| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
द्विविधं भस्म संप्रोक्तं सर्वमंगलदं परम् ॥ तत्प्रकारमहं वक्ष्ये सावधानतया शृणु ॥ १॥
द्विविधम् भस्म संप्रोक्तम् सर्व-मंगल-दम् परम् ॥ तद्-प्रकारम् अहम् वक्ष्ये सावधान-तया शृणु ॥ १॥
dvividham bhasma saṃproktam sarva-maṃgala-dam param .. tad-prakāram aham vakṣye sāvadhāna-tayā śṛṇu .. 1..
एकं ज्ञेयं महाभस्म द्वितीयं स्वल्पसंज्ञकम् ॥ महाभस्म इति प्रोक्तं भस्म नानाविधं परम् ॥ २॥
एकम् ज्ञेयम् महाभस्म द्वितीयम् स्वल्प-संज्ञकम् ॥ महाभस्म इति प्रोक्तम् भस्म नानाविधम् परम् ॥ २॥
ekam jñeyam mahābhasma dvitīyam svalpa-saṃjñakam .. mahābhasma iti proktam bhasma nānāvidham param .. 2..
तद्भस्म त्रिविधं प्रोक्तं श्रोतं स्मार्तं च लौकिकम् ॥ भस्मैव स्वल्पसंज्ञं हि बहुधा परिकीर्तितम् ॥ ३॥
तत् भस्म त्रिविधम् प्रोक्तम् श्रोतम् स्मार्तम् च लौकिकम् ॥ भस्म एव स्वल्प-संज्ञम् हि बहुधा परिकीर्तितम् ॥ ३॥
tat bhasma trividham proktam śrotam smārtam ca laukikam .. bhasma eva svalpa-saṃjñam hi bahudhā parikīrtitam .. 3..
श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम् ॥ अन्येषामपि सर्वेषामपरं भस्म लौकिकम् ॥ ४॥
श्रौतम् भस्म तथा स्मार्तम् द्विजानाम् एव कीर्तितम् ॥ अन्येषाम् अपि सर्वेषाम् अपरम् भस्म लौकिकम् ॥ ४॥
śrautam bhasma tathā smārtam dvijānām eva kīrtitam .. anyeṣām api sarveṣām aparam bhasma laukikam .. 4..
धारणं मंत्रतः प्रोक्तं द्विजानां मुनिपुंगवैः ॥ केवलं धारणं ज्ञेयमन्येषां मंत्रवर्जितम् ॥ ५॥
धारणम् मंत्रतः प्रोक्तम् द्विजानाम् मुनि-पुंगवैः ॥ केवलम् धारणम् ज्ञेयम् अन्येषाम् मंत्र-वर्जितम् ॥ ५॥
dhāraṇam maṃtrataḥ proktam dvijānām muni-puṃgavaiḥ .. kevalam dhāraṇam jñeyam anyeṣām maṃtra-varjitam .. 5..
आग्नेयमुच्यते भस्म दग्धगोमयसंभवम् ॥ तदापि द्र व्यमित्युक्तं त्रिपुंड्रस्य महामुने ॥ ६॥
आग्नेयम् उच्यते भस्म दग्ध-गोमय-संभवम् ॥ तदा अपि द्र इति उक्तम् त्रिपुंड्रस्य महा-मुने ॥ ६॥
āgneyam ucyate bhasma dagdha-gomaya-saṃbhavam .. tadā api dra iti uktam tripuṃḍrasya mahā-mune .. 6..
अग्निहोत्रोत्थितं भस्मसंग्राह्यं वा मनीषिभिः ॥ अन्ययज्ञोत्थितं वापि त्रिपुण्ड्रस्य च धारणे ॥ ७॥
अग्निहोत्र-उत्थितम् भस्म-संग्राह्यम् वा मनीषिभिः ॥ अन्य-यज्ञ-उत्थितम् वा अपि त्रिपुण्ड्रस्य च धारणे ॥ ७॥
agnihotra-utthitam bhasma-saṃgrāhyam vā manīṣibhiḥ .. anya-yajña-utthitam vā api tripuṇḍrasya ca dhāraṇe .. 7..
अग्निरित्यादिभिर्मंत्रैर्जाबालोपनिषद्गतेः ॥ सप्तभिधूलनं कार्यं भस्मना सजलेन च ॥ ८॥
अग्निः इत्यादिभिः मंत्रैः जाबाल-उपनिषद्-गतेः ॥ सप्त धूलनम् कार्यम् भस्मना स जलेन च ॥ ८॥
agniḥ ityādibhiḥ maṃtraiḥ jābāla-upaniṣad-gateḥ .. sapta dhūlanam kāryam bhasmanā sa jalena ca .. 8..
वर्णानामाश्रमाणां च मंत्रतो मंत्रतोपि च ॥ त्रिपुंड्रोद्धूलनं प्रोक्तजाबालैरादरेण च ॥ ९॥
वर्णानाम् आश्रमाणाम् च मंत्रतः मंत्रतः अपि च ॥ त्रिपुंड्र-उद्धूलनम् प्रोक्त-जाबालैः आदरेण च ॥ ९॥
varṇānām āśramāṇām ca maṃtrataḥ maṃtrataḥ api ca .. tripuṃḍra-uddhūlanam prokta-jābālaiḥ ādareṇa ca .. 9..
भस्मनोद्धूलनं चैव यथा तिर्यक्!त्रिपुंड्रकम् ॥ प्रमादादपि मोक्षार्थी न त्यजेदिति विश्रुतिः १.२४. ॥ १०॥
भस्मना उद्धूलनम् च एव यथा तिर्यक्!त्रिपुंड्रकम् ॥ प्रमादात् अपि मोक्ष-अर्थी न त्यजेत् इति विश्रुतिः।२४। ॥ १०॥
bhasmanā uddhūlanam ca eva yathā tiryak!tripuṃḍrakam .. pramādāt api mokṣa-arthī na tyajet iti viśrutiḥ.24. .. 10..
शिवेन विष्णुना चैव तथा तिर्यक्!त्रिपुंड्रकम् ॥ उमादेवी च लक्ष्मींश्च वाचान्याभिश्च नित्यशः ॥ ११॥
शिवेन विष्णुना च एव तथा तिर्यक्!त्रिपुंड्रकम् ॥ उमा-देवी च लक्ष्मीन् च वाचा अन्याभिः च नित्यशस् ॥ ११॥
śivena viṣṇunā ca eva tathā tiryak!tripuṃḍrakam .. umā-devī ca lakṣmīn ca vācā anyābhiḥ ca nityaśas .. 11..
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रै रपि च संस्करैः ॥ अपभ्रंशैर्धृतं भस्मत्रिपुंड्रोद्धूलनात्मना ॥ १२॥
ब्राह्मणैः क्षत्रियैः वैश्यैः शूद्रैः रपि च संस्करैः ॥ अपभ्रंशैः धृतम् भस्म-त्रिपुंड्र-उद्धूलन-आत्मना ॥ १२॥
brāhmaṇaiḥ kṣatriyaiḥ vaiśyaiḥ śūdraiḥ rapi ca saṃskaraiḥ .. apabhraṃśaiḥ dhṛtam bhasma-tripuṃḍra-uddhūlana-ātmanā .. 12..
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये ॥ तेषां नास्ति समाचारो वर्णाश्रमसमन्वितः ॥ १३॥
उद्धूलनम् त्रिपुंड्रम् च श्रद्धया न आचरंति ये ॥ तेषाम् न अस्ति समाचारः वर्ण-आश्रम-समन्वितः ॥ १३॥
uddhūlanam tripuṃḍram ca śraddhayā na ācaraṃti ye .. teṣām na asti samācāraḥ varṇa-āśrama-samanvitaḥ .. 13..
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये ॥ तेषां नास्ति विनिर्मुक्तिस्संसाराज्जन्मकोटिभिः ॥ १४॥
उद्धूलनम् त्रिपुंड्रम् च श्रद्धया न आचरंति ये ॥ तेषाम् ना अस्ति विनिर्मुक्तिः संसारात् जन्म-कोटिभिः ॥ १४॥
uddhūlanam tripuṃḍram ca śraddhayā na ācaraṃti ye .. teṣām nā asti vinirmuktiḥ saṃsārāt janma-koṭibhiḥ .. 14..
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ॥ तेषां नास्ति शिवज्ञानं कल्पकोटिशतैरपि ॥ १५॥
उद्धूलनम् त्रिपुंड्रम् च श्रद्धया न आचरन्ति ये ॥ तेषाम् ना अस्ति शिव-ज्ञानम् कल्प-कोटि-शतैः अपि ॥ १५॥
uddhūlanam tripuṃḍram ca śraddhayā na ācaranti ye .. teṣām nā asti śiva-jñānam kalpa-koṭi-śataiḥ api .. 15..
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ॥ ते महापातकैर्युक्ता इति शास्त्रीयनिर्णयः ॥ १६॥
उद्धूलनम् त्रिपुंड्रम् च श्रद्धया न आचरन्ति ये ॥ ते महापातकैः युक्ताः इति शास्त्रीय-निर्णयः ॥ १६॥
uddhūlanam tripuṃḍram ca śraddhayā na ācaranti ye .. te mahāpātakaiḥ yuktāḥ iti śāstrīya-nirṇayaḥ .. 16..
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ॥ तेषामाचरितं सर्वं विपरीतफलाय हि ॥ १७॥
उद्धूलनम् त्रिपुंड्रम् च श्रद्धया न आचरन्ति ये ॥ तेषाम् आचरितम् सर्वम् विपरीत-फलाय हि ॥ १७॥
uddhūlanam tripuṃḍram ca śraddhayā na ācaranti ye .. teṣām ācaritam sarvam viparīta-phalāya hi .. 17..
महापातकयुक्तानां जंतूनां शर्वविद्विषाम् ॥ त्रिपुंड्रोद्धूलनद्वेषो जायते सुदृढं मुने ॥ १८॥
महापातक-युक्तानाम् जंतूनाम् शर्व-विद्विषाम् ॥ त्रिपुंड्र-उद्धूलन-द्वेषः जायते सु दृढम् मुने ॥ १८॥
mahāpātaka-yuktānām jaṃtūnām śarva-vidviṣām .. tripuṃḍra-uddhūlana-dveṣaḥ jāyate su dṛḍham mune .. 18..
शिवाग्निकार्यं यः कृत्वा कुर्यात्त्रियायुषात्मवित् ॥ मुच्यते सर्वपापैस्तु स्पृष्टेन भस्मना नरः ॥ १९॥
शिव-अग्नि-कार्यम् यः कृत्वा कुर्यात् त्रिय-आयुष-आत्म-विद् ॥ मुच्यते सर्व-पापैः तु स्पृष्टेन भस्मना नरः ॥ १९॥
śiva-agni-kāryam yaḥ kṛtvā kuryāt triya-āyuṣa-ātma-vid .. mucyate sarva-pāpaiḥ tu spṛṣṭena bhasmanā naraḥ .. 19..
सितेन भस्मना कुर्य्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् ॥ सर्वपापविनिर्मुक्तः शिवेन सह मोदते १.२४. ॥ २०॥
सितेन भस्मना कुर्य्यात् त्रिसन्ध्यम् यः त्रिपुण्ड्रकम् ॥ सर्व-पाप-विनिर्मुक्तः शिवेन सह मोदते।२४। ॥ २०॥
sitena bhasmanā kuryyāt trisandhyam yaḥ tripuṇḍrakam .. sarva-pāpa-vinirmuktaḥ śivena saha modate.24. .. 20..
सितेन भस्मना कुर्याल्लाटे तु त्रिपुण्ड्रकम् ॥ यो सावनादिभूतान्हि लोकानाप्तो मृतो भवेत् ॥ २१॥
सितेन भस्मना कुर्यात् लाटे तु त्रिपुण्ड्रकम् ॥ सौ अनादि-भूतान् हि लोकान् आप्तः मृतः भवेत् ॥ २१॥
sitena bhasmanā kuryāt lāṭe tu tripuṇḍrakam .. sau anādi-bhūtān hi lokān āptaḥ mṛtaḥ bhavet .. 21..
अकृत्वा भस्मना स्नानं न जपेद्वै षडक्षरम् ॥ त्रिपुंड्रं च रचित्वा तु विधिना भस्मना जपेत् ॥ २२॥
अ कृत्वा भस्मना स्नानम् न जपेत् वै षष्-अक्षरम् ॥ त्रिपुंड्रम् च रचित्वा तु विधिना भस्मना जपेत् ॥ २२॥
a kṛtvā bhasmanā snānam na japet vai ṣaṣ-akṣaram .. tripuṃḍram ca racitvā tu vidhinā bhasmanā japet .. 22..
अदयो वाधमो वापि सर्वपापान्वितोपि वा ॥ उषःपापान्वितो वापि मूर्खो वा पतितोपि वा ॥ २३॥
अदयः वा अधमः वा अपि सर्व-पाप-अन्वितः अपि वा ॥ उषः-पाप-अन्वितः वा अपि मूर्खः वा पतितः अपि वा ॥ २३॥
adayaḥ vā adhamaḥ vā api sarva-pāpa-anvitaḥ api vā .. uṣaḥ-pāpa-anvitaḥ vā api mūrkhaḥ vā patitaḥ api vā .. 23..
यस्मिन्देशेव सेन्नित्यं भूतिशासनसंयुतः ॥ सर्वतीर्थैश्च क्रतुभिः सांनिध्यं क्रियते सदा ॥ २४॥
यस्मिन् देशे इव सेत् नित्यम् भूति-शासन-संयुतः ॥ सर्व-तीर्थैः च क्रतुभिः सांनिध्यम् क्रियते सदा ॥ २४॥
yasmin deśe iva set nityam bhūti-śāsana-saṃyutaḥ .. sarva-tīrthaiḥ ca kratubhiḥ sāṃnidhyam kriyate sadā .. 24..
त्रिपुंड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः ॥ पापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः ॥ २५॥
त्रिपुंड्र-सहितः जीवः पूज्यः सर्वैः सुर-असुरैः ॥ पाप-अन्वितः अपि शुद्ध-आत्मा किम् पुनर् श्रद्धया युतः ॥ २५॥
tripuṃḍra-sahitaḥ jīvaḥ pūjyaḥ sarvaiḥ sura-asuraiḥ .. pāpa-anvitaḥ api śuddha-ātmā kim punar śraddhayā yutaḥ .. 25..
यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः ॥ गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः ॥ २६॥
यस्मिन् देशे शिव-ज्ञानी भूति-शासन-संयुतः ॥ गतः यदृच्छया अद्य अपि तस्मिन् तीर्थाः समागताः ॥ २६॥
yasmin deśe śiva-jñānī bhūti-śāsana-saṃyutaḥ .. gataḥ yadṛcchayā adya api tasmin tīrthāḥ samāgatāḥ .. 26..
बहुनात्र किमुक्तेन धार्यं भस्म सदा बुधैः ॥ लिंगार्चनं सदा कार्यं जप्यो मंत्रः षडक्षरः ॥ २७॥
बहुना अत्र किम् उक्तेन धार्यम् भस्म सदा बुधैः ॥ लिंग-अर्चनम् सदा कार्यम् जप्यः मंत्रः षडक्षरः ॥ २७॥
bahunā atra kim uktena dhāryam bhasma sadā budhaiḥ .. liṃga-arcanam sadā kāryam japyaḥ maṃtraḥ ṣaḍakṣaraḥ .. 27..
ब्रह्मणा विष्णुना वापि रुद्रे ण मुनिभिः सुरैः ॥ भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम् ॥ २८॥
ब्रह्मणा विष्णुना वा अपि रुद्रे ण मुनिभिः सुरैः ॥ भस्म-धारण-माहात्म्यम् न शक्यम् परिभाषितुम् ॥ २८॥
brahmaṇā viṣṇunā vā api rudre ṇa munibhiḥ suraiḥ .. bhasma-dhāraṇa-māhātmyam na śakyam paribhāṣitum .. 28..
इति वर्णाश्रमाचारो लुप्तवर्णक्रियोपि च ॥ पापात्सकृत्त्रिपुंड्रस्य धारणात्सोपि मुच्यते ॥ २९॥
इति वर्ण-आश्रम-आचारः लुप्त-वर्ण-क्रिया उपि च ॥ पापात् सकृत् त्रिपुंड्रस्य धारणात् सः अपि मुच्यते ॥ २९॥
iti varṇa-āśrama-ācāraḥ lupta-varṇa-kriyā upi ca .. pāpāt sakṛt tripuṃḍrasya dhāraṇāt saḥ api mucyate .. 29..
ये भस्मधारिणं त्यक्त्वा कर्म कुर्वंति मानवाः ॥ तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः १.२४. ॥ ३०॥
ये भस्म-धारिणम् त्यक्त्वा कर्म कुर्वंति मानवाः ॥ तेषाम् ना अस्ति विनिर्मोक्षः संसारात् जन्म-कोटिभिः।२४। ॥ ३०॥
ye bhasma-dhāriṇam tyaktvā karma kurvaṃti mānavāḥ .. teṣām nā asti vinirmokṣaḥ saṃsārāt janma-koṭibhiḥ.24. .. 30..
ते नाधीतं गुरोः सर्वं ते न सर्वमनुष्ठितम् ॥ येन विप्रेण शिरसि त्रिपुंड्रं भस्मना कृतम् ॥ ३१॥
ते न अधीतम् गुरोः सर्वम् ते न सर्वम् अनुष्ठितम् ॥ येन विप्रेण शिरसि त्रिपुंड्रम् भस्मना कृतम् ॥ ३१॥
te na adhītam guroḥ sarvam te na sarvam anuṣṭhitam .. yena vipreṇa śirasi tripuṃḍram bhasmanā kṛtam .. 31..
ये भस्मधारिणं दृष्ट्वा नराः कुर्वंति ताडनम् ॥ तेषां चंडालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ॥ ३२॥
ये भस्म-धारिणम् दृष्ट्वा नराः कुर्वंति ताडनम् ॥ तेषाम् चंडालतः जन्म ब्रह्मन् ऊह्यम् विपश्चिता ॥ ३२॥
ye bhasma-dhāriṇam dṛṣṭvā narāḥ kurvaṃti tāḍanam .. teṣām caṃḍālataḥ janma brahman ūhyam vipaścitā .. 32..
मानस्तोकेन मंत्रेण मंत्रितं भस्म धारयेत् ॥ ब्राह्मणः क्षत्रियश्चैव प्रोक्तेष्वंगेषु भक्तिमान् ॥ ३३॥
मान-स्तोकेन मंत्रेण मंत्रितम् भस्म धारयेत् ॥ ब्राह्मणः क्षत्रियः च एव प्रोक्तेषु अंगेषु भक्तिमान् ॥ ३३॥
māna-stokena maṃtreṇa maṃtritam bhasma dhārayet .. brāhmaṇaḥ kṣatriyaḥ ca eva prokteṣu aṃgeṣu bhaktimān .. 33..
वैश्यस्त्रियं बकेनैव शूद्र ः! पंचाक्षरेण तु ॥ अन्यासां विधवास्त्रीणां विधिः प्रोक्तश्च शूद्र वत् ॥ ३४॥
वैश्य-स्त्रियम् बकेन एव शूद्रः! पंच-अक्षरेण तु ॥ अन्यासाम् विधवा-स्त्रीणाम् विधिः प्रोक्तः च शूद्र-वत् ॥ ३४॥
vaiśya-striyam bakena eva śūdraḥ! paṃca-akṣareṇa tu .. anyāsām vidhavā-strīṇām vidhiḥ proktaḥ ca śūdra-vat .. 34..
पंचब्रह्मादिमनुभिर्गृहस्थस्य विधीयते ॥ त्रियंबकेन मनुना विधिर्वै ब्रह्मचारिणः ॥ ३५॥
पंच-ब्रह्म-आदि-मनुभिः गृहस्थस्य विधीयते ॥ त्रियंबकेन मनुना विधिः वै ब्रह्मचारिणः ॥ ३५॥
paṃca-brahma-ādi-manubhiḥ gṛhasthasya vidhīyate .. triyaṃbakena manunā vidhiḥ vai brahmacāriṇaḥ .. 35..
अघोरेणाथ मनुना विपिनस्थविधिः स्मृतः ॥ यतिस्तु प्रणवेनैव त्रिपुंड्रादीनि कारयेत् ॥ ३६॥
अघोरेण अथ मनुना विपिन-स्थ-विधिः स्मृतः ॥ यतिः तु प्रणवेन एव त्रिपुंड्र-आदीनि कारयेत् ॥ ३६॥
aghoreṇa atha manunā vipina-stha-vidhiḥ smṛtaḥ .. yatiḥ tu praṇavena eva tripuṃḍra-ādīni kārayet .. 36..
अतिवर्णाश्रमी नित्यं शिवोहं भावनात्परात् ॥ शिवयोगी च नियतमीशानेनापि धारयेत् ॥ ३७॥
अति वर्ण-आश्रमी नित्यम् शिवः उहम् भावनात् परात् ॥ शिव-योगी च नियतम् ईशानेन अपि धारयेत् ॥ ३७॥
ati varṇa-āśramī nityam śivaḥ uham bhāvanāt parāt .. śiva-yogī ca niyatam īśānena api dhārayet .. 37..
न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् ॥ अन्यैरपि यथाजीवैस्सदेति शिवशासनम् ॥ ३८॥
न त्याज्यम् सर्व-वर्णैः च भस्म-धारणम् उत्तमम् ॥ अन्यैः अपि यथा जीवैः सदा इति शिव-शासनम् ॥ ३८॥
na tyājyam sarva-varṇaiḥ ca bhasma-dhāraṇam uttamam .. anyaiḥ api yathā jīvaiḥ sadā iti śiva-śāsanam .. 38..
भस्मस्नानेन यावंतः कणाः स्वाण्गे प्रतिष्ठिताः ॥ तावंति शिवलिंगानि तनौ धत्ते हि धारकः ॥ ३९॥
भस्म-स्नानेन यावंतः कणाः स्व-अण्गे प्रतिष्ठिताः ॥ तावंति शिव-लिंगानि तनौ धत्ते हि धारकः ॥ ३९॥
bhasma-snānena yāvaṃtaḥ kaṇāḥ sva-aṇge pratiṣṭhitāḥ .. tāvaṃti śiva-liṃgāni tanau dhatte hi dhārakaḥ .. 39..
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा श्चापि च संकराः ॥ स्त्रियोथ विधवा बालाः प्राप्ताः पाखंडिकास्तथा १.२४. ॥ ४०॥
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः च अपि च संकराः ॥ स्त्रियः उथ विधवाः बालाः प्राप्ताः पाखंडिकाः तथा।२४। ॥ ४०॥
brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥ ca api ca saṃkarāḥ .. striyaḥ utha vidhavāḥ bālāḥ prāptāḥ pākhaṃḍikāḥ tathā.24. .. 40..
ब्रह्मचारी गृही वन्यः संन्यासी वा व्रती तथा ॥ नार्यो भस्म त्रिपुंड्रांका मुक्ता एव न संशयः ॥ ४१॥
ब्रह्मचारी गृही वन्यः संन्यासी वा व्रती तथा ॥ नार्यः भस्म त्रिपुंड्रांकाः अंकाः मुक्ताः एव न संशयः ॥ ४१॥
brahmacārī gṛhī vanyaḥ saṃnyāsī vā vratī tathā .. nāryaḥ bhasma tripuṃḍrāṃkāḥ aṃkāḥ muktāḥ eva na saṃśayaḥ .. 41..
ज्ञानाज्ञानधृतो वापि वह्निदाहसमो यथा ॥ ज्ञानाज्ञानधृतं भस्म पावयेत्सकलं नरम् ॥ ४२॥
ज्ञान-अज्ञान-धृतः वा अपि वह्नि-दाह-समः यथा ॥ ज्ञान-अज्ञान-धृतम् भस्म पावयेत् सकलम् नरम् ॥ ४२॥
jñāna-ajñāna-dhṛtaḥ vā api vahni-dāha-samaḥ yathā .. jñāna-ajñāna-dhṛtam bhasma pāvayet sakalam naram .. 42..
नाश्नीयाज्जलमन्नमल्पमपि वा भस्माक्षधृत्या विना ॥ भुक्त्वावाथ गृही वनीपतियतिर्वर्णी तथा संकरः ॥ एनोभुण्नरकं प्रयाति सत दागायत्रिजापेन तद्वर्णानां तु यतेस्तु मुख्यप्रणवाजपेन मुक्तंभवेत् ॥ ४३॥
न अश्नीयात् जलम् अन्नम् अल्पम् अपि वा भस्म-अक्षधृत्या विना ॥ भुक्त्वा अवाथ गृही वनीपति-यतिः वर्णी तथा संकरः ॥ प्रयाति तद्-वर्णानाम् तु यतेः तु मुख्य-प्रणव-आजपेन मुक्तम् भवेत् ॥ ४३॥
na aśnīyāt jalam annam alpam api vā bhasma-akṣadhṛtyā vinā .. bhuktvā avātha gṛhī vanīpati-yatiḥ varṇī tathā saṃkaraḥ .. prayāti tad-varṇānām tu yateḥ tu mukhya-praṇava-ājapena muktam bhavet .. 43..
त्रिपुंड्रं ये विनिंदंति निन्दन्ति शिवमेव ते ॥ धारयंति च ये भक्त्या धारयन्ति तमेव ते ॥ ४४॥
त्रिपुंड्रम् ये विनिन्दंति निन्दन्ति शिवम् एव ते ॥ धारयंति च ये भक्त्या धारयन्ति तम् एव ते ॥ ४४॥
tripuṃḍram ye vinindaṃti nindanti śivam eva te .. dhārayaṃti ca ye bhaktyā dhārayanti tam eva te .. 44..
धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ॥ धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ॥ ४५॥
धिक् भस्म-रहितम् भालम् धिक् ग्रामम् अशिव-आलयम् ॥ धिक् अनीश-अर्चनम् जन्म धिक् विद्याम् अशिव-आश्रयाम् ॥ ४५॥
dhik bhasma-rahitam bhālam dhik grāmam aśiva-ālayam .. dhik anīśa-arcanam janma dhik vidyām aśiva-āśrayām .. 45..
ये निंदंति महेश्वरं त्रिजगतामाधारभूतं हरं ये निन्दंति त्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने ॥ ते वै संकरसूकरासुरखरश्वक्रोष्टुकीटोपमा जाता एव भवंति पापपरमास्तेनारकाः केवलम् ॥ ४६॥
ये निंदंति महेश्वरम् त्रिजगताम् आधार-भूतम् हरम् ये निन्दंति त्रिपुंड्र-धारण-करम् दोषः तु तद्-दर्शने ॥ ते वै संकर-सूकर-असुर-खर-श्व-क्रोष्टु-कीट-उपमाः जाताः एव भवन्ति पाप-परमाः ते आरकाः केवलम् ॥ ४६॥
ye niṃdaṃti maheśvaram trijagatām ādhāra-bhūtam haram ye nindaṃti tripuṃḍra-dhāraṇa-karam doṣaḥ tu tad-darśane .. te vai saṃkara-sūkara-asura-khara-śva-kroṣṭu-kīṭa-upamāḥ jātāḥ eva bhavanti pāpa-paramāḥ te ārakāḥ kevalam .. 46..
ते दृष्ट्वा शशिभास्करौ निशि दिने स्वप्नेपि नो केवलं पश्यंतु श्रुतिरुद्र सूक्तजपतो मुच्येत तेनादृताः ॥ सत्संभाषणतो भवेद्धि नरकं निस्तारवानास्थितं ये भस्मादिविधारणं हि पुरुषं निंदंति मंदा हि ते ॥ ४७॥
ते दृष्ट्वा शशि-भास्करौ निशि दिने स्वप्ने पि नो केवलम् पश्यंतु श्रुति-रुद्र सूक्त-जपतः मुच्येत तेन आदृताः ॥ सत्-संभाषणतः भवेत् हि नरकम् ये भस्म-आदि-विधारणम् हि पुरुषम् निंदंति मंदाः हि ते ॥ ४७॥
te dṛṣṭvā śaśi-bhāskarau niśi dine svapne pi no kevalam paśyaṃtu śruti-rudra sūkta-japataḥ mucyeta tena ādṛtāḥ .. sat-saṃbhāṣaṇataḥ bhavet hi narakam ye bhasma-ādi-vidhāraṇam hi puruṣam niṃdaṃti maṃdāḥ hi te .. 47..
न तांत्रिकस्त्वधिकृतो नोर्द्ध्वपुंड्रधरो मुने ॥ संतप्तचक्रचिह्नोत्र शिवयज्ञे बहिष्कृतः ॥ ४८॥
न तांत्रिकः तु अधिकृतः न ऊर्द्ध्व-पुंड्र-धरः मुने ॥ संतप्त-चक्र-चिह्ना उत्र शिव-यज्ञे बहिष्कृतः ॥ ४८॥
na tāṃtrikaḥ tu adhikṛtaḥ na ūrddhva-puṃḍra-dharaḥ mune .. saṃtapta-cakra-cihnā utra śiva-yajñe bahiṣkṛtaḥ .. 48..
तत्रैते बहवो लोका बृहज्जाबालचोदिताः ॥ ते विचार्याः प्रयत्नेन ततो भस्मरतो भवेत् ॥ ४९॥
तत्र एते बहवः लोकाः बृहज्जाबाल-चोदिताः ॥ ते विचार्याः प्रयत्नेन ततस् भस्म-रतः भवेत् ॥ ४९॥
tatra ete bahavaḥ lokāḥ bṛhajjābāla-coditāḥ .. te vicāryāḥ prayatnena tatas bhasma-rataḥ bhavet .. 49..
यच्चंदनैश्चंदनकेपि मिश्रं धार्यं हि भस्मैव त्रिपुंड्रभस्मना ॥ विभूतिभालोपरि किंचनापि धार्यं सदा नो यदि संतिबुद्धयः १.२४. ॥ ५०॥
यत् चंदनैः चंदनके पि मिश्रम् धार्यम् हि भस्म एव त्रिपुंड्र-भस्मना ॥ विभूति-भाल-उपरि किंचन अपि धार्यम् सदा नः यदि संतिबुद्धयः।२४। ॥ ५०॥
yat caṃdanaiḥ caṃdanake pi miśram dhāryam hi bhasma eva tripuṃḍra-bhasmanā .. vibhūti-bhāla-upari kiṃcana api dhāryam sadā naḥ yadi saṃtibuddhayaḥ.24. .. 50..
स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं भस्म द्विजादिभिरथो विधवाभिरेवम् ॥ तद्वत्सदाश्रमवतां विशदाविभूतिर्धार्यापवर्गफलदा सकलाघहन्त्री ॥ ५१॥
स्त्रीभिः त्रिपुण्ड्रम् अलक-अवधि धारणीयम् भस्म द्विज-आदिभिः अथो विधवाभिः एवम् ॥ तद्वत् सत्-आश्रमवताम् विशदा अ विभूतिः धार्या अपवर्ग-फल-दा सकल-अघ-हन्त्री ॥ ५१॥
strībhiḥ tripuṇḍram alaka-avadhi dhāraṇīyam bhasma dvija-ādibhiḥ atho vidhavābhiḥ evam .. tadvat sat-āśramavatām viśadā a vibhūtiḥ dhāryā apavarga-phala-dā sakala-agha-hantrī .. 51..
त्रिपुण्ड्रं कुरुते यस्तु भस्मना विधिपूर्वकम् ॥ महापातकसंघातैर्मुच्यते चोपपातकैः ॥ ५२॥
त्रिपुण्ड्रम् कुरुते यः तु भस्मना विधि-पूर्वकम् ॥ महापातक-संघातैः मुच्यते च उपपातकैः ॥ ५२॥
tripuṇḍram kurute yaḥ tu bhasmanā vidhi-pūrvakam .. mahāpātaka-saṃghātaiḥ mucyate ca upapātakaiḥ .. 52..
ब्रह्मचारी गृहस्थो वा वानप्रस्थोथ वा यतिः ॥ ब्रह्मक्षत्त्राश्च विट्शूद्रा स्तथान्ये पतिताधमाः ॥ ५३॥
ब्रह्मचारी गृहस्थः वा वानप्रस्था उथ वा यतिः ॥ ब्रह्म-क्षत्त्राः च विश्-शूद्राः तथा अन्ये पतित-अधमाः ॥ ५३॥
brahmacārī gṛhasthaḥ vā vānaprasthā utha vā yatiḥ .. brahma-kṣattrāḥ ca viś-śūdrāḥ tathā anye patita-adhamāḥ .. 53..
उद्धूलनं त्रिपुंड्रं च धृत्वा शुद्धा भवंति च ॥ भस्मनो विधिना सम्यक्पापराशिं विहाय च ॥ ५४॥
उद्धूलनम् त्रिपुंड्रम् च धृत्वा शुद्धाः भवन्ति च ॥ भस्मनः विधिना सम्यक् पाप-राशिम् विहाय च ॥ ५४॥
uddhūlanam tripuṃḍram ca dhṛtvā śuddhāḥ bhavanti ca .. bhasmanaḥ vidhinā samyak pāpa-rāśim vihāya ca .. 54..
भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः ॥ वीरहत्याश्वहत्याभ्यां मुच्यते नात्र संशयः ॥ ५५॥
भस्म-धारी विशेषेण स्त्री-गोहत्या-आदि-पातकैः ॥ वीर-हत्या-अश्व-हत्याभ्याम् मुच्यते न अत्र संशयः ॥ ५५॥
bhasma-dhārī viśeṣeṇa strī-gohatyā-ādi-pātakaiḥ .. vīra-hatyā-aśva-hatyābhyām mucyate na atra saṃśayaḥ .. 55..
परद्र व्यापहरणं परदाराभिमर्शनम् ॥ परनिन्दा परक्षेत्रहरणं परपीडनम् ॥ ५६॥
पर-द्र-व्य-अपहरणम् पर-दार-अभिमर्शनम् ॥ पर-निन्दा पर-क्षेत्र-हरणम् पर-पीडनम् ॥ ५६॥
para-dra-vya-apaharaṇam para-dāra-abhimarśanam .. para-nindā para-kṣetra-haraṇam para-pīḍanam .. 56..
सस्यारामादिहरणं गृहदाहादिकर्म च ॥ गोहिरण्यमहिष्यादितिलकम्बलवाससाम् ॥ ५७॥
सस्य-आराम-आदि-हरणम् गृह-दाह-आदि-कर्म च ॥ गो-हिरण्य-महिषी-आदि-तिल-कम्बल-वाससाम् ॥ ५७॥
sasya-ārāma-ādi-haraṇam gṛha-dāha-ādi-karma ca .. go-hiraṇya-mahiṣī-ādi-tila-kambala-vāsasām .. 57..
अन्नधान्यजलादीनां नीचेभ्यश्च परिग्रहः ॥ दशवेश्यामतंगीषु वृषलीषु नटीषु च ॥ ५८॥
अन्न-धान्य-जल-आदीनाम् नीचेभ्यः च परिग्रहः ॥ दश-वेश्या-मतंगीषु वृषलीषु नटीषु च ॥ ५८॥
anna-dhānya-jala-ādīnām nīcebhyaḥ ca parigrahaḥ .. daśa-veśyā-mataṃgīṣu vṛṣalīṣu naṭīṣu ca .. 58..
रजस्वलासु कन्यासु विधवासु च मैथुनम् ॥ मांसचर्मरसादीनां लवणस्य च विक्रयः ॥ ५९॥
रजस्वलासु कन्यासु विधवासु च मैथुनम् ॥ मांस-चर्म-रस-आदीनाम् लवणस्य च विक्रयः ॥ ५९॥
rajasvalāsu kanyāsu vidhavāsu ca maithunam .. māṃsa-carma-rasa-ādīnām lavaṇasya ca vikrayaḥ .. 59..
पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् ॥ एवमादीन्यसंख्यानि पापानि विविधानि च ॥ सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात् १.२४. ॥ ६०॥
पैशुन्यम् कूट-वादः च साक्षि-मिथ्या अभिलाषिणाम् ॥ एवमादीनि असंख्यानि पापानि विविधानि च ॥ सद्यस् एव विनश्यंति त्रिपुंड्रस्य च धारणात्।२४। ॥ ६०॥
paiśunyam kūṭa-vādaḥ ca sākṣi-mithyā abhilāṣiṇām .. evamādīni asaṃkhyāni pāpāni vividhāni ca .. sadyas eva vinaśyaṃti tripuṃḍrasya ca dhāraṇāt.24. .. 60..
शिवद्र व्यापहरणं शिवनिंदा च कुत्रचित् ॥ निंदा च शिवभक्तानां प्रायश्चित्तैर्न शुद्ध्यति ॥ ६१॥
शिव-द्र-व्य-अपहरणम् शिव-निंदा च कुत्रचिद् ॥ निंदा च शिव-भक्तानाम् प्रायश्चित्तैः न शुद्धि-अति ॥ ६१॥
śiva-dra-vya-apaharaṇam śiva-niṃdā ca kutracid .. niṃdā ca śiva-bhaktānām prāyaścittaiḥ na śuddhi-ati .. 61..
रुद्रा क्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम् ॥ सचांडालोपि संपूज्यस्सर्ववर्णोत्तमोत्तमः ॥ ६२॥
रुद्रा क्षम् यस्य गात्रेषु ललाटे तु त्रिपंड्रकम् ॥ संपूज्यः सर्व-वर्ण-उत्तम-उत्तमः ॥ ६२॥
rudrā kṣam yasya gātreṣu lalāṭe tu tripaṃḍrakam .. saṃpūjyaḥ sarva-varṇa-uttama-uttamaḥ .. 62..
यानि तीर्थानि लोकेस्मिन्गंगाद्यास्सरितश्च याः ॥ स्नातो भवति सर्वत्र ललाटे यस्त्रिपुंड्रकम् ॥ ६३॥
यानि तीर्थानि लोके इस्मिन् गंगा-आद्याः सरितः च याः ॥ स्नातः भवति सर्वत्र ललाटे यः त्रिपुंड्रकम् ॥ ६३॥
yāni tīrthāni loke ismin gaṃgā-ādyāḥ saritaḥ ca yāḥ .. snātaḥ bhavati sarvatra lalāṭe yaḥ tripuṃḍrakam .. 63..
सप्तकोटि महामंत्राः पंचाक्षरपुरस्सराः ॥ तथान्ये कोटिशो मंत्राः शैवकैवल्यहेतवः ॥ ६४॥
सप्तकोटि महामंत्राः पंचाक्षर-पुरस्सराः ॥ तथा अन्ये कोटिशस् मंत्राः शैव-कैवल्य-हेतवः ॥ ६४॥
saptakoṭi mahāmaṃtrāḥ paṃcākṣara-purassarāḥ .. tathā anye koṭiśas maṃtrāḥ śaiva-kaivalya-hetavaḥ .. 64..
अन्ये मंत्राश्च देवानां सर्वसौख्यकरा मुने ॥ ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुंड्रकम् ॥ ६५॥
अन्ये मंत्राः च देवानाम् सर्व-सौख्य-कराः मुने ॥ ते सर्वे तस्य वश्याः स्युः यः बिभर्ति त्रिपुंड्रकम् ॥ ६५॥
anye maṃtrāḥ ca devānām sarva-saukhya-karāḥ mune .. te sarve tasya vaśyāḥ syuḥ yaḥ bibharti tripuṃḍrakam .. 65..
सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम् ॥ स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुंड्रकृत् ॥ ६६॥
सहस्रम् पूर्व-जातानाम् सहस्रम् जनयिष्यताम् ॥ स्व-वंश-जानाम् ज्ञातीनाम् उद्धरेत् यः त्रिपुंड्र-कृत् ॥ ६६॥
sahasram pūrva-jātānām sahasram janayiṣyatām .. sva-vaṃśa-jānām jñātīnām uddharet yaḥ tripuṃḍra-kṛt .. 66..
इह भुक्त्वा खिलान्भोगान्दीर्घायुर्व्याधिवर्जितः ॥ जीवितांते च मरणं सुखेनैव प्रपद्यते ॥ ६७॥
इह भुक्त्वा खिलान् भोगान् दीर्घ-आयुः-व्याधि-वर्जितः ॥ जीवित-अंते च मरणम् सुखेन एव प्रपद्यते ॥ ६७॥
iha bhuktvā khilān bhogān dīrgha-āyuḥ-vyādhi-varjitaḥ .. jīvita-aṃte ca maraṇam sukhena eva prapadyate .. 67..
अष्टैश्वर्यगुणोपेतं प्राप्य दिव्यवपुः शिवम् ॥ दिव्यं विमानमारुह्य दिव्यत्रिदशसेवितम् ॥ ६८॥
अष्ट-ऐश्वर्य-गुण-उपेतम् प्राप्य दिव्य-वपुः शिवम् ॥ दिव्यम् विमानम् आरुह्य दिव्य-त्रिदश-सेवितम् ॥ ६८॥
aṣṭa-aiśvarya-guṇa-upetam prāpya divya-vapuḥ śivam .. divyam vimānam āruhya divya-tridaśa-sevitam .. 68..
विद्याधराणां सर्वेषां गंधर्वाणां महौजसाम् ॥ इंद्रा दिलोकपालानां लोकेषु च यथाक्रमम् ॥ ६९॥
विद्याधराणाम् सर्वेषाम् गंधर्वाणाम् महा-ओजसाम् ॥ इंद्र-आदि-लोकपालानाम् लोकेषु च यथाक्रमम् ॥ ६९॥
vidyādharāṇām sarveṣām gaṃdharvāṇām mahā-ojasām .. iṃdra-ādi-lokapālānām lokeṣu ca yathākramam .. 69..
भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च ॥ ब्रह्मणः पदमासाद्य तत्र कन्याशतं रमेत् १.२४. ॥ ७०॥
भुक्त्वा भोगान् सु विपुलान् प्रजा-ईशानाम् पदेषु च ॥ ब्रह्मणः पदम् आसाद्य तत्र कन्या-शतम् रमेत्।२४। ॥ ७०॥
bhuktvā bhogān su vipulān prajā-īśānām padeṣu ca .. brahmaṇaḥ padam āsādya tatra kanyā-śatam ramet.24. .. 70..
तत्र ब्रह्मायुषो मानं भुक्त्वा भोगाननेकशः ॥ विष्णोर्लोके लभेद्भोगं यावद्ब्रह्मशतात्ययः ॥ ७१॥
तत्र ब्रह्म-आयुषः मानम् भुक्त्वा भोगान् अनेकशस् ॥ विष्णोः लोके लभेत् भोगम् यावत् ब्रह्म-शत-अत्ययः ॥ ७१॥
tatra brahma-āyuṣaḥ mānam bhuktvā bhogān anekaśas .. viṣṇoḥ loke labhet bhogam yāvat brahma-śata-atyayaḥ .. 71..
शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम् ॥ शिवसायुज्यमाप्नोति संशयो नात्र जायते ॥ ७२॥
शिव-लोकम् ततस् प्राप्य लब्ध्वा इष्टम् कामम् अक्षयम् ॥ शिव-सायुज्यम् आप्नोति संशयः न अत्र जायते ॥ ७२॥
śiva-lokam tatas prāpya labdhvā iṣṭam kāmam akṣayam .. śiva-sāyujyam āpnoti saṃśayaḥ na atra jāyate .. 72..
सर्वोपनिषदां सारं समालोक्य मुहुर्मुहुः ॥ इदमेव हि निर्णीतं परं श्रेयस्त्रिपुंड्रकम् ॥ ७३॥
सर्व-उपनिषदाम् सारम् समालोक्य मुहुर् मुहुर् ॥ इदम् एव हि निर्णीतम् परम् श्रेयः त्रिपुंड्रकम् ॥ ७३॥
sarva-upaniṣadām sāram samālokya muhur muhur .. idam eva hi nirṇītam param śreyaḥ tripuṃḍrakam .. 73..
विभूतिं निंदते यो वै ब्राह्मणः सोन्यजातकः ॥ याति च नरके घोरे यावद्ब्रह्मा चतुर्मुखः ॥ ७४॥
विभूतिम् निंदते यः वै ब्राह्मणः सः अन्य-जातकः ॥ याति च नरके घोरे यावत् ब्रह्मा चतुर्मुखः ॥ ७४॥
vibhūtim niṃdate yaḥ vai brāhmaṇaḥ saḥ anya-jātakaḥ .. yāti ca narake ghore yāvat brahmā caturmukhaḥ .. 74..
श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने ॥ धृतत्रिपुंड्रः पूतात्मा मृत्युं जयति मानवः ॥ ७५॥
श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुर-अर्चने ॥ धृत-त्रिपुंड्रः पूत-आत्मा मृत्युम् जयति मानवः ॥ ७५॥
śrāddhe yajñe jape home vaiśvadeve sura-arcane .. dhṛta-tripuṃḍraḥ pūta-ātmā mṛtyum jayati mānavaḥ .. 75..
जलस्नानं मलत्यागे भस्मस्नानं सदा शुचि ॥ मंत्रस्नानं हरेत्पापं ज्ञानस्नाने परं पदम् ॥ ७६॥
जल-स्नानम् मल-त्यागे भस्म-स्नानम् सदा शुचि ॥ मंत्रस्नानम् हरेत् पापम् ज्ञान-स्नाने परम् पदम् ॥ ७६॥
jala-snānam mala-tyāge bhasma-snānam sadā śuci .. maṃtrasnānam haret pāpam jñāna-snāne param padam .. 76..
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥ तत्फलं समवाप्नोति भस्मस्नानकरो नरः ॥ ७७॥
सर्व-तीर्थेषु यत् पुण्यम् सर्व-तीर्थेषु यत् फलम् ॥ तत् फलम् समवाप्नोति भस्म-स्नान-करः नरः ॥ ७७॥
sarva-tīrtheṣu yat puṇyam sarva-tīrtheṣu yat phalam .. tat phalam samavāpnoti bhasma-snāna-karaḥ naraḥ .. 77..
भस्मस्नानं परं तीर्थं गंगास्नानं दिने दिने ॥ भस्मरूपी शिवः साक्षाद्भस्म त्रैलोक्यपावनम् ॥ ७८॥
भस्म-स्नानम् परम् तीर्थम् गंगा-स्नानम् दिने दिने ॥ भस्म-रूपी शिवः साक्षात् भस्म त्रैलोक्य-पावनम् ॥ ७८॥
bhasma-snānam param tīrtham gaṃgā-snānam dine dine .. bhasma-rūpī śivaḥ sākṣāt bhasma trailokya-pāvanam .. 78..
न तदूनं न तद्ध्यानं न तद्दानं जपो न सः ॥ त्रिपुंड्रेण विनायेन विप्रेण यदनुष्ठितम् ॥ ७९॥
न तत् ऊनम् न तत् ध्यानम् न तत् दानम् जपः न सः ॥ त्रिपुंड्रेण विनायेन विप्रेण यत् अनुष्ठितम् ॥ ७९॥
na tat ūnam na tat dhyānam na tat dānam japaḥ na saḥ .. tripuṃḍreṇa vināyena vipreṇa yat anuṣṭhitam .. 79..
वानप्रस्थस्य कन्यानां दीक्षाहीननृणां तथा ॥ मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् १.२४. ॥ ८०॥
वानप्रस्थस्य कन्यानाम् दीक्षा-हीन-नृणाम् तथा ॥ मध्याह्नात् प्राक् जलैः युक्तम् परतस् जल-वर्जितम्।२४। ॥ ८०॥
vānaprasthasya kanyānām dīkṣā-hīna-nṛṇām tathā .. madhyāhnāt prāk jalaiḥ yuktam paratas jala-varjitam.24. .. 80..
एवं त्रिपुंड्रं यः कुर्य्यान्नित्यं नियतमानसः ॥ शिवभक्तः सविज्ञेयो भुक्तिं मुक्तिं च विंदति ॥ ८१॥
एवम् त्रिपुंड्रम् यः कुर्य्यात् नित्यम् नियत-मानसः ॥ शिव-भक्तः स विज्ञेयः भुक्तिम् मुक्तिम् च विंदति ॥ ८१॥
evam tripuṃḍram yaḥ kuryyāt nityam niyata-mānasaḥ .. śiva-bhaktaḥ sa vijñeyaḥ bhuktim muktim ca viṃdati .. 81..
यस्यांगेनैव रुद्रा क्ष एकोपि बहुपुण्यदः ॥ तस्य जन्मनिरर्थं स्यात्त्रिपुंड्ररहितो यदि ॥ ८२॥
यस्य अंगेन एव रुद्राः क्षः एकः अपि बहु-पुण्य-दः ॥ तस्य जन्म-निरर्थम् स्यात् त्रिपुंड्र-रहितः यदि ॥ ८२॥
yasya aṃgena eva rudrāḥ kṣaḥ ekaḥ api bahu-puṇya-daḥ .. tasya janma-nirartham syāt tripuṃḍra-rahitaḥ yadi .. 82..
एवं त्रिपुंड्रमाहात्म्यं समासात्कथितं मया ॥ रहस्यं सर्वजंतूनां गोपनीयमिदं त्वया ॥ ८३॥
एवम् त्रिपुंड्र-माहात्म्यम् समासात् कथितम् मया ॥ रहस्यम् सर्व-जंतूनाम् गोपनीयम् इदम् त्वया ॥ ८३॥
evam tripuṃḍra-māhātmyam samāsāt kathitam mayā .. rahasyam sarva-jaṃtūnām gopanīyam idam tvayā .. 83..
तिस्रो रेखा भवंत्येव स्थानेषु मुनिपुंगवाः ॥ ललाटादिषु सर्वेषु यथोक्तेषु बुधैर्मुने ॥ ८४॥
तिस्रः रेखाः भवन्ति एव स्थानेषु मुनि-पुंगवाः ॥ ललाट-आदिषु सर्वेषु यथा उक्तेषु बुधैः मुने ॥ ८४॥
tisraḥ rekhāḥ bhavanti eva sthāneṣu muni-puṃgavāḥ .. lalāṭa-ādiṣu sarveṣu yathā ukteṣu budhaiḥ mune .. 84..
भ्रुवोर्मध्यं समारभ्य यावदंतो भवेद्भ्रुवोः ॥ तावत्प्रमाणं संधार्यं ललाटे च त्रिपुंड्रकम् ॥ ८५॥
भ्रुवोः मध्यम् समारभ्य यावत् अन्तः भवेत् भ्रुवोः ॥ तावत्-प्रमाणम् संधार्यम् ललाटे च त्रिपुंड्रकम् ॥ ८५॥
bhruvoḥ madhyam samārabhya yāvat antaḥ bhavet bhruvoḥ .. tāvat-pramāṇam saṃdhāryam lalāṭe ca tripuṃḍrakam .. 85..
मध्यमानामिकांगुल्या मध्ये तु प्रतिलोमतः ॥ अंगुष्ठेन कृता रेखा त्रिपुंड्राख्या भिधीयते ॥ ८६॥
मध्यमा-अनामिका-अंगुल्या मध्ये तु प्रतिलोमतः ॥ अंगुष्ठेन कृता रेखा त्रिपुंड्र-आख्या भिधीयते ॥ ८६॥
madhyamā-anāmikā-aṃgulyā madhye tu pratilomataḥ .. aṃguṣṭhena kṛtā rekhā tripuṃḍra-ākhyā bhidhīyate .. 86..
मध्येंगुलिभिरादाय तिसृभिर्भस्म यत्नतः ॥ त्रिपुण्ड्रधारयेद्भक्त्या भुक्तिमुक्तिप्रदं परम् ॥ ८७॥
मध्य-इंगुलिभिः आदाय तिसृभिः भस्म यत्नतः ॥ त्रिपुण्ड्र-धारयेत् भक्त्या भुक्ति-मुक्ति-प्रदम् परम् ॥ ८७॥
madhya-iṃgulibhiḥ ādāya tisṛbhiḥ bhasma yatnataḥ .. tripuṇḍra-dhārayet bhaktyā bhukti-mukti-pradam param .. 87..
तिसृणामपि रेखानां प्रत्येकं नवदेवताः ॥ सर्वत्रांगेषु ता वक्ष्ये सावधानतया शृणु ॥ ८८॥
तिसृणाम् अपि रेखानाम् प्रत्येकम् नव-देवताः ॥ सर्वत्र अंगेषु ताः वक्ष्ये सावधान-तया शृणु ॥ ८८॥
tisṛṇām api rekhānām pratyekam nava-devatāḥ .. sarvatra aṃgeṣu tāḥ vakṣye sāvadhāna-tayā śṛṇu .. 88..
अकारो गार्हपत्याग्निर्भूधर्मश्च रजोगुणः ॥ ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च ॥ ८९॥
अकारः गार्हपत्य-अग्निः भू-धर्मः च रजः-गुणः ॥ ऋग्वेदः च क्रिया-शक्तिः प्रातःसवनम् एव च ॥ ८९॥
akāraḥ gārhapatya-agniḥ bhū-dharmaḥ ca rajaḥ-guṇaḥ .. ṛgvedaḥ ca kriyā-śaktiḥ prātaḥsavanam eva ca .. 89..
महदेवश्च रेखायाः प्रथमायाश्च देवता ॥ विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः १.२४. ॥ ९०॥
महदेवः च रेखायाः प्रथमायाः च देवता ॥ विज्ञेयाः मुनि-शार्दूलाः शिव-दीक्षा-परायणैः।२४। ॥ ९०॥
mahadevaḥ ca rekhāyāḥ prathamāyāḥ ca devatā .. vijñeyāḥ muni-śārdūlāḥ śiva-dīkṣā-parāyaṇaiḥ.24. .. 90..
उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा ॥ मध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ ॥ ९१॥
उकारः दक्षिणाग्निः च नभः तत्त्वम् यजुः तथा ॥ मध्यंदिनम् च सवनम् इच्छा-शक्ति-अंतर-आत्मकौ ॥ ९१॥
ukāraḥ dakṣiṇāgniḥ ca nabhaḥ tattvam yajuḥ tathā .. madhyaṃdinam ca savanam icchā-śakti-aṃtara-ātmakau .. 91..
महेश्वरश्च रेखाया द्वितीयायाश्च देवता ॥ विज्ञेया मुनिशार्दूल शिवदीक्षापरायणैः ॥ ९२॥
महेश्वरः च रेखायाः द्वितीयायाः च देवता ॥ विज्ञेया मुनि-शार्दूल शिव-दीक्षा-परायणैः ॥ ९२॥
maheśvaraḥ ca rekhāyāḥ dvitīyāyāḥ ca devatā .. vijñeyā muni-śārdūla śiva-dīkṣā-parāyaṇaiḥ .. 92..
मकाराहवनीयौ च परमात्मा तमोदिवौ ॥ ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ॥ ९३॥
मकार-आहवनीयौ च परमात्मा तमः-दिवौ ॥ ज्ञानशक्तिः सामवेदः तृतीयम् सवनम् तथा ॥ ९३॥
makāra-āhavanīyau ca paramātmā tamaḥ-divau .. jñānaśaktiḥ sāmavedaḥ tṛtīyam savanam tathā .. 93..
शिवश्चैव च रेखायास्तृतियायाश्च देवता ॥ विज्ञेया मुनिशार्दूल शिवदीक्षापरायणौ ॥ ९४॥
शिवः च एव च रेखायाः तृतियायाः च देवता ॥ विज्ञेया मुनि-शार्दूल शिव-दीक्षा-परायणौ ॥ ९४॥
śivaḥ ca eva ca rekhāyāḥ tṛtiyāyāḥ ca devatā .. vijñeyā muni-śārdūla śiva-dīkṣā-parāyaṇau .. 94..
एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः ॥ त्रिपुंड्रं धारयेच्छुद्धो भुक्तिं मुक्तिं च विंदति ॥ ९५॥
एवम् नित्यम् नमस्कृत्य सत्-भक्त्या स्थानदेवताः ॥ त्रिपुंड्रम् धारयेत् शुद्धः भुक्तिम् मुक्तिम् च विंदति ॥ ९५॥
evam nityam namaskṛtya sat-bhaktyā sthānadevatāḥ .. tripuṃḍram dhārayet śuddhaḥ bhuktim muktim ca viṃdati .. 95..
इत्युक्ताः स्थानदेवाश्च सर्वांगेषु मुनीश्वरः ॥ तेषां संबंधिनो भक्त्या स्थानानि शृणु सांप्रतम् ॥ ९६॥
इति उक्ताः स्थानदेवाः च सर्व-अंगेषु मुनि-ईश्वरः ॥ तेषाम् संबंधिनः भक्त्या स्थानानि शृणु सांप्रतम् ॥ ९६॥
iti uktāḥ sthānadevāḥ ca sarva-aṃgeṣu muni-īśvaraḥ .. teṣām saṃbaṃdhinaḥ bhaktyā sthānāni śṛṇu sāṃpratam .. 96..
द्वात्रिंशत्स्थानके वार्द्धषोडशस्थानकेपि च ॥ अष्टस्थाने तथा चैव पंचस्थानेपि नान्यसेत् ॥ ९७॥
द्वात्रिंशत्-स्थानके च ॥ अष्ट-स्थाने तथा च एव पंच-स्थाने अपि न अन्यसेत् ॥ ९७॥
dvātriṃśat-sthānake ca .. aṣṭa-sthāne tathā ca eva paṃca-sthāne api na anyaset .. 97..
उत्तमांगे ललाटे च कर्णयोर्नेत्रयोस्तथा ॥ नासावक्त्रगलेष्वेवं हस्तद्वय अतः परम् ॥ ९८॥
उत्तमांगे ललाटे च कर्णयोः नेत्रयोः तथा ॥ नासा-वक्त्र-गलेषु एवम् हस्त-द्वय अतस् परम् ॥ ९८॥
uttamāṃge lalāṭe ca karṇayoḥ netrayoḥ tathā .. nāsā-vaktra-galeṣu evam hasta-dvaya atas param .. 98..
कूर्परे मणिबंधे च हृदये पार्श्वयोर्द्वयोः ॥ नाभौ मुष्कद्वये चैवमूर्वोर्गुल्फे च जानुनि ॥ ९९॥
कूर्परे मणिबंधे च हृदये पार्श्वयोः द्वयोः ॥ नाभौ मुष्क-द्वये च एवम् ऊर्वोः गुल्फे च जानुनि ॥ ९९॥
kūrpare maṇibaṃdhe ca hṛdaye pārśvayoḥ dvayoḥ .. nābhau muṣka-dvaye ca evam ūrvoḥ gulphe ca jānuni .. 99..
जंघाद्वयेपदद्वन्द्वे द्वात्रिंशत्स्थानमुत्तमम् ॥ अग्न्यब्भूवायुदिग्देशदिक्पालान्वसुभिः सह १.२४. ॥ १००॥
जंघा-द्वये पद-द्वन्द्वे द्वात्रिंशत्-स्थानम् उत्तमम् ॥ अग्नि-अप्-भू-वायु-दिश्-देश-दिक्पालान् वसुभिः सह।२४। ॥ १००॥
jaṃghā-dvaye pada-dvandve dvātriṃśat-sthānam uttamam .. agni-ap-bhū-vāyu-diś-deśa-dikpālān vasubhiḥ saha.24. .. 100..
धरा ध्रुवश्च सोमश्च अपश्चेवानिलोनलः ॥ प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः ॥ १०१॥
धरा ध्रुवः च सोमः च अपः च इव अनिल-उनलः ॥ प्रत्यूषः च प्रभासः च वसवः उष्टौ प्रकीर्तिताः ॥ १०१॥
dharā dhruvaḥ ca somaḥ ca apaḥ ca iva anila-unalaḥ .. pratyūṣaḥ ca prabhāsaḥ ca vasavaḥ uṣṭau prakīrtitāḥ .. 101..
एतेषां नाममात्रेण त्रिपुंड्रं धारयेद्बुधाः ॥ कुर्याद्वा षोडशस्थाने त्रिपुण्ड्रं तु समाहितः ॥ १०२॥
एतेषाम् नाम-मात्रेण त्रिपुंड्रम् धारयेत् बुधाः ॥ कुर्यात् वा षोडश-स्थाने त्रिपुण्ड्रम् तु समाहितः ॥ १०२॥
eteṣām nāma-mātreṇa tripuṃḍram dhārayet budhāḥ .. kuryāt vā ṣoḍaśa-sthāne tripuṇḍram tu samāhitaḥ .. 102..
शीर्षके च ललाटेच कंठे चांसद्वये भुजे ॥ कूर्परे मणिबंधे च हृदये नाभिपार्श्वके ॥ १०३॥
शीर्षके च ललाटे च कंठे च अंस-द्वये भुजे ॥ कूर्परे मणिबंधे च हृदये नाभि-पार्श्वके ॥ १०३॥
śīrṣake ca lalāṭe ca kaṃṭhe ca aṃsa-dvaye bhuje .. kūrpare maṇibaṃdhe ca hṛdaye nābhi-pārśvake .. 103..
पृष्ठे चैवं प्रतिष्ठाय यजेत्तत्राश्विदैवते ॥ शिवशक्तिं तथा रुद्र मीशं नारदमेव च ॥ १०४॥
पृष्ठे च एवम् प्रतिष्ठाय यजेत् तत्र अश्वि-दैवते ॥ शिव-शक्तिम् तथा रुद्र मीशम् नारदम् एव च ॥ १०४॥
pṛṣṭhe ca evam pratiṣṭhāya yajet tatra aśvi-daivate .. śiva-śaktim tathā rudra mīśam nāradam eva ca .. 104..
वामादिनवशक्तीश्च एताः षोडशदेवताः ॥ नासत्यो दस्रकश्चैव अश्विनौ द्वौ प्रकीर्तितौ ॥ १०५॥
वाम-आदि-नव-शक्तीः च एताः षोडश-देवताः ॥ नासत्यः दस्रकः च एव अश्विनौ द्वौ प्रकीर्तितौ ॥ १०५॥
vāma-ādi-nava-śaktīḥ ca etāḥ ṣoḍaśa-devatāḥ .. nāsatyaḥ dasrakaḥ ca eva aśvinau dvau prakīrtitau .. 105..
अथवा मूर्द्ध्नि केशे च कर्मयोर्वदने तथा ॥ बाहुद्वये च हृदये नाभ्यामूरुयुगे तथा ॥ १०६॥
अथवा मूर्द्ध्नि केशे च कर्मयोः वदने तथा ॥ बाहु-द्वये च हृदये नाभ्याम् ऊरु-युगे तथा ॥ १०६॥
athavā mūrddhni keśe ca karmayoḥ vadane tathā .. bāhu-dvaye ca hṛdaye nābhyām ūru-yuge tathā .. 106..
जानुद्वये च पदयोः पृष्ठभागे च षोडश ॥ शिवश्चन्द्र श्च रुद्र ः! को विघ्नेशो विष्णुरेव वा ॥ १०७॥
जानु-द्वये च पदयोः पृष्ठभागे च षोडश ॥ शिवः चन्द्रः च रुद्रः! कः विघ्नेशः विष्णुः एव वा ॥ १०७॥
jānu-dvaye ca padayoḥ pṛṣṭhabhāge ca ṣoḍaśa .. śivaḥ candraḥ ca rudraḥ! kaḥ vighneśaḥ viṣṇuḥ eva vā .. 107..
श्रीश्चैव हृदये शम्भुस्तथा नाभौ प्रजापतिः ॥ नागश्च नागकन्याश्च उभयोरृषिकन्यकाः ॥ १०८॥
श्रीः च एव हृदये शम्भुः तथा नाभौ प्रजापतिः ॥ नागः च नाग-कन्याः च उभयोः ऋषि-कन्यकाः ॥ १०८॥
śrīḥ ca eva hṛdaye śambhuḥ tathā nābhau prajāpatiḥ .. nāgaḥ ca nāga-kanyāḥ ca ubhayoḥ ṛṣi-kanyakāḥ .. 108..
पादयोश्च समुद्रा श्च तीर्थाः पृष्ठे विशालतः ॥ इत्येव षोडशस्थानमष्टस्थानमथोच्यते ॥ १०९॥
पादयोः च समुद्राः च तीर्थाः पृष्ठे विशालतः ॥ इति एव षोडश-स्थानम् अष्ट-स्थानम् अथ उच्यते ॥ १०९॥
pādayoḥ ca samudrāḥ ca tīrthāḥ pṛṣṭhe viśālataḥ .. iti eva ṣoḍaśa-sthānam aṣṭa-sthānam atha ucyate .. 109..
गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम् ॥ अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम् १.२४. ॥ ११०॥
गुह्य-स्थानम् ललाटः च कर्ण-द्वयम् अनुत्तमम् ॥ अंस-युग्मम् च हृदयम् नाभिः इति एवम् अष्टकम्।२४। ॥ ११०॥
guhya-sthānam lalāṭaḥ ca karṇa-dvayam anuttamam .. aṃsa-yugmam ca hṛdayam nābhiḥ iti evam aṣṭakam.24. .. 110..
ब्रह्मा च ऋषयः सप्तदेवताश्च प्रकीर्तिताः ॥ इत्येवं तु समुद्दिष्टं भस्मविद्भिर्मुनीश्वराः ॥ १११॥
ब्रह्मा च ऋषयः सप्त-देवताः च प्रकीर्तिताः ॥ इति एवम् तु समुद्दिष्टम् भस्म-विद्भिः मुनि-ईश्वराः ॥ १११॥
brahmā ca ṛṣayaḥ sapta-devatāḥ ca prakīrtitāḥ .. iti evam tu samuddiṣṭam bhasma-vidbhiḥ muni-īśvarāḥ .. 111..
अथ वा मस्तकं बाहूहृदयं नाभिरेव च ॥ पंचस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः ॥ ११२॥
अथ वा मस्तकम् बाहू हृदयम् नाभिः एव च ॥ पंच-स्थानानि अमूनि आहुः धारणे भस्म-विद्-जनाः ॥ ११२॥
atha vā mastakam bāhū hṛdayam nābhiḥ eva ca .. paṃca-sthānāni amūni āhuḥ dhāraṇe bhasma-vid-janāḥ .. 112..
यथासंभवनं कुर्य्याद्देशकालाद्यपेक्षया ॥ उद्धूलनेप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत् ॥ ११३॥
यथा संभवनम् कुर्य्यात् देश-काल-आदि-अपेक्षया ॥ उद्धूल-नेप्य-शक्तिः चेद् त्रिपुण्ड्र-आदीनि कारयेत् ॥ ११३॥
yathā saṃbhavanam kuryyāt deśa-kāla-ādi-apekṣayā .. uddhūla-nepya-śaktiḥ ced tripuṇḍra-ādīni kārayet .. 113..
त्रिनेत्रं त्रिगुणाधारं त्रिवेदजनकं शिवम् ॥ स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ॥ ११४॥
त्रिनेत्रम् त्रिगुण-आधारम् त्रि-वेद-जनकम् शिवम् ॥ स्मरन् नमः शिवाय इति ललाटे तु त्रिपुण्ड्रकम् ॥ ११४॥
trinetram triguṇa-ādhāram tri-veda-janakam śivam .. smaran namaḥ śivāya iti lalāṭe tu tripuṇḍrakam .. 114..
ईशाभ्यां नम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम् ॥ बीजाभ्यां नम इत्युक्त्वा धारयेत्तु प्रकोष्ठयोः ॥ ११५॥
ईशाभ्याम् नमः इति उक्त्वा अपार्श्वयोः च त्रिपुण्ड्रकम् ॥ बीजाभ्याम् नमः इति उक्त्वा धारयेत् तु प्रकोष्ठयोः ॥ ११५॥
īśābhyām namaḥ iti uktvā apārśvayoḥ ca tripuṇḍrakam .. bījābhyām namaḥ iti uktvā dhārayet tu prakoṣṭhayoḥ .. 115..
कुर्यादधः पितृभ्यां च उमेशाभ्यां तथोपरि ब् ॥ भीमायेति ततः पृष्ठे शिरसः पश्चिमे तथा ॥ ११६॥
कुर्यात् अधस् पितृभ्याम् च उमा-ईशाभ्याम् तथा उपरि ॥ भीमाय इति ततस् पृष्ठे शिरसः पश्चिमे तथा ॥ ११६॥
kuryāt adhas pitṛbhyām ca umā-īśābhyām tathā upari .. bhīmāya iti tatas pṛṣṭhe śirasaḥ paścime tathā .. 116..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां भस्मधारणवर्णनोनाम चतुर्विंशोऽध्यायः ॥ ११७॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् भस्मधारणवर्णना नाम चतुर्विंशः अध्यायः ॥ ११७॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām bhasmadhāraṇavarṇanā nāma caturviṃśaḥ adhyāyaḥ .. 117..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In