| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ॥ गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ १॥
साधु-पृष्टम् साधवः वः त्रैलोक्य-हित-कारकम् ॥ गुरुम् स्मृत्वा भवत्-स्नेहात् वक्ष्ये तत् शृणुत आदरात् ॥ १॥
sādhu-pṛṣṭam sādhavaḥ vaḥ trailokya-hita-kārakam .. gurum smṛtvā bhavat-snehāt vakṣye tat śṛṇuta ādarāt .. 1..
वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् ॥ सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ २॥
वेदांत-सार-सर्वस्वम् पुराणम् शैवम् उत्तमम् ॥ सर्व-अघ-ओघ-उद्धार-करम् परत्र परम-अर्थ-दम् ॥ २॥
vedāṃta-sāra-sarvasvam purāṇam śaivam uttamam .. sarva-agha-ogha-uddhāra-karam paratra parama-artha-dam .. 2..
कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम् ॥ विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ३॥
॥ विजृम्भते सदा विप्राः चतुर्वर्ग-फल-प्रदम् ॥ ३॥
.. vijṛmbhate sadā viprāḥ caturvarga-phala-pradam .. 3..
तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ॥ सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ॥ ४॥
तस्य अध्ययन-मात्रेण पुराणस्य द्विजोत्तमाः ॥ सर्व-उत्तमस्य शैवस्य ते यास्यंति सु सत्-गतिम् ॥ ४॥
tasya adhyayana-mātreṇa purāṇasya dvijottamāḥ .. sarva-uttamasya śaivasya te yāsyaṃti su sat-gatim .. 4..
तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम् ॥ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ५॥
तावत् विजृंभते पापम् ब्रह्महत्या-पुरस्सरम् ॥ यावत् शिव-पुराणम् हि ना उदेष्यति जगति अहो ॥ ५॥
tāvat vijṛṃbhate pāpam brahmahatyā-purassaram .. yāvat śiva-purāṇam hi nā udeṣyati jagati aho .. 5..
तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः ॥ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ६॥
तावत् कलि-महा-उत्पाताः संचरिष्यंति निर्भयाः ॥ यावत् शिव-पुराणम् हि ना उदेष्यति जगति अहो ॥ ६॥
tāvat kali-mahā-utpātāḥ saṃcariṣyaṃti nirbhayāḥ .. yāvat śiva-purāṇam hi nā udeṣyati jagati aho .. 6..
तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् ॥ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ७॥
तावत् सर्वाणि शास्त्राणि विवदंति परस्परम् ॥ यावत् शिव-पुराणम् हि ना उदेष्यति जगति अहो ॥ ७॥
tāvat sarvāṇi śāstrāṇi vivadaṃti parasparam .. yāvat śiva-purāṇam hi nā udeṣyati jagati aho .. 7..
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ॥ यावच्छिवपुराणं हि नो देष्यति जगत्यहो ॥ ८॥
तावत् स्वरूपम् दुर्बोधम् शिवस्य महताम् अपि ॥ यावत् शिव-पुराणम् हि नः देष्यति जगती अहो ॥ ८॥
tāvat svarūpam durbodham śivasya mahatām api .. yāvat śiva-purāṇam hi naḥ deṣyati jagatī aho .. 8..
तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः ॥ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ९॥
तावत् यम-भटाः क्रूराः संचरिष्यंति निर्भयाः ॥ यावत् शिव-पुराणम् हि न उदेष्यति जगति अहो ॥ ९॥
tāvat yama-bhaṭāḥ krūrāḥ saṃcariṣyaṃti nirbhayāḥ .. yāvat śiva-purāṇam hi na udeṣyati jagati aho .. 9..
तावत्सर्वपुराणानि प्रगर्जंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो १.२. ॥ १०॥
तावत् सर्व-पुराणानि प्रगर्जंति मही-तले ॥ यावत् शिव-पुराणम् हि न उदेष्यति जगति अहो।२। ॥ १०॥
tāvat sarva-purāṇāni pragarjaṃti mahī-tale .. yāvat śiva-purāṇam hi na udeṣyati jagati aho.2. .. 10..
तावत्सर्वाणि तीर्थानि विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ११॥
तावत् सर्वाणि तीर्थानि विवदंति मही-तले ॥ यावत् शिव-पुराणम् हि ना उदेष्यति जगति अहो ॥ ११॥
tāvat sarvāṇi tīrthāni vivadaṃti mahī-tale .. yāvat śiva-purāṇam hi nā udeṣyati jagati aho .. 11..
तावत्सर्वाणि मंत्राणि विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १२॥
तावत् सर्वाणि मंत्राणि विवदंति मही-तले ॥ यावत् शिव-पुराणम् हि न उदेष्यति मही-तले ॥ १२॥
tāvat sarvāṇi maṃtrāṇi vivadaṃti mahī-tale .. yāvat śiva-purāṇam hi na udeṣyati mahī-tale .. 12..
तावत्सर्वाणि क्षेत्राणि विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १३॥
तावत् सर्वाणि क्षेत्राणि विवदंति मही-तले ॥ यावत् शिव-पुराणम् हि न उदेष्यति मही-तले ॥ १३॥
tāvat sarvāṇi kṣetrāṇi vivadaṃti mahī-tale .. yāvat śiva-purāṇam hi na udeṣyati mahī-tale .. 13..
तावत्सर्वाणि पीठानि विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १४॥
तावत् सर्वाणि पीठानि विवदंति मही-तले ॥ यावत् शिव-पुराणम् हि न उदेष्यति मही-तले ॥ १४॥
tāvat sarvāṇi pīṭhāni vivadaṃti mahī-tale .. yāvat śiva-purāṇam hi na udeṣyati mahī-tale .. 14..
तावत्सर्वाणि दानानि विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १५॥
तावत् सर्वाणि दानानि विवदंति मही-तले ॥ यावत् शिव-पुराणम् हि न उदेष्यति मही-तले ॥ १५॥
tāvat sarvāṇi dānāni vivadaṃti mahī-tale .. yāvat śiva-purāṇam hi na udeṣyati mahī-tale .. 15..
तावत्सर्वे च ते देवा विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १६॥
तावत् सर्वे च ते देवाः विवदंति मही-तले ॥ यावत् शिव-पुराणम् हि न उदेष्यति मही-तले ॥ १६॥
tāvat sarve ca te devāḥ vivadaṃti mahī-tale .. yāvat śiva-purāṇam hi na udeṣyati mahī-tale .. 16..
तावत्सर्वे च सिद्धान्ता विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १७॥
तावत् सर्वे च सिद्धान्ताः विवदंति मही-तले ॥ यावत् शिव-पुराणम् हि न उदेष्यति मही-तले ॥ १७॥
tāvat sarve ca siddhāntāḥ vivadaṃti mahī-tale .. yāvat śiva-purāṇam hi na udeṣyati mahī-tale .. 17..
अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः ॥ फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ १८॥
अस्य शैव-पुराणस्य कीर्तन-श्रवणात् द्विजाः ॥ फलम् वक्तुम् न शक्नोमि कार्त्स्न्येन मुनि-सत्तमाः ॥ १८॥
asya śaiva-purāṇasya kīrtana-śravaṇāt dvijāḥ .. phalam vaktum na śaknomi kārtsnyena muni-sattamāḥ .. 18..
तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः ॥ चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ १९॥
तथा अपि तस्य माहात्म्यम् वक्ष्ये किंचिद् तु वः उनघाः ॥ चित्तम् आधाय शृणुत व्यासेन उक्तम् पुरा मम ॥ १९॥
tathā api tasya māhātmyam vakṣye kiṃcid tu vaḥ unaghāḥ .. cittam ādhāya śṛṇuta vyāsena uktam purā mama .. 19..
एतच्छिवपुराणं हि श्लोकं श्लोकार्द्धमेव च ॥ यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् १.२. ॥ २०॥
एतत् शिव-पुराणम् हि श्लोकम् श्लोक-अर्द्धम् एव च ॥ यः पठेत् भक्ति-संयुक्तः स पापात् मुच्यते क्षणात्।२। ॥ २०॥
etat śiva-purāṇam hi ślokam śloka-arddham eva ca .. yaḥ paṭhet bhakti-saṃyuktaḥ sa pāpāt mucyate kṣaṇāt.2. .. 20..
एतच्छिवपुराणं हि यः प्रत्यहमतंद्रि तः ॥ यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते ॥ २१॥
एतत् शिव-पुराणम् हि यः प्रत्यहम् अतंद्रि तः ॥ यथाशक्ति पठेत् भक्त्या स जीवन्मुक्तः उच्यते ॥ २१॥
etat śiva-purāṇam hi yaḥ pratyaham ataṃdri taḥ .. yathāśakti paṭhet bhaktyā sa jīvanmuktaḥ ucyate .. 21..
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ॥ दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ २२॥
एतत् शिव-पुराणम् हि यः भक्त्या अर्चयते सदा ॥ दिने दिने अश्वमेधस्य फलम् प्राप्नोति असंशयम् ॥ २२॥
etat śiva-purāṇam hi yaḥ bhaktyā arcayate sadā .. dine dine aśvamedhasya phalam prāpnoti asaṃśayam .. 22..
एतच्छिवपुराणं यस्साधारणपदेच्छया ॥ अन्यतः शृणुयात्सोऽपि मत्तो मुच्येत पातकात् ॥ २३॥
एतत् शिव-पुराणम् यः साधारण-पद-इच्छया ॥ अन्यतस् शृणुयात् सः अपि मत्तः मुच्येत पातकात् ॥ २३॥
etat śiva-purāṇam yaḥ sādhāraṇa-pada-icchayā .. anyatas śṛṇuyāt saḥ api mattaḥ mucyeta pātakāt .. 23..
एतच्छिवपुराणं यो नमस्कुर्याददूरतः ॥ सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ २४॥
एतत् शिव-पुराणम् यः नमस्कुर्यात् अदूरतः ॥ सर्व-देव-अर्चन-फलम् स प्राप्नोति न संशयः ॥ २४॥
etat śiva-purāṇam yaḥ namaskuryāt adūrataḥ .. sarva-deva-arcana-phalam sa prāpnoti na saṃśayaḥ .. 24..
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ॥ यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ २५॥
एतत् शिव-पुराणम् वै लिखित्वा पुस्तकम् स्वयम् ॥ यः दद्यात् शिव-भक्तेभ्यः तस्य पुण्य-फलम् शृणु ॥ २५॥
etat śiva-purāṇam vai likhitvā pustakam svayam .. yaḥ dadyāt śiva-bhaktebhyaḥ tasya puṇya-phalam śṛṇu .. 25..
अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ॥ यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत् ॥ २६॥
अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ॥ यत् फलम् दुर्लभम् लोके तत् फलम् तस्य संभवेत् ॥ २६॥
adhīteṣu ca śāstreṣu vedeṣu vyākṛteṣu ca .. yat phalam durlabham loke tat phalam tasya saṃbhavet .. 26..
एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ॥ शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ २७॥
एतत् शिव-पुराणम् हि चतुर्दश्याम् उपोषितः ॥ शिव-भक्त-सभायाम् यः व्याकरोति सः उत्तमः ॥ २७॥
etat śiva-purāṇam hi caturdaśyām upoṣitaḥ .. śiva-bhakta-sabhāyām yaḥ vyākaroti saḥ uttamaḥ .. 27..
प्रत्यक्षरं तु गायत्रीपुरश्चर्य्याफलं लभेत् ॥ इह भुक्त्वाखिलान्कामानं ते निर्वाणतां व्रजेत् ॥ २८॥
प्रत्यक्षरम् तु गायत्री-पुरश्चर्य्या-फलम् लभेत् ॥ इह भुक्त्वा अखिलान् कामानम् ते निर्वाण-ताम् व्रजेत् ॥ २८॥
pratyakṣaram tu gāyatrī-puraścaryyā-phalam labhet .. iha bhuktvā akhilān kāmānam te nirvāṇa-tām vrajet .. 28..
उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ॥ यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ २९॥
उपोषितः चतुर्दश्याम् रात्रौ जागरण-अन्वितः ॥ यः पठेत् शृणुयात् वा अपि तस्य पुण्यम् वदामि अहम् ॥ २९॥
upoṣitaḥ caturdaśyām rātrau jāgaraṇa-anvitaḥ .. yaḥ paṭhet śṛṇuyāt vā api tasya puṇyam vadāmi aham .. 29..
कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ॥ आत्मतुल्यधनं सूर्य्यग्रहणे सर्वतोमुखे १.२. ॥ ३०॥
कुरुक्षेत्र-आदि-निखिल-पुण्य-तीर्थेषु अनेकशस् ॥ आत्म-तुल्य-धनम् सूर्य्य-ग्रहणे सर्वतोमुखे।२। ॥ ३०॥
kurukṣetra-ādi-nikhila-puṇya-tīrtheṣu anekaśas .. ātma-tulya-dhanam sūryya-grahaṇe sarvatomukhe.2. .. 30..
विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ॥ तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः ॥ ३१॥
विप्रेभ्यः व्यास-मुख्येभ्यः दत्त्वा यत् फलम् अश्नुते ॥ तत् फलम् संभवेत् तस्य सत्यम् सत्यम् न संशयः ॥ ३१॥
viprebhyaḥ vyāsa-mukhyebhyaḥ dattvā yat phalam aśnute .. tat phalam saṃbhavet tasya satyam satyam na saṃśayaḥ .. 31..
एतच्छिवपुराणं हि गायते योप्यहर्निशम् ॥ आज्ञां तस्य प्रतीक्षेरन्देवा इन्द्र पुरो गमाः ॥ ३२॥
एतत् शिव-पुराणम् हि गायते यः पि अहर्निशम् ॥ आज्ञाम् तस्य प्रतीक्षेरन् देवाः इन्द्र पुरस् गमाः ॥ ३२॥
etat śiva-purāṇam hi gāyate yaḥ pi aharniśam .. ājñām tasya pratīkṣeran devāḥ indra puras gamāḥ .. 32..
एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ॥ यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ ३३॥
एतत् शिव-पुराणम् यः पठन् शृण्वन् हि नित्यशस् ॥ यत् यत् करोति सत्-कर्म तत् कोटि-गुणितम् भवेत् ॥ ३३॥
etat śiva-purāṇam yaḥ paṭhan śṛṇvan hi nityaśas .. yat yat karoti sat-karma tat koṭi-guṇitam bhavet .. 33..
समाहितः पठेद्यस्तु तत्र श्रीरुद्र संहिताम् ॥ स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेवादिनैर्भवेत् ॥ ३४॥
समाहितः पठेत् यः तु तत्र श्री-रुद्र-संहिताम् ॥ स ब्रह्म-घ्नः अपि पूत-आत्मा त्रिभिः एवा अ दिनैः भवेत् ॥ ३४॥
samāhitaḥ paṭhet yaḥ tu tatra śrī-rudra-saṃhitām .. sa brahma-ghnaḥ api pūta-ātmā tribhiḥ evā a dinaiḥ bhavet .. 34..
तां रुद्र संहितां यस्तु भैरवप्रतिमांतिके ॥ त्रिः पठेत्प्रत्यहं मौनी स कामानखिलाँ ल्लभेत् ॥ ३५॥
ताम् रुद्र संहिताम् यः तु भैरव-प्रतिमा-अंतिके ॥ त्रिस् पठेत् प्रत्यहम् मौनी स कामान् अखिलान् लभेत् ॥ ३५॥
tām rudra saṃhitām yaḥ tu bhairava-pratimā-aṃtike .. tris paṭhet pratyaham maunī sa kāmān akhilān labhet .. 35..
तां रुद्र संहितां यस्तु सपठेद्वटबिल्वयोः ॥ प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ ३६॥
ताम् रुद्र संहिताम् यः तु सपठेत् वट-बिल्वयोः ॥ प्रदक्षिणाम् प्रकुर्वाणः ब्रह्महत्या निवर्तते ॥ ३६॥
tām rudra saṃhitām yaḥ tu sapaṭhet vaṭa-bilvayoḥ .. pradakṣiṇām prakurvāṇaḥ brahmahatyā nivartate .. 36..
कैलाससंहिता तत्र ततोऽपि परमस्मृता ॥ ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ॥ ३७॥
कैलास-संहिता तत्र ततस् अपि परम-स्मृता ॥ ॥ ३७॥
kailāsa-saṃhitā tatra tatas api parama-smṛtā .. .. 37..
कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः ॥ कृत्स्नं तदर्द्धं व्यासश्च तदर्द्धं वेद्म्यहं द्विजाः ॥ ३८॥
कैलाससंहितायाः तु माहात्म्यम् वेत्ति शंकरः ॥ कृत्स्नम् तद्-अर्द्धम् व्यासः च तद्-अर्द्धम् वेद्मि अहम् द्विजाः ॥ ३८॥
kailāsasaṃhitāyāḥ tu māhātmyam vetti śaṃkaraḥ .. kṛtsnam tad-arddham vyāsaḥ ca tad-arddham vedmi aham dvijāḥ .. 38..
तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ॥ यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ ३९॥
तत्र किंचिद् प्रवक्ष्यामि कृत्स्नम् वक्तुम् न शक्यते ॥ यत् ज्ञात्वा तद्-क्षणात् लोकः चित्त-शुद्धिम् अवाप्नुयात् ॥ ३९॥
tatra kiṃcid pravakṣyāmi kṛtsnam vaktum na śakyate .. yat jñātvā tad-kṣaṇāt lokaḥ citta-śuddhim avāpnuyāt .. 39..
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ॥ तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा १.२. ॥ ४०॥
न नाशयति यत् पापम् सा रौद्री संहिता द्विजाः ॥ तत् न पश्यामि अहम् लोके मार्गमाणः अपि सर्वदा।२। ॥ ४०॥
na nāśayati yat pāpam sā raudrī saṃhitā dvijāḥ .. tat na paśyāmi aham loke mārgamāṇaḥ api sarvadā.2. .. 40..
शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा ॥ कुमारायार्पितां तां वै सुधां पीत्वाऽमरो भवेत् ॥ ४१॥
शिवेन उपनिषद्-सिंधु-मन्थन-उत्पादिताम् मुदा ॥ कुमाराय अर्पिताम् ताम् वै सुधाम् पीत्वा अमरः भवेत् ॥ ४१॥
śivena upaniṣad-siṃdhu-manthana-utpāditām mudā .. kumārāya arpitām tām vai sudhām pītvā amaraḥ bhavet .. 41..
ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ॥ मासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ ४२॥
ब्रह्महत्या-आदि-पापानाम् निष्कृतिम् कर्तुम् उद्यतः ॥ मास-मात्रम् संहिताम् ताम् पठित्वा मुच्यते ततस् ॥ ४२॥
brahmahatyā-ādi-pāpānām niṣkṛtim kartum udyataḥ .. māsa-mātram saṃhitām tām paṭhitvā mucyate tatas .. 42..
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम् ॥ पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ॥ ४३॥
दुष्प्रतिग्रह-दुर्भोज्य-दुरालाप-आदि-संभवम् ॥ पापम् सकृत् कीर्तनेन संहिता सा विनाशयेत् ॥ ४३॥
duṣpratigraha-durbhojya-durālāpa-ādi-saṃbhavam .. pāpam sakṛt kīrtanena saṃhitā sā vināśayet .. 43..
शिवालये बिल्ववने संहितां तां पठेत्तु यः ॥ स तत्फलमवाप्नोति यद्वाचोऽपि न गोचरे ॥ ४४॥
शिवालये बिल्व-वने संहिताम् ताम् पठेत् तु यः ॥ स तत् फलम् अवाप्नोति यत् वाचः अपि न गोचरे ॥ ४४॥
śivālaye bilva-vane saṃhitām tām paṭhet tu yaḥ .. sa tat phalam avāpnoti yat vācaḥ api na gocare .. 44..
संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद्द्विजान् ॥ तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ॥ ४५॥
संहिताम् ताम् पठन् भक्त्या यः श्राद्धे भोजयेत् द्विजान् ॥ तस्य ये पितरः सर्वे यांति शंभोः परम् पदम् ॥ ४५॥
saṃhitām tām paṭhan bhaktyā yaḥ śrāddhe bhojayet dvijān .. tasya ye pitaraḥ sarve yāṃti śaṃbhoḥ param padam .. 45..
चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् ॥ बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ॥ ४६॥
चतुर्दश्याम् निराहारः यः पठेत् संहिताम् च ताम् ॥ बिल्व-मूले शिवः साक्षात् स देवैः च प्रपूज्यते ॥ ४६॥
caturdaśyām nirāhāraḥ yaḥ paṭhet saṃhitām ca tām .. bilva-mūle śivaḥ sākṣāt sa devaiḥ ca prapūjyate .. 46..
अन्यापि संहिता तत्र सर्वकामफलप्रदा ॥ उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ ४७॥
अन्या अपि संहिता तत्र सर्व-काम-फल-प्रदा ॥ उभे विशिष्टे विज्ञेये लीला-विज्ञान-पूरिते ॥ ४७॥
anyā api saṃhitā tatra sarva-kāma-phala-pradā .. ubhe viśiṣṭe vijñeye līlā-vijñāna-pūrite .. 47..
तदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम् ॥ ४८॥
तत् इदम् शैवम् आख्यातम् पुराणम् वेद-संमितम् ॥ निर्मितम् तत् शिवेन एव प्रथमम् ब्रह्म-संमितम् ॥ ४८॥
tat idam śaivam ākhyātam purāṇam veda-saṃmitam .. nirmitam tat śivena eva prathamam brahma-saṃmitam .. 48..
विद्येशंच तथारौद्रं वैनायकमथौमिकम् ॥ मात्रं रुद्रै कादशकं कैलासं शतरुद्र कम् ॥ ४९॥
विद्येशम् च तथा अरौद्रम् वैनायकम् अथ औमिकम् ॥ मात्रम् कैलासम् शतरुद्रकम् ॥ ४९॥
vidyeśam ca tathā araudram vaināyakam atha aumikam .. mātram kailāsam śatarudrakam .. 49..
कोटिरुद्र सहस्राद्यं कोटिरुद्रं तथैव च ॥ वायवीयं धर्मसंज्ञं पुराणमिति भेदतः १.२. ॥ ५०॥
कोटिरुद्र सहस्र-आद्यम् कोटिरुद्रम् तथा एव च ॥ वायवीयम् धर्म-संज्ञम् पुराणम् इति भेदतः।२। ॥ ५०॥
koṭirudra sahasra-ādyam koṭirudram tathā eva ca .. vāyavīyam dharma-saṃjñam purāṇam iti bhedataḥ.2. .. 50..
संहिता द्वादशमिता महापुण्यतरा मता ॥ तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ॥ ५१॥
संहिता द्वादश-मिता महा-पुण्यतरा मता ॥ तासाम् संख्याम् ब्रुवे विप्राः शृणुत आदर-ता उखिलम् ॥ ५१॥
saṃhitā dvādaśa-mitā mahā-puṇyatarā matā .. tāsām saṃkhyām bruve viprāḥ śṛṇuta ādara-tā ukhilam .. 51..
विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा ॥ औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ॥ ५२॥
विद्येशम् दश-साहस्रम् रुद्रम् वैनायकम् तथा ॥ औमम् मातृपुराण-आख्यम् प्रत्येक-अष्ट-सहस्रकम् ॥ ५२॥
vidyeśam daśa-sāhasram rudram vaināyakam tathā .. aumam mātṛpurāṇa-ākhyam pratyeka-aṣṭa-sahasrakam .. 52..
त्रयोदशसहस्रं हि रुद्रै कादशकं द्विजाः ॥ षट्सहस्रं च कैलासं शतरुद्रं तदर्द्धकम् ॥ ५३॥
त्रयोदश-सहस्रम् हि द्विजाः ॥ षष्-सहस्रम् च कैलासम् शतरुद्रम् तद्-अर्द्धकम् ॥ ५३॥
trayodaśa-sahasram hi dvijāḥ .. ṣaṣ-sahasram ca kailāsam śatarudram tad-arddhakam .. 53..
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ॥ सहस्रकोटिरुद्रा ख्यमुदितं ग्रंथसंख्यया ॥ ५४॥
कोटिरुद्रम् त्रि-गुणितम् एकादश-सहस्रकम् ॥ सहस्र-कोटि-रुद्र-आख्यम् उदितम् ग्रंथ-संख्यया ॥ ५४॥
koṭirudram tri-guṇitam ekādaśa-sahasrakam .. sahasra-koṭi-rudra-ākhyam uditam graṃtha-saṃkhyayā .. 54..
वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् ॥ तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ॥ ५५॥
वायवीयम् ख-अब्धि-शतम् घर्मम् रवि-सहस्रकम् ॥ तत् एवम् लक्ष-संख्याकम् शैव-संख्या-विभेदतः ॥ ५५॥
vāyavīyam kha-abdhi-śatam gharmam ravi-sahasrakam .. tat evam lakṣa-saṃkhyākam śaiva-saṃkhyā-vibhedataḥ .. 55..
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ॥ ५६॥
व्यासेन तत् तु संक्षिप्तम् चतुर्विंशत्-सहस्रकम् ॥ शैवम् तत्र चतुर्थम् वै पुराणम् सप्त-संहितम् ॥ ५६॥
vyāsena tat tu saṃkṣiptam caturviṃśat-sahasrakam .. śaivam tatra caturtham vai purāṇam sapta-saṃhitam .. 56..
शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया ॥ शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ॥ ५७॥
शिवे संकल्पितम् पूर्वम् पुराणम् ग्रन्थ-संख्यया ॥ शत-कोटि-प्रमाणम् हि पुरा सृष्टौ सु विस्मृतम् ॥ ५७॥
śive saṃkalpitam pūrvam purāṇam grantha-saṃkhyayā .. śata-koṭi-pramāṇam hi purā sṛṣṭau su vismṛtam .. 57..
व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु ॥ चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः ॥ ५८॥
व्यस्ताः टादशधा च एव पुराणे द्वापर-आदिषु ॥ चतुर्-लक्षेण संक्षिप्ते कृते द्वैपायन-आदिभिः ॥ ५८॥
vyastāḥ ṭādaśadhā ca eva purāṇe dvāpara-ādiṣu .. catur-lakṣeṇa saṃkṣipte kṛte dvaipāyana-ādibhiḥ .. 58..
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ॥ श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ॥ ५९॥
प्रोक्तम् शिवपुराणम् हि चतुर्विंशत्-सहस्रकम् ॥ श्लोकानाम् संख्यया सप्त-संहितम् ब्रह्म-संमितम् ॥ ५९॥
proktam śivapurāṇam hi caturviṃśat-sahasrakam .. ślokānām saṃkhyayā sapta-saṃhitam brahma-saṃmitam .. 59..
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ॥ तृतीया शतरुद्रा ख्या कोटिरुद्रा चतुर्थिका १.२. ॥ ६०॥
विद्येश्वर-आख्या तत्र आद्या रौद्री ज्ञेया द्वितीयिका ॥ तृतीया शतरुद्रा-ख्या कोटिरुद्रा चतुर्थिका।२। ॥ ६०॥
vidyeśvara-ākhyā tatra ādyā raudrī jñeyā dvitīyikā .. tṛtīyā śatarudrā-khyā koṭirudrā caturthikā.2. .. 60..
पंचमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका ॥ सप्तमी वायवीयाख्या सप्तैवं संहितामताः ॥ ६१॥
पंचमी च एव मौम-आख्या षष्ठी कैलास-संज्ञिका ॥ सप्तमी वायवीय-आख्या सप्ता एवम् संहिता-मताः ॥ ६१॥
paṃcamī ca eva mauma-ākhyā ṣaṣṭhī kailāsa-saṃjñikā .. saptamī vāyavīya-ākhyā saptā evam saṃhitā-matāḥ .. 61..
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ॥ वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ॥ ६२॥
स सप्त-संहितम् दिव्यम् पुराणम् शिव-संज्ञकम् ॥ वरीवर्ति ब्रह्म-तुल्यम् सर्व-उपरि गति-प्रदम् ॥ ६२॥
sa sapta-saṃhitam divyam purāṇam śiva-saṃjñakam .. varīvarti brahma-tulyam sarva-upari gati-pradam .. 62..
एतच्छिवपुराणं हि सप्तसंहितमादरात् ॥ परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ ६३॥
एतत् शिव-पुराणम् हि सप्त-संहितम् आदरात् ॥ परिपूर्णम् पठेत् यः तु स जीवन्मुक्तः उच्यते ॥ ६३॥
etat śiva-purāṇam hi sapta-saṃhitam ādarāt .. paripūrṇam paṭhet yaḥ tu sa jīvanmuktaḥ ucyate .. 63..
श्रुतिस्मृतिपुराणेतिहासागमशतानि च ॥ एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि ॥ ६४॥
श्रुति-स्मृति-पुराण-इतिहास-आगम-शतानि च ॥ एतत् शिव-पुराणस्य न अर्हन्ति अल्पाम् कलाम् अपि ॥ ६४॥
śruti-smṛti-purāṇa-itihāsa-āgama-śatāni ca .. etat śiva-purāṇasya na arhanti alpām kalām api .. 64..
शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न ॥ संगृहीतम् ॥ संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां ॥ हि ॥ ६५॥
शैवम् पुराणम् अमलम् शिव-कीर्तितम् तत् व्यासेन शैव-प्रवणेन न ॥ संगृहीतम् ॥ संक्षेपतः सकल-जीव-गुण-उपकारे ताप-त्रय-घ्नम् अतुलम् शिव-दम् सताम् ॥ हि ॥ ६५॥
śaivam purāṇam amalam śiva-kīrtitam tat vyāsena śaiva-pravaṇena na .. saṃgṛhītam .. saṃkṣepataḥ sakala-jīva-guṇa-upakāre tāpa-traya-ghnam atulam śiva-dam satām .. hi .. 65..
विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः ॥ अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम् ॥ ६६॥
विकैतवः धर्मः इह प्रगीतः वेदांत-विज्ञान-मयः प्रधानः ॥ अमत्सर-अन्तर् बुध-वेद्य-वस्तु सत्-कॢप्तम् अत्र एव त्रिवर्ग-युक्तम् ॥ ६६॥
vikaitavaḥ dharmaḥ iha pragītaḥ vedāṃta-vijñāna-mayaḥ pradhānaḥ .. amatsara-antar budha-vedya-vastu sat-kḷptam atra eva trivarga-yuktam .. 66..
शैवं पुराणतिलकं खलु सत्पुराणं ॥ वेदांतवेदविलसत्परवस्तुगीतम् ॥ यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां ॥ गतिं वै ॥ ६७॥
शैवम् पुराण-तिलकम् खलु सत्-पुराणम् ॥ ॥ यः वै पठेत् च शृणुयात् परम-आदरेण शंभु-प्रियः स हि लभेत् परमाम् ॥ गतिम् वै ॥ ६७॥
śaivam purāṇa-tilakam khalu sat-purāṇam .. .. yaḥ vai paṭhet ca śṛṇuyāt parama-ādareṇa śaṃbhu-priyaḥ sa hi labhet paramām .. gatim vai .. 67..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वितीयोऽध्यायः ॥ ॥ ६८॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् द्वितीयः अध्यायः ॥ ॥ ६८॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām dvitīyaḥ adhyāyaḥ .. .. 68..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In