| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
सूत सूत महाभाग व्यासशिष्य नमोस्तु ते ॥ तदेव व्यासतो ब्रूहि भस्ममाहात्म्यमुत्तमम् ॥ १॥
सूत सूत महाभाग व्यास-शिष्य नमः अस्तु ते ॥ तत् एव व्यासतः ब्रूहि भस्म-माहात्म्यम् उत्तमम् ॥ १॥
sūta sūta mahābhāga vyāsa-śiṣya namaḥ astu te .. tat eva vyāsataḥ brūhi bhasma-māhātmyam uttamam .. 1..
तथा रुद्रा क्षमाहात्म्यं नाम माहात्म्यमुत्तमम् ॥ त्रितयं ब्रूहि सुप्रीत्या ममानंदयचेतसम् ॥ २॥
तथा क्ष-माहात्म्यम् नाम माहात्म्यम् उत्तमम् ॥ त्रितयम् ब्रूहि सु प्रीत्या मम आनंदय-चेतसम् ॥ २॥
tathā kṣa-māhātmyam nāma māhātmyam uttamam .. tritayam brūhi su prītyā mama ānaṃdaya-cetasam .. 2..
सूत उवाच ।
साधुपृष्टं भवद्भिश्च लोकानां हितकारकम् ॥ भवंतो वै महाधन्याः पवित्राः कुलभूषणाः ॥ ३॥
साधु-पृष्टम् भवद्भिः च लोकानाम् हित-कारकम् ॥ भवन्तः वै महा-धन्याः पवित्राः कुल-भूषणाः ॥ ३॥
sādhu-pṛṣṭam bhavadbhiḥ ca lokānām hita-kārakam .. bhavantaḥ vai mahā-dhanyāḥ pavitrāḥ kula-bhūṣaṇāḥ .. 3..
येषां चैव शिवः साक्षाद्दैवतं परमं शुभम् ॥ सदा शिवकथा लोके वल्लभा भवतां सदा ॥ ४॥
येषाम् च एव शिवः साक्षात् दैवतम् परमम् शुभम् ॥ सदा शिव-कथा लोके वल्लभा भवताम् सदा ॥ ४॥
yeṣām ca eva śivaḥ sākṣāt daivatam paramam śubham .. sadā śiva-kathā loke vallabhā bhavatām sadā .. 4..
ते धन्याश्च कृतार्थाश्च सफलं देहधारणम् ॥ उद्धृतञ्च कुलं तेषां ये शिवं समुपासते ॥ ५॥
ते धन्याः च कृतार्थाः च स फलम् देहधारणम् ॥ उद्धृतम् च कुलम् तेषाम् ये शिवम् समुपासते ॥ ५॥
te dhanyāḥ ca kṛtārthāḥ ca sa phalam dehadhāraṇam .. uddhṛtam ca kulam teṣām ye śivam samupāsate .. 5..
मुखे यस्य शिवनाम सदाशिवशिवेति च ॥ पापानि न स्पृशंत्येव खदिरांगारंकयथा ॥ ६॥
मुखे यस्य शिव-नाम सदाशिव-शिव-इति च ॥ पापानि न स्पृशंति एव ॥ ६॥
mukhe yasya śiva-nāma sadāśiva-śiva-iti ca .. pāpāni na spṛśaṃti eva .. 6..
श्रीशिवाय नमस्तुभ्यं मुखं व्याहरते यदा ॥ तन्मुखं पावनं तीर्थं सर्वपापविनाशनम् ॥ ७॥
श्री-शिवाय नमः तुभ्यम् मुखम् व्याहरते यदा ॥ तद्-मुखम् पावनम् तीर्थम् सर्व-पाप-विनाशनम् ॥ ७॥
śrī-śivāya namaḥ tubhyam mukham vyāharate yadā .. tad-mukham pāvanam tīrtham sarva-pāpa-vināśanam .. 7..
तन्मुखञ्च तथा यो वै पश्यतिप्रीतिमान्नरः ॥ तीर्थजन्यं फलं तस्य भवतीति सुनिश्चितम् ॥ ८॥
तद्-मुखम् च तथा यः वै पश्यति प्रीतिमान् नरः ॥ तीर्थ-जन्यम् फलम् तस्य भवति इति सु निश्चितम् ॥ ८॥
tad-mukham ca tathā yaḥ vai paśyati prītimān naraḥ .. tīrtha-janyam phalam tasya bhavati iti su niścitam .. 8..
यत्र त्रयं सदा तिष्ठेदेतच्छुभतरं द्विजा ॥ तस्य दर्शनमात्रेण वेणीस्नानफलंलभेत् ॥ ९॥
यत्र त्रयम् सदा तिष्ठेत् एतत् शुभतरम् द्विजाः ॥ तस्य दर्शन-मात्रेण वेणी-स्नान-फलम् लभेत् ॥ ९॥
yatra trayam sadā tiṣṭhet etat śubhataram dvijāḥ .. tasya darśana-mātreṇa veṇī-snāna-phalam labhet .. 9..
शिवनामविभूतिश्च तथा रुद्रा क्ष एव च ॥ एतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम् १.२३. ॥ १०॥
शिव-नाम-विभूतिः च तथा रुद्रा क्षः एव च ॥ एतत् त्रयम् महा-पुण्यम् त्रिवेणी-सदृशम् स्मृतम्।२३। ॥ १०॥
śiva-nāma-vibhūtiḥ ca tathā rudrā kṣaḥ eva ca .. etat trayam mahā-puṇyam triveṇī-sadṛśam smṛtam.23. .. 10..
एतत्त्रयं शरीरे च यस्य तिष्ठति नित्यशः ॥ तस्यैव दर्शनं लोके दुर्लभं पापहारकम् ॥ ११॥
एतत् त्रयम् शरीरे च यस्य तिष्ठति नित्यशस् ॥ तस्य एव दर्शनम् लोके दुर्लभम् पाप-हारकम् ॥ ११॥
etat trayam śarīre ca yasya tiṣṭhati nityaśas .. tasya eva darśanam loke durlabham pāpa-hārakam .. 11..
तद्दर्शनं यथा वेणी नोभयोरंतरं मनाक् ॥ एवं योनविजानाति सपापिष्ठो न संशयः ॥ १२॥
तत् दर्शनम् यथा वेणी न उभयोः अन्तरम् मनाक् ॥ एवम् स पापिष्ठः न संशयः ॥ १२॥
tat darśanam yathā veṇī na ubhayoḥ antaram manāk .. evam sa pāpiṣṭhaḥ na saṃśayaḥ .. 12..
विभूतिर्यस्य नो भाले नांगे रुद्रा क्षधारणम् ॥ नास्ये शिवमयी वाणी तं त्यजेदधमं यथा ॥ १३॥
विभूतिः यस्य नः भाले न अंगे रुद्रा क्ष-धारणम् ॥ न आस्ये शिव-मयी वाणी तम् त्यजेत् अधमम् यथा ॥ १३॥
vibhūtiḥ yasya naḥ bhāle na aṃge rudrā kṣa-dhāraṇam .. na āsye śiva-mayī vāṇī tam tyajet adhamam yathā .. 13..
शैवं नाम यथा गंगा विभूतिर्यमुना मता ॥ रुद्रा क्षं विधिना प्रोक्ता सर्वपापाविनाशिनी ॥ १४॥
शैवम् नाम यथा गंगा विभूतिः यमुना मता ॥ रुद्रा क्षं विधिना प्रोक्ता सर्व-पाप-अ विनाशिनी ॥ १४॥
śaivam nāma yathā gaṃgā vibhūtiḥ yamunā matā .. rudrā kṣaṃ vidhinā proktā sarva-pāpa-a vināśinī .. 14..
शरीरे च त्रयं यस्य तत्फलं चैकतः स्थितम् ॥ एकतो वेणिकायाश्च स्नानजंतुफलं बुधैः ॥ १५॥
शरीरे च त्रयम् यस्य तद्-फलम् च एकतस् स्थितम् ॥ एकतस् वेणिकायाः च स्नान-जंतु-फलम् बुधैः ॥ १५॥
śarīre ca trayam yasya tad-phalam ca ekatas sthitam .. ekatas veṇikāyāḥ ca snāna-jaṃtu-phalam budhaiḥ .. 15..
तदेवं तुलितं पूर्वं ब्रह्मणाहितकारिणा ॥ समानं चैव तज्जातं तस्माद्धार्यं सदा बुधैः ॥ १६॥
तत् एवम् तुलितम् पूर्वम् ब्रह्मणा अहित-कारिणा ॥ समानम् च एव तत् जातम् तस्मात् धार्यम् सदा बुधैः ॥ १६॥
tat evam tulitam pūrvam brahmaṇā ahita-kāriṇā .. samānam ca eva tat jātam tasmāt dhāryam sadā budhaiḥ .. 16..
तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सरैः ॥ धार्यते त्रितयं तच्च दर्शनात्पापहारकम् ॥ १७॥
तत् दिनम् हि समारभ्य ब्रह्म-विष्णु-आदिभिः सरैः ॥ धार्यते त्रितयम् तत् च दर्शनात् पाप-हारकम् ॥ १७॥
tat dinam hi samārabhya brahma-viṣṇu-ādibhiḥ saraiḥ .. dhāryate tritayam tat ca darśanāt pāpa-hārakam .. 17..
ऋष्य ऊचुः ।
ईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम् ॥ तन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत ॥ १८॥
ईदृशम् हि फलम् प्रोक्तम् नाम-आदि-त्रितय-उद्भवम् ॥ तत् माहात्म्यम् विशेषेण वक्तुम् अर्हसि सुव्रत ॥ १८॥
īdṛśam hi phalam proktam nāma-ādi-tritaya-udbhavam .. tat māhātmyam viśeṣeṇa vaktum arhasi suvrata .. 18..
सूत उवाच ।
ऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः ॥ तन्माहात्म्यं हि सद्भक्त्या शृणुतादरतो द्विजाः ॥ १९॥
ऋषयः हि महा-प्राज्ञाः सत्-शएवाः ज्ञानिनाम् वराः ॥ तत् माहात्म्यम् हि सत्-भक्त्या शृणुत आदरतः द्विजाः ॥ १९॥
ṛṣayaḥ hi mahā-prājñāḥ sat-śaevāḥ jñāninām varāḥ .. tat māhātmyam hi sat-bhaktyā śṛṇuta ādarataḥ dvijāḥ .. 19..
सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि ॥ भवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना १.२३. ॥ २०॥
सु गूढम् अपि शास्त्रेषु पुराणेषु श्रुतिषु अपि ॥ भवत्-स्नेहात् मया विप्राः प्रकाशः क्रियते अधुना।२३। ॥ २०॥
su gūḍham api śāstreṣu purāṇeṣu śrutiṣu api .. bhavat-snehāt mayā viprāḥ prakāśaḥ kriyate adhunā.23. .. 20..
कस्तत्त्रितयमाहात्म्यं संजानाति द्विजोत्तमाः ॥ महेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम् ॥ २१॥
कः तत् त्रितय-माहात्म्यम् संजानाति द्विजोत्तमाः ॥ महेश्वरम् विना सर्वम् ब्रह्माण्डे सत्-असत् परम् ॥ २१॥
kaḥ tat tritaya-māhātmyam saṃjānāti dvijottamāḥ .. maheśvaram vinā sarvam brahmāṇḍe sat-asat param .. 21..
वच्म्यहं नाम माहात्म्यं यथाभक्ति समासतः ॥ शृणुत प्रीतितो विप्राः सर्वपापहरं परम् ॥ २२॥
वच्मि अहम् नाम माहात्म्यम् यथाभक्ति समासतस् ॥ शृणुत प्रीतितः विप्राः सर्व-पाप-हरम् परम् ॥ २२॥
vacmi aham nāma māhātmyam yathābhakti samāsatas .. śṛṇuta prītitaḥ viprāḥ sarva-pāpa-haram param .. 22..
शिवेति नामदावाग्नेर्महापातकपर्वताः ॥ भस्मीभवंत्यनायासात्सत्यंसत्यं न संशयः ॥ २३॥
शिवा इति नाम-दाव-अग्नेः महापातक-पर्वताः ॥ भस्मीभवन्ति अनायासात् सत्यम् सत्यम् न संशयः ॥ २३॥
śivā iti nāma-dāva-agneḥ mahāpātaka-parvatāḥ .. bhasmībhavanti anāyāsāt satyam satyam na saṃśayaḥ .. 23..
पापमूलानि दुःखानि विविधान्यपि शौनक ॥ शिवनामैकनश्यानि नान्यनश्यानि सर्वथा ॥ २४॥
पाप-मूलानि दुःखानि विविधानि अपि शौनक ॥ शिव-नाम-एक-नश्यानि न अन्य-नश्यानि सर्वथा ॥ २४॥
pāpa-mūlāni duḥkhāni vividhāni api śaunaka .. śiva-nāma-eka-naśyāni na anya-naśyāni sarvathā .. 24..
स वैदिकः स पुण्यात्मा स धन्यस्स बुधो मतः ॥ शिवनामजपासक्तो यो नित्यं भुवि मानव ॥ २५॥
स वैदिकः स पुण्य-आत्मा स धन्यः स बुधः मतः ॥ शिव-नाम-जप-आसक्तः यः नित्यम् भुवि मानव ॥ २५॥
sa vaidikaḥ sa puṇya-ātmā sa dhanyaḥ sa budhaḥ mataḥ .. śiva-nāma-japa-āsaktaḥ yaḥ nityam bhuvi mānava .. 25..
भवंति विविधा धर्मास्तेषां सद्यः फलोन्मुखाः ॥ येषां भवति विश्वासः शिवनामजपे मुने ॥ २६॥
भवन्ति विविधाः धर्माः तेषाम् सद्यस् फल-उन्मुखाः ॥ येषाम् भवति विश्वासः शिव-नाम-जपे मुने ॥ २६॥
bhavanti vividhāḥ dharmāḥ teṣām sadyas phala-unmukhāḥ .. yeṣām bhavati viśvāsaḥ śiva-nāma-jape mune .. 26..
पातकानि विनश्यंति यावंति शिवनामतः ॥ भुवि तावंति पापानि क्रियंते न नरैर्मुने ॥ २७॥
पातकानि विनश्यंति यावंति शिव-नामतः ॥ भुवि तावंति पापानि क्रियंते न नरैः मुने ॥ २७॥
pātakāni vinaśyaṃti yāvaṃti śiva-nāmataḥ .. bhuvi tāvaṃti pāpāni kriyaṃte na naraiḥ mune .. 27..
ब्रह्महत्यादिपापानां राशीनप्रमितान्मुने ॥ शिवनाम द्रुतं प्रोक्तं नाशयत्यखिलान्नरैः ॥ २८॥
ब्रह्महत्या-आदि-पापानाम् राशीन् अप्रमितान् मुने ॥ शिव-नाम द्रुतम् प्रोक्तम् नाशयति अखिलान् नरैः ॥ २८॥
brahmahatyā-ādi-pāpānām rāśīn apramitān mune .. śiva-nāma drutam proktam nāśayati akhilān naraiḥ .. 28..
शिवनामतरीं प्राप्य संसाराब्धिं तरंति ये ॥ संसारमूलपापानि तानि नश्यंत्यसंशयम् ॥ २९॥
शिव-नाम-तरीम् प्राप्य संसार-अब्धिम् तरंति ये ॥ संसार-मूल-पापानि तानि नश्यंति असंशयम् ॥ २९॥
śiva-nāma-tarīm prāpya saṃsāra-abdhim taraṃti ye .. saṃsāra-mūla-pāpāni tāni naśyaṃti asaṃśayam .. 29..
संसारमूलभूतानां पातकानां महामुने ॥ शिवनामकुठारेण विनाशो जायते ध्रुवम् १.२३. ॥ ३०॥
संसार-मूल-भूतानाम् पातकानाम् महा-मुने ॥ शिव-नाम-कुठारेण विनाशः जायते ध्रुवम्।२३। ॥ ३०॥
saṃsāra-mūla-bhūtānām pātakānām mahā-mune .. śiva-nāma-kuṭhāreṇa vināśaḥ jāyate dhruvam.23. .. 30..
शिवनामामृतं पेयं पापदावानलार्दितैः ॥ पापदावाग्नितप्तानां शांतिस्तेन विना न हि ॥ ३१॥
शिव-नाम-अमृतम् पेयम् पाप-दाव-अनल-अर्दितैः ॥ पाप-दाव-अग्नि-तप्तानाम् शांतिः तेन विना न हि ॥ ३१॥
śiva-nāma-amṛtam peyam pāpa-dāva-anala-arditaiḥ .. pāpa-dāva-agni-taptānām śāṃtiḥ tena vinā na hi .. 31..
शिवेति नामपीयूषवर्षधारापरिप्लुताः ॥ संसारदवमध्येपि न शोचंति कदाचन ॥ ३२॥
शिव इति नाम-पीयूष-वर्ष-धारा-परिप्लुताः ॥ संसार-दव-मध्ये अपि न शोचंति कदाचन ॥ ३२॥
śiva iti nāma-pīyūṣa-varṣa-dhārā-pariplutāḥ .. saṃsāra-dava-madhye api na śocaṃti kadācana .. 32..
शिवनाम्नि महद्भक्तिर्जाता येषां महात्मनाम् ॥ तद्विधानां तु सहसा मुक्तिर्भवति सर्वथा ॥ ३३॥
शिव-नाम्नि महत्-भक्तिः जाता येषाम् महात्मनाम् ॥ तद्विधानाम् तु सहसा मुक्तिः भवति सर्वथा ॥ ३३॥
śiva-nāmni mahat-bhaktiḥ jātā yeṣām mahātmanām .. tadvidhānām tu sahasā muktiḥ bhavati sarvathā .. 33..
अनेकजन्मभिर्येन तपस्तप्तं मुनीश्वर ॥ शिवनाम्नि भवेद्भक्तिः सर्वपापापहारिणी ॥ ३४॥
अनेक-जन्मभिः येन तपः तप्तम् मुनि-ईश्वर ॥ शिव-नाम्नि भवेत् भक्तिः सर्व-पाप-अपहारिणी ॥ ३४॥
aneka-janmabhiḥ yena tapaḥ taptam muni-īśvara .. śiva-nāmni bhavet bhaktiḥ sarva-pāpa-apahāriṇī .. 34..
यस्या साधारणं शंभुनाम्नि भक्तिरखंडिता ॥ तस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम ॥ ३५॥
साधारणम् शंभु-नाम्नि भक्तिः अखंडिता ॥ तस्य एव मोक्षः सुलभः न अन्यस्य इति मतिः मम ॥ ३५॥
sādhāraṇam śaṃbhu-nāmni bhaktiḥ akhaṃḍitā .. tasya eva mokṣaḥ sulabhaḥ na anyasya iti matiḥ mama .. 35..
कृत्वाप्यनेकपापानि शिवनामजपादरः ॥ सर्वपापविनिर्मुक्तो भवत्येव न संशयः ॥ ३६॥
कृत्वा अपि अनेक-पापानि शिव-नाम-जप-आदरः ॥ सर्व-पाप-विनिर्मुक्तः भवति एव न संशयः ॥ ३६॥
kṛtvā api aneka-pāpāni śiva-nāma-japa-ādaraḥ .. sarva-pāpa-vinirmuktaḥ bhavati eva na saṃśayaḥ .. 36..
भवंति भस्मसाद्वृक्षा दवदग्धा यथा वने ॥ तथा तावंति दग्धानि पापानि शिवनामतः ॥ ३७॥
भवन्ति भस्मसात् वृक्षाः दव-दग्धाः यथा वने ॥ तथा तावंति दग्धानि पापानि शिव-नामतः ॥ ३७॥
bhavanti bhasmasāt vṛkṣāḥ dava-dagdhāḥ yathā vane .. tathā tāvaṃti dagdhāni pāpāni śiva-nāmataḥ .. 37..
यो नित्यं भस्मपूतांगः शिवनामजपादरः ॥ संतरत्येव संसारं सघोरमपि शौनक ॥ ३८॥
यः नित्यम् भस्म-पूत-अंगः शिव-नाम-जप-आदरः ॥ संतरति एव संसारम् स घोरम् अपि शौनक ॥ ३८॥
yaḥ nityam bhasma-pūta-aṃgaḥ śiva-nāma-japa-ādaraḥ .. saṃtarati eva saṃsāram sa ghoram api śaunaka .. 38..
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ॥ न लिप्यते नरः पापैः शिवनामजपादरः ॥ ३९॥
ब्रह्म-स्व-हरणम् कृत्वा हत्वा अपि ब्राह्मणान् बहून् ॥ न लिप्यते नरः पापैः शिव-नाम-जप-आदरः ॥ ३९॥
brahma-sva-haraṇam kṛtvā hatvā api brāhmaṇān bahūn .. na lipyate naraḥ pāpaiḥ śiva-nāma-japa-ādaraḥ .. 39..
विलोक्य वेदानखिलाञ्छिवनामजपः परम् ॥ संसारतारणोपाय इति पूर्वैर्विनिश्चितः १.२३. ॥ ४०॥
विलोक्य वेदान् अखिलान् शिव-नाम-जपः परम् ॥ संसार-तारण-उपायः इति पूर्वैः विनिश्चितः।२३। ॥ ४०॥
vilokya vedān akhilān śiva-nāma-japaḥ param .. saṃsāra-tāraṇa-upāyaḥ iti pūrvaiḥ viniścitaḥ.23. .. 40..
किं बहूक्त्या मुनिश्रेष्ठाः श्लोकेनैकेन वच्म्यहम् ॥ शिवनाम्नो महिमानं सर्वपापापहारिणम् ॥ ४१॥
किम् बहु-उक्त्या मुनि-श्रेष्ठाः श्लोकेन एकेन वच्मि अहम् ॥ शिव-नाम्नः महिमानम् सर्व-पाप-अपहारिणम् ॥ ४१॥
kim bahu-uktyā muni-śreṣṭhāḥ ślokena ekena vacmi aham .. śiva-nāmnaḥ mahimānam sarva-pāpa-apahāriṇam .. 41..
पापानां हरणे शंभोर्नामः शक्तिर्हि पावनी ॥ शक्नोति पातकं तावत्कर्तुं नापि नरः क्वचित् ॥ ४२॥
पापानाम् हरणे शंभोः नामः शक्तिः हि पावनी ॥ शक्नोति पातकम् तावत् कर्तुम् ना अपि नरः क्वचिद् ॥ ४२॥
pāpānām haraṇe śaṃbhoḥ nāmaḥ śaktiḥ hi pāvanī .. śaknoti pātakam tāvat kartum nā api naraḥ kvacid .. 42..
शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ॥ इन्द्र द्युम्ननृपः पूर्वं महापापः पुरामुने ॥ ४३॥
शिव-नाम-प्रभावेण लेभे सत्-गतिम् उत्तमाम् ॥ इन्द्र द्युम्न-नृपः पूर्वम् महा-पापः पुरा मुने ॥ ४३॥
śiva-nāma-prabhāveṇa lebhe sat-gatim uttamām .. indra dyumna-nṛpaḥ pūrvam mahā-pāpaḥ purā mune .. 43..
तथा काचिद्द्विजायोषा सौ मुने बहुपापिनी ॥ शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ॥ ४४॥
तथा काचिद् द्विजाया उषा सौ मुने बहु-पापिनी ॥ शिव-नाम-प्रभावेण लेभे सत्-गतिम् उत्तमाम् ॥ ४४॥
tathā kācid dvijāyā uṣā sau mune bahu-pāpinī .. śiva-nāma-prabhāveṇa lebhe sat-gatim uttamām .. 44..
इत्युक्तं वो द्विजश्रेष्ठा नाममाहात्म्यमुत्तमम् ॥ शृणुध्वं भस्ममाहात्म्यं सर्वपावनपावनम् ॥ ४५॥
इति उक्तम् वः द्विजश्रेष्ठाः नाम-माहात्म्यम् उत्तमम् ॥ शृणुध्वम् भस्म-माहात्म्यम् सर्व-पावन-पावनम् ॥ ४५॥
iti uktam vaḥ dvijaśreṣṭhāḥ nāma-māhātmyam uttamam .. śṛṇudhvam bhasma-māhātmyam sarva-pāvana-pāvanam .. 45..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडेशिवनममाहात्म्यवर्णनोनामत्रयोविंशोऽध्यायः ॥ ४६॥
इति श्री-शिवमहापुराणे विद्येश्वरसंहितायाम् साध्यसाधन-खंडे शिव-नम-माहात्म्य-वर्णनाः नाम त्रयोविंशः अध्यायः ॥ ४६॥
iti śrī-śivamahāpurāṇe vidyeśvarasaṃhitāyām sādhyasādhana-khaṃḍe śiva-nama-māhātmya-varṇanāḥ nāma trayoviṃśaḥ adhyāyaḥ .. 46..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In