| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
सूत सूत चिरंजीव धन्यस्त्वं शिवभक्तिमान् ॥ सम्यगुक्तस्त्वया लिंगमहिमा सत्फलप्रदः ॥ १॥
सूत सूत चिरंजीव धन्यः त्वम् शिव-भक्तिमान् ॥ सम्यक् उक्तः त्वया लिंग-महिमा सत्-फल-प्रदः ॥ १॥
sūta sūta ciraṃjīva dhanyaḥ tvam śiva-bhaktimān .. samyak uktaḥ tvayā liṃga-mahimā sat-phala-pradaḥ .. 1..
यत्र पार्थिवमाहेशलिंगस्य महिमाधुना ॥ सर्वोत्कृष्टश्च कथितो व्यासतो ब्रूहि तं पुनः ॥ २॥
यत्र पार्थिव-माहेशलिंगस्य महिमा अधुना ॥ सर्व-उत्कृष्टः च कथितः व्यासतः ब्रूहि तम् पुनर् ॥ २॥
yatra pārthiva-māheśaliṃgasya mahimā adhunā .. sarva-utkṛṣṭaḥ ca kathitaḥ vyāsataḥ brūhi tam punar .. 2..
सूत उवाच ।
शृणुध्वमृषयः सर्वे सद्भक्त्या हरतो खिलाः ॥ शिवपार्थिवलिंगस्य महिमा प्रोच्यते मया ॥ ३॥
शृणुध्वम् ऋषयः सर्वे सत्-भक्त्या खिलाः ॥ शिव-पार्थिव-लिंगस्य महिमा प्रोच्यते मया ॥ ३॥
śṛṇudhvam ṛṣayaḥ sarve sat-bhaktyā khilāḥ .. śiva-pārthiva-liṃgasya mahimā procyate mayā .. 3..
उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् ॥ तस्य पूजनतो विप्रा बहवः सिद्धिमागताः ॥ ४॥
उक्तेषु एतेषु लिंगेषु पार्थिवम् लिंगम् उत्तमम् ॥ तस्य पूजनतः विप्राः बहवः सिद्धिम् आगताः ॥ ४॥
ukteṣu eteṣu liṃgeṣu pārthivam liṃgam uttamam .. tasya pūjanataḥ viprāḥ bahavaḥ siddhim āgatāḥ .. 4..
हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा ॥ संपूज्य पार्थिवं लिंगं प्रापुःसर्वेप्सितं द्विजाः ॥ ५॥
हरिः ब्रह्मा च ऋषयः स प्रजापतयः तथा ॥ संपूज्य पार्थिवम् लिंगम् प्रापुः सर्व-ईप्सितम् द्विजाः ॥ ५॥
hariḥ brahmā ca ṛṣayaḥ sa prajāpatayaḥ tathā .. saṃpūjya pārthivam liṃgam prāpuḥ sarva-īpsitam dvijāḥ .. 5..
देवासुरमनुष्याश्च गंधर्वोरगराक्षसाः ॥ अन्येपि बहवस्तं संपूज्य सिद्धिं गताः परम् ॥ ६॥
देव-असुर-मनुष्याः च गंधर्व-उरग-राक्षसाः ॥ अन्ये अपि बहवः तम् संपूज्य सिद्धिम् गताः परम् ॥ ६॥
deva-asura-manuṣyāḥ ca gaṃdharva-uraga-rākṣasāḥ .. anye api bahavaḥ tam saṃpūjya siddhim gatāḥ param .. 6..
कृते रत्नमयं लिंगं त्रेतायां हेमसंभवम् ॥ द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे ॥ ७॥
कृते रत्न-मयम् लिंगम् त्रेतायाम् हेम-संभवम् ॥ द्वापरे पारदम् श्रेष्ठम् पार्थिवम् तु कलौ युगे ॥ ७॥
kṛte ratna-mayam liṃgam tretāyām hema-saṃbhavam .. dvāpare pāradam śreṣṭham pārthivam tu kalau yuge .. 7..
अष्टमूर्तिषु सर्वासु मूर्तिर्वै पार्थिवी वरा ॥ अनन्यपूजिता विप्रास्तपस्तस्मान्महत्फलम् ॥ ८॥
अष्ट-मूर्तिषु सर्वासु मूर्तिः वै पार्थिवी वरा ॥ अन् अन्य-पूजिताः विप्राः तपः तस्मात् महत् फलम् ॥ ८॥
aṣṭa-mūrtiṣu sarvāsu mūrtiḥ vai pārthivī varā .. an anya-pūjitāḥ viprāḥ tapaḥ tasmāt mahat phalam .. 8..
यथा सर्वेषु देवेषु ज्येष्ठः श्रेष्ठो महेश्वरः ॥ एवं सर्वेषु लिंगेषु पार्थिवं श्रेष्टमुच्यते ॥ ९॥
यथा सर्वेषु देवेषु ज्येष्ठः श्रेष्ठः महेश्वरः ॥ एवम् सर्वेषु लिंगेषु पार्थिवम् श्रेष्टम् उच्यते ॥ ९॥
yathā sarveṣu deveṣu jyeṣṭhaḥ śreṣṭhaḥ maheśvaraḥ .. evam sarveṣu liṃgeṣu pārthivam śreṣṭam ucyate .. 9..
यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा ॥ तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते १.१९. ॥ १०॥
यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा ॥ तथा सर्वेषु लिंगेषु पार्थिवम् श्रेष्ठम् उच्यते।१९। ॥ १०॥
yathā nadīṣu sarvāsu jyeṣṭhā śreṣṭhā surāpagā .. tathā sarveṣu liṃgeṣu pārthivam śreṣṭham ucyate.19. .. 10..
यथा सर्वेषु मंत्रेषु प्रणवो हि महान्स्मृतः ॥ तथेदं पार्थिवं श्रेष्ठमाराध्यं पूज्यमेव हि ॥ ११॥
यथा सर्वेषु मंत्रेषु प्रणवः हि महान् स्मृतः ॥ तथा इदम् पार्थिवम् श्रेष्ठम् आराध्यम् पूज्यम् एव हि ॥ ११॥
yathā sarveṣu maṃtreṣu praṇavaḥ hi mahān smṛtaḥ .. tathā idam pārthivam śreṣṭham ārādhyam pūjyam eva hi .. 11..
यथा सर्वेषु वर्णेषु ब्राह्मणःश्रेष्ठ उच्यते ॥ तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥ १२॥
यथा सर्वेषु वर्णेषु ब्राह्मणः श्रेष्ठः उच्यते ॥ तथा सर्वेषु लिंगेषु पार्थिवम् श्रेष्ठम् उच्यते ॥ १२॥
yathā sarveṣu varṇeṣu brāhmaṇaḥ śreṣṭhaḥ ucyate .. tathā sarveṣu liṃgeṣu pārthivam śreṣṭham ucyate .. 12..
यथा पुरीषु सर्वासु काशीश्रेष्ठतमा स्मृता ॥ तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥ १३॥
यथा पुरीषु सर्वासु काशी श्रेष्ठतमा स्मृता ॥ तथा सर्वेषु लिंगेषु पार्थिवम् श्रेष्ठम् उच्यते ॥ १३॥
yathā purīṣu sarvāsu kāśī śreṣṭhatamā smṛtā .. tathā sarveṣu liṃgeṣu pārthivam śreṣṭham ucyate .. 13..
यथा व्रतेषु सर्वेषु शिवरात्रिव्रतं परम् ॥ तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्थमुच्यते ॥ १४॥
यथा व्रतेषु सर्वेषु शिवरात्रि-व्रतम् परम् ॥ तथा सर्वेषु लिंगेषु पार्थिवम् श्रेष्थम् उच्यते ॥ १४॥
yathā vrateṣu sarveṣu śivarātri-vratam param .. tathā sarveṣu liṃgeṣu pārthivam śreṣtham ucyate .. 14..
यथा देवीषु सर्वासु शैवीशक्तिः परास्मृता ॥ तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥ १५॥
यथा देवीषु सर्वासु शैवी-शक्तिः परास्मृता ॥ तथा सर्वेषु लिंगेषु पार्थिवम् श्रेष्ठम् उच्यते ॥ १५॥
yathā devīṣu sarvāsu śaivī-śaktiḥ parāsmṛtā .. tathā sarveṣu liṃgeṣu pārthivam śreṣṭham ucyate .. 15..
प्रकृत्यपार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ॥ वृथा भवति सा पूजा स्नानदानादिकं वृथा ॥ १६॥
प्रकृति-अपार्थिवम् लिंगम् योन्य-देवम् प्रपूजयेत् ॥ वृथा भवति सा पूजा स्नान-दान-आदिकम् वृथा ॥ १६॥
prakṛti-apārthivam liṃgam yonya-devam prapūjayet .. vṛthā bhavati sā pūjā snāna-dāna-ādikam vṛthā .. 16..
पार्थिवाराधनं पुण्यं धन्यमायुर्विवर्धनम् ॥ तुष्टिदं पुष्टिदंश्रीदं कार्यं साधकसत्तमैः ॥ १७॥
पार्थिव-आराधनम् पुण्यम् धन्यम् आयुः-विवर्धनम् ॥ तुष्टि-दम् पुष्टि-दम् श्री-दम् कार्यम् साधक-सत्तमैः ॥ १७॥
pārthiva-ārādhanam puṇyam dhanyam āyuḥ-vivardhanam .. tuṣṭi-dam puṣṭi-dam śrī-dam kāryam sādhaka-sattamaiḥ .. 17..
यथा लब्धोपचारैश्च भक्त्या श्रद्धासमन्वितः ॥ पूजयेत्पार्थिवं लिंगं सर्वकामार्थसिद्धिदम् ॥ १८॥
यथा लब्ध-उपचारैः च भक्त्या श्रद्धा-समन्वितः ॥ पूजयेत् पार्थिवम् लिंगम् सर्व-काम-अर्थ-सिद्धि-दम् ॥ १८॥
yathā labdha-upacāraiḥ ca bhaktyā śraddhā-samanvitaḥ .. pūjayet pārthivam liṃgam sarva-kāma-artha-siddhi-dam .. 18..
यः कृत्वा पार्थिवं लिंगे पूजयेच्छुभवेदिकम् ॥ इहैव धनवाञ्छ्रीमानंते रुद्रो भिजायते ॥ १९॥
यः कृत्वा पार्थिवम् लिंगे पूजयेत् शुभ-वेदिकम् ॥ इह एव धनवान् श्रीमान् अन्ते रुद्रः भिजायते ॥ १९॥
yaḥ kṛtvā pārthivam liṃge pūjayet śubha-vedikam .. iha eva dhanavān śrīmān ante rudraḥ bhijāyate .. 19..
त्रिसंध्यं योर्चयंल्लिंगं कृत्वा बिल्वेन पार्थिवम् ॥ दशैकादशकंयावत्तस्य पुण्यफलं शृणु १.१९. ॥ २०॥
त्रिसंध्यम् यः ऊर्चयन् लिंगम् कृत्वा बिल्वेन पार्थिवम् ॥ दश-एकादशकम् यावत् तस्य पुण्य-फलम् शृणु।१९। ॥ २०॥
trisaṃdhyam yaḥ ūrcayan liṃgam kṛtvā bilvena pārthivam .. daśa-ekādaśakam yāvat tasya puṇya-phalam śṛṇu.19. .. 20..
अनेनैव स्वदेहेन रुद्र लोके महीयते ॥ पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ॥ २१॥
अनेन एव स्व-देहेन रुद्र लोके महीयते ॥ सर्व-मर्त्यानाम् दर्शनात् स्पर्शनात् अपि ॥ २१॥
anena eva sva-dehena rudra loke mahīyate .. sarva-martyānām darśanāt sparśanāt api .. 21..
जीवन्मुक्तः स वैज्ञानी शिव एव न संशयः ॥ तस्य दर्शनमात्रेण भुक्तिर्मुक्तिश्च जायते ॥ २२॥
जीवन्मुक्तः स वैज्ञानी शिवः एव न संशयः ॥ तस्य दर्शन-मात्रेण भुक्तिः मुक्तिः च जायते ॥ २२॥
jīvanmuktaḥ sa vaijñānī śivaḥ eva na saṃśayaḥ .. tasya darśana-mātreṇa bhuktiḥ muktiḥ ca jāyate .. 22..
शिवं यः पूजयेन्नित्यं कृत्वा लिंगं तु पार्थिवम् ॥ यावज्जीवनपर्यंतं स याति शिवमन्दिरम् ॥ २३॥
शिवम् यः पूजयेत् नित्यम् कृत्वा लिंगम् तु पार्थिवम् ॥ यावत् जीवन-पर्यन्तम् स याति शिव-मन्दिरम् ॥ २३॥
śivam yaḥ pūjayet nityam kṛtvā liṃgam tu pārthivam .. yāvat jīvana-paryantam sa yāti śiva-mandiram .. 23..
मृडेनाप्रमितान्वर्षाञ्छिवलोकेहि तिष्ठति ॥ सकामः पुनरागत्य राजेन्द्रो भारते भवेत् ॥ २४॥
मृडेन अप्रमितान् वर्षान् शिव-लोकान् हि तिष्ठति ॥ स कामः पुनर् आगत्य राज-इन्द्रः भारते भवेत् ॥ २४॥
mṛḍena apramitān varṣān śiva-lokān hi tiṣṭhati .. sa kāmaḥ punar āgatya rāja-indraḥ bhārate bhavet .. 24..
निष्कामः पूजयेन्नित्यं पार्थिवंलिंगमुत्तमम् ॥ शिवलोके सदा तिष्ठेत्ततः सायुज्यमाप्नुयात् ॥ २५॥
निष्कामः पूजयेत् नित्यम् पार्थिवम् लिंगम् उत्तमम् ॥ शिव-लोके सदा तिष्ठेत् ततस् सायुज्यम् आप्नुयात् ॥ २५॥
niṣkāmaḥ pūjayet nityam pārthivam liṃgam uttamam .. śiva-loke sadā tiṣṭhet tatas sāyujyam āpnuyāt .. 25..
पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत् ॥ स याति नरकं घोरं शूलप्रोतं सुदारुणम् ॥ २६॥
पार्थिवम् शिव-लिंगम् च विप्रः यदि न पूजयेत् ॥ स याति नरकम् घोरम् शूल-प्रोतम् सु दारुणम् ॥ २६॥
pārthivam śiva-liṃgam ca vipraḥ yadi na pūjayet .. sa yāti narakam ghoram śūla-protam su dāruṇam .. 26..
यथाकथंचिद्विधिना रम्यं लिंगं प्रकारयेत् ॥ पंचसूत्रविधानां च पार्थिवेन विचारयेत् ॥ २७॥
यथा कथंचिद् विधिना रम्यम् लिंगम् प्रकारयेत् ॥ पंच-सूत्र-विधानाम् च पार्थिवेन विचारयेत् ॥ २७॥
yathā kathaṃcid vidhinā ramyam liṃgam prakārayet .. paṃca-sūtra-vidhānām ca pārthivena vicārayet .. 27..
अखण्डं तद्धि कर्तव्यं न विखण्डं प्रकारयेत् ॥ द्विखण्डं तु प्रकुर्वाणो नैव पूजाफलं लभेत् ॥ २८॥
अखण्डम् तत् हि कर्तव्यम् न विखण्डम् प्रकारयेत् ॥ द्वि-खण्डम् तु प्रकुर्वाणः न एव पूजा-फलम् लभेत् ॥ २८॥
akhaṇḍam tat hi kartavyam na vikhaṇḍam prakārayet .. dvi-khaṇḍam tu prakurvāṇaḥ na eva pūjā-phalam labhet .. 28..
रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा ॥ पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत् ॥ २९॥
रत्नजम् हेमजम् लिंगम् पारदम् स्फाटिकम् तथा ॥ पार्थिवम् पुष्पराग-उत्थम् अखण्डम् तु प्रकारयेत् ॥ २९॥
ratnajam hemajam liṃgam pāradam sphāṭikam tathā .. pārthivam puṣparāga-uttham akhaṇḍam tu prakārayet .. 29..
अखंडं तु चरं लिंगं द्विखंडमचरं स्मृतम् ॥ खंडाखंडविचारोयं सचराचरयोः स्मृतः १.१९. ॥ ३०॥
अखंडम् तु चरम् लिंगम् द्वि-खंडम् अचरम् स्मृतम् ॥ खंड-अखंड-विचारः यम् सचराचरयोः स्मृतः।१९। ॥ ३०॥
akhaṃḍam tu caram liṃgam dvi-khaṃḍam acaram smṛtam .. khaṃḍa-akhaṃḍa-vicāraḥ yam sacarācarayoḥ smṛtaḥ.19. .. 30..
वेदिका तु महाविद्या लिंगं देवो महेश्वरः ॥ अतो हि स्थावरे लिंगे स्मृता श्रेष्ठादिखंडिता ॥ ३१॥
वेदिका तु महाविद्या लिंगम् देवः महेश्वरः ॥ अतस् हि स्थावरे लिंगे स्मृता श्रेष्ठ-आदि-खंडिता ॥ ३१॥
vedikā tu mahāvidyā liṃgam devaḥ maheśvaraḥ .. atas hi sthāvare liṃge smṛtā śreṣṭha-ādi-khaṃḍitā .. 31..
द्विखंडं स्थावरं लिंगं कर्तव्यं हि विधानतः ॥ अखंडं जंगमं प्रोक्तंश् ऐवसिद्धान्तवेदिभिः ॥ ३२॥
द्वि-खंडम् स्थावरम् लिंगम् कर्तव्यम् हि विधानतः ॥ अखंडम् जंगमम् प्रोक्तम् ऐव-सिद्धान्त-वेदिभिः ॥ ३२॥
dvi-khaṃḍam sthāvaram liṃgam kartavyam hi vidhānataḥ .. akhaṃḍam jaṃgamam proktam aiva-siddhānta-vedibhiḥ .. 32..
द्विखंडं तु चरां लिंगं कुर्वन्त्यज्ञानमोहिताः ॥ नैव सिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः ॥ ३३॥
द्वि-खंडम् तु चराम् लिंगम् कुर्वन्ति अज्ञान-मोहिताः ॥ न एव सिद्धान्त-वेत्तारः मुनयः शास्त्र-कोविदाः ॥ ३३॥
dvi-khaṃḍam tu carām liṃgam kurvanti ajñāna-mohitāḥ .. na eva siddhānta-vettāraḥ munayaḥ śāstra-kovidāḥ .. 33..
अखंडं स्थावरं लिंगं द्विखंडं चरमेव च ॥ येकुर्वन्तिनरामूढानपूजाफलभागिनः ॥ ३४॥
अखंडम् स्थावरम् लिंगम् द्वि-खंडम् चरम् एव च ॥ ये कुर्वन्ति नर-अ मूढ-अन् पूजा-फल-भागिनः ॥ ३४॥
akhaṃḍam sthāvaram liṃgam dvi-khaṃḍam caram eva ca .. ye kurvanti nara-a mūḍha-an pūjā-phala-bhāginaḥ .. 34..
तस्माच्छास्त्रोक्तविधिना अखंडं चरसंज्ञकम् ॥ द्विखंडं स्थावरं लिंगं कर्तव्यं परया मुदा ॥ ३५॥
तस्मात् शास्त्र-उक्त-विधिना अखंडम् चर-संज्ञकम् ॥ द्वि-खंडम् स्थावरम् लिंगम् कर्तव्यम् परया मुदा ॥ ३५॥
tasmāt śāstra-ukta-vidhinā akhaṃḍam cara-saṃjñakam .. dvi-khaṃḍam sthāvaram liṃgam kartavyam parayā mudā .. 35..
अखंडे तु चरे पूजा सम्पूर्णफलदायिनी ॥ द्विखंडे तु चरे पूजामहाहानिप्रदा स्मृता ॥ ३६॥
अखंडे तु चरे पूजा सम्पूर्ण-फल-दायिनी ॥ द्वि-खंडे तु चरे पूजा महा-हानि-प्रदा स्मृता ॥ ३६॥
akhaṃḍe tu care pūjā sampūrṇa-phala-dāyinī .. dvi-khaṃḍe tu care pūjā mahā-hāni-pradā smṛtā .. 36..
अखंडे स्थावरे पूजा न कामफलदायिनी ॥ प्रत्यवायकरी नित्यमित्युक्तं शास्त्रवेदिभिः ॥ ३७॥
अखंडे स्थावरे पूजा न काम-फल-दायिनी ॥ प्रत्यवाय-करी नित्यम् इति उक्तम् शास्त्र-वेदिभिः ॥ ३७॥
akhaṃḍe sthāvare pūjā na kāma-phala-dāyinī .. pratyavāya-karī nityam iti uktam śāstra-vedibhiḥ .. 37..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे पार्थिवशिवलिंगपूजनमाहात्म्यवर्णनं नामैकोनविंशोऽध्यायः ॥ ३८॥
इति श्री-शिवमहापुराणे विद्येश्वरसंहितायाम् साध्यसाधन-खंडे पार्थिवशिवलिंगपूजनमाहात्म्यवर्णनम् नाम एकोनविंशः अध्यायः ॥ ३८॥
iti śrī-śivamahāpurāṇe vidyeśvarasaṃhitāyām sādhyasādhana-khaṃḍe pārthivaśivaliṃgapūjanamāhātmyavarṇanam nāma ekonaviṃśaḥ adhyāyaḥ .. 38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In