| |
|

This overlay will guide you through the buttons:

ऋषयः ऊचुः ।
बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ॥ १॥
बंध-मोक्ष-स्वरूपम् हि ब्रूहि सर्व-अर्थ-वित्तम ॥ १॥
baṃdha-mokṣa-svarūpam hi brūhi sarva-artha-vittama .. 1..
प्रकृत्याद्यष्टबंधेन बद्धो जीवः स उच्यते ॥ प्रकृत्याद्यष्टबंधेन निर्मुक्तो मुक्त उच्यते ॥ २॥
प्रकृति-आदि-अष्ट-बंधेन बद्धः जीवः सः उच्यते ॥ प्रकृति-आदि-अष्ट-बंधेन निर्मुक्तः मुक्तः उच्यते ॥ २॥
prakṛti-ādi-aṣṭa-baṃdhena baddhaḥ jīvaḥ saḥ ucyate .. prakṛti-ādi-aṣṭa-baṃdhena nirmuktaḥ muktaḥ ucyate .. 2..
सूत उवाच ।
प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः ॥ बद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते ॥ ३॥
प्रकृति-आदि-वशीकारः मोक्षः इति उच्यते स्वतस् ॥ बद्धजीवः तु निर्मुक्तः मुक्तजीवः स कथ्यते ॥ ३॥
prakṛti-ādi-vaśīkāraḥ mokṣaḥ iti ucyate svatas .. baddhajīvaḥ tu nirmuktaḥ muktajīvaḥ sa kathyate .. 3..
प्रकृत्यग्रे ततो बुद्धिरहंकारो गुणात्मकः ॥ पंचतन्मात्रमित्येते प्रकृत्याद्यष्टकं विदुः ॥ ४॥
प्रकृति-अग्रे ततस् बुद्धिः अहंकारः गुण-आत्मकः ॥ पंच-तन्मात्रम् इति एते प्रकृति-आदि-अष्टकम् विदुः ॥ ४॥
prakṛti-agre tatas buddhiḥ ahaṃkāraḥ guṇa-ātmakaḥ .. paṃca-tanmātram iti ete prakṛti-ādi-aṣṭakam viduḥ .. 4..
प्रकृट्याद्यष्टजो देहो देहजं कर्म उच्यते ॥ पुनश्च कर्मजो देहो जन्मकर्म पुनः पुनः ॥ ५॥
प्रकृटि-आदि-अष्ट-जः देहः देह-जम् कर्म उच्यते ॥ पुनर् च कर्म-जः देहः जन्म-कर्म पुनर् पुनर् ॥ ५॥
prakṛṭi-ādi-aṣṭa-jaḥ dehaḥ deha-jam karma ucyate .. punar ca karma-jaḥ dehaḥ janma-karma punar punar .. 5..
शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मं च कारणम् ॥ स्थूलं व्यापारदं प्रोक्तं सूक्ष्ममिंद्रि यभोगदम् ॥ ६॥
शरीरम् त्रिविधम् ज्ञेयम् स्थूलम् सूक्ष्मम् च कारणम् ॥ स्थूलम् व्यापार-दम् प्रोक्तम् सूक्ष्मम् इंद्रि-भोग-दम् ॥ ६॥
śarīram trividham jñeyam sthūlam sūkṣmam ca kāraṇam .. sthūlam vyāpāra-dam proktam sūkṣmam iṃdri-bhoga-dam .. 6..
कारणं त्वात्मभोगार्थं जीवकर्मानुरूपतः ॥ सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते ॥ ७॥
कारणम् तु आत्म-भोग-अर्थम् जीव-कर्म-अनुरूपतः ॥ सुखम् दुःखम् पुण्य-पापैः कर्मभिः फलम् अश्नुते ॥ ७॥
kāraṇam tu ātma-bhoga-artham jīva-karma-anurūpataḥ .. sukham duḥkham puṇya-pāpaiḥ karmabhiḥ phalam aśnute .. 7..
तस्माद्धि कर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः ॥ शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा ॥ ८॥
तस्मात् हि कर्म-रज्ज्वा हि बद्धः जीवः पुनर् पुनर् ॥ शरीर-त्रय-कर्मभ्याम् चक्र-वत् भ्राम्यते सदा ॥ ८॥
tasmāt hi karma-rajjvā hi baddhaḥ jīvaḥ punar punar .. śarīra-traya-karmabhyām cakra-vat bhrāmyate sadā .. 8..
चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत् ॥ प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः ॥ ९॥
ईडयेत् ॥ प्रकृति-आदि महाचक्रम् प्रकृतेः परतस् शिवः ॥ ९॥
īḍayet .. prakṛti-ādi mahācakram prakṛteḥ paratas śivaḥ .. 9..
चक्रकर्ता महेशो हि प्रकृतेः परतोयतः ॥ पिबति वाथ वमति जीवन्बालो जलं यथा ॥ १०॥
चक्रकर्ता महेशः हि प्रकृतेः परतस् यतस् ॥ पिबति वा अथ वमति जीवन् बालः जलम् यथा ॥ १०॥
cakrakartā maheśaḥ hi prakṛteḥ paratas yatas .. pibati vā atha vamati jīvan bālaḥ jalam yathā .. 10..
शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति ॥ सर्वं वशीकृतं यस्मात्तस्माच्छिव इति स्मृतः ॥ शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः ॥ ११॥
शिवः तथा प्रकृति-आदि वशीकृत्य अधितिष्ठति ॥ सर्वम् वशीकृतम् यस्मात् तस्मात् शिवः इति स्मृतः ॥ शिवः एव हि सर्वज्ञः परिपूर्णः च निःस्पृहः ॥ ११॥
śivaḥ tathā prakṛti-ādi vaśīkṛtya adhitiṣṭhati .. sarvam vaśīkṛtam yasmāt tasmāt śivaḥ iti smṛtaḥ .. śivaḥ eva hi sarvajñaḥ paripūrṇaḥ ca niḥspṛhaḥ .. 11..
सर्वज्ञता तृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः ॥ अनंतशक्तिश्च महेश्वरस्य यन्मानसैश्वर्यमवैति वेदः ॥ १२॥
सर्वज्ञ-ता तृप्तिः अनादि-बोधः स्वतंत्र-ता नित्यम् अलुप्त-शक्तिः ॥ अनंत-शक्तिः च महेश्वरस्य यत् मानस-ऐश्वर्यम् अवैति वेदः ॥ १२॥
sarvajña-tā tṛptiḥ anādi-bodhaḥ svataṃtra-tā nityam alupta-śaktiḥ .. anaṃta-śaktiḥ ca maheśvarasya yat mānasa-aiśvaryam avaiti vedaḥ .. 12..
अतः शिवप्रसादेन प्रकृत्यादिवशं भवेत् ॥ शिवप्रसादलाभार्थं शिवमेव प्रपूजयेत् ॥ १३॥
अतस् शिव-प्रसादेन प्रकृति-आदि-वशम् भवेत् ॥ शिव-प्रसाद-लाभ-अर्थम् शिवम् एव प्रपूजयेत् ॥ १३॥
atas śiva-prasādena prakṛti-ādi-vaśam bhavet .. śiva-prasāda-lābha-artham śivam eva prapūjayet .. 13..
निःस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत् ॥ शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् ॥ १४॥
निःस्पृहस्य च पूर्णस्य तस्य पूजा कथम् भवेत् ॥ शिव-उद्देश-कृतम् कर्म प्रसाद-जनकम् भवेत् ॥ १४॥
niḥspṛhasya ca pūrṇasya tasya pūjā katham bhavet .. śiva-uddeśa-kṛtam karma prasāda-janakam bhavet .. 14..
लिंगे बेरे भक्तजने शिवमुद्दिश्य पूजयेत् ॥ कायेन मनसा वाचा धनेनापि प्रपूजयेत् ॥ १५॥
लिंगे बेरे भक्त-जने शिवम् उद्दिश्य पूजयेत् ॥ कायेन मनसा वाचा धनेन अपि प्रपूजयेत् ॥ १५॥
liṃge bere bhakta-jane śivam uddiśya pūjayet .. kāyena manasā vācā dhanena api prapūjayet .. 15..
पुजया तु महेशो हि प्रकृतेः परमः शिवः ॥ प्रसादं कुरुते सत्यं पूजकस्य विशेषतः ॥ १६॥
पुजया तु महेशः हि प्रकृतेः परमः शिवः ॥ प्रसादम् कुरुते सत्यम् पूजकस्य विशेषतः ॥ १६॥
pujayā tu maheśaḥ hi prakṛteḥ paramaḥ śivaḥ .. prasādam kurute satyam pūjakasya viśeṣataḥ .. 16..
शिवप्रसादात्कर्माद्यं क्रमेण स्ववशं भवेत् ॥ कर्मारभ्य प्रकृत्यंतं यदासर्वं वशं भवेत् ॥ १७॥
शिव-प्रसादात् कर्म-आद्यम् क्रमेण स्व-वशम् भवेत् ॥ कर्म आरभ्य प्रकृति-अंतम् यदा सर्वम् वशम् भवेत् ॥ १७॥
śiva-prasādāt karma-ādyam krameṇa sva-vaśam bhavet .. karma ārabhya prakṛti-aṃtam yadā sarvam vaśam bhavet .. 17..
तदामुक्त इति प्रोक्तः स्वात्मारामो विराजते ॥ प्रसादात्परमेशस्य कर्म देहो यदावशः ॥ १८॥
तदा आमुक्तः इति प्रोक्तः स्व-आत्म-आरामः विराजते ॥ प्रसादात् परमेशस्य कर्म देहः यदा अवशः ॥ १८॥
tadā āmuktaḥ iti proktaḥ sva-ātma-ārāmaḥ virājate .. prasādāt parameśasya karma dehaḥ yadā avaśaḥ .. 18..
तदा वै शिवलोके तु वासः सालोक्यमुच्यते ॥ सामीप्यं याति सांबस्य तन्मात्रे च वशं गते ॥ १९॥
तदा वै शिव-लोके तु वासः सालोक्यम् उच्यते ॥ सामीप्यम् याति सांबस्य तन्मात्रे च वशम् गते ॥ १९॥
tadā vai śiva-loke tu vāsaḥ sālokyam ucyate .. sāmīpyam yāti sāṃbasya tanmātre ca vaśam gate .. 19..
तदा तु शिवसायुज्यमायुधाद्यैः क्रियादिभिः ॥ महाप्रसादलाभे च बुद्धिश्चापि वशा भवेत् ॥ २०॥
तदा तु शिव-सायुज्यम् आयुध-आद्यैः क्रिया-आदिभिः ॥ महा-प्रसाद-लाभे च बुद्धिः च अपि वशा भवेत् ॥ २०॥
tadā tu śiva-sāyujyam āyudha-ādyaiḥ kriyā-ādibhiḥ .. mahā-prasāda-lābhe ca buddhiḥ ca api vaśā bhavet .. 20..
बुद्धिस्तु कार्यं प्रकृतेस्तत्सृष्टिरिति कथ्यते ॥ पुनर्महाप्रसादेन प्रकृतिर्वशमेष्यति ॥ २१॥
बुद्धिः तु कार्यम् प्रकृतेः तत् सृष्टिः इति कथ्यते ॥ पुनर् महा-प्रसादेन प्रकृतिः वशम् एष्यति ॥ २१॥
buddhiḥ tu kāryam prakṛteḥ tat sṛṣṭiḥ iti kathyate .. punar mahā-prasādena prakṛtiḥ vaśam eṣyati .. 21..
शिवस्य मानसैश्वर्यं तदाऽयत्नं भविष्यति ॥ सार्वज्ञाद्यं शिवैश्वर्यं लब्ध्वा स्वात्मनि राजते ॥ २२॥
शिवस्य मानस-ऐश्वर्यम् तदा अयत्नम् भविष्यति ॥ सार्वज्ञ-आद्यम् शिव-ऐश्वर्यम् लब्ध्वा स्व-आत्मनि राजते ॥ २२॥
śivasya mānasa-aiśvaryam tadā ayatnam bhaviṣyati .. sārvajña-ādyam śiva-aiśvaryam labdhvā sva-ātmani rājate .. 22..
तत्सायुज्यमिति प्राहुर्वेदागमपरायणाः ॥ एवं क्रमेण मुक्तिः स्याल्लिंगादौ पूजया स्वतः ॥ २३॥
तत् सायुज्यम् इति प्राहुः वेद-आगम-परायणाः ॥ एवम् क्रमेण मुक्तिः स्यात् लिंग-आदौ पूजया स्वतस् ॥ २३॥
tat sāyujyam iti prāhuḥ veda-āgama-parāyaṇāḥ .. evam krameṇa muktiḥ syāt liṃga-ādau pūjayā svatas .. 23..
अतः शिवप्रसादार्थं क्रियाद्यैः पूजयेच्छिवम् ॥ शिवक्रिया शिवतपः शिवमंत्रजपः सदा ॥ २४॥
अतस् शिव-प्रसाद-अर्थम् क्रिया-आद्यैः पूजयेत् शिवम् ॥ शिव-क्रिया शिव-तपः शिव-मंत्र-जपः सदा ॥ २४॥
atas śiva-prasāda-artham kriyā-ādyaiḥ pūjayet śivam .. śiva-kriyā śiva-tapaḥ śiva-maṃtra-japaḥ sadā .. 24..
शिवज्ञानं शिवध्यानमुत्तरोत्तरमभ्यसेत् ॥ आसुप्तेरामृतेः कालं नयेद्वै शिवचिंतया ॥ २५॥
शिव-ज्ञानम् शिव-ध्यानम् उत्तरोत्तरम् अभ्यसेत् ॥ आसुप्तेः आमृतेः कालम् नयेत् वै शिव-चिंतया ॥ २५॥
śiva-jñānam śiva-dhyānam uttarottaram abhyaset .. āsupteḥ āmṛteḥ kālam nayet vai śiva-ciṃtayā .. 25..
सद्यादिभिश्च कुसुमैरर्चयेच्छिवमेष्यति ॥ २६॥
सद्य-आदिभिः च कुसुमैः अर्चयेत् शिवम् एष्यति ॥ २६॥
sadya-ādibhiḥ ca kusumaiḥ arcayet śivam eṣyati .. 26..
ऋषय ऊचुः ।
लिंगादौ शिवपूजाया विधानं ब्रूहि सर्वतः ॥ २७॥
लिंग-आदौ शिव-पूजायाः विधानम् ब्रूहि सर्वतस् ॥ २७॥
liṃga-ādau śiva-pūjāyāḥ vidhānam brūhi sarvatas .. 27..
सूत उवाच ।
लिंगानां च क्रमं वक्ष्ये यथावच्छृणुत द्विजाः ॥ तदेव लिंगं प्रथमं प्रणवं सार्वकामिकम् ॥ २८॥
लिंगानाम् च क्रमम् वक्ष्ये यथावत् शृणुत द्विजाः ॥ तत् एव लिंगम् प्रथमम् प्रणवम् सार्वकामिकम् ॥ २८॥
liṃgānām ca kramam vakṣye yathāvat śṛṇuta dvijāḥ .. tat eva liṃgam prathamam praṇavam sārvakāmikam .. 28..
सूक्ष्मप्रणवरूपं हि सूक्ष्मरूपं तु निष्फलम् ॥ स्थूललिंगं हि सकलं तत्पंचाक्षरमुच्यते ॥ २९॥
सूक्ष्म-प्रणव-रूपम् हि सूक्ष्म-रूपम् तु निष्फलम् ॥ स्थूल-लिंगम् हि सकलम् तत् पंचाक्षरम् उच्यते ॥ २९॥
sūkṣma-praṇava-rūpam hi sūkṣma-rūpam tu niṣphalam .. sthūla-liṃgam hi sakalam tat paṃcākṣaram ucyate .. 29..
तयोः पूजा तपः प्रोक्तं साक्षान्मोक्षप्रदे उभे ॥ पौरुषप्रकृतिभूतानि लिंगानिसुबहूनि च ॥ ३०॥
तयोः पूजा तपः प्रोक्तम् साक्षात् मोक्ष-प्रदे उभे ॥ पौरुष-प्रकृति-भूतानि लिंगानि सु बहूनि च ॥ ३०॥
tayoḥ pūjā tapaḥ proktam sākṣāt mokṣa-prade ubhe .. pauruṣa-prakṛti-bhūtāni liṃgāni su bahūni ca .. 30..
तानि विस्तरतो वक्तुं शिवो वेत्ति न चापरः ॥ भूविकाराणि लिंगानि ज्ञातानि प्रब्रवीमि वः ॥ ३१॥
तानि विस्तरतः वक्तुम् शिवः वेत्ति न च अपरः ॥ भू-विकाराणि लिंगानि ज्ञातानि प्रब्रवीमि वः ॥ ३१॥
tāni vistarataḥ vaktum śivaḥ vetti na ca aparaḥ .. bhū-vikārāṇi liṃgāni jñātāni prabravīmi vaḥ .. 31..
स्वयं भूलिंगं प्रथमं बिंदुलिंगंद्वितीयकम् ॥ प्रतिष्ठितं चरंचैव गुरुलिंगं तु पंचमम् ॥ ३२॥
स्वयम् भू-लिंगम् प्रथमम् बिंदु-लिंगम् द्वितीयकम् ॥ प्रतिष्ठितम् चरम् च एव गुरु-लिंगम् तु पंचमम् ॥ ३२॥
svayam bhū-liṃgam prathamam biṃdu-liṃgam dvitīyakam .. pratiṣṭhitam caram ca eva guru-liṃgam tu paṃcamam .. 32..
देवर्षितपसा तुष्टः सान्निध्यार्थं तु तत्र वै ॥ पृथिव्यन्तर्गतः शर्वो बीजं वै नादरूपतः ॥ ३३॥
देव-ऋषि-तपसा तुष्टः सान्निध्य-अर्थम् तु तत्र वै ॥ पृथिवी-अन्तर्गतः शर्वः बीजम् वै नाद-रूपतः ॥ ३३॥
deva-ṛṣi-tapasā tuṣṭaḥ sānnidhya-artham tu tatra vai .. pṛthivī-antargataḥ śarvaḥ bījam vai nāda-rūpataḥ .. 33..
स्थावरांकुरवद्भूमिमुद्भिद्य व्यक्त एव सः ॥ स्वयंभूतं जातमिति स्वयंभूरिति तं विदुः ॥ ३४॥
स्थावर-अंकुर-वत् भूमिम् उद्भिद्य व्यक्तः एव सः ॥ स्वयंभूतम् जातम् इति स्वयंभूः इति तम् विदुः ॥ ३४॥
sthāvara-aṃkura-vat bhūmim udbhidya vyaktaḥ eva saḥ .. svayaṃbhūtam jātam iti svayaṃbhūḥ iti tam viduḥ .. 34..
तल्लिंगपूजया ज्ञानं स्वयमेव प्रवर्द्धते ॥ सुवर्णरजतादौ वा पृथिव्यां स्थिंडिलेपि वा ॥ ३५॥
तद्-लिंग-पूजया ज्ञानम् स्वयम् एव प्रवर्द्धते ॥ सुवर्ण-रजत-आदौ वा पृथिव्याम् वा ॥ ३५॥
tad-liṃga-pūjayā jñānam svayam eva pravarddhate .. suvarṇa-rajata-ādau vā pṛthivyām vā .. 35..
स्वहस्ताल्लिखितं लिंगं शुद्धप्रणवमंत्रकम् ॥ यंत्रलिंगं समालिख्य प्रतिष्ठावाहनं चरेत् ॥ ३६॥
स्व-हस्तात् लिखितम् लिंगम् शुद्ध-प्रणव-मंत्रकम् ॥ यंत्र-लिंगम् समालिख्य प्रतिष्ठा-वाहनम् चरेत् ॥ ३६॥
sva-hastāt likhitam liṃgam śuddha-praṇava-maṃtrakam .. yaṃtra-liṃgam samālikhya pratiṣṭhā-vāhanam caret .. 36..
बिंदुनादमयं लिंगं स्थावरं जंगमं च यत् ॥ भावनामयमेतद्धि शिवदृष्टं न संशयः ॥ ३७॥
बिंदु-नाद-मयम् लिंगम् स्थावरम् जंगमम् च यत् ॥ भावना-मयम् एतत् हि शिव-दृष्टम् न संशयः ॥ ३७॥
biṃdu-nāda-mayam liṃgam sthāvaram jaṃgamam ca yat .. bhāvanā-mayam etat hi śiva-dṛṣṭam na saṃśayaḥ .. 37..
यत्र विश्वस्य ते शंभुस्तत्र तस्मै फलप्रदः ॥ स्वहस्ताल्लिख्यते यंत्रे स्थावरादावकृत्रिमे ॥ ३८॥
यत्र विश्वस्य ते शंभुः तत्र तस्मै फल-प्रदः ॥ स्व-हस्तात् लिख्यते यंत्रे स्थावर-आदौ अकृत्रिमे ॥ ३८॥
yatra viśvasya te śaṃbhuḥ tatra tasmai phala-pradaḥ .. sva-hastāt likhyate yaṃtre sthāvara-ādau akṛtrime .. 38..
आवाह्य पूजयेच्छंभुं षोडशैरुपचारकैः ॥ स्वयमैश्वर्यमाप्नोति ज्ञानमभ्यासतो भवेत् ॥ ३९॥
आवाह्य पूजयेत् शंभुम् षोडशैः उपचारकैः ॥ स्वयम् ऐश्वर्यम् आप्नोति ज्ञानम् अभ्यासतः भवेत् ॥ ३९॥
āvāhya pūjayet śaṃbhum ṣoḍaśaiḥ upacārakaiḥ .. svayam aiśvaryam āpnoti jñānam abhyāsataḥ bhavet .. 39..
देवैश्च ऋषिभिश्चापि स्वात्मसिद्ध्यर्थमेव हि ॥ समंत्रेणात्महस्तेन कृतं यच्छुद्धमंडले ॥ ४०॥
देवैः च ऋषिभिः च अपि स्व-आत्म-सिद्धि-अर्थम् एव हि ॥ स मंत्रेण आत्म-हस्तेन कृतम् यत् शुद्ध-मंडले ॥ ४०॥
devaiḥ ca ṛṣibhiḥ ca api sva-ātma-siddhi-artham eva hi .. sa maṃtreṇa ātma-hastena kṛtam yat śuddha-maṃḍale .. 40..
शुद्धभावनया चैव स्थापितं लिंगमुत्तमम् ॥ तल्लिंगं पौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते ॥ ४१॥
शुद्ध-भावनया च एव स्थापितम् लिंगम् उत्तमम् ॥ तत् लिंगम् पौरुषम् प्राहुः तत् प्रतिष्ठितम् उच्यते ॥ ४१॥
śuddha-bhāvanayā ca eva sthāpitam liṃgam uttamam .. tat liṃgam pauruṣam prāhuḥ tat pratiṣṭhitam ucyate .. 41..
तल्लिंगपूजया नित्यं पौरुषैश्वर्यमाप्नुयात् ॥ महद्भिर्ब्राह्मणैश्चापि राजभिश्च महाधनैः ॥ ४२॥
तद्-लिंग-पूजया नित्यम् पौरुष-ऐश्वर्यम् आप्नुयात् ॥ महद्भिः ब्राह्मणैः च अपि राजभिः च महाधनैः ॥ ४२॥
tad-liṃga-pūjayā nityam pauruṣa-aiśvaryam āpnuyāt .. mahadbhiḥ brāhmaṇaiḥ ca api rājabhiḥ ca mahādhanaiḥ .. 42..
शिल्पिनाकल्पितं लिंगं मंत्रेण स्थापितं च यत् ॥ प्रतिष्ठितं प्राकृतं हि प्राकृतैश्वर्यभोगदम् ॥ ४३॥
शिल्पिना अकल्पितम् लिंगम् मंत्रेण स्थापितम् च यत् ॥ प्रतिष्ठितम् प्राकृतम् हि प्राकृत-ऐश्वर्य-भोग-दम् ॥ ४३॥
śilpinā akalpitam liṃgam maṃtreṇa sthāpitam ca yat .. pratiṣṭhitam prākṛtam hi prākṛta-aiśvarya-bhoga-dam .. 43..
यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यते ॥ यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ॥ ४४॥
यत् ऊर्जितम् च नित्यम् च तत् हि पौरुषम् उच्यते ॥ यत् दुर्बलम् अनित्यम् च तत् हि प्राकृतम् उच्यते ॥ ४४॥
yat ūrjitam ca nityam ca tat hi pauruṣam ucyate .. yat durbalam anityam ca tat hi prākṛtam ucyate .. 44..
लिंगं नाभिस्तथा जिह्वा नासाग्रञ्च शिखा क्रमात् ॥ कट्यादिषु त्रिलोकेषु लिंगमाध्यात्मिकं चरम् ॥ ४५॥
लिंगम् नाभिः तथा जिह्वा नासा-अग्रम् च शिखा क्रमात् ॥ कटि-आदिषु त्रि-लोकेषु लिंगम् आध्यात्मिकम् चरम् ॥ ४५॥
liṃgam nābhiḥ tathā jihvā nāsā-agram ca śikhā kramāt .. kaṭi-ādiṣu tri-lokeṣu liṃgam ādhyātmikam caram .. 45..
पर्वतं पौरुषं प्रोक्तं भूतलं प्राकृतं विदुः ॥ वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ॥ ४६॥
पर्वतम् पौरुषम् प्रोक्तम् भू-तलम् प्राकृतम् विदुः ॥ वृक्ष-आदि पौरुषम् ज्ञेयम् गुल्म-आदि प्राकृतम् विदुः ॥ ४६॥
parvatam pauruṣam proktam bhū-talam prākṛtam viduḥ .. vṛkṣa-ādi pauruṣam jñeyam gulma-ādi prākṛtam viduḥ .. 46..
षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम् ॥ ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम् ॥ ४७॥
षाष्टिकम् प्राकृतम् ज्ञेयम् शालि-गोधूम-पौरुषम् ॥ ऐश्वर्यम् पौरुषम् विद्यात् अणिम-आदि-अष्ट-सिद्धि-दम् ॥ ४७॥
ṣāṣṭikam prākṛtam jñeyam śāli-godhūma-pauruṣam .. aiśvaryam pauruṣam vidyāt aṇima-ādi-aṣṭa-siddhi-dam .. 47..
सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः ॥ प्रथमं चरलिंगेषु रसलिंगं प्रकथ्यते ॥ ४८॥
सुस्त्रीधन-आदि-विषयम् प्राकृतम् प्राहुः आस्तिकाः ॥ प्रथमम् चर-लिंगेषु रसलिंगम् प्रकथ्यते ॥ ४८॥
sustrīdhana-ādi-viṣayam prākṛtam prāhuḥ āstikāḥ .. prathamam cara-liṃgeṣu rasaliṃgam prakathyate .. 48..
रसलिंगं ब्राह्मणानां सर्वाभीष्टप्रदं भवेत् ॥ बाणलिंगं क्षत्रियाणां महाराज्यप्रदं शुभम् ॥ ४९॥
रसलिंगम् ब्राह्मणानाम् सर्व-अभीष्ट-प्रदम् भवेत् ॥ बाण-लिंगम् क्षत्रियाणाम् महा-राज्य-प्रदम् शुभम् ॥ ४९॥
rasaliṃgam brāhmaṇānām sarva-abhīṣṭa-pradam bhavet .. bāṇa-liṃgam kṣatriyāṇām mahā-rājya-pradam śubham .. 49..
स्वर्णलिंगं तु वैश्यानां महाधनपतित्वदम् ॥ शिलालिंगं तु शूद्रा णां महाशुद्धिकरं शुभम् ॥ ५०॥
स्वर्ण-लिंगम् तु वैश्यानाम् महा-धनपति-त्व-दम् ॥ शिलालिंगम् तु शूद्रा णाम् महा-शुद्धि-करम् शुभम् ॥ ५०॥
svarṇa-liṃgam tu vaiśyānām mahā-dhanapati-tva-dam .. śilāliṃgam tu śūdrā ṇām mahā-śuddhi-karam śubham .. 50..
स्फाटिकं बाणलिंगं च सर्वेषांसर्वकामदम् ॥ स्वीयाभावेऽन्यदीयं तु पूजायां न निषिद्ध्यते ॥ ५१॥
स्फाटिकम् बाणलिंगम् च सर्वेषाम् सर्व-काम-दम् ॥ स्वीय-अभावे अन्यदीयम् तु पूजायाम् न निषिद्ध्यते ॥ ५१॥
sphāṭikam bāṇaliṃgam ca sarveṣām sarva-kāma-dam .. svīya-abhāve anyadīyam tu pūjāyām na niṣiddhyate .. 51..
स्त्रीणां तु पार्थिवं लिंगं सभर्तृणां विशेषतः ॥ विधवानां प्रवृत्तानां स्फाटिकं परिकीर्तितम् ॥ ५२॥
स्त्रीणाम् तु पार्थिवम् लिंगम् स भर्तृणाम् विशेषतः ॥ विधवानाम् प्रवृत्तानाम् स्फाटिकम् परिकीर्तितम् ॥ ५२॥
strīṇām tu pārthivam liṃgam sa bhartṛṇām viśeṣataḥ .. vidhavānām pravṛttānām sphāṭikam parikīrtitam .. 52..
विधवानां निवृत्तानां रसलिंगं विशिष्यते ॥ बाल्येवायौवनेवापि वार्द्धकेवापि सुव्रताः ॥ ५३॥
विधवानाम् निवृत्तानाम् रसलिंगम् विशिष्यते ॥ बाल्य-इव अयौवन-इव अपि वार्द्धक-इव अपि सुव्रताः ॥ ५३॥
vidhavānām nivṛttānām rasaliṃgam viśiṣyate .. bālya-iva ayauvana-iva api vārddhaka-iva api suvratāḥ .. 53..
शुद्धस्फटिकलिंगं तु स्त्रीणां तत्सर्वभोगदम् ॥ प्रवृत्तानां पीठपूजा सर्वाभीष्टप्रदा भुवि ॥ ५४॥
शुद्ध-स्फटिक-लिंगम् तु स्त्रीणाम् तत् सर्व-भोग-दम् ॥ प्रवृत्तानाम् पीठ-पूजा सर्व-अभीष्ट-प्रदा भुवि ॥ ५४॥
śuddha-sphaṭika-liṃgam tu strīṇām tat sarva-bhoga-dam .. pravṛttānām pīṭha-pūjā sarva-abhīṣṭa-pradā bhuvi .. 54..
पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत् ॥ अभिषेकांते नैवेद्यं शाल्यन्नेन समाचरेत् ॥ ५५॥
पात्रेण एव प्रवृत्तः तु सर्व-पूजाम् समाचरेत् ॥ अभिषेक-अन्ते नैवेद्यम् शालि-अन्नेन समाचरेत् ॥ ५५॥
pātreṇa eva pravṛttaḥ tu sarva-pūjām samācaret .. abhiṣeka-ante naivedyam śāli-annena samācaret .. 55..
पूजांते स्थापयेल्लिंगं संपुटेषु पृथग्गृहे ॥ करपूजानि वृत्तानां स्वभोज्यं तु निवेदयेत् ॥ ५६॥
पूजा-अंते स्थापयेत् लिंगम् संपुटेषु पृथक् गृहे ॥ कर-पूजानि वृत्तानाम् स्व-भोज्यम् तु निवेदयेत् ॥ ५६॥
pūjā-aṃte sthāpayet liṃgam saṃpuṭeṣu pṛthak gṛhe .. kara-pūjāni vṛttānām sva-bhojyam tu nivedayet .. 56..
निवृत्तानां परं सूक्ष्मलिंगमेव विशिष्यते ॥ विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ॥ ५७॥
निवृत्तानाम् परम् सूक्ष्म-लिंगम् एव विशिष्यते ॥ विभूति-अभ्यर्चनम् कुर्यात् विभूतिम् च निवेदयेत् ॥ ५७॥
nivṛttānām param sūkṣma-liṃgam eva viśiṣyate .. vibhūti-abhyarcanam kuryāt vibhūtim ca nivedayet .. 57..
पूजां कृत्वाथ तल्लिंगं शिरसा धारयेत्सदा ॥ विभूतिस्त्रिविधा प्रोक्ता लोकवेदशिवाग्निभिः ॥ ५८॥
पूजाम् कृत्वा अथ तत् लिंगम् शिरसा धारयेत् सदा ॥ विभूतिः त्रिविधा प्रोक्ता लोक-वेद-शिव-अग्निभिः ॥ ५८॥
pūjām kṛtvā atha tat liṃgam śirasā dhārayet sadā .. vibhūtiḥ trividhā proktā loka-veda-śiva-agnibhiḥ .. 58..
लोकाग्निजमथो भस्मद्र व्यशुद्ध्यर्थमावहेत् ॥ मृद्दारुलोहरूपाणां धान्यानां च तथैव च ॥ ५९॥
लोक-अग्नि-जम् अथो भस्म-द्र-व्य-शुद्धि-अर्थम् आवहेत् ॥ मृद्-दारु-लोह-रूपाणाम् धान्यानाम् च तथा एव च ॥ ५९॥
loka-agni-jam atho bhasma-dra-vya-śuddhi-artham āvahet .. mṛd-dāru-loha-rūpāṇām dhānyānām ca tathā eva ca .. 59..
तिलादीनां च द्र व्याणां वस्त्रादीनां तथैव च ॥ तथा पर्युषितानां च भस्मना शिद्धिरिष्यते ॥ ६०॥
तिल-आदीनाम् च द्र वस्त्र-आदीनाम् तथा एव च ॥ तथा पर्युषितानाम् च भस्मना शिद्धिः इष्यते ॥ ६०॥
tila-ādīnām ca dra vastra-ādīnām tathā eva ca .. tathā paryuṣitānām ca bhasmanā śiddhiḥ iṣyate .. 60..
श्वादिभिर्दूषितानां च भस्मना शुद्धिरिष्यते ॥ सजलं निर्जलं भस्म यथायोग्यं तु योजयेत् ॥ ६१॥
श्व-आदिभिः दूषितानाम् च भस्मना शुद्धिः इष्यते ॥ स जलम् निर्जलम् भस्म यथायोग्यम् तु योजयेत् ॥ ६१॥
śva-ādibhiḥ dūṣitānām ca bhasmanā śuddhiḥ iṣyate .. sa jalam nirjalam bhasma yathāyogyam tu yojayet .. 61..
वेदाग्निजं तथा भस्म तत्कर्मांतेषु धारयेत् ॥ मंत्रेण क्रियया जन्यं कर्माग्नौ भस्मरूपधृक् ॥ ६२॥
वेद-अग्नि-जम् तथा भस्म तद्-कर्मांतेषु धारयेत् ॥ मंत्रेण क्रियया जन्यम् कर्म-अग्नौ भस्म-रूप-धृक् ॥ ६२॥
veda-agni-jam tathā bhasma tad-karmāṃteṣu dhārayet .. maṃtreṇa kriyayā janyam karma-agnau bhasma-rūpa-dhṛk .. 62..
तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत् ॥ अघोरेणात्ममंत्रेण बिल्वकाष्ठं प्रदाहयेत् ॥ ६३॥
तद्-भस्म-धारणात् कर्म स्व-आत्मनि आरोपितम् भवेत् ॥ अघोरेण आत्म-मंत्रेण बिल्व-काष्ठम् प्रदाहयेत् ॥ ६३॥
tad-bhasma-dhāraṇāt karma sva-ātmani āropitam bhavet .. aghoreṇa ātma-maṃtreṇa bilva-kāṣṭham pradāhayet .. 63..
शिवाग्निरिति संप्रोक्तस्तेन दग्धं शिवाग्निजम् ॥ कपिलागोमयं पूर्वं केवलं गव्यमेव वा ॥ ६४॥
शिवाग्निः इति संप्रोक्तः तेन दग्धम् शिवाग्नि-जम् ॥ कपिला-गोमयम् पूर्वम् केवलम् गव्यम् एव वा ॥ ६४॥
śivāgniḥ iti saṃproktaḥ tena dagdham śivāgni-jam .. kapilā-gomayam pūrvam kevalam gavyam eva vā .. 64..
शम्यस्वत्थपलाशान्वा वटारम्वधबिल्वकान् ॥ शिवाग्निना दहेच्छुद्धं तद्वै भस्म शिवाग्निजम् ॥ ६५॥
शमी-अस्वत्थ-पलाशान् वा वट-आरम्-बध-बिल्वकान् ॥ शिव-अग्निना दहेत् शुद्धम् तत् वै भस्म शिव-अग्नि-जम् ॥ ६५॥
śamī-asvattha-palāśān vā vaṭa-āram-badha-bilvakān .. śiva-agninā dahet śuddham tat vai bhasma śiva-agni-jam .. 65..
दर्भाग्नौ वा दहेत्काष्ठं शिवमंत्रं समुच्चरन् ॥ सम्यक्संशोध्य वस्त्रेण नवकुंभे निधापयेत् ॥ ६६॥
दर्भ-अग्नौ वा दहेत् काष्ठम् शिव-मंत्रम् समुच्चरन् ॥ सम्यक् संशोध्य वस्त्रेण नव-कुंभे निधापयेत् ॥ ६६॥
darbha-agnau vā dahet kāṣṭham śiva-maṃtram samuccaran .. samyak saṃśodhya vastreṇa nava-kuṃbhe nidhāpayet .. 66..
दीप्त्यर्थं तत्तु संग्राह्यं मन्यते पूज्यतेपि च ॥ भस्मशब्दार्थ एवं हि शिवः पूर्वं तथाऽकरोत् ॥ ६७॥
दीप्ति-अर्थम् तत् तु संग्राह्यम् मन्यते च ॥ भस्म-शब्द-अर्थः एवम् हि शिवः पूर्वम् तथा अकरोत् ॥ ६७॥
dīpti-artham tat tu saṃgrāhyam manyate ca .. bhasma-śabda-arthaḥ evam hi śivaḥ pūrvam tathā akarot .. 67..
यथा स्वविषये राजा सारं गृह्णाति यत्करम् ॥ यथा मनुष्याः सस्यादीन्दग्ध्वा सारं भजंति वै ॥ ६८॥
यथा स्व-विषये राजा सारम् गृह्णाति यत् करम् ॥ यथा मनुष्याः सस्य-आदीन् दग्ध्वा सारम् भजन्ति वै ॥ ६८॥
yathā sva-viṣaye rājā sāram gṛhṇāti yat karam .. yathā manuṣyāḥ sasya-ādīn dagdhvā sāram bhajanti vai .. 68..
यथा हि जाठराग्निश्च भक्ष्यादीन्विविधान्बहून् ॥ दग्ध्वा सारतरं सारात्स्वदेहं परिपुष्यति ॥ ६९॥
यथा हि जाठर-अग्निः च भक्ष्य-आदीन् विविधान् बहून् ॥ दग्ध्वा सारतरम् सारात् स्व-देहम् परिपुष्यति ॥ ६९॥
yathā hi jāṭhara-agniḥ ca bhakṣya-ādīn vividhān bahūn .. dagdhvā sārataram sārāt sva-deham paripuṣyati .. 69..
तथा प्रपंचकर्तापि स शिवः परमेश्वरः ॥ स्वाधिष्ठेयप्रपंचस्य दग्ध्वा सारं गृहीतवान् ॥ ७०॥
तथा प्रपंच-कर्ता अपि स शिवः परमेश्वरः ॥ स्व-अधिष्ठेय-प्रपंचस्य दग्ध्वा सारम् गृहीतवान् ॥ ७०॥
tathā prapaṃca-kartā api sa śivaḥ parameśvaraḥ .. sva-adhiṣṭheya-prapaṃcasya dagdhvā sāram gṛhītavān .. 70..
दग्ध्वा प्रपंचं तद्भस्म् अस्वात्मन्यारोपयच्छिवः ॥ उद्धूलनेन व्याजेन जगत्सारं गृहीतवान् ॥ ७१॥
दग्ध्वा प्रपंचम् तद्-भस्म अ स्व-आत्मनि आरोपयत् शिवः ॥ उद्धूलनेन व्याजेन जगत्-सारम् गृहीतवान् ॥ ७१॥
dagdhvā prapaṃcam tad-bhasma a sva-ātmani āropayat śivaḥ .. uddhūlanena vyājena jagat-sāram gṛhītavān .. 71..
स्वरत्नं स्थापयामास स्वकीये हि शरीरके ॥ केशमाकाशसारेण वायुसारेण वै मुखम् ॥ ७२॥
स्व-रत्नम् स्थापयामास स्वकीये हि शरीरके ॥ केशम् आकाश-सारेण वायु-सारेण वै मुखम् ॥ ७२॥
sva-ratnam sthāpayāmāsa svakīye hi śarīrake .. keśam ākāśa-sāreṇa vāyu-sāreṇa vai mukham .. 72..
हृदयं चाग्निसारेण त्वपां सारेण वैकटिम् ॥ जानु चावनिसारेण तद्वत्सर्वं तदंगकम् ॥ ७३॥
हृदयम् च अग्नि-सारेण तु अपाम् सारेण वैकटिम् ॥ जानु च अवनिसारेण तद्वत् सर्वम् तद्-अंगकम् ॥ ७३॥
hṛdayam ca agni-sāreṇa tu apām sāreṇa vaikaṭim .. jānu ca avanisāreṇa tadvat sarvam tad-aṃgakam .. 73..
ब्रह्मविष्ण्वोश्च रुद्रा णां सारं चैव त्रिपुंड्रकम् ॥ तथा तिलकरूपेण ललाटान्ते महेश्वरः ॥ ७४॥
ब्रह्म-विष्ण्वोः च रुद्राणाम् सारम् च एव त्रिपुंड्रकम् ॥ तथा तिलक-रूपेण ललाट-अन्ते महेश्वरः ॥ ७४॥
brahma-viṣṇvoḥ ca rudrāṇām sāram ca eva tripuṃḍrakam .. tathā tilaka-rūpeṇa lalāṭa-ante maheśvaraḥ .. 74..
भवृद्ध्या सर्वमेतद्धि मन्यते स्वयमैत्यसौ ॥ प्रपंचसारसर्वस्वमनेनैव वशीकृतम् ॥ ७५॥
भ-वृद्ध्या सर्वम् एतत् हि मन्यते स्वयम् ऐति असौ ॥ प्रपंच-सार-सर्व-स्वम् अनेन एव वशीकृतम् ॥ ७५॥
bha-vṛddhyā sarvam etat hi manyate svayam aiti asau .. prapaṃca-sāra-sarva-svam anena eva vaśīkṛtam .. 75..
तस्मादस्य वशीकर्ता नास्तीति स शिवः स्मृतः ॥ यथा सर्वमृगाणां च हिंसको मृगहिंसकः ॥ ७६॥
तस्मात् अस्य वशीकर्ता न अस्ति इति स शिवः स्मृतः ॥ यथा सर्व-मृगाणाम् च हिंसकः मृग-हिंसकः ॥ ७६॥
tasmāt asya vaśīkartā na asti iti sa śivaḥ smṛtaḥ .. yathā sarva-mṛgāṇām ca hiṃsakaḥ mṛga-hiṃsakaḥ .. 76..
अस्य हिंसामृगो नास्ति तस्मात्सिंह इतीरितः ॥ शं नित्यं सुखमानंदमिकारः पुरुषः स्मृतः ॥ ७७॥
अस्य हिंसा-मृगः ना अस्ति तस्मात् सिंहः इति ईरितः ॥ शम् नित्यम् सुखम् आनंदम् इकारः पुरुषः स्मृतः ॥ ७७॥
asya hiṃsā-mṛgaḥ nā asti tasmāt siṃhaḥ iti īritaḥ .. śam nityam sukham ānaṃdam ikāraḥ puruṣaḥ smṛtaḥ .. 77..
वकारः शक्तिरमृतं मेलनं शिव उच्यते ॥ तस्मादेवं स्वमात्मानं शिवं कृत्वार्चयेच्छिवम् ॥ ७८॥
वकारः शक्तिः अमृतम् मेलनम् शिवः उच्यते ॥ तस्मात् एवम् स्वम् आत्मानम् शिवम् कृत्वा अर्चयेत् शिवम् ॥ ७८॥
vakāraḥ śaktiḥ amṛtam melanam śivaḥ ucyate .. tasmāt evam svam ātmānam śivam kṛtvā arcayet śivam .. 78..
तस्मादुद्धूलनं पूर्वं त्रिपुंड्रं धारयेत्परम् ॥ पूजाकाले हि सजलं शुद्ध्यर्थं निर्जलं भवेत् ॥ ७९॥
तस्मात् उद्धूलनम् पूर्वम् त्रिपुंड्रम् धारयेत् परम् ॥ पूजा-काले हि स जलम् शुद्धि-अर्थम् निर्जलम् भवेत् ॥ ७९॥
tasmāt uddhūlanam pūrvam tripuṃḍram dhārayet param .. pūjā-kāle hi sa jalam śuddhi-artham nirjalam bhavet .. 79..
दिवा वा यदि वारात्रौ नारी वाथ नरोपि वा ॥ पूजार्थं सजलं भस्म त्रिपुंड्रेणैव धारयेत् ॥ ८०॥
दिवा वा यदि वा अ रात्रौ नारी वा अथ वा ॥ पूजा-अर्थम् स जलम् भस्म त्रिपुंड्रेण एव धारयेत् ॥ ८०॥
divā vā yadi vā a rātrau nārī vā atha vā .. pūjā-artham sa jalam bhasma tripuṃḍreṇa eva dhārayet .. 80..
त्रिपुंड्रं सजलं भस्म धृत्वा पूजां करोति यः ॥ शिवपूजां फलं सांगं तस्यैव हि सुनिश्चितम् ॥ ८१॥
त्रिपुंड्रम् स जलम् भस्म धृत्वा पूजाम् करोति यः ॥ शिव-पूजाम् फलम् स अंगम् तस्य एव हि सु निश्चितम् ॥ ८१॥
tripuṃḍram sa jalam bhasma dhṛtvā pūjām karoti yaḥ .. śiva-pūjām phalam sa aṃgam tasya eva hi su niścitam .. 81..
भस्म वै शिवमंत्रेण धृत्वा ह्यत्याश्रमी भवेत् ॥ शिवाश्रमीति संप्रोक्तः शिवैकपरमो यतः ॥ ८२॥
भस्म वै शिव-मंत्रेण धृत्वा हि अत्याश्रमी भवेत् ॥ शिव-आश्रमी इति संप्रोक्तः शिव-एक-परमः यतस् ॥ ८२॥
bhasma vai śiva-maṃtreṇa dhṛtvā hi atyāśramī bhavet .. śiva-āśramī iti saṃproktaḥ śiva-eka-paramaḥ yatas .. 82..
शिवव्रतैकनिष्ठस्य नाशौचं न च सूतकम् ॥ ललाटेऽग्रे सितं भस्म तिलकं धारयेन्मृदा ॥ ८३॥
शिवव्रत-एक-निष्ठस्य न आशौचम् न च सूतकम् ॥ ललाटे अग्रे सितम् भस्म तिलकम् धारयेत् मृदा ॥ ८३॥
śivavrata-eka-niṣṭhasya na āśaucam na ca sūtakam .. lalāṭe agre sitam bhasma tilakam dhārayet mṛdā .. 83..
स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्य लक्षणम् ॥ गुणान्रुंध इति प्रोक्तो गुरुशब्दस्य विग्रहः ॥ ८४॥
स्व-हस्तात् गुरु-हस्तात् वा शिव-भक्तस्य लक्षणम् ॥ इति प्रोक्तः गुरु-शब्दस्य विग्रहः ॥ ८४॥
sva-hastāt guru-hastāt vā śiva-bhaktasya lakṣaṇam .. iti proktaḥ guru-śabdasya vigrahaḥ .. 84..
सविकारान्राजसादीन्गुणान्रुंधे व्यपोहति ॥ गुणातीतः परशिवो गुरुरूपं समाश्रितः ॥ ८५॥
स विकारान् राजस-आदीन् गुणान् रुंधे व्यपोहति ॥ गुण-अतीतः पर-शिवः गुरु-रूपम् समाश्रितः ॥ ८५॥
sa vikārān rājasa-ādīn guṇān ruṃdhe vyapohati .. guṇa-atītaḥ para-śivaḥ guru-rūpam samāśritaḥ .. 85..
गुणत्रयं व्यपोह्याग्रे शिवं बोधयतीति सः ॥ विश्वस्तानां तु शिष्याणां गुरुरित्यभिधीयते ॥ ८६॥
गुणत्रयम् व्यपोह्य अग्रे शिवम् बोधयति इति सः ॥ विश्वस्तानाम् तु शिष्याणाम् गुरुः इति अभिधीयते ॥ ८६॥
guṇatrayam vyapohya agre śivam bodhayati iti saḥ .. viśvastānām tu śiṣyāṇām guruḥ iti abhidhīyate .. 86..
तस्माद्गुरुशरीरं तु गुरुलिंगं भवेद्बुधः ॥ गुरुलिंगस्य पूजा तु गुरुशुश्रूषणं भवेत् ॥ ८७॥
तस्मात् गुरु-शरीरम् तु गुरु-लिंगम् भवेत् बुधः ॥ गुरु-लिंगस्य पूजा तु गुरु-शुश्रूषणम् भवेत् ॥ ८७॥
tasmāt guru-śarīram tu guru-liṃgam bhavet budhaḥ .. guru-liṃgasya pūjā tu guru-śuśrūṣaṇam bhavet .. 87..
श्रुतं करोति शुश्रूषा कायेन मनसा गिरा ॥ उक्तं यद्गुरुणा पूर्वं शक्यं वाऽशक्यमेव वा ॥ ८८॥
श्रुतम् करोति शुश्रूषा कायेन मनसा गिरा ॥ उक्तम् यत् गुरुणा पूर्वम् शक्यम् वा अशक्यम् एव वा ॥ ८८॥
śrutam karoti śuśrūṣā kāyena manasā girā .. uktam yat guruṇā pūrvam śakyam vā aśakyam eva vā .. 88..
करोत्येव हि पूतात्मा प्राणैरपि धनैरपि ॥ तस्माद्वै शासने योग्यः शिष्य इत्यभिधीयते ॥ ८९॥
करोति एव हि पूत-आत्मा प्राणैः अपि धनैः अपि ॥ तस्मात् वै शासने योग्यः शिष्यः इति अभिधीयते ॥ ८९॥
karoti eva hi pūta-ātmā prāṇaiḥ api dhanaiḥ api .. tasmāt vai śāsane yogyaḥ śiṣyaḥ iti abhidhīyate .. 89..
शरीराद्यर्थकं सर्वं गुरोर्दत्त्वा सुशिष्यकः ॥ अग्रपाकं निवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया ॥ ९०॥
शरीर-आदि-अर्थकम् सर्वम् गुरोः दत्त्वा सुशिष्यकः ॥ अग्र-पाकम् निवेद्य अग्रे भुंजीयात् गुरु-अनुज्ञया ॥ ९०॥
śarīra-ādi-arthakam sarvam guroḥ dattvā suśiṣyakaḥ .. agra-pākam nivedya agre bhuṃjīyāt guru-anujñayā .. 90..
शिष्यः पुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः ॥ जिह्वालिंगान्मंत्रशुक्रं कर्णयोनौ निषिच्यवै ॥ ९१॥
शिष्यः पुत्रः इति प्रोक्तः सदा शिष्य-त्व-योगतः ॥ जिह्वा-लिंगात् मंत्र-शुक्रम् कर्ण-योनौ ॥ ९१॥
śiṣyaḥ putraḥ iti proktaḥ sadā śiṣya-tva-yogataḥ .. jihvā-liṃgāt maṃtra-śukram karṇa-yonau .. 91..
जातः पुत्रो मंत्रपुत्रः पितरं पूजयेद्गुरुम् ॥ निमज्जयति पुत्रं वै संसारे जनकः पिता ॥ ९२॥
जातः पुत्रः मंत्र-पुत्रः पितरम् पूजयेत् गुरुम् ॥ निमज्जयति पुत्रम् वै संसारे जनकः पिता ॥ ९२॥
jātaḥ putraḥ maṃtra-putraḥ pitaram pūjayet gurum .. nimajjayati putram vai saṃsāre janakaḥ pitā .. 92..
संतारयति संसाराद्गुरुर्वै बोधकः पिता ॥ उभयोरंतरं ज्ञात्वा पितरं गुरुमर्चयेत् ॥ ९३॥
संतारयति संसारात् गुरुः वै बोधकः पिता ॥ उभयोः अन्तरम् ज्ञात्वा पितरम् गुरुम् अर्चयेत् ॥ ९३॥
saṃtārayati saṃsārāt guruḥ vai bodhakaḥ pitā .. ubhayoḥ antaram jñātvā pitaram gurum arcayet .. 93..
अंगशुश्रूषया चापि धनाद्यैः स्वार्जितैर्गुरुम् ॥ पादादिकेशपर्यंतं लिंगान्यंगानि यद्गुरोः ॥ ९४॥
अंग-शुश्रूषया च अपि धन-आद्यैः स्व-अर्जितैः गुरुम् ॥ पाद-आदि-केश-पर्यंतम् लिंगानि अंगानि यत् गुरोः ॥ ९४॥
aṃga-śuśrūṣayā ca api dhana-ādyaiḥ sva-arjitaiḥ gurum .. pāda-ādi-keśa-paryaṃtam liṃgāni aṃgāni yat guroḥ .. 94..
धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः ॥ स्नानाभिषेकनैवेद्यैर्भोजनैश्च प्रपूजयेत् ॥ ९५॥
धन-रूपैः पादुका-आद्यैः ॥ स्नान-अभिषेक-नैवेद्यैः भोजनैः च प्रपूजयेत् ॥ ९५॥
dhana-rūpaiḥ pādukā-ādyaiḥ .. snāna-abhiṣeka-naivedyaiḥ bhojanaiḥ ca prapūjayet .. 95..
गुरुपूजैव पूजा स्याच्छिवस्य परमात्मनः ॥ गुरुशेषं तु यत्सर्वमात्मशुद्धिकरं भवेत् ॥ ९६॥
गुरु-पूजा एव पूजा स्यात् शिवस्य परमात्मनः ॥ गुरु-शेषम् तु यत् सर्वम् आत्म-शुद्धि-करम् भवेत् ॥ ९६॥
guru-pūjā eva pūjā syāt śivasya paramātmanaḥ .. guru-śeṣam tu yat sarvam ātma-śuddhi-karam bhavet .. 96..
गुरोः शेषः शिवोच्छिष्टं जलमन्नादिनिर्मितम् ॥ शिष्याणां शिवभक्तानां ग्राह्यं भोज्यं भवेद्द्विजाः ॥ ९७॥
गुरोः शेषः शिव-उच्छिष्टम् जलम् अन्न-आदि-निर्मितम् ॥ शिष्याणाम् शिव-भक्तानाम् ग्राह्यम् भोज्यम् भवेत् द्विजाः ॥ ९७॥
guroḥ śeṣaḥ śiva-ucchiṣṭam jalam anna-ādi-nirmitam .. śiṣyāṇām śiva-bhaktānām grāhyam bhojyam bhavet dvijāḥ .. 97..
गुर्वनुज्ञाविरहितं चोरवत्सकलं भवेत् ॥ गुरोरपि विशेषज्ञं यत्नाद्गृह्णीत वै गुरुम् ॥ ९८॥
गुरु-अनुज्ञा-विरहितम् चोर-वत् सकलम् भवेत् ॥ गुरोः अपि विशेष-ज्ञम् यत्नात् गृह्णीत वै गुरुम् ॥ ९८॥
guru-anujñā-virahitam cora-vat sakalam bhavet .. guroḥ api viśeṣa-jñam yatnāt gṛhṇīta vai gurum .. 98..
अज्ञानमोचनं साध्यं विशेषज्ञो हि मोचकः ॥ आदौ च विघ्नशमनं कर्तव्यं कर्म पूर्तये ॥ ९९॥
अज्ञान-मोचनम् साध्यम् विशेष-ज्ञः हि मोचकः ॥ आदौ च विघ्न-शमनम् कर्तव्यम् कर्म पूर्तये ॥ ९९॥
ajñāna-mocanam sādhyam viśeṣa-jñaḥ hi mocakaḥ .. ādau ca vighna-śamanam kartavyam karma pūrtaye .. 99..
निर्विघ्नेन कृतं सांगं कर्म वै सफलं भवेत् ॥ तस्मात्सकलकर्मादौ विघ्नेशं पूजयेद् बुधः ॥ १००॥
निर्विघ्नेन कृतम् स अंगम् कर्म वै सफलम् भवेत् ॥ तस्मात् सकल-कर्म-आदौ विघ्नेशम् पूजयेत् बुधः ॥ १००॥
nirvighnena kṛtam sa aṃgam karma vai saphalam bhavet .. tasmāt sakala-karma-ādau vighneśam pūjayet budhaḥ .. 100..
सर्वबाधानिवृत्त्यर्थं सर्वान्देवान्यजेद्बुधः ॥ ज्वरादिग्रंथिरोगाश्च बाधा ह्याध्यात्मिका मता ॥ १०१॥
सर्व-बाधा-निवृत्ति-अर्थम् सर्वान् देवान् यजेत् बुधः ॥ ज्वर-आदि-ग्रंथि-रोगाः च बाधा हि आध्यात्मिका मता ॥ १०१॥
sarva-bādhā-nivṛtti-artham sarvān devān yajet budhaḥ .. jvara-ādi-graṃthi-rogāḥ ca bādhā hi ādhyātmikā matā .. 101..
पिशाचजंबुकादीनां वल्मीकाद्युद्भवे तथा ॥ अकस्मादेव गोधादिजंतूनां पतनेपि च ॥ १०२॥
पिशाच-जंबुक-आदीनाम् वल्मीक-आदि-उद्भवे तथा ॥ अकस्मात् एव गोधा-आदि-जंतूनाम् पतने अपि च ॥ १०२॥
piśāca-jaṃbuka-ādīnām valmīka-ādi-udbhave tathā .. akasmāt eva godhā-ādi-jaṃtūnām patane api ca .. 102..
गृहे कच्छपसर्पस्त्रीदुर्जनादर्शनेपि च ॥ वृक्षनारीगवादीनां प्रसूतिविषयेपि च ॥ १०३॥
गृहे कच्छप-सर्प-स्त्री-दुर्जन-अदर्शने अपि च ॥ वृक्ष-नारी-गवा-आदीनाम् प्रसूति-विषये पि च ॥ १०३॥
gṛhe kacchapa-sarpa-strī-durjana-adarśane api ca .. vṛkṣa-nārī-gavā-ādīnām prasūti-viṣaye pi ca .. 103..
भाविदुःखं समायाति तस्मात्ते भौतिका मता ॥ अमेध्या शनिपातश्च महामारी तथैव च ॥ १०४॥
भावि-दुःखम् समायाति तस्मात् ते भौतिका मता ॥ अमेध्या शनिपातः च महामारी तथा एव च ॥ १०४॥
bhāvi-duḥkham samāyāti tasmāt te bhautikā matā .. amedhyā śanipātaḥ ca mahāmārī tathā eva ca .. 104..
ज्वरमारी विषूचिश्च गोमारी च मसूरिका ॥ जन्मर्क्षग्रहसंक्रांतिग्रहयोगाः स्वराशिके ॥ १०५॥
ज्वरमारी विषूचिः च गोमारी च मसूरिका ॥ जन्म-ऋक्ष-ग्रह-संक्रांति-ग्रह-योगाः स्व-राशिके ॥ १०५॥
jvaramārī viṣūciḥ ca gomārī ca masūrikā .. janma-ṛkṣa-graha-saṃkrāṃti-graha-yogāḥ sva-rāśike .. 105..
दुःस्वप्नदर्शनाद्याश्च मता वै ह्यधिदैविकाः ॥ शवचांडालपतितस्पर्शाद्येंतर्गृहे गते ॥ १०६॥
दुःस्वप्न-दर्शन-आद्याः च मताः वै हि अधिदैविकाः ॥ शव-चांडाल-पतित-स्पर्श-आद्ये अन्तर्गृहे गते ॥ १०६॥
duḥsvapna-darśana-ādyāḥ ca matāḥ vai hi adhidaivikāḥ .. śava-cāṃḍāla-patita-sparśa-ādye antargṛhe gate .. 106..
एतादृशे समुत्पन्ने भाविदुःखस्य सूचके ॥ शांतियज्ञं तु मतिमान्कुर्यात्तद्दोषशांतये ॥ १०७॥
एतादृशे समुत्पन्ने भावि-दुःखस्य सूचके ॥ शांति-यज्ञम् तु मतिमान् कुर्यात् तद्-दोष-शांतये ॥ १०७॥
etādṛśe samutpanne bhāvi-duḥkhasya sūcake .. śāṃti-yajñam tu matimān kuryāt tad-doṣa-śāṃtaye .. 107..
देवालयेऽथ गोष्ठे वा चैत्ये वापि गृहांगणे ॥ प्रादेशोन्नतधिष्ण्ये वै द्विहस्ते च स्वलंकृते ॥ १०८॥
देवालये अथ गोष्ठे वा चैत्ये वा अपि गृह-अंगणे ॥ प्रादेश-उन्नत-धिष्ण्ये वै द्वि-हस्ते च सु अलंकृते ॥ १०८॥
devālaye atha goṣṭhe vā caitye vā api gṛha-aṃgaṇe .. prādeśa-unnata-dhiṣṇye vai dvi-haste ca su alaṃkṛte .. 108..
भारमात्रव्रीहिधान्यं प्रस्थाप्य परिसृत्य च ॥ मध्ये विलिख्यकमलं तथा दिक्षुविलिख्य वै ॥ १०९॥
भार-मात्र-व्रीहि-धान्यम् प्रस्थाप्य परिसृत्य च ॥ मध्ये विलिख्य कमलम् तथा दिक्षु विलिख्य वै ॥ १०९॥
bhāra-mātra-vrīhi-dhānyam prasthāpya parisṛtya ca .. madhye vilikhya kamalam tathā dikṣu vilikhya vai .. 109..
तंतुना वेष्टितं कुंभं नवगुग्गुलधूपितम् ॥ मध्ये स्थाप्य महाकुंभं तथा दिक्ष्वपि विन्यसेत् ॥ ११०॥
तंतुना वेष्टितम् कुंभम् नव-गुग्गुल-धूपितम् ॥ मध्ये स्थाप्य महा-कुंभम् तथा दिक्षु अपि विन्यसेत् ॥ ११०॥
taṃtunā veṣṭitam kuṃbham nava-guggula-dhūpitam .. madhye sthāpya mahā-kuṃbham tathā dikṣu api vinyaset .. 110..
सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु ॥ पूरयेन्मंत्रपूतेन पंचद्र व्ययुतेन हि ॥ १११॥
स नाल-आम्रक-कूर्च-आदीन् कलशान् च तथा अष्टसु ॥ पूरयेत् मंत्र-पूतेन पंचद्र व्ययुतेन हि ॥ १११॥
sa nāla-āmraka-kūrca-ādīn kalaśān ca tathā aṣṭasu .. pūrayet maṃtra-pūtena paṃcadra vyayutena hi .. 111..
प्रक्षिपेन्नव रत्नानि नीलादीन्क्रमशस्तथा ॥ कर्मज्ञं च सपत्नीकमाचार्यं वरयेद्बुधः ॥ ११२॥
प्रक्षिपेत् नव रत्नानि नील-आदीन् क्रमशस् तथा ॥ कर्म-ज्ञम् च स पत्नीकम् आचार्यम् वरयेत् बुधः ॥ ११२॥
prakṣipet nava ratnāni nīla-ādīn kramaśas tathā .. karma-jñam ca sa patnīkam ācāryam varayet budhaḥ .. 112..
सुवर्णप्रतिमां विष्णोरिंद्रा दीनां च निक्षिपेत् ॥ सशिरस्के मध्यकुंभे विष्णुमाबाह्य पूजयेत् ॥ ११३॥
सुवर्ण-प्रतिमाम् विष्णोः इन्द्राः दीनाम् च निक्षिपेत् ॥ स शिरस्के मध्य-कुंभे विष्णुम् आबाह्य पूजयेत् ॥ ११३॥
suvarṇa-pratimām viṣṇoḥ indrāḥ dīnām ca nikṣipet .. sa śiraske madhya-kuṃbhe viṣṇum ābāhya pūjayet .. 113..
प्रागादिषु यथामंत्रमिंद्रा दीन्क्रमशो यजेत् ॥ तत्तन्नाम्ना चतुर्थ्यां च नमोन्ते न यथाक्रमम् ॥ ११४॥
प्राच्-आदिषु यथामंत्रम् इंद्र-आदीन् क्रमशस् यजेत् ॥ तद्-तद्-नाम्ना चतुर्थ्याम् च नमः-न्ते न यथाक्रमम् ॥ ११४॥
prāc-ādiṣu yathāmaṃtram iṃdra-ādīn kramaśas yajet .. tad-tad-nāmnā caturthyām ca namaḥ-nte na yathākramam .. 114..
आवाहनादिकं सर्वमाचार्येणैव कारयेत् ॥ आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम् ॥ ११५॥
आवाहन-आदिकम् सर्वम् आचार्येण एव कारयेत् ॥ आचार्यः ऋत्विजा सार्धम् तद्-मात्रान् प्रजपेत् शतम् ॥ ११५॥
āvāhana-ādikam sarvam ācāryeṇa eva kārayet .. ācāryaḥ ṛtvijā sārdham tad-mātrān prajapet śatam .. 115..
कुंभस्य पश्चिमे भागे जपांते होममाचरेत् ॥ कोटिं लक्षं सहस्रं वा शतमष्टोत्तरं बुधाः ॥ ११६॥
कुंभस्य पश्चिमे भागे जप-अंते होमम् आचरेत् ॥ कोटिम् लक्षम् सहस्रम् वा शतम् अष्ट-उत्तरम् बुधाः ॥ ११६॥
kuṃbhasya paścime bhāge japa-aṃte homam ācaret .. koṭim lakṣam sahasram vā śatam aṣṭa-uttaram budhāḥ .. 116..
एकाहं वा नवाहं वा तथा मंडलमेव वा ॥ यथायोग्यं प्रकुर्वीत कालदेशानुसारतः ॥ ११७॥
एक-अहम् वा नव-अहम् वा तथा मंडलम् एव वा ॥ यथायोग्यम् प्रकुर्वीत काल-देश-अनुसारतः ॥ ११७॥
eka-aham vā nava-aham vā tathā maṃḍalam eva vā .. yathāyogyam prakurvīta kāla-deśa-anusārataḥ .. 117..
शमीहोमश्च शांत्यर्थे वृत्त्यर्थे च पलाशकम् ॥ समिदन्नाज्यकैर्द्र व्यैर्नाम्ना मंत्रेण वा हुनेत् ॥ ११८॥
शमी-होमः च शांति-अर्थे वृत्ति-अर्थे च पलाशकम् ॥ समिध्-अन्न-आज्यकैः द्र व्यैः नाम्ना मंत्रेण वा हुनेत् ॥ ११८॥
śamī-homaḥ ca śāṃti-arthe vṛtti-arthe ca palāśakam .. samidh-anna-ājyakaiḥ dra vyaiḥ nāmnā maṃtreṇa vā hunet .. 118..
प्रारंभे यत्कृतं द्र व्यं तत्क्रियांतं समाचरेत् ॥ पुण्याहं वाचयित्वांते दिने संप्रोक्ष्ययेज्जलैः ॥ ११९॥
प्रारंभे यत् कृतम् द्र-व्यम् तद्-क्रिया-अन्तम् समाचरेत् ॥ पुण्याहम् वाचयित्वा अंते दिने ॥ ११९॥
prāraṃbhe yat kṛtam dra-vyam tad-kriyā-antam samācaret .. puṇyāham vācayitvā aṃte dine .. 119..
ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्यया ॥ आचार्यश्च हविष्याशीऋत्विजश्च भवेद्बुधाः ॥ १२०॥
ब्राह्मणान् भोजयेत् पश्चात् यावत् आहुति-संख्यया ॥ आचार्यः च हविष्य-आशी-ऋत्विजः च भवेत् बुधाः ॥ १२०॥
brāhmaṇān bhojayet paścāt yāvat āhuti-saṃkhyayā .. ācāryaḥ ca haviṣya-āśī-ṛtvijaḥ ca bhavet budhāḥ .. 120..
आदित्यादीन्ग्रहानिष्ट्वा सर्वहोमांत एव हि ॥ ऋत्विभ्यो दक्षिणां दद्यान्नवरत्नं यथाक्रमम् ॥ १२१॥
आदित्य-आदीन् ग्रहान् इष्ट्वा सर्व-होम-अन्ते एव हि ॥ ऋत्विभ्यः दक्षिणाम् दद्यात् नवरत्नम् यथाक्रमम् ॥ १२१॥
āditya-ādīn grahān iṣṭvā sarva-homa-ante eva hi .. ṛtvibhyaḥ dakṣiṇām dadyāt navaratnam yathākramam .. 121..
दशदानं ततः कुर्याद्भूरिदानं ततः परम् ॥ बालानामुपनीतानां गृहिणां वनिनां धनम् ॥ १२२॥
दश-दानम् ततस् कुर्यात् भूरि-दानम् ततस् परम् ॥ बालानाम् उपनीतानाम् गृहिणाम् वनिनाम् धनम् ॥ १२२॥
daśa-dānam tatas kuryāt bhūri-dānam tatas param .. bālānām upanītānām gṛhiṇām vaninām dhanam .. 122..
कन्यानां च सभर्तृ-णां विधवानां ततः परम् ॥ तंत्रोपकरणं सर्वमाचार्याय निवेदयेत् ॥ १२३॥
कन्यानाम् च विधवानाम् ततस् परम् ॥ तंत्र-उपकरणम् सर्वम् आचार्याय निवेदयेत् ॥ १२३॥
kanyānām ca vidhavānām tatas param .. taṃtra-upakaraṇam sarvam ācāryāya nivedayet .. 123..
उत्पातानां च मारीणां दुःखस्वामी यमः स्मृतः ॥ तस्माद्यमस्य प्रीत्यर्थं कालदानं प्रदापयेत् ॥ १२४॥
उत्पातानाम् च मारीणाम् दुःख-स्वामी यमः स्मृतः ॥ तस्मात् यमस्य प्रीति-अर्थम् कालदानम् प्रदापयेत् ॥ १२४॥
utpātānām ca mārīṇām duḥkha-svāmī yamaḥ smṛtaḥ .. tasmāt yamasya prīti-artham kāladānam pradāpayet .. 124..
शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः ॥ पाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम् ॥ १२५॥
शत-निष्केण वा कुर्यात् दश-निष्केण वा पुनर् ॥ पाश-अंकुश-धरम् कालम् कुर्यात् पुरुष-रूपिणम् ॥ १२५॥
śata-niṣkeṇa vā kuryāt daśa-niṣkeṇa vā punar .. pāśa-aṃkuśa-dharam kālam kuryāt puruṣa-rūpiṇam .. 125..
तत्स्वर्णप्रतिमादानं कुर्याद्दक्षिणया सह ॥ तिलदानं ततः कुर्यात्पूर्णायुष्यप्रसिद्धये ॥ १२६॥
तद्-स्वर्ण-प्रतिमा-आदानम् कुर्यात् दक्षिणया सह ॥ तिल-दानम् ततस् कुर्यात् पूर्ण-आयुष्य-प्रसिद्धये ॥ १२६॥
tad-svarṇa-pratimā-ādānam kuryāt dakṣiṇayā saha .. tila-dānam tatas kuryāt pūrṇa-āyuṣya-prasiddhaye .. 126..
आज्यावेक्षणदानं च कुर्याद्व्याधिनिवृत्तये ॥ सहस्रं भोजयेद्विप्रान्दरिद्रः शतमेव वा ॥ १२७॥
आज्य-अवेक्षण-दानम् च कुर्यात् व्याधि-निवृत्तये ॥ सहस्रम् भोजयेत् विप्रान् दरिद्रः शतम् एव वा ॥ १२७॥
ājya-avekṣaṇa-dānam ca kuryāt vyādhi-nivṛttaye .. sahasram bhojayet viprān daridraḥ śatam eva vā .. 127..
वित्ताभावे दरिद्र स्तु यथाशक्ति समाचरेत् ॥ भैरवस्य महापूजां कुर्याद्भूतादिशांतये ॥ १२८॥
वित्त-अभावे दरिद्रः स्तु यथाशक्ति समाचरेत् ॥ भैरवस्य महा-पूजाम् कुर्यात् भूत-आदि-शांतये ॥ १२८॥
vitta-abhāve daridraḥ stu yathāśakti samācaret .. bhairavasya mahā-pūjām kuryāt bhūta-ādi-śāṃtaye .. 128..
महाभिषेकं नैवेद्यं शिवस्यान्ते तुकारयेत् ॥ ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः ॥ १२९॥
महा-अभिषेकम् नैवेद्यम् शिवस्य अन्ते तु कारयेत् ॥ ब्राह्मणान् भोजयेत् पश्चात् भूरि-भोजन-रूपतः ॥ १२९॥
mahā-abhiṣekam naivedyam śivasya ante tu kārayet .. brāhmaṇān bhojayet paścāt bhūri-bhojana-rūpataḥ .. 129..
एवं कृतेन यज्ञेन दोषशांतिमवाप्नुयात् ॥ शांतियज्ञमिमं कुर्याद्वर्षे वर्षे तु फाल्गुने ॥ १३०॥
एवम् कृतेन यज्ञेन दोष-शांतिम् अवाप्नुयात् ॥ शांति-यज्ञम् इमम् कुर्यात् वर्षे वर्षे तु फाल्गुने ॥ १३०॥
evam kṛtena yajñena doṣa-śāṃtim avāpnuyāt .. śāṃti-yajñam imam kuryāt varṣe varṣe tu phālgune .. 130..
दुर्दर्शनादौ सद्यो वै मासमात्रे समाचरेत् ॥ महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम् ॥ १३१॥
दुर्दर्शन-आदौ सद्यस् वै मास-मात्रे समाचरेत् ॥ महा-पाप-आदि-संप्राप्तौ कुर्यात् भैरव-पूजनम् ॥ १३१॥
durdarśana-ādau sadyas vai māsa-mātre samācaret .. mahā-pāpa-ādi-saṃprāptau kuryāt bhairava-pūjanam .. 131..
महाव्याधिसमुत्पत्तौ संकल्पं पुनराचरेत् ॥ सर्वभावे दरिद्र स्तु दीपदानमथाचरेत् ॥ १३२॥
महा-व्याधि-समुत्पत्तौ संकल्पम् पुनर् आचरेत् ॥ सर्व-भावे दरिद्रः स्तु दीप-दानम् अथ आचरेत् ॥ १३२॥
mahā-vyādhi-samutpattau saṃkalpam punar ācaret .. sarva-bhāve daridraḥ stu dīpa-dānam atha ācaret .. 132..
तदप्यशक्तः स्नात्वा वै यत्किंचिद्दानमाचरेत् ॥ दिवाकरं नमस्कुर्यान्मन्त्रेणाष्टोत्तरं शतम् ॥ १३३॥
तत् अपि अशक्तः स्नात्वा वै यत् किंचिद् दानम् आचरेत् ॥ दिवाकरम् नमस्कुर्यात् मन्त्रेण अष्ट-उत्तरम् शतम् ॥ १३३॥
tat api aśaktaḥ snātvā vai yat kiṃcid dānam ācaret .. divākaram namaskuryāt mantreṇa aṣṭa-uttaram śatam .. 133..
सहस्रमयुतं लक्षं कोटिं वा कारयेद् बुधः ॥ नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः ॥ १३४॥
सहस्रम् अयुतम् लक्षम् कोटिम् वा कारयेत् बुधः ॥ नमस्कार-आत्म-यज्ञेन तुष्टाः स्युः सर्व-देवताः ॥ १३४॥
sahasram ayutam lakṣam koṭim vā kārayet budhaḥ .. namaskāra-ātma-yajñena tuṣṭāḥ syuḥ sarva-devatāḥ .. 134..
त्वत्स्वरूपेर्पिता बुद्धिर्नतेऽशून्ये च रोचति ॥ या चास्त्यस्मदहंतेति त्वयि दृष्टे विवर्जिता ॥ १३५॥
त्वद्-स्व-रूप-ईर्पिता बुद्धिः नते अ शून्ये च रोचति ॥ या च अस्ति अस्मद्-अहंता इति त्वयि दृष्टे विवर्जिता ॥ १३५॥
tvad-sva-rūpa-īrpitā buddhiḥ nate a śūnye ca rocati .. yā ca asti asmad-ahaṃtā iti tvayi dṛṣṭe vivarjitā .. 135..
नम्रोऽहं हि स्वदेहेन भो महांस्त्वमसि प्रभो ॥ न शून्यो मत्स्वरूपो वै तव दासोऽस्मि सांप्रतम् ॥ १३६॥
नम्रः अहम् हि स्व-देहेन भो महान् त्वम् असि प्रभो ॥ न शून्यः मद्-स्व-रूपः वै तव दासः अस्मि सांप्रतम् ॥ १३६॥
namraḥ aham hi sva-dehena bho mahān tvam asi prabho .. na śūnyaḥ mad-sva-rūpaḥ vai tava dāsaḥ asmi sāṃpratam .. 136..
यथायोग्यं स्वात्मयज्ञं नमस्कारं प्रकल्पयेत् ॥ अथात्र शिवनैवेद्यं दत्त्वा तांबूलमाहरेत् ॥ १३७॥
यथायोग्यम् स्व-आत्म-यज्ञम् नमस्कारम् प्रकल्पयेत् ॥ अथ अत्र शिव-नैवेद्यम् दत्त्वा तांबूलम् आहरेत् ॥ १३७॥
yathāyogyam sva-ātma-yajñam namaskāram prakalpayet .. atha atra śiva-naivedyam dattvā tāṃbūlam āharet .. 137..
शिवप्रदक्षिणं कुर्यात्स्वयमष्टोत्तरं शतम् ॥ सहस्रमयुतं लक्षं कोटिमन्येन कारयेत् ॥ १३८॥
शिव-प्रदक्षिणम् कुर्यात् स्वयम् अष्ट-उत्तरम् शतम् ॥ सहस्रम् अयुतम् लक्षम् कोटिम् अन्येन कारयेत् ॥ १३८॥
śiva-pradakṣiṇam kuryāt svayam aṣṭa-uttaram śatam .. sahasram ayutam lakṣam koṭim anyena kārayet .. 138..
शिवप्रदक्षिणात्सर्वं पातकं नश्यति क्षणात् ॥ दुःखस्य मूलं व्याधिर्हि व्याधेर्मूलं हि पातकम् ॥ १३९॥
शिव-प्रदक्षिणात् सर्वम् पातकम् नश्यति क्षणात् ॥ दुःखस्य मूलम् व्याधिः हि व्याधेः मूलम् हि पातकम् ॥ १३९॥
śiva-pradakṣiṇāt sarvam pātakam naśyati kṣaṇāt .. duḥkhasya mūlam vyādhiḥ hi vyādheḥ mūlam hi pātakam .. 139..
धर्मेणैव हि पापानामपनोदनमीरितम् ॥ शिवोद्देशकृतो धर्मः क्षमः पापविनोदने ॥ १४०॥
धर्मेण एव हि पापानाम् अपनोदनम् ईरितम् ॥ शिव-उद्देश-कृतः धर्मः क्षमः पाप-विनोदने ॥ १४०॥
dharmeṇa eva hi pāpānām apanodanam īritam .. śiva-uddeśa-kṛtaḥ dharmaḥ kṣamaḥ pāpa-vinodane .. 140..
अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् ॥ क्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम् ॥ १४१॥
अध्यक्षम् शिव-धर्मेषु प्रदक्षिणम् इति ईरितम् ॥ क्रियया जप-रूपम् हि प्रणवम् तु प्रदक्षिणम् ॥ १४१॥
adhyakṣam śiva-dharmeṣu pradakṣiṇam iti īritam .. kriyayā japa-rūpam hi praṇavam tu pradakṣiṇam .. 141..
जननं मरणं द्वंद्वं मायाचक्रमितीरितम् ॥ शिवस्य मायाचक्रं हि बलिपीठं तदुच्यते ॥ १४२॥
जननम् मरणम् द्वंद्वम् मायाचक्रम् इति ईरितम् ॥ शिवस्य माया-चक्रम् हि बलिपीठम् तत् उच्यते ॥ १४२॥
jananam maraṇam dvaṃdvam māyācakram iti īritam .. śivasya māyā-cakram hi balipīṭham tat ucyate .. 142..
बलिपीठं समारभ्य प्रादक्षिण्यक्रमेण वै ॥ पदे पदांतरं गत्वा बलिपीठं समाविशेत् ॥ १४३॥
बलि-पीठम् समारभ्य प्रादक्षिण्य-क्रमेण वै ॥ पदे पद-अंतरम् गत्वा बलि-पीठम् समाविशेत् ॥ १४३॥
bali-pīṭham samārabhya prādakṣiṇya-krameṇa vai .. pade pada-aṃtaram gatvā bali-pīṭham samāviśet .. 143..
नमस्कारं ततः कुर्यात्प्रदक्षिणमितीरितम् ॥ निर्गमाज्जननं प्राप्तं नमस्त्वात्मसमर्पणम् ॥ १४४॥
नमस्कारम् ततस् कुर्यात् प्रदक्षिणम् इति ईरितम् ॥ निर्गमात् जननम् प्राप्तम् नमः तु आत्मसमर्पणम् ॥ १४४॥
namaskāram tatas kuryāt pradakṣiṇam iti īritam .. nirgamāt jananam prāptam namaḥ tu ātmasamarpaṇam .. 144..
जननं मरणं द्वंद्वं शिवमायासमर्पितम् ॥ शिवमायार्पितद्वंद्वो न पुनस्त्वात्मभाग्भवेत् ॥ १४५॥
जननम् मरणम् द्वंद्वम् शिवम् आया-समर्पितम् ॥ शिव-माया-अर्पित-द्वंद्वः न पुनर् तु आत्म-भाज् भवेत् ॥ १४५॥
jananam maraṇam dvaṃdvam śivam āyā-samarpitam .. śiva-māyā-arpita-dvaṃdvaḥ na punar tu ātma-bhāj bhavet .. 145..
यावद्देहं क्रियाधीनः सजीवो बद्ध उच्यते ॥ देहत्रयवशीकारे मोक्ष इत्युच्यते बुधैः ॥ १४६॥
यावद्देहम् क्रिया-अधीनः स जीवः बद्धः उच्यते ॥ देह-त्रय-वशीकारे मोक्षः इति उच्यते बुधैः ॥ १४६॥
yāvaddeham kriyā-adhīnaḥ sa jīvaḥ baddhaḥ ucyate .. deha-traya-vaśīkāre mokṣaḥ iti ucyate budhaiḥ .. 146..
मायाचक्रप्रणेता हि शिवः परमकारणम् ॥ शिवमायार्पितद्वंद्वं शिवस्तु परिमार्जति ॥ १४७॥
माया-चक्र-प्रणेता हि शिवः परम-कारणम् ॥ शिव-माया-अर्पित-द्वंद्वम् शिवः तु परिमार्जति ॥ १४७॥
māyā-cakra-praṇetā hi śivaḥ parama-kāraṇam .. śiva-māyā-arpita-dvaṃdvam śivaḥ tu parimārjati .. 147..
शिवेन कल्पितं द्वंद्वं तस्मिन्नेव समर्पयेत् ॥ शिवस्यातिप्रियं विद्यात्प्रदक्षिणं नमो बुधाः ॥ १४८॥
शिवेन कल्पितम् द्वंद्वम् तस्मिन् एव समर्पयेत् ॥ शिवस्य अति प्रियम् विद्यात् प्रदक्षिणम् नमः बुधाः ॥ १४८॥
śivena kalpitam dvaṃdvam tasmin eva samarpayet .. śivasya ati priyam vidyāt pradakṣiṇam namaḥ budhāḥ .. 148..
प्रदक्षिणनमस्काराः शिवस्य परमात्मनः ॥ षोडशैरुपचारैश्च कृतपूजा फलप्रदा ॥ १४९॥
प्रदक्षिण-नमस्काराः शिवस्य परमात्मनः ॥ षोडशैः उपचारैः च कृत-पूजा फल-प्रदा ॥ १४९॥
pradakṣiṇa-namaskārāḥ śivasya paramātmanaḥ .. ṣoḍaśaiḥ upacāraiḥ ca kṛta-pūjā phala-pradā .. 149..
प्रदक्षिणाऽविनाश्यं हि पातकं नास्ति भूतले ॥ तस्मात्प्रदक्षिणेनैव सर्वपापं विनाशयेत् ॥ १५०॥
प्रदक्षिणा-अविनाश्यम् हि पातकम् ना अस्ति भू-तले ॥ तस्मात् प्रदक्षिणेन एव सर्व-पापम् विनाशयेत् ॥ १५०॥
pradakṣiṇā-avināśyam hi pātakam nā asti bhū-tale .. tasmāt pradakṣiṇena eva sarva-pāpam vināśayet .. 150..
शिवपूजापरो मौनी सत्यादिगुणसंयुतः ॥ क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत् ॥ १५१॥
शिव-पूजा-परः मौनी सत्य-आदि-गुण-संयुतः ॥ क्रिया-तपः-जप-ज्ञान-ध्यानेषु एकैकम् आचरेत् ॥ १५१॥
śiva-pūjā-paraḥ maunī satya-ādi-guṇa-saṃyutaḥ .. kriyā-tapaḥ-japa-jñāna-dhyāneṣu ekaikam ācaret .. 151..
ऐश्वर्यं दिव्यदेहश्च ज्ञानमज्ञानसंशयः ॥ शिवसान्निध्यमित्येते क्रियादीनां फलं भवेत् ॥ १५२॥
ऐश्वर्यम् दिव्य-देहः च ज्ञानम् अज्ञान-संशयः ॥ शिव-सान्निध्यम् इति एते क्रिया-आदीनाम् फलम् भवेत् ॥ १५२॥
aiśvaryam divya-dehaḥ ca jñānam ajñāna-saṃśayaḥ .. śiva-sānnidhyam iti ete kriyā-ādīnām phalam bhavet .. 152..
करणेन फलं याति तमसः परिहापनात् ॥ जन्मनः परिमार्जित्वाज्ज्ञबुद्ध्या जनितानि च ॥ १५३॥
करणेन फलम् याति तमसः परिहापनात् ॥ जन्मनः च ॥ १५३॥
karaṇena phalam yāti tamasaḥ parihāpanāt .. janmanaḥ ca .. 153..
यथादेशं यथाकालं यथादेहं यथाधनम् ॥ यथायोग्यं प्रकुर्वीत क्रियादीञ्छिवभक्तिमान् ॥ १५४॥
यथादेशम् यथाकालम् यथादेहम् यथाधनम् ॥ यथायोग्यम् प्रकुर्वीत क्रिया-आदीन् शिव-भक्तिमान् ॥ १५४॥
yathādeśam yathākālam yathādeham yathādhanam .. yathāyogyam prakurvīta kriyā-ādīn śiva-bhaktimān .. 154..
न्यायार्जितसुवित्तेन वसेत्प्राज्ञः शिवस्थले ॥ जीवहिंसादिरहितमतिक्लेशविवर्जितम् ॥ १५५॥
न्याय-अर्जित-सु वित्तेन वसेत् प्राज्ञः शिवस्थले ॥ जीव-हिंसा-आदि-रहितम् अति क्लेश-विवर्जितम् ॥ १५५॥
nyāya-arjita-su vittena vaset prājñaḥ śivasthale .. jīva-hiṃsā-ādi-rahitam ati kleśa-vivarjitam .. 155..
पंचाक्षरेण जप्तं च तोयमन्नं विदुः सुखम् ॥ अथवाऽहुर्दरिद्र स्य भिक्षान्नंज्ञानदं भवेत् ॥ १५६॥
पंचाक्षरेण जप्तम् च तोयम् अन्नम् विदुः सुखम् ॥ भिक्षा-अन्नम् ज्ञान-दम् भवेत् ॥ १५६॥
paṃcākṣareṇa japtam ca toyam annam viduḥ sukham .. bhikṣā-annam jñāna-dam bhavet .. 156..
शिवभक्तस्य भिक्षान्नंशिवभक्तिविवर्धनम् ॥ शंभुसत्रमिति प्राहुर्भिक्षान्नंशिवयोगिनः ॥ १५७॥
शिव-भक्तस्य भिक्षा-अन्नम् शिव-भक्ति-विवर्धनम् ॥ शंभु-सत्रम् इति प्राहुः भिक्षा-अन्नम् शिव-योगिनः ॥ १५७॥
śiva-bhaktasya bhikṣā-annam śiva-bhakti-vivardhanam .. śaṃbhu-satram iti prāhuḥ bhikṣā-annam śiva-yoginaḥ .. 157..
येन केनाप्युपायेन यत्र कुत्रापि भूतले ॥ शुद्धान्नभुक्सदा मौनीरहस्यं न प्रकाशयेत् ॥ १५८॥
येन केन अपि उपायेन यत्र कुत्र अपि भू-तले ॥ शुद्ध-अन्न-भुज् सदा मौनी-रहस्यम् न प्रकाशयेत् ॥ १५८॥
yena kena api upāyena yatra kutra api bhū-tale .. śuddha-anna-bhuj sadā maunī-rahasyam na prakāśayet .. 158..
प्रकाशयेत्तु भक्तानां शिवमाहात्म्यमेव हि ॥ रहस्यं शिवमंत्रस्य शिवो जानाति नापरः ॥ १५९॥
प्रकाशयेत् तु भक्तानाम् शिव-माहात्म्यम् एव हि ॥ रहस्यम् शिव-मंत्रस्य शिवः जानाति न अपरः ॥ १५९॥
prakāśayet tu bhaktānām śiva-māhātmyam eva hi .. rahasyam śiva-maṃtrasya śivaḥ jānāti na aparaḥ .. 159..
शिवभक्तो वसेन्नित्यं शिवलिंगं समाश्रितः ॥ स्थाणुलिंगाश्रयेणैव स्थाणुर्भवति भूसुराः ॥ १६०॥
शिव-भक्तः वसेत् नित्यम् शिव-लिंगम् समाश्रितः ॥ स्थाणु-लिंग-आश्रयेण एव स्थाणुः भवति भूसुराः ॥ १६०॥
śiva-bhaktaḥ vaset nityam śiva-liṃgam samāśritaḥ .. sthāṇu-liṃga-āśrayeṇa eva sthāṇuḥ bhavati bhūsurāḥ .. 160..
पूजया चरलिंगस्य क्रमान्मुक्तो भवेद्ध्रुवम् ॥ सर्वमुक्तं समासेन साध्यसाधनमुत्तमम् ॥ १६१॥
पूजया चर-लिंगस्य क्रमात् मुक्तः भवेत् ध्रुवम् ॥ सर्वम् उक्तम् समासेन साध्य-साधनम् उत्तमम् ॥ १६१॥
pūjayā cara-liṃgasya kramāt muktaḥ bhavet dhruvam .. sarvam uktam samāsena sādhya-sādhanam uttamam .. 161..
व्यासेन यत्पुराप्रोक्तं यच्छ्रुतं हि मया पुरा ॥ भद्र मस्तु हि वोऽस्माकं शिवभक्तिर्दृढाऽस्तुसा ॥ १६२॥
व्यासेन यत् पुरा प्रोक्तम् यत् श्रुतम् हि मया पुरा ॥ भद्र मस्तु हि वः अस्माकम् शिव-भक्तिः दृढा अस्तु सा ॥ १६२॥
vyāsena yat purā proktam yat śrutam hi mayā purā .. bhadra mastu hi vaḥ asmākam śiva-bhaktiḥ dṛḍhā astu sā .. 162..
य इमं पठतेऽध्यायं यः शृणोति नरः सदा ॥ शिवज्ञानं स लभतेशिवस्य कृपया बुधाः ॥ १६३॥
यः इमम् पठते अध्यायम् यः शृणोति नरः सदा ॥ शिव-ज्ञानम् स लभते शिवस्य कृपया बुधाः ॥ १६३॥
yaḥ imam paṭhate adhyāyam yaḥ śṛṇoti naraḥ sadā .. śiva-jñānam sa labhate śivasya kṛpayā budhāḥ .. 163..
इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे शिवलिंगमहिमावर्णनं नामाष्टादशोऽध्यायः ॥ १६४॥
इति श्री-शैवे महापुराणे विद्येश्वरसंहितायाम् साध्यसाधन-खंडे शिवलिंगमहिमावर्णनम् नाम अष्टादशः अध्यायः ॥ १६४॥
iti śrī-śaive mahāpurāṇe vidyeśvarasaṃhitāyām sādhyasādhana-khaṃḍe śivaliṃgamahimāvarṇanam nāma aṣṭādaśaḥ adhyāyaḥ .. 164..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In