| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
सूत सूत महाभाग व्यासशिष्य नमोस्तु ते ॥ सम्यगुक्तं त्वया तात पार्थिवार्चाविधानकम् ॥ १॥
सूत सूत महाभाग व्यास-शिष्य नमः अस्तु ते ॥ सम्यक् उक्तम् त्वया तात पार्थिव-अर्चा-विधानकम् ॥ १॥
sūta sūta mahābhāga vyāsa-śiṣya namaḥ astu te .. samyak uktam tvayā tāta pārthiva-arcā-vidhānakam .. 1..
कामनाभेदमाश्रित्य संख्यां ब्रूहि विधानतः ॥ शिवपार्थिवलिंगानां कृपया दीनवत्सल ॥ २॥
कामना-भेदम् आश्रित्य संख्याम् ब्रूहि विधानतः ॥ शिव-पार्थिव-लिंगानाम् कृपया दीन-वत्सल ॥ २॥
kāmanā-bhedam āśritya saṃkhyām brūhi vidhānataḥ .. śiva-pārthiva-liṃgānām kṛpayā dīna-vatsala .. 2..
शृणुध्वमृषयः सर्वे पार्थिवार्चाविधानकम् ॥ यस्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः ॥ ३॥
शृणुध्वम् ऋषयः सर्वे पार्थिव-अर्चा-विधानकम् ॥ यस्य अनुष्ठान-मात्रेण कृतकृत्यः भवेत् नरः ॥ ३॥
śṛṇudhvam ṛṣayaḥ sarve pārthiva-arcā-vidhānakam .. yasya anuṣṭhāna-mātreṇa kṛtakṛtyaḥ bhavet naraḥ .. 3..
अकृत्वा पार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ॥ वृथा भवति सा पूजा दमदानादिकं वृथा ॥ ४॥
अ कृत्वा पार्थिवम् लिंगम् योन्य-देवम् प्रपूजयेत् ॥ वृथा भवति सा पूजा दम-दान-आदिकम् वृथा ॥ ४॥
a kṛtvā pārthivam liṃgam yonya-devam prapūjayet .. vṛthā bhavati sā pūjā dama-dāna-ādikam vṛthā .. 4..
संख्या पार्थिवलिंगानां यथाकामं निगद्यते ॥ संख्या सद्यो मुनिश्रेष्ठ निश्चयेन फलप्रदा ॥ ५॥
संख्या पार्थिव-लिंगानाम् यथाकामम् निगद्यते ॥ संख्या सद्यस् मुनि-श्रेष्ठ निश्चयेन फल-प्रदा ॥ ५॥
saṃkhyā pārthiva-liṃgānām yathākāmam nigadyate .. saṃkhyā sadyas muni-śreṣṭha niścayena phala-pradā .. 5..
प्रथमावाहनं तत्र प्रतिष्ठा पूजनं पृथक् ॥ लिंगाकारं समं तत्र सर्वं ज्ञेयं पृथक्पृथक् ॥ ६॥
प्रथम-आवाहनम् तत्र प्रतिष्ठा पूजनम् पृथक् ॥ लिंग-आकारम् समम् तत्र सर्वम् ज्ञेयम् पृथक् पृथक् ॥ ६॥
prathama-āvāhanam tatra pratiṣṭhā pūjanam pṛthak .. liṃga-ākāram samam tatra sarvam jñeyam pṛthak pṛthak .. 6..
विद्यार्थी पुरुषः प्रीत्या सहस्रमितपार्थिवम् ॥ पूजयेच्छिवलिंगं हि निश्चयात्तत्फलप्रदम् ॥ ७॥
विद्या-अर्थी पुरुषः प्रीत्या सहस्र-मित-पार्थिवम् ॥ पूजयेत् शिव-लिंगम् हि निश्चयात् तत् फल-प्रदम् ॥ ७॥
vidyā-arthī puruṣaḥ prītyā sahasra-mita-pārthivam .. pūjayet śiva-liṃgam hi niścayāt tat phala-pradam .. 7..
नरः पार्थिवलिंगानां धनार्थी च तदर्द्धकम् ॥ पुत्रार्थी सार्द्धसाहस्रं वस्त्रार्थी शतपंचक्रम् ॥ ८॥
नरः पार्थिव-लिंगानाम् धन-अर्थी च तद्-अर्द्धकम् ॥ पुत्र-अर्थी सार्द्ध-साहस्रम् वस्त्र-अर्थी शत-पंचक्रम् ॥ ८॥
naraḥ pārthiva-liṃgānām dhana-arthī ca tad-arddhakam .. putra-arthī sārddha-sāhasram vastra-arthī śata-paṃcakram .. 8..
मोक्षार्थी कोटिगुणितं भूकामश्च सहस्रकम् ॥ दयार्थी च त्रिसाहस्रं तीर्थार्थी द्विसहस्रकम् ॥ ९॥
मोक्ष-अर्थी कोटि-गुणितम् भू-कामः च सहस्रकम् ॥ दया-अर्थी च त्रि-साहस्रम् तीर्थ-अर्थी द्वि-सहस्रकम् ॥ ९॥
mokṣa-arthī koṭi-guṇitam bhū-kāmaḥ ca sahasrakam .. dayā-arthī ca tri-sāhasram tīrtha-arthī dvi-sahasrakam .. 9..
सुहृत्कामी त्रिसाहस्रं वश्यार्थी शतमष्टकम् ॥ मारणार्थी सप्तशतं मोहनार्थी शताष्टकम् १.२१. ॥ १०॥
सुहृद्-कामी त्रि-साहस्रम् वश्या-अर्थी शतम् अष्टकम् ॥ मारण-अर्थी सप्तशतम् मोहन-अर्थी शत-अष्टकम्।२१। ॥ १०॥
suhṛd-kāmī tri-sāhasram vaśyā-arthī śatam aṣṭakam .. māraṇa-arthī saptaśatam mohana-arthī śata-aṣṭakam.21. .. 10..
उच्चाटनपरश्चैव सहस्रं च यथोक्ततः ॥ स्तंभनार्थी सहस्रं तु द्वेषणार्थी तदर्द्धकम् ॥ ११॥
उच्चाटन-परः च एव सहस्रम् च यथा उक्ततः ॥ स्तंभन-अर्थी सहस्रम् तु द्वेषण-अर्थी तद्-अर्द्धकम् ॥ ११॥
uccāṭana-paraḥ ca eva sahasram ca yathā uktataḥ .. staṃbhana-arthī sahasram tu dveṣaṇa-arthī tad-arddhakam .. 11..
निगडान्मुक्तिकामस्तु सहस्रं सर्द्धमुत्तमम् ॥ महाराजभये पंचशतं ज्ञेयं विचक्षणैः ॥ १२॥
निगडात् मुक्ति-कामः तु सहस्रम् सर्द्धम् उत्तमम् ॥ महा-राज-भये पंच-शतम् ज्ञेयम् विचक्षणैः ॥ १२॥
nigaḍāt mukti-kāmaḥ tu sahasram sarddham uttamam .. mahā-rāja-bhaye paṃca-śatam jñeyam vicakṣaṇaiḥ .. 12..
चौरादिसंकटे ज्ञेयं पार्थिवानां शतद्वयम् ॥ डाकिन्यादिभये पंचशतमुक्तं जपार्थिवम् ॥ १३॥
चौर-आदि-संकटे ज्ञेयम् पार्थिवानाम् शत-द्वयम् ॥ डाकिनी-आदि-भये पंच-शतम् उक्तम् जप-अर्थिवम् ॥ १३॥
caura-ādi-saṃkaṭe jñeyam pārthivānām śata-dvayam .. ḍākinī-ādi-bhaye paṃca-śatam uktam japa-arthivam .. 13..
दारिद्र ये! पंचसाहस्रमयुतं सर्वकामदम् ॥ अथ नित्यविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः ॥ १४॥
दारिद्र ये! पंच-साहस्रम् अयुतम् सर्व-काम-दम् ॥ अथ नित्य-विधिम् वक्ष्ये शृणुध्वम् मुनि-सत्तमाः ॥ १४॥
dāridra ye! paṃca-sāhasram ayutam sarva-kāma-dam .. atha nitya-vidhim vakṣye śṛṇudhvam muni-sattamāḥ .. 14..
एकं पापहरं प्रोक्तं द्विलिंगं चार्थसिद्धिदम् ॥ त्रिलिंगं सर्वकामानां कारणं परमीरितम् ॥ १५॥
एकम् पाप-हरम् प्रोक्तम् द्वि-लिंगम् च अर्थ-सिद्धि-दम् ॥ त्रि-लिंगम् सर्व-कामानाम् कारणम् परम् ईरितम् ॥ १५॥
ekam pāpa-haram proktam dvi-liṃgam ca artha-siddhi-dam .. tri-liṃgam sarva-kāmānām kāraṇam param īritam .. 15..
उत्तरोत्तरमेवं स्यात्पूर्वोक्तगणनाविधि ॥ मतांतरमथो वक्ष्ये संख्यायां मुनिभेदतः ॥ १६॥
उत्तरोत्तरम् एवम् स्यात् पूर्व-उक्त-गणना-विधि ॥ मत-अंतरम् अथो वक्ष्ये संख्यायाम् मुनि-भेदतः ॥ १६॥
uttarottaram evam syāt pūrva-ukta-gaṇanā-vidhi .. mata-aṃtaram atho vakṣye saṃkhyāyām muni-bhedataḥ .. 16..
लिंगानामयुतं कृत्वा पार्थिवानां सुबुद्धिमान् ॥ निर्भयो हि भवेन्नूनं महाराजभयं हरेत् ॥ १७॥
लिंगानाम् अयुतम् कृत्वा पार्थिवानाम् सु बुद्धिमान् ॥ निर्भयः हि भवेत् नूनम् महा-राज-भयम् हरेत् ॥ १७॥
liṃgānām ayutam kṛtvā pārthivānām su buddhimān .. nirbhayaḥ hi bhavet nūnam mahā-rāja-bhayam haret .. 17..
कारागृहादिमुक्त्यर्थमयुतं कारयेद्बुधः ॥ डाकिन्यादिभये सप्तसहस्रं कारयेत्तथा ॥ १८॥
कारा-गृह-आदि-मुक्ति-अर्थम् अयुतम् कारयेत् बुधः ॥ डाकिनी-आदि-भये सप्त-सहस्रम् कारयेत् तथा ॥ १८॥
kārā-gṛha-ādi-mukti-artham ayutam kārayet budhaḥ .. ḍākinī-ādi-bhaye sapta-sahasram kārayet tathā .. 18..
सहस्राणि पंचपंचाशदपुत्रः प्रकारयेत् ॥ लिंगानामयुतेनैव कन्यकासंततिं लभेत् ॥ १९॥
सहस्राणि पंचपंचाशत्-अपुत्रः प्रकारयेत् ॥ लिंगानाम् अयुतेन एव कन्यका-संततिम् लभेत् ॥ १९॥
sahasrāṇi paṃcapaṃcāśat-aputraḥ prakārayet .. liṃgānām ayutena eva kanyakā-saṃtatim labhet .. 19..
लिंगानामयुतेनैव विष्ण्वादैश्वर्यमाप्नुयात् ॥ लिंगानां प्रयुतेनैव ह्यतुलां श्रियमाप्नुयात् १.२१. ॥ २०॥
लिंगानाम् अयुतेन एव विष्ण्वात् ऐश्वर्यम् आप्नुयात् ॥ लिंगानाम् प्रयुतेन एव हि अतुलाम् श्रियम् आप्नुयात्।२१। ॥ २०॥
liṃgānām ayutena eva viṣṇvāt aiśvaryam āpnuyāt .. liṃgānām prayutena eva hi atulām śriyam āpnuyāt.21. .. 20..
कोटिमेकां तु लिंगानां यः करोति नरो भुवि ॥ शिव एव भवेत्सोपि नात्र कार्य्या विचारणा ॥ २१॥
कोटिम् एकाम् तु लिंगानाम् यः करोति नरः भुवि ॥ शिवः एव भवेत् सः अपि न अत्र कार्या विचारणा ॥ २१॥
koṭim ekām tu liṃgānām yaḥ karoti naraḥ bhuvi .. śivaḥ eva bhavet saḥ api na atra kāryā vicāraṇā .. 21..
अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा ॥ भुक्तिदा मुक्तिदा नित्यं ततः कामर्थिनां नृणाम् ॥ २२॥
अर्चा पार्थिव-लिंगानाम् कोटि-यज्ञ-फल-प्रदा ॥ भुक्ति-दा मुक्ति-दा नित्यम् ततस् काम-अर्थिनाम् नृणाम् ॥ २२॥
arcā pārthiva-liṃgānām koṭi-yajña-phala-pradā .. bhukti-dā mukti-dā nityam tatas kāma-arthinām nṛṇām .. 22..
विना लिंगार्चनं यस्य कालो गच्छति नित्यशः ॥ महाहानिर्भवेत्तस्य दुर्वृत्तस्य दुरात्मनः ॥ २३॥
विना लिंग-अर्चनम् यस्य कालः गच्छति नित्यशस् ॥ महा-हानिः भवेत् तस्य दुर्वृत्तस्य दुरात्मनः ॥ २३॥
vinā liṃga-arcanam yasya kālaḥ gacchati nityaśas .. mahā-hāniḥ bhavet tasya durvṛttasya durātmanaḥ .. 23..
एकतः सर्वदानानि व्रतानि विविधानि च ॥ तीर्थानि नियमा यज्ञा लिंगार्चा चैकतः स्मृता ॥ २४॥
एकतस् सर्व-दानानि व्रतानि विविधानि च ॥ तीर्थानि नियमाः यज्ञाः लिंग-अर्चा च एकतस् स्मृता ॥ २४॥
ekatas sarva-dānāni vratāni vividhāni ca .. tīrthāni niyamāḥ yajñāḥ liṃga-arcā ca ekatas smṛtā .. 24..
कलौ लिंगार्चनं श्रेष्ठं तथा लोके प्रदृश्यते ॥ तथा नास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः ॥ २५॥
कलौ लिंग-अर्चनम् श्रेष्ठम् तथा लोके प्रदृश्यते ॥ तथा ना अस्ति इति शास्त्राणाम् एष सिद्धान्त-निश्चयः ॥ २५॥
kalau liṃga-arcanam śreṣṭham tathā loke pradṛśyate .. tathā nā asti iti śāstrāṇām eṣa siddhānta-niścayaḥ .. 25..
भुक्तिमुक्तिप्रदं लिंगं विविधापन्निवारणम् ॥ पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात् ॥ २६॥
भुक्ति-मुक्ति-प्रदम् लिंगम् विविध-आपन्निवारणम् ॥ पूजयित्वा नरः नित्यम् शिव-सायुज्यम् आप्नुयात् ॥ २६॥
bhukti-mukti-pradam liṃgam vividha-āpannivāraṇam .. pūjayitvā naraḥ nityam śiva-sāyujyam āpnuyāt .. 26..
शिवानाममयं लिंगं नित्यं पूज्यं महर्षिभिः ॥ यतश्च सर्वलिंगेषु तस्मात्पूज्यं विधानतः ॥ २७॥
शिवा-नाम-मयम् लिंगम् नित्यम् पूज्यम् महा-ऋषिभिः ॥ यतस् च सर्व-लिंगेषु तस्मात् पूज्यम् विधानतः ॥ २७॥
śivā-nāma-mayam liṃgam nityam pūjyam mahā-ṛṣibhiḥ .. yatas ca sarva-liṃgeṣu tasmāt pūjyam vidhānataḥ .. 27..
उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम् ॥ मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम् ॥ २८॥
उत्तमम् मध्यमम् नीचम् त्रिविधम् लिंगम् ईरितम् ॥ मानतः मुनि-शार्दूलाः तत् शृणुध्वम् वदामि अहम् ॥ २८॥
uttamam madhyamam nīcam trividham liṃgam īritam .. mānataḥ muni-śārdūlāḥ tat śṛṇudhvam vadāmi aham .. 28..
चतुरंगुलमुच्छ्रायं रम्यं वेदिकया युतम् ॥ उत्तमं लिंगमाख्यातं मुनिभिः शास्त्रकोविदैः ॥ २९॥
चतुर्-अंगुलम् उच्छ्रायम् रम्यम् वेदिकया युतम् ॥ उत्तमम् लिंगम् आख्यातम् मुनिभिः शास्त्र-कोविदैः ॥ २९॥
catur-aṃgulam ucchrāyam ramyam vedikayā yutam .. uttamam liṃgam ākhyātam munibhiḥ śāstra-kovidaiḥ .. 29..
तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमघमं स्मृतम् ॥ इत्थं त्रिविधमाख्यातमुत्तरोत्तरतः परम् १.२१. ॥ ३०॥
तद्-अर्द्धम् मध्यमम् प्रोक्तम् तद्-अर्द्धम् अघमम् स्मृतम् ॥ इत्थम् त्रिविधम् आख्यातम् उत्तर-उत्तरतः परम्।२१। ॥ ३०॥
tad-arddham madhyamam proktam tad-arddham aghamam smṛtam .. ittham trividham ākhyātam uttara-uttarataḥ param.21. .. 30..
अनेकलिंगं यो नित्यं भक्तिश्रद्धासमन्वितः ॥ पूजयेत्स लभेत्कामान्मनसा मानसेप्सितान् ॥ ३१॥
अनेक-लिंगम् यः नित्यम् भक्ति-श्रद्धा-समन्वितः ॥ पूजयेत् स लभेत् कामान् मनसा मानस-ईप्सितान् ॥ ३१॥
aneka-liṃgam yaḥ nityam bhakti-śraddhā-samanvitaḥ .. pūjayet sa labhet kāmān manasā mānasa-īpsitān .. 31..
न लिंगाराधनादन्यत्पुण्यं वेदचतुष्टये ॥ विद्यते सर्वशास्त्राणामेष एव विनिश्चयः ॥ ३२॥
न लिंग-आराधनात् अन्यत् पुण्यम् वेद-चतुष्टये ॥ विद्यते सर्व-शास्त्राणाम् एषः एव विनिश्चयः ॥ ३२॥
na liṃga-ārādhanāt anyat puṇyam veda-catuṣṭaye .. vidyate sarva-śāstrāṇām eṣaḥ eva viniścayaḥ .. 32..
सर्वमेतत्परित्यज्य कर्मजालमशेषतः ॥ भक्त्या परमया विद्वाँ ल्लिंगमेकं प्रपूजयेत् ॥ ३३॥
सर्वम् एतत् परित्यज्य कर्म-जालम् अशेषतस् ॥ भक्त्या परमया विद्वान् लिंगम् एकम् प्रपूजयेत् ॥ ३३॥
sarvam etat parityajya karma-jālam aśeṣatas .. bhaktyā paramayā vidvān liṃgam ekam prapūjayet .. 33..
लिंगेर्चितेर्चितं सर्वं जगत्स्थावरजंगमम् ॥ संसारांबुधिमग्नानां नान्यत्तारणसाधनम् ॥ ३४॥
लिंग-ईर्चित-ईर्चितम् सर्वम् जगत् स्थावर-जंगमम् ॥ संसार-अंबुधि-मग्नानाम् न अन्यत् तारण-साधनम् ॥ ३४॥
liṃga-īrcita-īrcitam sarvam jagat sthāvara-jaṃgamam .. saṃsāra-aṃbudhi-magnānām na anyat tāraṇa-sādhanam .. 34..
अज्ञानतिमिरांधानां विषयासक्तचेतसाम् ॥ प्लवो नान्योस्ति जगति लिंगाराधनमंतरा ॥ ३५॥
अज्ञान-तिमिर-अंधानाम् विषय-आसक्त-चेतसाम् ॥ प्लवः ना अन्यः अस्ति जगति लिंग-आराधनम् अंतरा ॥ ३५॥
ajñāna-timira-aṃdhānām viṣaya-āsakta-cetasām .. plavaḥ nā anyaḥ asti jagati liṃga-ārādhanam aṃtarā .. 35..
हरिब्रह्मादयो देवा मुनयो यक्षराक्षसाः ॥ गंधर्वाश्चरणास्सिद्धा दैतेया दानवास्तथा ॥ ३६॥
हरि-ब्रह्म-आदयः देवाः मुनयः यक्ष-राक्षसाः ॥ गंधर्वाः चरणाः सिद्धाः दैतेयाः दानवाः तथा ॥ ३६॥
hari-brahma-ādayaḥ devāḥ munayaḥ yakṣa-rākṣasāḥ .. gaṃdharvāḥ caraṇāḥ siddhāḥ daiteyāḥ dānavāḥ tathā .. 36..
नागाः शेषप्रभृतयो गरुडाद्याःखगास्तथा ॥ सप्रजापतयश्चान्ये मनवः किन्नरा नराः ॥ ३७॥
नागाः शेष-प्रभृतयः गरुड-आद्याः खगाः तथा ॥ स प्रजापतयः च अन्ये मनवः किन्नराः नराः ॥ ३७॥
nāgāḥ śeṣa-prabhṛtayaḥ garuḍa-ādyāḥ khagāḥ tathā .. sa prajāpatayaḥ ca anye manavaḥ kinnarāḥ narāḥ .. 37..
पूजयित्वा महाभक्त्या लिंगं सर्वार्थसिद्धिदम् ॥ प्राप्ताः कामानभीष्टांश्च तांस्तान्सर्वान्हृदि स्थितान् ॥ ३८॥
पूजयित्वा महा-भक्त्या लिंगम् सर्व-अर्थ-सिद्धि-दम् ॥ प्राप्ताः कामान् अभीष्टान् च तान् तान् सर्वान् हृदि स्थितान् ॥ ३८॥
pūjayitvā mahā-bhaktyā liṃgam sarva-artha-siddhi-dam .. prāptāḥ kāmān abhīṣṭān ca tān tān sarvān hṛdi sthitān .. 38..
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा प्रतिलोमजः ॥ पूजयेत्सततं लिंगं तत्तन्मंत्रेण सादरम् ॥ ३९॥
ब्राह्मणः क्षत्रियः वैश्यः शूद्रः वा प्रतिलोम-जः ॥ पूजयेत् सततम् लिंगम् तद्-तद्-मंत्रेण सादरम् ॥ ३९॥
brāhmaṇaḥ kṣatriyaḥ vaiśyaḥ śūdraḥ vā pratiloma-jaḥ .. pūjayet satatam liṃgam tad-tad-maṃtreṇa sādaram .. 39..
किं बहूक्तेन मुनयः स्त्रीणामपि तथान्यतः ॥ अधिकारोस्ति सर्वेषां शिवलिंगार्चने द्विजाः १.२१. ॥ ४०॥
किम् बहु-उक्तेन मुनयः स्त्रीणाम् अपि तथा अन्यतस् ॥ अधिकारः अस्ति सर्वेषाम् शिव-लिंग-अर्चने द्विजाः।२१। ॥ ४०॥
kim bahu-uktena munayaḥ strīṇām api tathā anyatas .. adhikāraḥ asti sarveṣām śiva-liṃga-arcane dvijāḥ.21. .. 40..
द्विजानां वैदिकेनापि मार्गेणाराधनं वरम् ॥ अन्येषामपि जंतूनां वैदिकेन न संमतम् ॥ ४१॥
द्विजानाम् वैदिकेन अपि मार्गेण आराधनम् वरम् ॥ अन्येषाम् अपि जंतूनाम् वैदिकेन न संमतम् ॥ ४१॥
dvijānām vaidikena api mārgeṇa ārādhanam varam .. anyeṣām api jaṃtūnām vaidikena na saṃmatam .. 41..
वैदिकानां द्विजानां च पूजा वैदिकमार्गतः ॥ कर्तव्यानान्यमार्गेण इत्याह भगवाञ्छिवः ॥ ४२॥
वैदिकानाम् द्विजानाम् च पूजा वैदिक-मार्गतः ॥ कर्तव्या अन् अन्य-मार्गेण इति आह भगवान् शिवः ॥ ४२॥
vaidikānām dvijānām ca pūjā vaidika-mārgataḥ .. kartavyā an anya-mārgeṇa iti āha bhagavān śivaḥ .. 42..
दधीचिगौतमादीनां शापेनादग्धचेतसाम् ॥ द्विजानां जायते श्रद्धानैव वैदिककर्मणि ॥ ४३॥
दधीचि-गौतम-आदीनाम् शापेन अदग्ध-चेतसाम् ॥ द्विजानाम् जायते श्रद्धाना एव वैदिक-कर्मणि ॥ ४३॥
dadhīci-gautama-ādīnām śāpena adagdha-cetasām .. dvijānām jāyate śraddhānā eva vaidika-karmaṇi .. 43..
यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा ॥ अन्यत्समाचरेन्मर्त्यो न संकल्पफलं लभेत् ॥ ४४॥
यः वैदिकम् अन् आदृत्य कर्म स्मार्तम् अथ अपि वा ॥ अन्यत् समाचरेत् मर्त्यः न संकल्प-फलम् लभेत् ॥ ४४॥
yaḥ vaidikam an ādṛtya karma smārtam atha api vā .. anyat samācaret martyaḥ na saṃkalpa-phalam labhet .. 44..
इत्थं कृत्वार्चनं शंभोर्नैवेद्यांतं विधानतः ॥ पूजयेदष्टमूर्तीश्च तत्रैव त्रिजगन्मयीः ॥ ४५॥
इत्थम् कृत्वा अर्चनम् शंभोः नैवेद्य-अंतम् विधानतः ॥ पूजयेत् अष्ट-मूर्तीः च तत्र एव त्रिजगत्-मयीः ॥ ४५॥
ittham kṛtvā arcanam śaṃbhoḥ naivedya-aṃtam vidhānataḥ .. pūjayet aṣṭa-mūrtīḥ ca tatra eva trijagat-mayīḥ .. 45..
क्षितिरापोनलो वायुराकाशः सूर्य्यसोमकौ ॥ यजमान इति त्वष्टौ मूर्तयः परिकीर्तिताः ॥ ४६॥
क्षितिः आपः उनलः वायुः आकाशः सूर्य-सोमकौ ॥ यजमानः इति तु अष्टौ मूर्तयः परिकीर्तिताः ॥ ४६॥
kṣitiḥ āpaḥ unalaḥ vāyuḥ ākāśaḥ sūrya-somakau .. yajamānaḥ iti tu aṣṭau mūrtayaḥ parikīrtitāḥ .. 46..
शर्वो भवश्च रुद्र श्च उग्रोभीम इतीश्वरः ॥ महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ॥ ४७॥
शर्वः भवः च रुद्रः च उग्रः भीमः इति ईश्वरः ॥ महादेवः पशुपतिः एतान् मूर्तिभिः अर्चयेत् ॥ ४७॥
śarvaḥ bhavaḥ ca rudraḥ ca ugraḥ bhīmaḥ iti īśvaraḥ .. mahādevaḥ paśupatiḥ etān mūrtibhiḥ arcayet .. 47..
पूजयेत्परिवारं च ततः शंभोः सुभक्तितः ॥ ईशानादिक्रमात्तत्र चंदनाक्षतपत्रकैः ॥ ४८॥
पूजयेत् परिवारम् च ततस् शंभोः सु भक्तितः ॥ ईशान-आदि-क्रमात् तत्र चंदन-अक्षत-पत्रकैः ॥ ४८॥
pūjayet parivāram ca tatas śaṃbhoḥ su bhaktitaḥ .. īśāna-ādi-kramāt tatra caṃdana-akṣata-patrakaiḥ .. 48..
ईशानं नंदिनं चंडं महाकालं च भृंगिणम् ॥ वृषं स्कंदं कपर्दीशं सोमं शुक्रं च तत्क्रमात् ॥ ४९॥
ईशानम् नंदिनम् चंडम् महाकालम् च भृंगिणम् ॥ वृषम् स्कंदम् कपर्दीशम् सोमम् शुक्रम् च तत् क्रमात् ॥ ४९॥
īśānam naṃdinam caṃḍam mahākālam ca bhṛṃgiṇam .. vṛṣam skaṃdam kapardīśam somam śukram ca tat kramāt .. 49..
अग्रतो वीरभद्रं च पृष्ठे कीर्तिमुखं तथा ॥ तत एकादशान्रुद्रा न्पूजयेद्विधिना ततः १.२१. ॥ ५०॥
अग्रतस् वीरभद्रम् च पृष्ठे कीर्तिमुखम् तथा ॥ ततस् एकादशान् रुद्रान् पूजयेत् विधिना ततस्।२१। ॥ ५०॥
agratas vīrabhadram ca pṛṣṭhe kīrtimukham tathā .. tatas ekādaśān rudrān pūjayet vidhinā tatas.21. .. 50..
ततः पंचाक्षरं जप्त्वा शतरुद्रि यमेव च ॥ स्तुतीर्नानाविधाः कृत्वा पंचांगपठनं तथा ॥ ५१॥
ततस् पंचाक्षरम् जप्त्वा शतरुद्रि यम् एव च ॥ स्तुतीः नानाविधाः कृत्वा पंचांग-पठनम् तथा ॥ ५१॥
tatas paṃcākṣaram japtvā śatarudri yam eva ca .. stutīḥ nānāvidhāḥ kṛtvā paṃcāṃga-paṭhanam tathā .. 51..
ततः प्रदक्षिणां कृत्वा नत्वा लिंगं विसर्जयेत् ॥ इति प्रोक्तमशेषं च शिवपूजनमादरात् ॥ ५२॥
ततस् प्रदक्षिणाम् कृत्वा नत्वा लिंगम् विसर्जयेत् ॥ इति प्रोक्तम् अशेषम् च शिव-पूजनम् आदरात् ॥ ५२॥
tatas pradakṣiṇām kṛtvā natvā liṃgam visarjayet .. iti proktam aśeṣam ca śiva-pūjanam ādarāt .. 52..
रात्रावुदण्मुखः कुर्याद्देवकार्यं सदैव हि ॥ शिवार्चनं सदाप्येवं शुचिः कुर्यादुदण्मुखः ॥ ५३॥
रात्रौ उदक्-मुखः कुर्यात् देव-कार्यम् सदा एव हि ॥ शिव-अर्चनम् सदा अपि एवम् शुचिः कुर्यात् उदण्मुखः ॥ ५३॥
rātrau udak-mukhaḥ kuryāt deva-kāryam sadā eva hi .. śiva-arcanam sadā api evam śuciḥ kuryāt udaṇmukhaḥ .. 53..
न प्राचीमग्रतः शंभोर्नोदीचीं शक्तिसंहितान् ॥ न प्रतीचीं यतः पृष्ठमतो ग्राह्यं समाश्रयेत् ॥ ५४॥
न प्राचीम् अग्रतस् शंभोः न उदीचीम् शक्ति-संहितान् ॥ न प्रतीचीम् यतस् पृष्ठम् अतस् ग्राह्यम् समाश्रयेत् ॥ ५४॥
na prācīm agratas śaṃbhoḥ na udīcīm śakti-saṃhitān .. na pratīcīm yatas pṛṣṭham atas grāhyam samāśrayet .. 54..
विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया ॥ बिल्वपत्रं विना नैव पूजयेच्छंकरं बुधः ॥ ५५॥
विना भस्म-त्रिपुंड्रेण विना रुद्रा क्षमालया ॥ बिल्व-पत्रम् विना न एव पूजयेत् शंकरम् बुधः ॥ ५५॥
vinā bhasma-tripuṃḍreṇa vinā rudrā kṣamālayā .. bilva-patram vinā na eva pūjayet śaṃkaram budhaḥ .. 55..
भस्माप्राप्तौ मुनिश्रेष्ठाः प्रवृत्ते शिवपूजने ॥ तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुंड्रकम् ॥ ५६॥
भस्म-अप्राप्तौ मुनि-श्रेष्ठाः प्रवृत्ते शिव-पूजने ॥ तस्मात् मृदा अपि कर्तव्यम् ललाटे च त्रिपुंड्रकम् ॥ ५६॥
bhasma-aprāptau muni-śreṣṭhāḥ pravṛtte śiva-pūjane .. tasmāt mṛdā api kartavyam lalāṭe ca tripuṃḍrakam .. 56..
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशोऽध्यायः ॥ ५७॥
इति श्री-शिव-महापुराणे प्रथमायाम् विद्येश्वर-संहितायाम् साध्यसाधन-खण्डे पार्थिवपूजनवर्णनम् नाम एकविंशः अध्यायः ॥ ५७॥
iti śrī-śiva-mahāpurāṇe prathamāyām vidyeśvara-saṃhitāyām sādhyasādhana-khaṇḍe pārthivapūjanavarṇanam nāma ekaviṃśaḥ adhyāyaḥ .. 57..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In