद्-ऊर्ध्वम् ज्ञान-भोगकम् ॥ तद्-अर्वाक् कर्म-माया हि ज्ञान-माया तद्-ऊर्ध्वकम् ॥ ६८॥
tad-arvāk karma-bhogaḥ hi tad-ūrdhvam jñāna-bhogakam .. tad-arvāk karma-māyā hi jñāna-māyā tad-ūrdhvakam .. 68..
मा लक्ष्मीः कर्मभोगो वै याति मायेति कथ्यते ॥ मा लक्ष्मीर्ज्ञानभोगो वै याति मायेति कथ्यते ॥ ६९॥
मा लक्ष्मीः कर्म-भोगः वै याति माया इति कथ्यते ॥ मा लक्ष्मीः ज्ञान-भोगः वै याति माया इति कथ्यते ॥ ६९॥
mā lakṣmīḥ karma-bhogaḥ vai yāti māyā iti kathyate .. mā lakṣmīḥ jñāna-bhogaḥ vai yāti māyā iti kathyate .. 69..
तदूर्ध्वं नित्यभोगो हि तदर्वाण्नश्वरं विदुः ॥ तदर्वाक्च तिरोधानं तदूर्ध्वं न तिरोधनम् १.१७. ॥ ७०॥
तद्-ऊर्ध्वम् नित्य-भोगः हि तत् अर्वान् नश्वरम् विदुः ॥ तद्-अर्वाक् च तिरोधानम् तद्-ऊर्ध्वम् न तिरोधनम्।१७। ॥ ७०॥
tad-ūrdhvam nitya-bhogaḥ hi tat arvān naśvaram viduḥ .. tad-arvāk ca tirodhānam tad-ūrdhvam na tirodhanam.17. .. 70..
तदर्वाक्पाशबंधो हि तदूर्ध्वं न हि बंधनम् ॥ तदर्वाक्परिवर्तंते काम्यकर्मानुसारिणः ॥ ७१॥
तद्-अर्वाक् पाश-बंधः हि तद्-ऊर्ध्वम् न हि बंधनम् ॥ तद्-अर्वाक् परिवर्तन्ते काम्य-कर्म-अनुसारिणः ॥ ७१॥
tad-arvāk pāśa-baṃdhaḥ hi tad-ūrdhvam na hi baṃdhanam .. tad-arvāk parivartante kāmya-karma-anusāriṇaḥ .. 71..
निष्कामकर्मभोगस्तु तदूर्ध्वं परिकीर्तितः ॥ तदर्वाक्परिवर्तंते बिंदुपूजापरायणाः ॥ ७२॥
निष्काम-कर्म-भोगः तु तद्-ऊर्ध्वम् परिकीर्तितः ॥ तद्-अर्वाक् परिवर्तंते बिंदु-पूजा-परायणाः ॥ ७२॥
niṣkāma-karma-bhogaḥ tu tad-ūrdhvam parikīrtitaḥ .. tad-arvāk parivartaṃte biṃdu-pūjā-parāyaṇāḥ .. 72..
तदूर्ध्वं हि व्रजंत्येव निष्कामा लिंगपूजकाः ॥ तदर्वाक्परिवर्तंते शिवान्यसुरपूजकाः ॥ ७३॥
तद्-ऊर्ध्वम् हि व्रजंति एव निष्कामाः लिंग-पूजकाः ॥ तद्-अर्वाक् परिवर्तन् ते शिव-अन्य-सुर-पूजकाः ॥ ७३॥
tad-ūrdhvam hi vrajaṃti eva niṣkāmāḥ liṃga-pūjakāḥ .. tad-arvāk parivartan te śiva-anya-sura-pūjakāḥ .. 73..
शिवैकनिरता ये च तदूर्ध्वं संप्रयांति ते ॥ तदर्वाग्जीवकोटिः स्यात्तदूर्ध्वं परकोटिकाः ॥ ७४॥
शिव-एक-निरताः ये च तद्-ऊर्ध्वम् संप्रयान्ति ते ॥ तद्-अर्वाक् जीव-कोटिः स्यात् तद्-ऊर्ध्वम् पर-कोटिकाः ॥ ७४॥
śiva-eka-niratāḥ ye ca tad-ūrdhvam saṃprayānti te .. tad-arvāk jīva-koṭiḥ syāt tad-ūrdhvam para-koṭikāḥ .. 74..
सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः ॥ तदर्वाक्परिवर्तंते प्राकृतद्र व्यपूजकाः ॥ ७५॥
सांसारिकाः तद्-अर्वाक् च मुक्ताः खलु तद्-ऊर्ध्व-गाः ॥ तद्-अर्वाक् परिवर्तन्ते प्राकृत-द्र-व्य-पूजकाः ॥ ७५॥
sāṃsārikāḥ tad-arvāk ca muktāḥ khalu tad-ūrdhva-gāḥ .. tad-arvāk parivartante prākṛta-dra-vya-pūjakāḥ .. 75..
तदूर्ध्वं हि व्रजंत्येते पौरुषद्र व्यपूजकाः ॥ तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम् ॥ ७६॥
तद्-ऊर्ध्वम् हि व्रजंति एते पौरुष-द्र-व्य-पूजकाः ॥ तद्-अर्वाक् शक्ति-लिंगम् तु शिव-लिंगम् तद्-ऊर्ध्वकम् ॥ ७६॥
tad-ūrdhvam hi vrajaṃti ete pauruṣa-dra-vya-pūjakāḥ .. tad-arvāk śakti-liṃgam tu śiva-liṃgam tad-ūrdhvakam .. 76..
तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति ॥ तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम् ॥ ७७॥
तद्-अर्वाक्-आवृतम् लिंगम् तद्-ऊर्ध्वम् हि निरावृति ॥ तद्-अर्वाक् कल्पितम् लिंगम् तद्-ऊर्ध्वम् वै न कल्पितम् ॥ ७७॥
tad-arvāk-āvṛtam liṃgam tad-ūrdhvam hi nirāvṛti .. tad-arvāk kalpitam liṃgam tad-ūrdhvam vai na kalpitam .. 77..
तदर्वाग्बाह्यलिंगं स्यादंतरंगं तदूर्ध्वकम् ॥ तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ॥ ७८॥
तद्-अर्वाक् बाह्य-लिंगम् स्यात् अन्तरंगम् तद्-ऊर्ध्वकम् ॥ तद्-अर्वाक् शक्ति-लोकाः हि शतम् वै द्वादश-अधिकम् ॥ ७८॥
tad-arvāk bāhya-liṃgam syāt antaraṃgam tad-ūrdhvakam .. tad-arvāk śakti-lokāḥ hi śatam vai dvādaśa-adhikam .. 78..
तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम् ॥ तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ॥ ७९॥
तत् अर्वाक् बिंदु-रूपम् हि नाद-रूपम् तत् उत्तरम् ॥ तद्-अर्वाक् कर्मलोकः तु तद्-ऊर्ध्वम् ज्ञानलोककः ॥ ७९॥
tat arvāk biṃdu-rūpam hi nāda-rūpam tat uttaram .. tad-arvāk karmalokaḥ tu tad-ūrdhvam jñānalokakaḥ .. 79..
नमस्कारस्तदूर्ध्वं हि मदाहंकारनाशनः ॥ जनिजं वै तिरोधानं नानिषिद्ध्यातते इति १.१७. ॥ ८०॥
नमस्कारः तद्-ऊर्ध्वम् हि मद-अहंकार-नाशनः ॥ जनि-जम् वै तिरोधानम् न अ निषिद्ध्य आतते इति।१७। ॥ ८०॥
namaskāraḥ tad-ūrdhvam hi mada-ahaṃkāra-nāśanaḥ .. jani-jam vai tirodhānam na a niṣiddhya ātate iti.17. .. 80..
ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात् ॥ तदर्वाक्परिवर्तंते ह्याधिभौतिकपूजकाः ॥ ८१॥
ज्ञान-शब्द-अर्थः एवम् हि तिरोधान-निवारणात् ॥ तद्-अर्वाक् परिवर्तन्ते हि आधिभौतिक-पूजकाः ॥ ८१॥
jñāna-śabda-arthaḥ evam hi tirodhāna-nivāraṇāt .. tad-arvāk parivartante hi ādhibhautika-pūjakāḥ .. 81..
आध्यात्मिकार्चका एव तदूर्ध्वं संप्रयांतिवै ॥ तावद्वै वेदिभागं तन्महालोकात्मलिंगके ॥ ८२॥
आध्यात्मिक-अर्चकाः एव तद्-ऊर्ध्वम् संप्रयांति वै ॥ तावत् वै वेदि-भागम् तत् महा-लोक-आत्म-लिंगके ॥ ८२॥
ādhyātmika-arcakāḥ eva tad-ūrdhvam saṃprayāṃti vai .. tāvat vai vedi-bhāgam tat mahā-loka-ātma-liṃgake .. 82..
प्रकृत्याद्यष्टबंधोपि वेद्यंते संप्रतिष्ठतः ॥ एवमेतादृशं ज्ञेयं सर्वं लौकिकवैदिकम् ॥ ८३॥
प्रकृति-आदि-अष्ट-बंधः उपि वेदि-अंते संप्रतिष्ठतः ॥ एवम् एतादृशम् ज्ञेयम् सर्वम् लौकिक-वैदिकम् ॥ ८३॥
prakṛti-ādi-aṣṭa-baṃdhaḥ upi vedi-aṃte saṃpratiṣṭhataḥ .. evam etādṛśam jñeyam sarvam laukika-vaidikam .. 83..
अधर्ममहिषारूढं कालचक्रं तरंति ते ॥ सत्यादिधर्मयुक्ता ये शिवपूजापराश्च ये ॥ ८४॥
अधर्म-महिष-आरूढम् कालचक्रम् तरंति ते ॥ सत्य-आदि-धर्म-युक्ताः ये शिव-पूजा-पराः च ये ॥ ८४॥
adharma-mahiṣa-ārūḍham kālacakram taraṃti te .. satya-ādi-dharma-yuktāḥ ye śiva-pūjā-parāḥ ca ye .. 84..
तदूर्ध्वं वृषभो धर्मो ब्रह्मचर्यस्वरूपधृक् ॥ सत्यादिपादयुक्तस्तु शिवलोकाग्रतः स्थितः ॥ ८५॥
तद्-ऊर्ध्वम् वृषभः धर्मः ब्रह्मचर्य-स्व-रूप-धृक् ॥ सत्य-आदि-पाद-युक्तः तु शिव-लोक-अग्रतस् स्थितः ॥ ८५॥
tad-ūrdhvam vṛṣabhaḥ dharmaḥ brahmacarya-sva-rūpa-dhṛk .. satya-ādi-pāda-yuktaḥ tu śiva-loka-agratas sthitaḥ .. 85..
क्षमाशृङ्गः शमश्रोत्रो वेदध्वनिविभूषितः ॥ आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः ॥ ८६॥
क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा ॥ तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति ॥ ८७॥
क्रिया-आदि-वृषभाः ज्ञेयाः कारण-आदिषु सर्वदा ॥ तम् क्रिया-वृषभम् धर्मम् काल-अतीता उधितिष्ठति ॥ ८७॥
kriyā-ādi-vṛṣabhāḥ jñeyāḥ kāraṇa-ādiṣu sarvadā .. tam kriyā-vṛṣabham dharmam kāla-atītā udhitiṣṭhati .. 87..
ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते ॥ तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम् ॥ ८८॥
ब्रह्म-विष्णु-महेशानाम् स्व-स्व-आयुः-दिनम् उच्यते ॥ तद्-ऊर्ध्वम् न दिनम् रात्रिः न जन्म-मरण-आदिकम् ॥ ८८॥
brahma-viṣṇu-maheśānām sva-sva-āyuḥ-dinam ucyate .. tad-ūrdhvam na dinam rātriḥ na janma-maraṇa-ādikam .. 88..
पुनः कारणसत्यांताः कारणब्रह्मणस्तथा ॥ गंधादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा ॥ ८९॥
पुनर् कारण-सत्य-अंताः कारण-ब्रह्मणः तथा ॥ गंध-आदिभ्यः तु भूतेभ्यः तद्-ऊर्ध्वम् निर्मिताः सदा ॥ ८९॥
punar kāraṇa-satya-aṃtāḥ kāraṇa-brahmaṇaḥ tathā .. gaṃdha-ādibhyaḥ tu bhūtebhyaḥ tad-ūrdhvam nirmitāḥ sadā .. 89..
सूक्ष्मगंधस्वरूपा हि स्थिता लोकाश्चतुर्दश ॥ पुनः कारणविष्णोर्वै स्थिता लोकाश्चतुर्दश १.१७. ॥ ९०॥
सूक्ष्म-गंध-स्वरूपाः हि स्थिताः लोकाः चतुर्दश ॥ पुनर् कारण-विष्णोः वै स्थिताः लोकाः चतुर्दश।१७। ॥ ९०॥
sūkṣma-gaṃdha-svarūpāḥ hi sthitāḥ lokāḥ caturdaśa .. punar kāraṇa-viṣṇoḥ vai sthitāḥ lokāḥ caturdaśa.17. .. 90..
पुनःकारणरुद्र स्य लोकाष्टाविंशका मताः ॥ पुनश्च कारणेशस्य षट्पंचाशत्तदूर्ध्वगाः ॥ ९१॥
लोक-अष्टाविंशकाः मताः ॥ पुनर् च कारण-ईशस्य षट्पंचाशत् तद्-ऊर्ध्व-गाः ॥ ९१॥
loka-aṣṭāviṃśakāḥ matāḥ .. punar ca kāraṇa-īśasya ṣaṭpaṃcāśat tad-ūrdhva-gāḥ .. 91..
ततः परं ब्रह्मचर्यलोकाख्यं शिवसंमतम् ॥ तत्रैव ज्ञानकैलासे पंचावरणसंयुते ॥ ९२॥
ततस् परम् ब्रह्मचर्य-लोक-आख्यम् शिव-संमतम् ॥ तत्र एव ज्ञान-कैलासे पंच-आवरण-संयुते ॥ ९२॥
tatas param brahmacarya-loka-ākhyam śiva-saṃmatam .. tatra eva jñāna-kailāse paṃca-āvaraṇa-saṃyute .. 92..
पंचमंडलसंयुक्तं पंचब्रह्मकलान्वितम् ॥ आदिशक्तिसमायुक्तमादिलिंगं तु तत्र वै ॥ ९३॥
पंच-मंडल-संयुक्तम् पंच-ब्रह्म-कला-अन्वितम् ॥ आदिशक्ति-समायुक्तम् आदिलिंगम् तु तत्र वै ॥ ९३॥
paṃca-maṃḍala-saṃyuktam paṃca-brahma-kalā-anvitam .. ādiśakti-samāyuktam ādiliṃgam tu tatra vai .. 93..
शिवालयमिदं प्रोक्तं शिवस्य परमात्मनः ॥ परशक्त्यासमायुक्तस्तत्रैव परमेश्वरः ॥ ९४॥
शिव-आलयम् इदम् प्रोक्तम् शिवस्य परमात्मनः ॥ पर-शक्त्या समायुक्तः तत्र एव परमेश्वरः ॥ ९४॥
śiva-ālayam idam proktam śivasya paramātmanaḥ .. para-śaktyā samāyuktaḥ tatra eva parameśvaraḥ .. 94..
सृष्टिः स्थितिश्च संहारस्तिरोभावोप्यनुग्रहः ॥ पंचकृत्यप्रवीणोऽसौ सच्चिदानंदविग्रहः ॥ ९५॥
सृष्टिः स्थितिः च संहारः तिरोभावः अपि अनुग्रहः ॥ पंचकृत्य-प्रवीणः असौ सच्चिदानन्द-विग्रहः ॥ ९५॥
sṛṣṭiḥ sthitiḥ ca saṃhāraḥ tirobhāvaḥ api anugrahaḥ .. paṃcakṛtya-pravīṇaḥ asau saccidānanda-vigrahaḥ .. 95..
ध्यानधर्मः सदा यस्य सदानुग्रहतत्परः ॥ समाध्यासनमासीनः स्वात्मारामो विराजते ॥ ९६॥
ध्यान-धर्मः सदा यस्य सदा अनुग्रह-तत्परः ॥ समाधि-आसनम् आसीनः स्व-आत्म-आरामः विराजते ॥ ९६॥
dhyāna-dharmaḥ sadā yasya sadā anugraha-tatparaḥ .. samādhi-āsanam āsīnaḥ sva-ātma-ārāmaḥ virājate .. 96..
तस्य संदर्शनं सांध्यं कर्मध्यानादिभिः क्रमात् ॥ नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत् ॥ ९७॥
तस्य संदर्शनम् सांध्यम् कर्म-ध्यान-आदिभिः क्रमात् ॥ नित्य-आदि-कर्म-यजनात् शिव-कर्म-मतिः भवेत् ॥ ९७॥
tasya saṃdarśanam sāṃdhyam karma-dhyāna-ādibhiḥ kramāt .. nitya-ādi-karma-yajanāt śiva-karma-matiḥ bhavet .. 97..
क्रियादिशिवकर्मभ्यः शिवज्ञानं प्रसाधयेत् ॥ तद्दर्शनगताः सर्वे मुक्ता एव न संशयः ॥ ९८॥
प्रसाधयेत् ॥ तद्-दर्शन-गताः सर्वे मुक्ताः एव न संशयः ॥ ९८॥
prasādhayet .. tad-darśana-gatāḥ sarve muktāḥ eva na saṃśayaḥ .. 98..
मुक्तिरात्मस्वरूपेण स्वात्मारामत्वमेव हि ॥ क्रियातपोजपज्ञानध्यानधर्मेषु सुस्थितः ॥ ९९॥
मुक्तिः आत्म-स्वरूपेण स्वात्म-आराम-त्वम् एव हि ॥ क्रिया-तपः-जप-ज्ञान-ध्यान-धर्मेषु सुस्थितः ॥ ९९॥
muktiḥ ātma-svarūpeṇa svātma-ārāma-tvam eva hi .. kriyā-tapaḥ-japa-jñāna-dhyāna-dharmeṣu susthitaḥ .. 99..
शिवस्य दर्शनं लब्धा स्वात्मारामत्वमेव हि ॥ यथा रविः स्वकिरणादशुद्धिमपनेष्यति १.१७. ॥ १००॥
शिवस्य दर्शनम् लब्धा स्व-आत्म-आराम-त्वम् एव हि ॥ यथा रविः स्व-किरणात् अशुद्धिम् अपनेष्यति।१७। ॥ १००॥
śivasya darśanam labdhā sva-ātma-ārāma-tvam eva hi .. yathā raviḥ sva-kiraṇāt aśuddhim apaneṣyati.17. .. 100..
कृपाविचक्षणः शंभुरज्ञानमपनेष्यति ॥ अज्ञानविनिवृत्तौ तु शिवज्ञानं प्रवर्तते ॥ १०१॥
कृपा-विचक्षणः शंभुः अज्ञानम् अपनेष्यति ॥ अज्ञान-विनिवृत्तौ तु शिव-ज्ञानम् प्रवर्तते ॥ १०१॥
kṛpā-vicakṣaṇaḥ śaṃbhuḥ ajñānam apaneṣyati .. ajñāna-vinivṛttau tu śiva-jñānam pravartate .. 101..
शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति ॥ आत्मारामत्वसंसिद्धौ कृतकृत्यो भवेन्नरः ॥ १०२॥
शिव-ज्ञानात् स्व-स्वरूपम् आत्म-आराम-त्वम् एष्यति ॥ आत्म-आराम-त्व-संसिद्धौ कृतकृत्यः भवेत् नरः ॥ १०२॥
śiva-jñānāt sva-svarūpam ātma-ārāma-tvam eṣyati .. ātma-ārāma-tva-saṃsiddhau kṛtakṛtyaḥ bhavet naraḥ .. 102..
पुनश्च शतलक्षेण ब्रह्मणः पदमाप्नुयात् ॥ पुनश्च शतलक्षेण विष्णोः पदमवाप्नुयात् ॥ १०३॥
पुनर् च शत-लक्षेण ब्रह्मणः पदम् आप्नुयात् ॥ पुनर् च शत-लक्षेण विष्णोः पदम् अवाप्नुयात् ॥ १०३॥
punar ca śata-lakṣeṇa brahmaṇaḥ padam āpnuyāt .. punar ca śata-lakṣeṇa viṣṇoḥ padam avāpnuyāt .. 103..
पुनश्च शतलक्षेण रुद्र स्य पदमाप्नुयात् ॥ पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् ॥ १०४॥
पुनर् च शत-लक्षेण पदम् आप्नुयात् ॥ पुनर् च शत-लक्षेण ऐश्वर्यम् पदम् आप्नुयात् ॥ १०४॥
punar ca śata-lakṣeṇa padam āpnuyāt .. punar ca śata-lakṣeṇa aiśvaryam padam āpnuyāt .. 104..
पुनश्चैवंविधेनैव जपेन सुसमाहितः ॥ शिवलोकादिभूतं हि कालचक्रमवाप्नुयात् ॥ १०५॥
पुनर् च एवंविधेन एव जपेन सु समाहितः ॥ शिव-लोक-आदि-भूतम् हि कालचक्रम् अवाप्नुयात् ॥ १०५॥
punar ca evaṃvidhena eva japena su samāhitaḥ .. śiva-loka-ādi-bhūtam hi kālacakram avāpnuyāt .. 105..
कालचक्रं पंचचक्रमेकैकेन क्रमोत्तरे ॥ सृष्टिमोहौ ब्रह्मचक्रं भोगमोहौ तु वैष्णवम् ॥ १०६॥
कालचक्रम् पंच-चक्रम् एकैकेन क्रम-उत्तरे ॥ सृष्टि-मोहौ ब्रह्मचक्रम् भोग-मोहौ तु वैष्णवम् ॥ १०६॥
kālacakram paṃca-cakram ekaikena krama-uttare .. sṛṣṭi-mohau brahmacakram bhoga-mohau tu vaiṣṇavam .. 106..
कोपमोहौ रौद्र चक्रं भ्रमणं चैश्वरं विदुः ॥ शिवचक्रं ज्ञानमोहौ पंचचक्रं विदुर्बुधाः ॥ १०७॥
कोप-मोहौ रौद्र चक्रम् भ्रमणम् च ऐश्वरम् विदुः ॥ शिवचक्रम् ज्ञान-मोहौ पंचचक्रम् विदुः बुधाः ॥ १०७॥
kopa-mohau raudra cakram bhramaṇam ca aiśvaram viduḥ .. śivacakram jñāna-mohau paṃcacakram viduḥ budhāḥ .. 107..
पुनश्च दशकोट्या हि कारणब्रह्मणः पदम् ॥ पुनश्च दशकोट्या हि तत्पदैश्वर्यमाप्नुयात् ॥ १०८॥
पुनर् च दश-कोट्या हि कारण-ब्रह्मणः पदम् ॥ पुनर् च दश-कोट्या हि तद्-पद-ऐश्वर्यम् आप्नुयात् ॥ १०८॥
punar ca daśa-koṭyā hi kāraṇa-brahmaṇaḥ padam .. punar ca daśa-koṭyā hi tad-pada-aiśvaryam āpnuyāt .. 108..
एवं क्रमेण विष्ण्वादेः पदं लब्ध्वा महौजसः ॥ क्रमेण तत्पदैश्वर्यं लब्ध्वा चैव महात्मनः ॥ १०९॥
एवम् क्रमेण विष्णु-आदेः पदम् लब्ध्वा महा-ओजसः ॥ क्रमेण तद्-पद-ऐश्वर्यम् लब्ध्वा च एव महात्मनः ॥ १०९॥
evam krameṇa viṣṇu-ādeḥ padam labdhvā mahā-ojasaḥ .. krameṇa tad-pada-aiśvaryam labdhvā ca eva mahātmanaḥ .. 109..
शतकोटिमनुं जप्त्वा पंचोत्तरमतंद्रि तः ॥ शिवलोकमवाप्नोति पंचमावरणाद्बहिः १.१७. ॥ ११०॥
शत-कोटि-मनुम् जप्त्वा पंच-उत्तरम् अतंद्रि तः ॥ शिव-लोकम् अवाप्नोति पंचम-आवरणात् बहिस्।१७। ॥ ११०॥
śata-koṭi-manum japtvā paṃca-uttaram ataṃdri taḥ .. śiva-lokam avāpnoti paṃcama-āvaraṇāt bahis.17. .. 110..
राजसं मंडपं तत्र नंदीसंस्थानमुत्तमम् ॥ तपोरूपश्च वृषभस्तत्रैव परिदृश्यते ॥ १११॥
राजसम् मंडपम् तत्र नंदी-संस्थानम् उत्तमम् ॥ तपः-रूपः च वृषभः तत्र एव परिदृश्यते ॥ १११॥
rājasam maṃḍapam tatra naṃdī-saṃsthānam uttamam .. tapaḥ-rūpaḥ ca vṛṣabhaḥ tatra eva paridṛśyate .. 111..
सद्योजातस्य तत्स्थानं पंचमावरणं परम् ॥ वामदेवस्य च स्थानं चतुर्थावरणं पुनः ॥ ११२॥
सद्योजातस्य तत् स्थानम् पंचम-आवरणम् परम् ॥ वामदेवस्य च स्थानम् चतुर्थ-आवरणम् पुनर् ॥ ११२॥
sadyojātasya tat sthānam paṃcama-āvaraṇam param .. vāmadevasya ca sthānam caturtha-āvaraṇam punar .. 112..
अघोरनिलयं पश्चात्तृतीयावरणं परम् ॥ पुरुषस्यैव सांबस्य द्वितीयावरणं शुभम् ॥ ११३॥
अघोर-निलयम् पश्चात् तृतीय-आवरणम् परम् ॥ पुरुषस्य एव स अंबस्य द्वितीय-आवरणम् शुभम् ॥ ११३॥
aghora-nilayam paścāt tṛtīya-āvaraṇam param .. puruṣasya eva sa aṃbasya dvitīya-āvaraṇam śubham .. 113..
ईशानस्य परस्यैव प्रथमावरणं ततः ॥ ध्यानधर्मस्य च स्थानं पंचमं मंडपं ततः ॥ ११४॥
ईशानस्य परस्य एव प्रथम-आवरणम् ततस् ॥ ध्यान-धर्मस्य च स्थानम् पंचमम् मंडपम् ततस् ॥ ११४॥
īśānasya parasya eva prathama-āvaraṇam tatas .. dhyāna-dharmasya ca sthānam paṃcamam maṃḍapam tatas .. 114..
बलिनाथस्य संस्थानं तत्र पूर्णामृतप्रदम् ॥ चतुर्थं मंडपं पश्चाच्चंद्र शेखरमूर्तिमत् ॥ ११५॥
बलिनाथस्य संस्थानम् तत्र पूर्ण-अमृत-प्रदम् ॥ चतुर्थम् मंडपम् पश्चात् चंद्र-शेखर-मूर्तिमत् ॥ ११५॥
balināthasya saṃsthānam tatra pūrṇa-amṛta-pradam .. caturtham maṃḍapam paścāt caṃdra-śekhara-mūrtimat .. 115..
सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम् ॥ द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः ॥ ११६॥
सोमस्कंदस्य च स्थानम् तृतीयम् मंडपम् परम् ॥ द्वितीयम् मंडपम् नृत्य-मंडपम् प्राहुः आस्तिकाः ॥ ११६॥
somaskaṃdasya ca sthānam tṛtīyam maṃḍapam param .. dvitīyam maṃḍapam nṛtya-maṃḍapam prāhuḥ āstikāḥ .. 116..
प्रथमं मूलमायायाः स्थानं तत्रैव शोभनम् ॥ ततः परं गर्भगृहं लिंगस्थानं परं शुभम् ॥ ११७॥
प्रथमम् मूलमायायाः स्थानम् तत्र एव शोभनम् ॥ ततस् परम् गर्भगृहम् लिंग-स्थानम् परम् शुभम् ॥ ११७॥
prathamam mūlamāyāyāḥ sthānam tatra eva śobhanam .. tatas param garbhagṛham liṃga-sthānam param śubham .. 117..
नंदिसंस्थानतः पश्चान्न विदुः शिववैभवम् ॥ नंदीश्वरो बहिस्तिष्ठन्पंचाक्षरमुपासते ॥ ११८॥
नंदि-संस्थानतः पश्चात् न विदुः शिव-वैभवम् ॥ नंदीश्वरः बहिस् तिष्ठन् पंचाक्षरम् उपासते ॥ ११८॥
naṃdi-saṃsthānataḥ paścāt na viduḥ śiva-vaibhavam .. naṃdīśvaraḥ bahis tiṣṭhan paṃcākṣaram upāsate .. 118..
एवं गुरुक्रमाल्लब्धं नंदीशाच्च मया पुनः ॥ ततः परं स्वसंवेद्यं शिवे नैवानुभावितम् ॥ ११९॥
एवम् गुरु-क्रमात् लब्धम् नंदीशात् च मया पुनर् ॥ ततस् परम् स्व-संवेद्यम् शिवे ना एव अनुभावितम् ॥ ११९॥
evam guru-kramāt labdham naṃdīśāt ca mayā punar .. tatas param sva-saṃvedyam śive nā eva anubhāvitam .. 119..
शिवस्य कृपया साक्षाच्छिव लोकस्य वैभवम् ॥ विज्ञातुं शक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः १.१७. ॥ १२०॥
शिवस्य कृपया साक्षात् शिव लोकस्य वैभवम् ॥ विज्ञातुम् शक्यते सर्वैः न अन्यथा इति आहुः आस्तिकाः।१७। ॥ १२०॥
śivasya kṛpayā sākṣāt śiva lokasya vaibhavam .. vijñātum śakyate sarvaiḥ na anyathā iti āhuḥ āstikāḥ.17. .. 120..
एवंक्रमेणमुक्ताः स्युर्ब्राह्मणा वै जितेंद्रि यः ॥ अन्येषां च क्रमं वक्ष्ये गदतः शृणुतादरात् ॥ १२१॥
एवंक्रमेण मुक्ताः स्युः ब्राह्मणाः वै ॥ अन्येषाम् च क्रमम् वक्ष्ये गदतः शृणुत आदरात् ॥ १२१॥
evaṃkrameṇa muktāḥ syuḥ brāhmaṇāḥ vai .. anyeṣām ca kramam vakṣye gadataḥ śṛṇuta ādarāt .. 121..
गुरूपदेशाज्जाप्यं वै ब्राह्मणानां नमोऽतकम् ॥ पंचाक्षरं पंचलक्षमायुष्यं प्रजपेद्विधिः ॥ १२२॥
गुरु-उपदेशात् जाप्यम् वै ब्राह्मणानाम् ॥ पंचाक्षरम् पंच-लक्षम् आयुष्यम् प्रजपेत् विधिः ॥ १२२॥
guru-upadeśāt jāpyam vai brāhmaṇānām .. paṃcākṣaram paṃca-lakṣam āyuṣyam prajapet vidhiḥ .. 122..
स्त्रीत्वापनयनार्थं तु पंचलक्षं जपेत्पुनः ॥ मंत्रेण पुरुषो भूत्वा क्रमान्मुक्तो भवेद्बुधः ॥ १२३॥
स्त्री-त्व-अपनयन-अर्थम् तु पंच-लक्षम् जपेत् पुनर् ॥ मंत्रेण पुरुषः भूत्वा क्रमात् मुक्तः भवेत् बुधः ॥ १२३॥
strī-tva-apanayana-artham tu paṃca-lakṣam japet punar .. maṃtreṇa puruṣaḥ bhūtvā kramāt muktaḥ bhavet budhaḥ .. 123..
क्षत्रियः पंचलक्षेण क्षत्त्रत्वमपनेष्यति ॥ पुनश्च पंचलक्षेण क्षत्त्रियो ब्राह्मणो भवेत् ॥ १२४॥
क्षत्रियः पंचलक्षेण क्षत्त्र-त्वम् अपनेष्यति ॥ पुनर् च पंच-लक्षेण क्षत्त्रियः ब्राह्मणः भवेत् ॥ १२४॥
kṣatriyaḥ paṃcalakṣeṇa kṣattra-tvam apaneṣyati .. punar ca paṃca-lakṣeṇa kṣattriyaḥ brāhmaṇaḥ bhavet .. 124..
मंत्रसिद्धिर्जपाच्चैव क्रमान्मुक्तो भवैन्नरः ॥ वैश्यस्तु पंचलक्षेण वैश्यत्वमपनेष्यति ॥ १२५॥
मंत्र-सिद्धिः जपात् च एव क्रमात् मुक्तः भवैन् नरः ॥ वैश्यः तु पंचलक्षेण वैश्य-त्वम् अपनेष्यति ॥ १२५॥
maṃtra-siddhiḥ japāt ca eva kramāt muktaḥ bhavain naraḥ .. vaiśyaḥ tu paṃcalakṣeṇa vaiśya-tvam apaneṣyati .. 125..
पुनश्च पंचलक्षेण मंत्रक्षत्त्रिय उच्यते ॥ पुनश्च पंचलक्षेण क्षत्त्रत्वमपनेष्यति ॥ १२६॥
पुनर् च पंच-लक्षेण मंत्र-क्षत्त्रियः उच्यते ॥ पुनर् च पंच-लक्षेण क्षत्त्र-त्वम् अपनेष्यति ॥ १२६॥
punar ca paṃca-lakṣeṇa maṃtra-kṣattriyaḥ ucyate .. punar ca paṃca-lakṣeṇa kṣattra-tvam apaneṣyati .. 126..
पुनश्च पंचलक्षेण मंत्रब्राह्मण उच्यते ॥ शूद्र श्चैव नमॐतेन पंचविंशतिलक्षतः ॥ १२७॥
पुनर् च पंच-लक्षेण मंत्रब्राह्मणः उच्यते ॥ शूद्रः च एव नमः-ओंतेन पंचविंशति-लक्षतः ॥ १२७॥
punar ca paṃca-lakṣeṇa maṃtrabrāhmaṇaḥ ucyate .. śūdraḥ ca eva namaḥ-oṃtena paṃcaviṃśati-lakṣataḥ .. 127..
मंत्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः ॥ नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा ॥ १२८॥
मंत्र-विप्र-त्वम् आपद्य पश्चात् शुद्धः भवेत् द्विजः ॥ नारी इव अथ नरः वा अथ ब्राह्मणः वा अन्यः एव वा ॥ १२८॥
maṃtra-vipra-tvam āpadya paścāt śuddhaḥ bhavet dvijaḥ .. nārī iva atha naraḥ vā atha brāhmaṇaḥ vā anyaḥ eva vā .. 128..
नमोन्तं वा नमःपूर्वमातुरः सर्वदा जपेत् ॥ ततः स्त्रीणां तथैवोह्यगुरुर्निर्दर्शयेत्क्रमात् ॥ १२९॥
नमः-न्तम् वा नमः-पूर्वम् आतुरः सर्वदा जपेत् ॥ ततस् स्त्रीणाम् तथा एवा ऊह्य-गुरुः निर्दर्शयेत् क्रमात् ॥ १२९॥
namaḥ-ntam vā namaḥ-pūrvam āturaḥ sarvadā japet .. tatas strīṇām tathā evā ūhya-guruḥ nirdarśayet kramāt .. 129..
साधकः पंचलक्षान्ते शिवप्रीत्यर्थमेव हि ॥ महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत् १.१७. ॥ १३०॥
साधकः पंच-लक्ष-अन्ते शिव-प्रीति-अर्थम् एव हि ॥ महाभिषेक नैवेद्यम् कृत्वा भक्तान् च पूजयेत्।१७। ॥ १३०॥
sādhakaḥ paṃca-lakṣa-ante śiva-prīti-artham eva hi .. mahābhiṣeka naivedyam kṛtvā bhaktān ca pūjayet.17. .. 130..
पूजया शिवभक्तस्य शिवः प्रीततरो भवेत् ॥ शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः ॥ १३१॥
पूजया शिव-भक्तस्य शिवः प्रीततरः भवेत् ॥ शिवस्य शिव-भक्तस्य भेदः ना अस्ति शिवः हि सः ॥ १३१॥
pūjayā śiva-bhaktasya śivaḥ prītataraḥ bhavet .. śivasya śiva-bhaktasya bhedaḥ nā asti śivaḥ hi saḥ .. 131..
शिवस्वरूपमंत्रस्य धारणाच्छिव एव हि ॥ शिवभक्तशरीरे हि शिवे तत्परमो भवेत् ॥ १३२॥
शिव-स्व-रूप-मंत्रस्य धारणात् शिवः एव हि ॥ शिव-भक्त-शरीरे हि शिवे तद्-परमः भवेत् ॥ १३२॥
śiva-sva-rūpa-maṃtrasya dhāraṇāt śivaḥ eva hi .. śiva-bhakta-śarīre hi śive tad-paramaḥ bhavet .. 132..
शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियां विदुः ॥ यावद्यावच्छिवं मंत्रं येन जप्तं भवेत्क्रमात् ॥ १३३॥
शिव-भक्ताः क्रियाः सर्वाः वेद-सर्व-क्रियाम् विदुः ॥ यावत् यावत् शिवम् मंत्रम् येन जप्तम् भवेत् क्रमात् ॥ १३३॥
śiva-bhaktāḥ kriyāḥ sarvāḥ veda-sarva-kriyām viduḥ .. yāvat yāvat śivam maṃtram yena japtam bhavet kramāt .. 133..
तावद्वै शिवसान्निध्यं तस्मिन्देहे न संशयः ॥ देवीलिंगं भवेद्रू पं शिवभक्तस्त्रियास्तथा ॥ १३४॥
तावत् वै शिव-सान्निध्यम् तस्मिन् देहे न संशयः ॥ देवी-लिंगम् शिव-भक्त-स्त्रियाः तथा ॥ १३४॥
tāvat vai śiva-sānnidhyam tasmin dehe na saṃśayaḥ .. devī-liṃgam śiva-bhakta-striyāḥ tathā .. 134..
यावन्मंत्रं जपेद्देव्यास्तावत्सान्निध्यमस्ति हि ॥ शिवं संपूजयेद्धीमान्स्वयं वै शब्दरूपभाक् ॥ १३५॥
यावत् मंत्रम् जपेत् देव्याः तावत् सान्निध्यम् अस्ति हि ॥ शिवम् संपूजयेत् धीमान् स्वयम् वै शब्द-रूप-भाज् ॥ १३५॥
yāvat maṃtram japet devyāḥ tāvat sānnidhyam asti hi .. śivam saṃpūjayet dhīmān svayam vai śabda-rūpa-bhāj .. 135..
स्वयं चैव शिवो भूत्वा परां शक्तिं प्रपूजयेत् ॥ शक्तिं बेरं च लिंगं च ह्यालेख्या मायया यजेत् ॥ १३६॥
स्वयम् च एव शिवः भूत्वा पराम् शक्तिम् प्रपूजयेत् ॥ शक्तिम् बेरम् च लिंगम् च हि आलेख्या मायया यजेत् ॥ १३६॥
svayam ca eva śivaḥ bhūtvā parām śaktim prapūjayet .. śaktim beram ca liṃgam ca hi ālekhyā māyayā yajet .. 136..
शिवलिंगं शिवं मत्वा स्वात्मानं शक्तिरूपकम् ॥ शक्तिलिंगं च देवीं च मत्वा स्वं शिवरूपकम् ॥ १३७॥
शिव-लिंगम् शिवम् मत्वा स्व-आत्मानम् शक्ति-रूपकम् ॥ शक्ति-लिंगम् च देवीम् च मत्वा स्वम् शिव-रूपकम् ॥ १३७॥
śiva-liṃgam śivam matvā sva-ātmānam śakti-rūpakam .. śakti-liṃgam ca devīm ca matvā svam śiva-rūpakam .. 137..
शिवलिंगं नादरूपं बिंदुरूपं तु शक्तिकम् ॥ उपप्रधानभावेन अन्योन्यासक्तलिंगकम् ॥ १३८॥
शिव-लिंगम् नाद-रूपम् बिंदु-रूपम् तु शक्तिकम् ॥ उपप्रधान-भावेन अन्योन्य-आसक्त-लिंगकम् ॥ १३८॥
śiva-liṃgam nāda-rūpam biṃdu-rūpam tu śaktikam .. upapradhāna-bhāvena anyonya-āsakta-liṃgakam .. 138..
पूजयेच्च शिवं शक्तिं स शिवो मूलभावनात् ॥ शिवभक्ताञ्छिवमंत्ररूपकाञ्छिवरूपकान् ॥ १३९॥
पूजयेत् च शिवम् शक्तिम् स शिवः मूल-भावनात् ॥ शिव-भक्तान् शिव-मंत्र-रूपकान् शिव-रूपकान् ॥ १३९॥
pūjayet ca śivam śaktim sa śivaḥ mūla-bhāvanāt .. śiva-bhaktān śiva-maṃtra-rūpakān śiva-rūpakān .. 139..
षोडशैरुपचारैश्च पूजयेदिष्टमाप्नुयात् ॥ येन शुश्रूषणाद्यैश्च शिवभक्तस्य लिंगिनः १.१७. ॥ १४०॥
षोडशैः उपचारैः च पूजयेत् इष्टम् आप्नुयात् ॥ येन शुश्रूषण-आद्यैः च शिव-भक्तस्य लिंगिनः।१७। ॥ १४०॥
ṣoḍaśaiḥ upacāraiḥ ca pūjayet iṣṭam āpnuyāt .. yena śuśrūṣaṇa-ādyaiḥ ca śiva-bhaktasya liṃginaḥ.17. .. 140..
आनंदं जनयेद्विद्वाञ्छिवः प्रीततरो भवेत् ॥ शिवभक्तान्सपत्नीकान्पत्न्या सह सदैव तत् ॥ १४१॥
आनंदम् जनयेत् विद्वान् शिवः प्रीततरः भवेत् ॥ शिव-भक्तान् स पत्नीकान् पत्न्या सह सदा एव तत् ॥ १४१॥
ānaṃdam janayet vidvān śivaḥ prītataraḥ bhavet .. śiva-bhaktān sa patnīkān patnyā saha sadā eva tat .. 141..
पूजयेद्भोजनाद्यैश्च पंच वा दश वा शतम् ॥ धने देहे च मंत्रे च भावनायामवंचकः ॥ १४२॥
पूजयेत् भोजन-आद्यैः च पंच वा दश वा शतम् ॥ धने देहे च मंत्रे च भावनायाम् अवंचकः ॥ १४२॥
pūjayet bhojana-ādyaiḥ ca paṃca vā daśa vā śatam .. dhane dehe ca maṃtre ca bhāvanāyām avaṃcakaḥ .. 142..
शिवशक्तिस्वरूपेण न पुनर्जायते भुवि ॥ नाभेरधो ब्रह्मभागमाकंठं विष्णुभागकम् ॥ १४३॥
शिव-शक्ति-स्वरूपेण न पुनर् जायते भुवि ॥ नाभेः अधस् ब्रह्मभागम् आकंठम् विष्णुभागकम् ॥ १४३॥
śiva-śakti-svarūpeṇa na punar jāyate bhuvi .. nābheḥ adhas brahmabhāgam ākaṃṭham viṣṇubhāgakam .. 143..
मुखं लिंगमिति प्रोक्तं शिवभक्तशरीरकम् ॥ मृतान्दाहादियुक्तान्वा दाहादिरहितान्मृतान् ॥ १४४॥
मुखम् लिंगम् इति प्रोक्तम् शिव-भक्त-शरीरकम् ॥ मृतान् दाह-आदि-युक्तान् वा दाह-आदि-रहितान् मृतान् ॥ १४४॥
mukham liṃgam iti proktam śiva-bhakta-śarīrakam .. mṛtān dāha-ādi-yuktān vā dāha-ādi-rahitān mṛtān .. 144..
उद्दिश्य पूजयेदादिपितरं शिवमेव हि ॥ पूजां कृत्वादिमातुश्च शिवभक्तांश्च पूजयेत् ॥ १४५॥
उद्दिश्य पूजयेत् आदिपितरम् शिवम् एव हि ॥ पूजाम् कृत्वा आदिमातुः च शिव-भक्तान् च पूजयेत् ॥ १४५॥
uddiśya pūjayet ādipitaram śivam eva hi .. pūjām kṛtvā ādimātuḥ ca śiva-bhaktān ca pūjayet .. 145..
पितृलोकं समासाद्यक्रमान्मुक्तो भवेन्मृतः ॥ क्रियायुक्तदशभ्यश्च तपोयुक्तो विशिष्यते ॥ १४६॥
पितृ-लोकम् समासाद्य क्रमात् मुक्तः भवेत् मृतः ॥ क्रिया-युक्त-दशभ्यः च तपः-युक्तः विशिष्यते ॥ १४६॥
pitṛ-lokam samāsādya kramāt muktaḥ bhavet mṛtaḥ .. kriyā-yukta-daśabhyaḥ ca tapaḥ-yuktaḥ viśiṣyate .. 146..
तपोयुक्तशतेभ्यश्च जपयुक्तो विशिष्यते ॥ जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते ॥ १४७॥
तपः-युक्त-शतेभ्यः च जप-युक्तः विशिष्यते ॥ जप-युक्त-सहस्रेभ्यः शिव-ज्ञानी विशिष्यते ॥ १४७॥
tapaḥ-yukta-śatebhyaḥ ca japa-yuktaḥ viśiṣyate .. japa-yukta-sahasrebhyaḥ śiva-jñānī viśiṣyate .. 147..
शिवज्ञानिषु लक्षेषु ध्यानयुक्तो विशिष्यते ॥ ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते ॥ १४८॥
शिव-ज्ञानिषु लक्षेषु ध्यान-युक्तः विशिष्यते ॥ ध्यान-युक्तेषु कोटिभ्यः समाधि-स्थः विशिष्यते ॥ १४८॥
śiva-jñāniṣu lakṣeṣu dhyāna-yuktaḥ viśiṣyate .. dhyāna-yukteṣu koṭibhyaḥ samādhi-sthaḥ viśiṣyate .. 148..
उत्तरोत्तर वै शिष्ट्यात्पूजायामुत्तरोत्तरम् ॥ फलं वैशिष्ट्यरूपं च दुर्विज्ञेयं मनीषिभिः ॥ १४९॥
उत्तरोत्तर-वै शिष्ट्यात् पूजायाम् उत्तरोत्तरम् ॥ फलम् वैशिष्ट्य-रूपम् च दुर्विज्ञेयम् मनीषिभिः ॥ १४९॥
uttarottara-vai śiṣṭyāt pūjāyām uttarottaram .. phalam vaiśiṣṭya-rūpam ca durvijñeyam manīṣibhiḥ .. 149..
तस्माद्वै शिवभक्तस्य माहात्म्यं वेत्ति को नरः ॥ शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम् १.१७. ॥ १५०॥
तस्मात् वै शिव-भक्तस्य माहात्म्यम् वेत्ति कः नरः ॥ शिव-शक्त्योः पूजनम् च शिव-भक्तस्य पूजनम्।१७। ॥ १५०॥
tasmāt vai śiva-bhaktasya māhātmyam vetti kaḥ naraḥ .. śiva-śaktyoḥ pūjanam ca śiva-bhaktasya pūjanam.17. .. 150..
कुरुते यो नरो भक्त्या स शिवः शिवमेधते ॥ य इमं पठतेऽध्यायमर्थवद्वेदसंमतम् ॥ १५१॥
कुरुते यः नरः भक्त्या स शिवः शिवम् एधते ॥ यः इमम् पठते अध्यायम् अर्थवत् वेद-संमतम् ॥ १५१॥
kurute yaḥ naraḥ bhaktyā sa śivaḥ śivam edhate .. yaḥ imam paṭhate adhyāyam arthavat veda-saṃmatam .. 151..
शिवज्ञानी भवेद्विप्रः शिवेन सह मोदते ॥ श्रावयेच्छिवभक्तांश्च विशेषज्ञो मनीश्वराः ॥ १५२॥
शिव-ज्ञानी भवेत् विप्रः शिवेन सह मोदते ॥ श्रावयेत् शिव-भक्तान् च विशेष-ज्ञः मनीश्वराः ॥ १५२॥
śiva-jñānī bhavet vipraḥ śivena saha modate .. śrāvayet śiva-bhaktān ca viśeṣa-jñaḥ manīśvarāḥ .. 152..
शिवप्रसादशिद्धिः स्याच्छिवस्य कृपया बुधाः ॥ १५३॥
शिव-प्रसाद-शिद्धिः स्यात् शिवस्य कृपया बुधाः ॥ १५३॥
śiva-prasāda-śiddhiḥ syāt śivasya kṛpayā budhāḥ .. 153..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तदशोऽध्यायः ॥ १५४॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् सप्तदशः अध्यायः ॥ १५४॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām saptadaśaḥ adhyāyaḥ .. 154..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In