ये निंदंति महेश्वरं त्रिजगतामाधारभूतं हरं ये निन्दंति त्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने ॥ ते वै संकरसूकरासुरखरश्वक्रोष्टुकीटोपमा जाता एव भवंति पापपरमास्तेनारकाः केवलम् ॥ ४६॥
PADACHEDA
ये निंदंति महेश्वरम् त्रिजगताम् आधार-भूतम् हरम् ये निन्दंति त्रिपुंड्र-धारण-करम् दोषः तु तद्-दर्शने ॥ ते वै संकर-सूकर-असुर-खर-श्व-क्रोष्टु-कीट-उपमाः जाताः एव भवन्ति पाप-परमाः ते आरकाः केवलम् ॥ ४६॥
TRANSLITERATION
ye niṃdaṃti maheśvaram trijagatām ādhāra-bhūtam haram ye nindaṃti tripuṃḍra-dhāraṇa-karam doṣaḥ tu tad-darśane .. te vai saṃkara-sūkara-asura-khara-śva-kroṣṭu-kīṭa-upamāḥ jātāḥ eva bhavanti pāpa-paramāḥ te ārakāḥ kevalam .. 46..
ते दृष्ट्वा शशिभास्करौ निशि दिने स्वप्नेपि नो केवलं पश्यंतु श्रुतिरुद्र सूक्तजपतो मुच्येत तेनादृताः ॥ सत्संभाषणतो भवेद्धि नरकं निस्तारवानास्थितं ये भस्मादिविधारणं हि पुरुषं निंदंति मंदा हि ते ॥ ४७॥
PADACHEDA
ते दृष्ट्वा शशि-भास्करौ निशि दिने स्वप्ने पि नो केवलम् पश्यंतु श्रुति-रुद्र सूक्त-जपतः मुच्येत तेन आदृताः ॥ सत्-संभाषणतः भवेत् हि नरकम् ये भस्म-आदि-विधारणम् हि पुरुषम् निंदंति मंदाः हि ते ॥ ४७॥
TRANSLITERATION
te dṛṣṭvā śaśi-bhāskarau niśi dine svapne pi no kevalam paśyaṃtu śruti-rudra sūkta-japataḥ mucyeta tena ādṛtāḥ .. sat-saṃbhāṣaṇataḥ bhavet hi narakam ye bhasma-ādi-vidhāraṇam hi puruṣam niṃdaṃti maṃdāḥ hi te .. 47..
पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् ॥ एवमादीन्यसंख्यानि पापानि विविधानि च ॥ सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात् १.२४. ॥ ६०॥
PADACHEDA
पैशुन्यम् कूट-वादः च साक्षि-मिथ्या अभिलाषिणाम् ॥ एवमादीनि असंख्यानि पापानि विविधानि च ॥ सद्यस् एव विनश्यंति त्रिपुंड्रस्य च धारणात्।२४। ॥ ६०॥
TRANSLITERATION
paiśunyam kūṭa-vādaḥ ca sākṣi-mithyā abhilāṣiṇām .. evamādīni asaṃkhyāni pāpāni vividhāni ca .. sadyas eva vinaśyaṃti tripuṃḍrasya ca dhāraṇāt.24. .. 60..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.