| |
|

This overlay will guide you through the buttons:

ऋषयः ऊचुः ।
अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ॥ ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने ॥ १॥
अग्राह्यम् शिव-नैवेद्यम् इति पूर्वम् श्रुतम् वचः ॥ ब्रूहि तद्-निर्णयम् बिल्व-माहात्म्यम् अपि सत्-मुने ॥ १॥
agrāhyam śiva-naivedyam iti pūrvam śrutam vacaḥ .. brūhi tad-nirṇayam bilva-māhātmyam api sat-mune .. 1..
सूत उवाच ।
शृणुध्वं मुनयः सर्वे सावधानतयाधुना ॥ सर्वं वदामि संप्रीत्या धन्या यूयं शिवव्रताः ॥ २॥
शृणुध्वम् मुनयः सर्वे सावधान-तया अधुना ॥ सर्वम् वदामि संप्रीत्या धन्याः यूयम् शिव-व्रताः ॥ २॥
śṛṇudhvam munayaḥ sarve sāvadhāna-tayā adhunā .. sarvam vadāmi saṃprītyā dhanyāḥ yūyam śiva-vratāḥ .. 2..
शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः ॥ भक्षयेच्छिवनैवेद्यं त्यजेदग्राह्यभावनाम् ॥ ३॥
शिव-भक्तः शुचिः शुद्धः सत्-व्रती-दृढ-निश्चयः ॥ भक्षयेत् शिव-नैवेद्यम् त्यजेत् अग्राह्य-भावनाम् ॥ ३॥
śiva-bhaktaḥ śuciḥ śuddhaḥ sat-vratī-dṛḍha-niścayaḥ .. bhakṣayet śiva-naivedyam tyajet agrāhya-bhāvanām .. 3..
दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः ॥ भक्ते तु शिवनैवेद्ये पुण्यान्या यांति कोटिशः ॥ ४॥
दृष्ट्वा अपि शिव-नैवेद्ये यांति पापानि दूरतस् ॥ भक्ते तु शिव-नैवेद्ये पुण्यानि यांति कोटिशस् ॥ ४॥
dṛṣṭvā api śiva-naivedye yāṃti pāpāni dūratas .. bhakte tu śiva-naivedye puṇyāni yāṃti koṭiśas .. 4..
अलं यागसहस्रेणाप्यलं यागार्बुदैरपि ॥ भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात् ॥ ५॥
अलम् याग-सहस्रेण अपि अलम् याग-अर्बुदैः अपि ॥ भक्षिते शिव-नैवेद्ये शिव-सायुज्यम् आप्नुयात् ॥ ५॥
alam yāga-sahasreṇa api alam yāga-arbudaiḥ api .. bhakṣite śiva-naivedye śiva-sāyujyam āpnuyāt .. 5..
यद्गृहे शिवनैवेद्यप्रचारोपि प्रजायते ॥ तद्गृहं पावनं सर्वमन्यपावनकारणम् ॥ ६॥
यद्-गृहे शिव-नैवेद्य-प्रचारः अपि प्रजायते ॥ तद्-गृहम् पावनम् सर्वम् अन्य-पावन-कारणम् ॥ ६॥
yad-gṛhe śiva-naivedya-pracāraḥ api prajāyate .. tad-gṛham pāvanam sarvam anya-pāvana-kāraṇam .. 6..
आगतं शिवनैवेद्यं गृहीत्वा शिरसा मुदा ॥ भक्षणीयं प्रयत्नेन शिवस्मरणपूर्वकम् ॥ ७॥
आगतम् शिव-नैवेद्यम् गृहीत्वा शिरसा मुदा ॥ भक्षणीयम् प्रयत्नेन शिव-स्मरण-पूर्वकम् ॥ ७॥
āgatam śiva-naivedyam gṛhītvā śirasā mudā .. bhakṣaṇīyam prayatnena śiva-smaraṇa-pūrvakam .. 7..
आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि ॥ विलंबे पापसंबंधो भवत्येव हि मानवे ॥ ८॥
आगतम् शिव-नैवेद्यम् अन्यदा ग्राह्यम् इति अपि ॥ विलंबे पाप-संबंधः भवति एव हि मानवे ॥ ८॥
āgatam śiva-naivedyam anyadā grāhyam iti api .. vilaṃbe pāpa-saṃbaṃdhaḥ bhavati eva hi mānave .. 8..
न यस्य शिवनैवेद्यग्रहणेच्छा प्रजायते ॥ स पापिष्ठो गरिष्ठः स्यान्नरकं यात्यपि ध्रुवम् ॥ ९॥
न यस्य शिव-नैवेद्य-ग्रहण-इच्छा प्रजायते ॥ स पापिष्ठः गरिष्ठः स्यात् नरकम् याति अपि ध्रुवम् ॥ ९॥
na yasya śiva-naivedya-grahaṇa-icchā prajāyate .. sa pāpiṣṭhaḥ gariṣṭhaḥ syāt narakam yāti api dhruvam .. 9..
हृदये चन्द्र कान्ते च स्वर्णरूप्यादिनिर्मिते ॥ शिवदीक्षावता भक्तेनेदं भक्ष्यमितीर्य्यते १.२२. ॥ १०॥
हृदये चन्द्र कान्ते च स्वर्ण-रूप्य-आदि-निर्मिते ॥ शिव-दीक्षावता भक्तेन इदम् भक्ष्यम् इति ईर्य्यते।२२। ॥ १०॥
hṛdaye candra kānte ca svarṇa-rūpya-ādi-nirmite .. śiva-dīkṣāvatā bhaktena idam bhakṣyam iti īryyate.22. .. 10..
शिवदीक्षान्वितो भक्तो महाप्रसादसंज्ञकम् ॥ सर्वेषामपि लिंगानां नैवेद्यं भक्षयेच्छुभम् ॥ ११॥
शिव-दीक्षा-अन्वितः भक्तः महाप्रसाद-संज्ञकम् ॥ सर्वेषाम् अपि लिंगानाम् नैवेद्यम् भक्षयेत् शुभम् ॥ ११॥
śiva-dīkṣā-anvitaḥ bhaktaḥ mahāprasāda-saṃjñakam .. sarveṣām api liṃgānām naivedyam bhakṣayet śubham .. 11..
अन्यदीक्षायुजां नॄणां शिवभक्तिरतात्मनाम् ॥ शृणुध्वं निर्णयं प्रीत्या शिवनैवेद्यभक्षणे ॥ १२॥
अन्य-दीक्षा-युजाम् नॄणाम् शिव-भक्ति-रत-आत्मनाम् ॥ शृणुध्वम् निर्णयम् प्रीत्या शिव-नैवेद्य-भक्षणे ॥ १२॥
anya-dīkṣā-yujām nṝṇām śiva-bhakti-rata-ātmanām .. śṛṇudhvam nirṇayam prītyā śiva-naivedya-bhakṣaṇe .. 12..
शालग्रामोद्भवे लिंगे रसलिंगे तथा द्विजाः ॥ पाषाणे राजते स्वर्णे सुरसिद्धप्रतिष्ठिते ॥ १३॥
शालग्राम-उद्भवे लिंगे रसलिंगे तथा द्विजाः ॥ पाषाणे राजते स्वर्णे सुर-सिद्ध-प्रतिष्ठिते ॥ १३॥
śālagrāma-udbhave liṃge rasaliṃge tathā dvijāḥ .. pāṣāṇe rājate svarṇe sura-siddha-pratiṣṭhite .. 13..
काश्मीरे स्फाटिके रात्ने ज्योतिर्लिंगेषु सर्वशः ॥ चान्द्रायणसमं प्रोक्तं शंभोर्नैवेद्यभक्षणम् ॥ १४॥
काश्मीरे स्फाटिके रात्ने ज्योतिः-लिंगेषु सर्वशस् ॥ चान्द्रायण-समम् प्रोक्तम् शंभोः नैवेद्य-भक्षणम् ॥ १४॥
kāśmīre sphāṭike rātne jyotiḥ-liṃgeṣu sarvaśas .. cāndrāyaṇa-samam proktam śaṃbhoḥ naivedya-bhakṣaṇam .. 14..
ब्रह्महापि शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् ॥ भक्षयित्वा द्रुतं तस्य सर्वपापं प्रणश्यति ॥ १५॥
ब्रह्म-हा अपि शुचिः भूत्वा निर्माल्यम् यः तु धारयेत् ॥ भक्षयित्वा द्रुतम् तस्य सर्व-पापम् प्रणश्यति ॥ १५॥
brahma-hā api śuciḥ bhūtvā nirmālyam yaḥ tu dhārayet .. bhakṣayitvā drutam tasya sarva-pāpam praṇaśyati .. 15..
चंडाधिकारो यत्रास्ति तद्भोक्तव्यं न मानवैः ॥ चंडाधिकारो नो यत्र भोक्तव्यं तच्च भक्तितः ॥ १६॥
चंड-अधिकारः यत्र अस्ति तत् भोक्तव्यम् न मानवैः ॥ चंड-अधिकारः नो यत्र भोक्तव्यम् तत् च भक्तितः ॥ १६॥
caṃḍa-adhikāraḥ yatra asti tat bhoktavyam na mānavaiḥ .. caṃḍa-adhikāraḥ no yatra bhoktavyam tat ca bhaktitaḥ .. 16..
बाणलिंगे च लौहे च सिद्धे लिंगे स्वयंभुवि ॥ प्रतिमासु च सर्वासु न चंडोधिकृतो भवेत् ॥ १७॥
बाणलिंगे च लौहे च सिद्धे लिंगे स्वयंभुवि ॥ प्रतिमासु च सर्वासु न चंड-ऊधि-कृतः भवेत् ॥ १७॥
bāṇaliṃge ca lauhe ca siddhe liṃge svayaṃbhuvi .. pratimāsu ca sarvāsu na caṃḍa-ūdhi-kṛtaḥ bhavet .. 17..
स्नापयित्वा विधानेन यो लिंगस्नापनोदकम् ॥ त्रिःपिबेत्त्रिविधं पापं तस्येहाशु विनश्यति ॥ १८॥
स्नापयित्वा विधानेन यः लिंग-स्नापन-उदकम् ॥ त्रिस् पिबेत् त्रिविधम् पापम् तस्य इह आशु विनश्यति ॥ १८॥
snāpayitvā vidhānena yaḥ liṃga-snāpana-udakam .. tris pibet trividham pāpam tasya iha āśu vinaśyati .. 18..
अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ॥ शालग्रामशिलासंगात्सर्वं याति पवित्रिताम् ॥ १९॥
अग्राह्यम् शिव-नैवेद्यम् पत्रम् पुष्पम् फलम् जलम् ॥ शालग्राम-शिला-संगात् सर्वम् याति पवित्रि-ताम् ॥ १९॥
agrāhyam śiva-naivedyam patram puṣpam phalam jalam .. śālagrāma-śilā-saṃgāt sarvam yāti pavitri-tām .. 19..
लिंगोपरि च यद्द्रव्यं तदग्राह्यं मुनीश्वराः ॥ सुपवित्रं च तज्ज्ञेयं यल्लिंगस्पर्शबाह्यतः १.२२. ॥ २०॥
लिंग-उपरि च यत् द्रव्यम् तत् अग्राह्यम् मुनि-ईश्वराः ॥ सुपवित्रम् च तत् ज्ञेयम् यत् लिंग-स्पर्श-बाह्यतस्।२२। ॥ २०॥
liṃga-upari ca yat dravyam tat agrāhyam muni-īśvarāḥ .. supavitram ca tat jñeyam yat liṃga-sparśa-bāhyatas.22. .. 20..
नैवेद्यनिर्णयः प्रोक्तं इत्थं वो मुनिसत्तमाः ॥ शृणुध्वं बिल्वमाहात्म्यं सावधानतयाऽदरात् ॥ २१॥
नैवेद्य-निर्णयः प्रोक्तम् इत्थम् वः मुनि-सत्तमाः ॥ शृणुध्वम् बिल्व-माहात्म्यम् सावधान-तया आदरात् ॥ २१॥
naivedya-nirṇayaḥ proktam ittham vaḥ muni-sattamāḥ .. śṛṇudhvam bilva-māhātmyam sāvadhāna-tayā ādarāt .. 21..
महादेवस्वरूपोयं बिल्वो देवैरपि स्तुतिः ॥ यथाकथंचिदेतस्य महिमा ज्ञायते कथम् ॥ २२॥
महादेव-स्वरूपः इयम् बिल्वः देवैः अपि स्तुतिः ॥ यथा कथंचिद् एतस्य महिमा ज्ञायते कथम् ॥ २२॥
mahādeva-svarūpaḥ iyam bilvaḥ devaiḥ api stutiḥ .. yathā kathaṃcid etasya mahimā jñāyate katham .. 22..
पुण्यतीर्थानि यावंति लोकेषु प्रथितान्यपि ॥ तानि सर्वाणि तीर्थानिबिल्वमूलेव संति हि ॥ २३॥
पुण्य-तीर्थानि यावंति लोकेषु प्रथितानि अपि ॥ तानि सर्वाणि संति हि ॥ २३॥
puṇya-tīrthāni yāvaṃti lokeṣu prathitāni api .. tāni sarvāṇi saṃti hi .. 23..
बिल्वमूले महादेवं लिंगरूपिणमव्ययम् ॥ यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम् ॥ २४॥
बिल्व-मूले महादेवम् लिंग-रूपिणम् अव्ययम् ॥ यः पूजयति पुण्य-आत्मा स शिवम् प्राप्नुयात् ध्रुवम् ॥ २४॥
bilva-mūle mahādevam liṃga-rūpiṇam avyayam .. yaḥ pūjayati puṇya-ātmā sa śivam prāpnuyāt dhruvam .. 24..
बिल्वमूले जलैर्यस्तु मूर्द्धानमभिषिंचति ॥ स सर्वतीर्थस्नातः स्यात्स एव भुवि पावनः ॥ २५॥
बिल्व-मूले जलैः यः तु मूर्द्धानम् अभिषिंचति ॥ स सर्व-तीर्थ-स्नातः स्यात् सः एव भुवि पावनः ॥ २५॥
bilva-mūle jalaiḥ yaḥ tu mūrddhānam abhiṣiṃcati .. sa sarva-tīrtha-snātaḥ syāt saḥ eva bhuvi pāvanaḥ .. 25..
एतस्य बिल्वमूलस्याथालवालमनुत्तमम् ॥ जलाकुलं महादेवो दृष्ट्वा तुष्टोभवत्यलम् ॥ २६॥
एतस्य बिल्व-मूलस्य अथ आलवालम् अनुत्तमम् ॥ जल-आकुलम् महादेवः दृष्ट्वा तुष्टः भवति अलम् ॥ २६॥
etasya bilva-mūlasya atha ālavālam anuttamam .. jala-ākulam mahādevaḥ dṛṣṭvā tuṣṭaḥ bhavati alam .. 26..
पूजयेद्बिल्वमूलं यो गंधपुष्पादिभिर्नरः ॥ शिवलोकमवाप्नोति संततिर्वर्द्धते सुखम् ॥ २७॥
पूजयेत् बिल्व-मूलम् यः गंध-पुष्प-आदिभिः नरः ॥ शिव-लोकम् अवाप्नोति संततिः वर्द्धते सुखम् ॥ २७॥
pūjayet bilva-mūlam yaḥ gaṃdha-puṣpa-ādibhiḥ naraḥ .. śiva-lokam avāpnoti saṃtatiḥ varddhate sukham .. 27..
बिल्वमूले दीपमालां यः कल्पयति सादरम् ॥ स तत्त्वज्ञानसंपन्नो महेशांतर्गतो भवेत् ॥ २८॥
बिल्व-मूले दीप-मालाम् यः कल्पयति सादरम् ॥ स तत्त्व-ज्ञान-संपन्नः महेश-अंतर्गतः भवेत् ॥ २८॥
bilva-mūle dīpa-mālām yaḥ kalpayati sādaram .. sa tattva-jñāna-saṃpannaḥ maheśa-aṃtargataḥ bhavet .. 28..
बिल्वशाखां समादाय हस्तेन नवपल्लवम् ॥ गृहीत्वा पूजयेद्बिल्वं स च पापैः प्रमुच्यते ॥ २९॥
बिल्व-शाखाम् समादाय हस्तेन नव-पल्लवम् ॥ गृहीत्वा पूजयेत् बिल्वम् स च पापैः प्रमुच्यते ॥ २९॥
bilva-śākhām samādāya hastena nava-pallavam .. gṛhītvā pūjayet bilvam sa ca pāpaiḥ pramucyate .. 29..
बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ॥ एकं वा कोटिगुणितं तस्य पुण्यं प्रजायते १.२२. ॥ ३०॥
बिल्व-मूले शिव-रतम् भोजयेत् यः तु भक्तितः ॥ एकम् वा कोटि-गुणितम् तस्य पुण्यम् प्रजायते।२२। ॥ ३०॥
bilva-mūle śiva-ratam bhojayet yaḥ tu bhaktitaḥ .. ekam vā koṭi-guṇitam tasya puṇyam prajāyate.22. .. 30..
बिल्वमूले क्षीरमुक्तमन्नमाज्येन संयुतम् ॥ यो दद्याच्छिवभक्ताय स दरिद्रो न जायते ॥ ३१॥
बिल्व-मूले क्षीरम् उक्तम् अन्नम् आज्येन संयुतम् ॥ यः दद्यात् शिव-भक्ताय स दरिद्रः न जायते ॥ ३१॥
bilva-mūle kṣīram uktam annam ājyena saṃyutam .. yaḥ dadyāt śiva-bhaktāya sa daridraḥ na jāyate .. 31..
सांगोपांगमिति प्रोक्तं शिवलिंगप्रपूजनम् ॥ प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः ॥ ३२॥
स अंग-उपांगम् इति प्रोक्तम् शिव-लिंग-प्रपूजनम् ॥ प्रवृत्तानाम् निवृत्तानाम् भेदतः द्विविधम् द्विजाः ॥ ३२॥
sa aṃga-upāṃgam iti proktam śiva-liṃga-prapūjanam .. pravṛttānām nivṛttānām bhedataḥ dvividham dvijāḥ .. 32..
प्रवृत्तानां पीठपूजां सर्वपूजां समाचरेत् ॥ अभिषेकान्ते नैवेद्यं शाल्यन्नेन समाचरेत् ॥ ३३॥
प्रवृत्तानाम् पीठ-पूजाम् सर्व-पूजाम् समाचरेत् ॥ अभिषेक-अन्ते नैवेद्यम् शालि-अन्नेन समाचरेत् ॥ ३३॥
pravṛttānām pīṭha-pūjām sarva-pūjām samācaret .. abhiṣeka-ante naivedyam śāli-annena samācaret .. 33..
पूजान्ते स्थापयेल्लिंगं पुटे शुद्धे पृथग्गृहे ॥ करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् ॥ ३४॥
पूजा-अन्ते स्थापयेत् लिंगम् पुटे शुद्धे पृथक् गृहे ॥ कर-पूजा-निवृत्तानाम् स्व-भोज्यम् तु निवेदयेत् ॥ ३४॥
pūjā-ante sthāpayet liṃgam puṭe śuddhe pṛthak gṛhe .. kara-pūjā-nivṛttānām sva-bhojyam tu nivedayet .. 34..
निवृत्तानां परं सूक्ष्मं लिंगमेव विशिष्यते ॥ विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ॥ ३५॥
निवृत्तानाम् परम् सूक्ष्मम् लिंगम् एव विशिष्यते ॥ विभूति-अभ्यर्चनम् कुर्यात् विभूतिम् च निवेदयेत् ॥ ३५॥
nivṛttānām param sūkṣmam liṃgam eva viśiṣyate .. vibhūti-abhyarcanam kuryāt vibhūtim ca nivedayet .. 35..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनैवेद्यवर्णनोनामद्वाविंशोऽध्यायः ॥ ३६॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् साध्यसाधन-खण्डे शिवनैवेद्यवर्णना नाम द्वाविंशः अध्यायः ॥ ३६॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām sādhyasādhana-khaṇḍe śivanaivedyavarṇanā nāma dvāviṃśaḥ adhyāyaḥ .. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In