| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
शौनकर्षे महाप्राज्ञ शिवरूपमहापते ॥ शृणु रुद्रा क्षमाहात्म्यं समासात्कथयाम्यहम् ॥ १॥
शौनक-ऋषे महा-प्राज्ञ शिव-रूप-महापते ॥ शृणु रुद्रा क्ष-माहात्म्यम् समासात् कथयामि अहम् ॥ १॥
śaunaka-ṛṣe mahā-prājña śiva-rūpa-mahāpate .. śṛṇu rudrā kṣa-māhātmyam samāsāt kathayāmi aham .. 1..
शिवप्रियतमो ज्ञेयो रुद्रा क्षः परपावनः ॥ दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरः स्मृतः ॥ २॥
शिव-प्रियतमः ज्ञेयः रुद्रा क्षः पर-पावनः ॥ दर्शनात् स्पर्शनात् जाप्यात् सर्व-पाप-हरः स्मृतः ॥ २॥
śiva-priyatamaḥ jñeyaḥ rudrā kṣaḥ para-pāvanaḥ .. darśanāt sparśanāt jāpyāt sarva-pāpa-haraḥ smṛtaḥ .. 2..
पुरा रुद्रा क्षमहिमा देव्यग्रे कथितो मुने ॥ लोकोपकरणार्थाय शिवेन परमात्मना ॥ ३॥
पुरा क्ष-महिमा देवी-अग्रे कथितः मुने ॥ लोक-उपकरण-अर्थाय शिवेन परमात्मना ॥ ३॥
purā kṣa-mahimā devī-agre kathitaḥ mune .. loka-upakaraṇa-arthāya śivena paramātmanā .. 3..
शिव उवाच ।
शृणु देविमहेशानि रुद्रा क्षमहिमा शिवे ॥ कथयामि तवप्रीत्या भक्तानां हितकाम्यया ॥ ४॥
शृणु देवि-महेशानि रुद्रा क्ष-महिमा शिवे ॥ कथयामि तव प्रीत्या भक्तानाम् हित-काम्यया ॥ ४॥
śṛṇu devi-maheśāni rudrā kṣa-mahimā śive .. kathayāmi tava prītyā bhaktānām hita-kāmyayā .. 4..
दिव्यवर्षसहस्राणि महेशानि पुनः पुरा ॥ तपः प्रकुर्वतस्त्रस्तं मनः संयम्य वै मम ॥ ५॥
दिव्य-वर्ष-सहस्राणि महेशानि पुनर् पुरा ॥ तपः प्रकुर्वतः त्रस्तम् मनः संयम्य वै मम ॥ ५॥
divya-varṣa-sahasrāṇi maheśāni punar purā .. tapaḥ prakurvataḥ trastam manaḥ saṃyamya vai mama .. 5..
स्वतंत्रेण परेशेन लोकोपकृतिकारिणा ॥ लीलया परमेशानि चक्षुरुन्मीलितं मया ॥ ६॥
स्वतंत्रेण परेशेन लोक-उपकृति-कारिणा ॥ लीलया परमेशानि चक्षुः उन्मीलितम् मया ॥ ६॥
svataṃtreṇa pareśena loka-upakṛti-kāriṇā .. līlayā parameśāni cakṣuḥ unmīlitam mayā .. 6..
पुटाभ्यां चारुचक्षुर्भ्यां पतिता जलबिंदवः ॥ तत्राश्रुबिन्दवो जाता वृक्षा रुद्रा क्षसंज्ञकाः ॥ ७॥
पुटाभ्याम् चारु-चक्षुर्भ्याम् पतिताः जल-बिंदवः ॥ तत्र अश्रु-बिन्दवः जाताः वृक्षाः क्ष-संज्ञकाः ॥ ७॥
puṭābhyām cāru-cakṣurbhyām patitāḥ jala-biṃdavaḥ .. tatra aśru-bindavaḥ jātāḥ vṛkṣāḥ kṣa-saṃjñakāḥ .. 7..
स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ॥ ते दत्ता विष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ॥ ८॥
स्थावर-त्वम् अनुप्राप्य भक्त-अनुग्रह-कारणात् ॥ ते दत्ताः विष्णु-भक्तेभ्यः चतुर्-वर्णेभ्यः एव च ॥ ८॥
sthāvara-tvam anuprāpya bhakta-anugraha-kāraṇāt .. te dattāḥ viṣṇu-bhaktebhyaḥ catur-varṇebhyaḥ eva ca .. 8..
भूमौ गौडोद्भवांश्चक्रे रुद्रा क्षाञ्छिववल्लभान् ॥ मथुरायामयोध्यायां लंकायां मलये तथा ॥ ९॥
भूमौ गौड-उद्भवान् चक्रे रुद्रा ॥ मथुरायाम् अयोध्यायाम् लंकायाम् मलये तथा ॥ ९॥
bhūmau gauḍa-udbhavān cakre rudrā .. mathurāyām ayodhyāyām laṃkāyām malaye tathā .. 9..
सह्याद्रौ च तथा काश्यां दशेष्वन्येषु वा तथा ॥ परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात् ॥ १०॥
सह्य-अद्रौ च तथा काश्याम् दशेषु अन्येषु वा तथा ॥ परान् असह्य-पाप-ओघ-भेदनान् श्रुति-नोदनात् ॥ १०॥
sahya-adrau ca tathā kāśyām daśeṣu anyeṣu vā tathā .. parān asahya-pāpa-ogha-bhedanān śruti-nodanāt .. 10..
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा जाता ममाज्ञया ॥ रुद्रा क्षास्ते पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ११॥
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः जाताः मम आज्ञया ॥ पृथिव्याम् तु तद्-जातीयाः शुभाक्षकाः ॥ ११॥
brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥ jātāḥ mama ājñayā .. pṛthivyām tu tad-jātīyāḥ śubhākṣakāḥ .. 11..
श्वेतरक्ताः पीतकृष्णा वर्णाज्ञेयाः क्रमाद्बुधैः ॥ स्वजातीयं नृभिर्धार्यं रुद्रा क्षं वर्णतः क्रमात् ॥ १२॥
श्वेत-रक्ताः पीत-कृष्णाः वर्ण-अज्ञेयाः क्रमात् बुधैः ॥ स्व-जातीयम् नृभिः धार्यम् रुद्रा क्षं वर्णतः क्रमात् ॥ १२॥
śveta-raktāḥ pīta-kṛṣṇāḥ varṇa-ajñeyāḥ kramāt budhaiḥ .. sva-jātīyam nṛbhiḥ dhāryam rudrā kṣaṃ varṇataḥ kramāt .. 12..
वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः ॥ शिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा ॥ १३॥
वर्णैः तु तद्-फलम् धार्यम् भुक्ति-मुक्ति-फल-ईप्सुभिः ॥ शिव-भक्तैः विशेषेण शिवयोः प्रीतये सदा ॥ १३॥
varṇaiḥ tu tad-phalam dhāryam bhukti-mukti-phala-īpsubhiḥ .. śiva-bhaktaiḥ viśeṣeṇa śivayoḥ prītaye sadā .. 13..
धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥ बदरीफलमात्रं तु मध्यमं संप्रकीर्त्तितम् ॥ १४॥
धात्री-फल-प्रमाणम् यत् श्रेष्ठम् एतत् उदाहृतम् ॥ बदरी-फल-मात्रम् तु मध्यमम् संप्रकीर्त्तितम् ॥ १४॥
dhātrī-phala-pramāṇam yat śreṣṭham etat udāhṛtam .. badarī-phala-mātram tu madhyamam saṃprakīrttitam .. 14..
अधमं चणमात्रं स्यात्प्रक्रियैषा परोच्यते ॥ शृणु पार्वति सुप्रीत्या भक्तानां हितकाम्यया ॥ १५॥
अधमम् चण-मात्रम् स्यात् प्रक्रिया एषा परा उच्यते ॥ शृणु पार्वति सु प्रीत्या भक्तानाम् हित-काम्यया ॥ १५॥
adhamam caṇa-mātram syāt prakriyā eṣā parā ucyate .. śṛṇu pārvati su prītyā bhaktānām hita-kāmyayā .. 15..
बदरीफलमात्रं च यत्स्यात्किल महेश्वरि ॥ तथापि फलदं लोके सुखसौभाग्यवर्द्धनम् ॥ १६॥
बदरी-फल-मात्रम् च यत् स्यात् किल महेश्वरि ॥ तथा अपि फल-दम् लोके सुख-सौभाग्य-वर्द्धनम् ॥ १६॥
badarī-phala-mātram ca yat syāt kila maheśvari .. tathā api phala-dam loke sukha-saubhāgya-varddhanam .. 16..
धात्रीफलसमं यत्स्यात्सर्वारिष्टविनाशनम् ॥ गुंजया सदृशं यत्स्यात्सर्वार्थफलसाधनम् ॥ १७॥
धात्री-फल-समम् यत् स्यात् सर्व-अरिष्ट-विनाशनम् ॥ गुंजया सदृशम् यत् स्यात् सर्व-अर्थ-फल-साधनम् ॥ १७॥
dhātrī-phala-samam yat syāt sarva-ariṣṭa-vināśanam .. guṃjayā sadṛśam yat syāt sarva-artha-phala-sādhanam .. 17..
यथा यथा लघुः स्याद्वै तथाधिकफलप्रदम् ॥ एकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः ॥ १८॥
यथा यथा लघुः स्यात् वै तथा अधिक-फल-प्रदम् ॥ एकैकतः फलम् प्रोक्तम् दश-अंशैः अधिकम् बुधैः ॥ १८॥
yathā yathā laghuḥ syāt vai tathā adhika-phala-pradam .. ekaikataḥ phalam proktam daśa-aṃśaiḥ adhikam budhaiḥ .. 18..
रुद्रा क्षधारणं प्रोक्तं पापनाशनहेतवे ॥ तस्माच्च धारणी यो वै सर्वार्थसाधनो ध्रुवम् ॥ १९॥
प्रोक्तम् ॥ तस्मात् च धारणी यः वै सर्व-अर्थ-साधनः ध्रुवम् ॥ १९॥
proktam .. tasmāt ca dhāraṇī yaḥ vai sarva-artha-sādhanaḥ dhruvam .. 19..
यथा च दृश्यते लोके रुद्रा क्षफलदः शुभः ॥ न तथा दृश्यतेऽन्या च मालिका परमेश्वरि ॥ २०॥
यथा च दृश्यते लोके रुद्राः क्ष-फल-दः शुभः ॥ न तथा दृश्यते अन्या च मालिका परमेश्वरि ॥ २०॥
yathā ca dṛśyate loke rudrāḥ kṣa-phala-daḥ śubhaḥ .. na tathā dṛśyate anyā ca mālikā parameśvari .. 20..
समाः स्निग्धा दृढाः स्थूलाः कंटकैः संयुताः शुभाः ॥ रुद्रा क्षाः कामदा देवि भुक्तिमुक्तिप्रदाः सदा ॥ २१॥
समाः स्निग्धाः दृढाः स्थूलाः कंटकैः संयुताः शुभाः ॥ दाः देवि सदा ॥ २१॥
samāḥ snigdhāḥ dṛḍhāḥ sthūlāḥ kaṃṭakaiḥ saṃyutāḥ śubhāḥ .. dāḥ devi sadā .. 21..
क्रिमिदुष्टं छिन्नभिन्नं कंटकैर्हीनमेव च ॥ व्रणयुक्तमवृत्तं च रुद्रा क्षान्षड्विवर्जयेत् ॥ २२॥
क्रिमि-दुष्टम् छिन्न-भिन्नम् कंटकैः हीनम् एव च ॥ व्रण-युक्तम् अवृत्तम् च क्षान् षट् विवर्जयेत् ॥ २२॥
krimi-duṣṭam chinna-bhinnam kaṃṭakaiḥ hīnam eva ca .. vraṇa-yuktam avṛttam ca kṣān ṣaṭ vivarjayet .. 22..
स्वयमेव कृतद्वारं रुद्रा क्षं स्यादिहोत्तमम् ॥ यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥ २३॥
स्वयम् एव कृत-द्वारम् रुद्रा क्षम् स्यात् इह उत्तमम् ॥ यत् तु पौरुष-यत्नेन कृतम् तत् मध्यमम् भवेत् ॥ २३॥
svayam eva kṛta-dvāram rudrā kṣam syāt iha uttamam .. yat tu pauruṣa-yatnena kṛtam tat madhyamam bhavet .. 23..
रुद्रा क्षधारणं प्राप्तं महापातकनाशनम् ॥ रुद्र संख्याशतं धृत्वा रुद्र रूपो भवेन्नरः ॥ २४॥
रुद्रा क्ष-धारणम् प्राप्तम् महापातक-नाशनम् ॥ रुद्र संख्या-शतम् धृत्वा रुद्र रूपः भवेत् नरः ॥ २४॥
rudrā kṣa-dhāraṇam prāptam mahāpātaka-nāśanam .. rudra saṃkhyā-śatam dhṛtvā rudra rūpaḥ bhavet naraḥ .. 24..
एकादशशतानीह धृत्वा यत्फलमाप्यते ॥ तत्फलं शक्यते नैव वक्तुं वर्षशतैरपि ॥ २५॥
एकादश-शतानि इह धृत्वा यत् फलम् आप्यते ॥ तद्-फलम् शक्यते ना एव वक्तुम् वर्ष-शतैः अपि ॥ २५॥
ekādaśa-śatāni iha dhṛtvā yat phalam āpyate .. tad-phalam śakyate nā eva vaktum varṣa-śataiḥ api .. 25..
शतार्द्धेन युतैः पंचशतैर्वै मुकुटं मतम् ॥ रुद्रा क्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ॥ २६॥
शत-अर्द्धेन युतैः पंचशतैः वै मुकुटम् मतम् ॥ रुद्रा क्षैः विरचेत् सम्यक् भक्तिमान् पुरुषः वरः ॥ २६॥
śata-arddhena yutaiḥ paṃcaśataiḥ vai mukuṭam matam .. rudrā kṣaiḥ viracet samyak bhaktimān puruṣaḥ varaḥ .. 26..
त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः ॥ रुद्रा क्षैरुपवीतं व निर्मीयाद्भक्तितत्परः ॥ २७॥
त्रिभिः शतैः षष्टि-युक्तैः त्रिस् आवृत्त्या तथा पुनर् ॥ निर्मीयात् भक्ति-तत्परः ॥ २७॥
tribhiḥ śataiḥ ṣaṣṭi-yuktaiḥ tris āvṛttyā tathā punar .. nirmīyāt bhakti-tatparaḥ .. 27..
शिखायां च त्रयं प्रोक्तं रुद्र क्षाणां महेश्वरि ॥ कर्णयोः षट् च षट्चैव वामदक्षिणयोस्तथा ॥ २८॥
शिखायाम् च त्रयम् प्रोक्तम् रुद्र क्षाणाम् महेश्वरि ॥ कर्णयोः षट् च षट् च एव वाम-दक्षिणयोः तथा ॥ २८॥
śikhāyām ca trayam proktam rudra kṣāṇām maheśvari .. karṇayoḥ ṣaṭ ca ṣaṭ ca eva vāma-dakṣiṇayoḥ tathā .. 28..
शतमेकोत्तरं कंठे बाह्वोर्वै रुद्र संख्यया ॥ कूर्परद्वारयोस्तत्र मणिबंधे तथा पुनः ॥ २९॥
शतम् एक-उत्तरम् कंठे बाह्वोः वै रुद्र संख्यया ॥ कूर्पर-द्वारयोः तत्र मणिबंधे तथा पुनर् ॥ २९॥
śatam eka-uttaram kaṃṭhe bāhvoḥ vai rudra saṃkhyayā .. kūrpara-dvārayoḥ tatra maṇibaṃdhe tathā punar .. 29..
उपवीते त्रयं धार्यं शिवभक्तिरतैर्नरैः ॥ शेषानुर्वरितान्पंच सम्मितान्धारयेत्कटौ ॥ ३०॥
उपवीते त्रयम् धार्यम् शिव-भक्ति-रतैः नरैः ॥ शेषान् उर्वरितान् पंच सम्मितान् धारयेत् कटौ ॥ ३०॥
upavīte trayam dhāryam śiva-bhakti-rataiḥ naraiḥ .. śeṣān urvaritān paṃca sammitān dhārayet kaṭau .. 30..
एतत्संख्या धृता येन रुद्रा क्षाः परमेश्वरि ॥ तद्रू पं तु प्रणम्यं हि स्तुत्यं सर्वैर्महेशवत् ॥ ३१॥
एतद्-संख्या धृता येन रुद्रा क्षाः परमेश्वरि ॥ तद्-रूपम् तु प्रणम्यम् हि स्तुत्यम् सर्वैः महेश-वत् ॥ ३१॥
etad-saṃkhyā dhṛtā yena rudrā kṣāḥ parameśvari .. tad-rūpam tu praṇamyam hi stutyam sarvaiḥ maheśa-vat .. 31..
एवंभूतं स्थितं ध्याने यदा कृत्वासनैर्जनम् ॥ शिवेति व्याहरंश्चैव दृष्ट्वा पापैः प्रमुच्यते ॥ ३२॥
एवंभूतम् स्थितम् ध्याने यदा कृत्वा आसनैः जनम् ॥ शिवा इति व्याहरन् च एव दृष्ट्वा पापैः प्रमुच्यते ॥ ३२॥
evaṃbhūtam sthitam dhyāne yadā kṛtvā āsanaiḥ janam .. śivā iti vyāharan ca eva dṛṣṭvā pāpaiḥ pramucyate .. 32..
शतादिकसहस्रस्य विधिरेष प्रकीर्तितः ॥ तदभावे प्रकारोन्यः शुभः संप्रोच्यते मया ॥ ३३॥
शत-आदिक-सहस्रस्य विधिः एष प्रकीर्तितः ॥ तद्-अभावे प्रकारः न्यः शुभः संप्रोच्यते मया ॥ ३३॥
śata-ādika-sahasrasya vidhiḥ eṣa prakīrtitaḥ .. tad-abhāve prakāraḥ nyaḥ śubhaḥ saṃprocyate mayā .. 33..
शिखायामेकरुद्रा क्षं शिरसा त्रिंशतं वहेत् ॥ पंचाशच्च गले दध्याद्बाह्वोः षोडश षोडश ॥ ३४॥
शिखायाम् एक-रुद्रा क्षम् शिरसा त्रिंशतम् वहेत् ॥ पंचाशत् च गले दध्यात् बाह्वोः षोडश षोडश ॥ ३४॥
śikhāyām eka-rudrā kṣam śirasā triṃśatam vahet .. paṃcāśat ca gale dadhyāt bāhvoḥ ṣoḍaśa ṣoḍaśa .. 34..
मणिबंधे द्वादशद्विस्कंधे पंचशतं वहेत् ॥ अष्टोत्तरशतैर्माल्यमुपवीतं प्रकल्पयेत् ॥ ३५॥
मणिबंधे द्वादश-द्वि-स्कंधे पंचशतम् वहेत् ॥ अष्टोत्तरशतैः माल्यम् उपवीतम् प्रकल्पयेत् ॥ ३५॥
maṇibaṃdhe dvādaśa-dvi-skaṃdhe paṃcaśatam vahet .. aṣṭottaraśataiḥ mālyam upavītam prakalpayet .. 35..
एवं सहस्ररुद्रा क्षान्धारयेद्यो दृढव्रतः ॥ तं नमंति सुराः सर्वे यथा रुद्र स्तथैव सः ॥ ३६॥
एवम् क्षान् धारयेत् यः दृढ-व्रतः ॥ तम् नमंति सुराः सर्वे यथा रुद्रः तथा एव सः ॥ ३६॥
evam kṣān dhārayet yaḥ dṛḍha-vrataḥ .. tam namaṃti surāḥ sarve yathā rudraḥ tathā eva saḥ .. 36..
एकं शिखायां रुद्रा क्षं चत्वारिंशत्तु मस्तके ॥ द्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम् ॥ ३७॥
एकम् शिखायाम् रुद्राः क्षम् चत्वारिंशत् तु मस्तके ॥ द्वात्रिंशत् कण्ठ-देशे तु वक्षसि अष्ट-उत्तरम् शतम् ॥ ३७॥
ekam śikhāyām rudrāḥ kṣam catvāriṃśat tu mastake .. dvātriṃśat kaṇṭha-deśe tu vakṣasi aṣṭa-uttaram śatam .. 37..
एकैकं कर्णयोः षट्षड्बाह्वोः षोडश षोडश ॥ करयोरविमानेन द्विगुणेन मुनीश्वर ॥ ३८॥
एकैकम् कर्णयोः षष् षष् बाह्वोः षोडश षोडश ॥ करयोः अविमानेन द्विगुणेन मुनि-ईश्वर ॥ ३८॥
ekaikam karṇayoḥ ṣaṣ ṣaṣ bāhvoḥ ṣoḍaśa ṣoḍaśa .. karayoḥ avimānena dviguṇena muni-īśvara .. 38..
संख्या प्रीतिर्धृता येन सोपि शैवजनः परः ॥ शिववत्पूजनीयो हि वंद्यस्सर्वैरभीक्ष्णशः ॥ ३९॥
संख्या प्रीतिः धृता येन सः अपि शैव-जनः परः ॥ शिव-वत् पूजनीयः हि वंद्यः सर्वैः अभीक्ष्णशस् ॥ ३९॥
saṃkhyā prītiḥ dhṛtā yena saḥ api śaiva-janaḥ paraḥ .. śiva-vat pūjanīyaḥ hi vaṃdyaḥ sarvaiḥ abhīkṣṇaśas .. 39..
शिरसीशानमंत्रेण कर्णे तत्पुरुषेण च ॥ अघोरेण गले धार्यं तेनैव हृदयेपि च ॥ ४०॥
शिरसि ईशान-मंत्रेण कर्णे तत्पुरुषेण च ॥ अघोरेण गले धार्यम् तेन एव हृदये अपि च ॥ ४०॥
śirasi īśāna-maṃtreṇa karṇe tatpuruṣeṇa ca .. aghoreṇa gale dhāryam tena eva hṛdaye api ca .. 40..
अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः ॥ पंचदशाक्षग्रथितां वामदेवेन चोदरे ॥ ४१॥
अघोर-बीज-मंत्रेण करयोः धारयेत् सुधीः ॥ पंचदश-अक्ष-ग्रथिताम् वामदेवेन च उदरे ॥ ४१॥
aghora-bīja-maṃtreṇa karayoḥ dhārayet sudhīḥ .. paṃcadaśa-akṣa-grathitām vāmadevena ca udare .. 41..
पंच ब्रह्मभिरंगश्च त्रिमालां पंचसप्त च ॥ अथवा मूलमंत्रेण सर्वानक्षांस्तुधारयेत् ॥ ४२॥
पंच ब्रह्मभिः अंगः च त्रि-मालाम् पंच-सप्त च ॥ अथवा मूलमंत्रेण सर्वान् अक्षान् तु धारयेत् ॥ ४२॥
paṃca brahmabhiḥ aṃgaḥ ca tri-mālām paṃca-sapta ca .. athavā mūlamaṃtreṇa sarvān akṣān tu dhārayet .. 42..
मद्यं मांसं तु लशुनं पलाण्डुं शिग्रुमेव च ॥ श्लेष्मांतकं विड्वराहं भक्षणे वर्जयेत्ततः ॥ ४३॥
मद्यम् मांसम् तु लशुनम् पलाण्डुम् शिग्रुम् एव च ॥ श्लेष्मांतकम् विड्वराहम् भक्षणे वर्जयेत् ततस् ॥ ४३॥
madyam māṃsam tu laśunam palāṇḍum śigrum eva ca .. śleṣmāṃtakam viḍvarāham bhakṣaṇe varjayet tatas .. 43..
वलक्षं रुद्रा क्षं द्विजतनुभिरेवेह विहितं सुरक्तं क्षत्त्राणां प्रमुदितमुमे पीतमसकृत् ॥ छिन्नं खंडितं भिन्नं विदीर्ण ॥ ततो वैश्यैर्धार्यं प्रतिदिवसभावश्यकमहो तथा कृष्णं शूद्रै ः! श्रुतिगदितमार्गोयमगजे ॥ ४४॥
बलक्षम् रुद्रा क्षम् द्विज-तनुभिः एवा इह विहितम् सु रक्तम् क्षत्त्राणाम् प्रमुदितम् उमे पीतम् असकृत् ॥ छिन्नम् खंडितम् भिन्नम् विदीर्ण ॥ ततस् वैश्यैः धार्यम् प्रति दिवस-भावश्यकम् अहो तथा कृष्णम् शूद्रैः! श्रुति-गदित-मार्गः यम-गजे ॥ ४४॥
balakṣam rudrā kṣam dvija-tanubhiḥ evā iha vihitam su raktam kṣattrāṇām pramuditam ume pītam asakṛt .. chinnam khaṃḍitam bhinnam vidīrṇa .. tatas vaiśyaiḥ dhāryam prati divasa-bhāvaśyakam aho tathā kṛṣṇam śūdraiḥ! śruti-gadita-mārgaḥ yama-gaje .. 44..
वर्णी वनी गृहयतीर्नियमेन दध्यादेतद्र हस्यपरमो न हि जातु तिष्ठेत् ॥ रुद्रा क्षधारणमिदं सुकृतैश्च लभ्यं त्यक्त्वेदमेतदखिलान्नरकान्प्रयांति ॥ ४५॥
वर्णी वनी गृहयतीः नियमेन दध्यात् एतत् र हस्य-परमः न हि जातु तिष्ठेत् ॥ रुद्रा अक्ष-धारणम् इदम् सुकृतैः च लभ्यम् त्यक्त्वा इदम् एतत् अखिलान् नरकान् प्रयान्ति ॥ ४५॥
varṇī vanī gṛhayatīḥ niyamena dadhyāt etat ra hasya-paramaḥ na hi jātu tiṣṭhet .. rudrā akṣa-dhāraṇam idam sukṛtaiḥ ca labhyam tyaktvā idam etat akhilān narakān prayānti .. 45..
आदावामलकात्स्वतो लघुतरा रुग्णास्ततः कंटकैः संदष्टाः कृमिभिस्तनूपकरणच्छिद्रे ण हीनास्तथा ॥ धार्या नैव शुभेप्सुभिश्चणकवद्रुद्रा क्षमप्यंततो रुद्रा क्षोमम लिंगमंगलमुमे सूक्ष्मं प्रशस्तं सदा ॥ ४६॥
आदौ आमलकात् स्वतस् लघुतराः रुग्णाः ततस् कंटकैः संदष्टाः कृमिभिः तनु-उपकरण-छिद्रे ण हीनाः तथा ॥ धार्या ना एव शुभ-ईप्सुभिः चणक-वत् रुद्रा लिंग-मंगलम् उमे सूक्ष्मम् प्रशस्तम् सदा ॥ ४६॥
ādau āmalakāt svatas laghutarāḥ rugṇāḥ tatas kaṃṭakaiḥ saṃdaṣṭāḥ kṛmibhiḥ tanu-upakaraṇa-chidre ṇa hīnāḥ tathā .. dhāryā nā eva śubha-īpsubhiḥ caṇaka-vat rudrā liṃga-maṃgalam ume sūkṣmam praśastam sadā .. 46..
सर्वाश्रमाणां वर्णानां स्त्रीशूद्रा णां शिवाज्ञया ॥ धार्याः सदैव रुद्रा क्षा यतीनां प्रणवेन हि ॥ ४७॥
सर्व-आश्रमाणाम् वर्णानाम् स्त्री-शूद्राणाम् शिव-आज्ञया ॥ धार्याः सदा एव रुद्रा क्षा यतीनाम् प्रणवेन हि ॥ ४७॥
sarva-āśramāṇām varṇānām strī-śūdrāṇām śiva-ājñayā .. dhāryāḥ sadā eva rudrā kṣā yatīnām praṇavena hi .. 47..
दिवा बिभ्रद्रा त्रिकृतै रात्रौ विभ्रद्दिवाकृतैः ॥ प्रातर्मध्याह्नसायाह्ने मुच्यते सर्वपातकैः ॥ ४८॥
दिवा बिभ्रत् रा त्रि-कृतैः रात्रौ विभ्रत् दिवाकृतैः ॥ प्रातर् मध्याह्न-सायाह्ने मुच्यते सर्व-पातकैः ॥ ४८॥
divā bibhrat rā tri-kṛtaiḥ rātrau vibhrat divākṛtaiḥ .. prātar madhyāhna-sāyāhne mucyate sarva-pātakaiḥ .. 48..
ये त्रिपुण्ड्रधरा लोके जटाधारिण एव ये ॥ ये रुद्रा क्षधरास्ते वै यमलोकं प्रयांति न ॥ ४९॥
ये त्रिपुण्ड्र-धराः लोके जटा-धारिणः एव ये ॥ ये रुद्राः अक्ष-धराः ते वै यम-लोकम् प्रयान्ति न ॥ ४९॥
ye tripuṇḍra-dharāḥ loke jaṭā-dhāriṇaḥ eva ye .. ye rudrāḥ akṣa-dharāḥ te vai yama-lokam prayānti na .. 49..
रुद्रा क्षमेकं शिरसा बिभर्ति तथा त्रिपुण्ड्रं च ललाटमध्ये ॥ पंचाक्षरं ये हि जपंति मंत्रं पूज्या भवद्भिः खलु ते हि साधवः ॥ ५०॥
रुद्रा क्षम् एकम् शिरसा बिभर्ति तथा त्रिपुण्ड्रम् च ललाट-मध्ये ॥ पंचाक्षरम् ये हि जपंति मंत्रम् पूज्याः भवद्भिः खलु ते हि साधवः ॥ ५०॥
rudrā kṣam ekam śirasā bibharti tathā tripuṇḍram ca lalāṭa-madhye .. paṃcākṣaram ye hi japaṃti maṃtram pūjyāḥ bhavadbhiḥ khalu te hi sādhavaḥ .. 50..
यस्याण्गे नास्ति रुद्रा क्षस्त्रिपुण्ड्रं भालपट्टके ॥ मुखे पंचाक्षरं नास्ति तमानय यमालयम् ॥ ५१॥
यस्य अण्गे न अस्ति क्षः त्रिपुण्ड्रम् भाल-पट्टके ॥ मुखे पंचाक्षरम् न अस्ति तम् आनय यम-आलयम् ॥ ५१॥
yasya aṇge na asti kṣaḥ tripuṇḍram bhāla-paṭṭake .. mukhe paṃcākṣaram na asti tam ānaya yama-ālayam .. 51..
ज्ञात्वा ज्ञात्वा तत्प्रभावं भस्मरुद्रा क्षधारिणः ॥ ते पूज्याः सर्वदास्माकं नो नेतव्याः कदाचन ॥ ५२॥
ज्ञात्वा ज्ञात्वा तद्-प्रभावम् भस्मरुद्रा क्ष-धारिणः ॥ ते पूज्याः सर्वदा अस्माकम् नः नेतव्याः कदाचन ॥ ५२॥
jñātvā jñātvā tad-prabhāvam bhasmarudrā kṣa-dhāriṇaḥ .. te pūjyāḥ sarvadā asmākam naḥ netavyāḥ kadācana .. 52..
एवमाज्ञापयामास कालोपि निजकिण्करान् ॥ तथेति मत्त्वा ते सर्वे तूष्णीमासन्सुविस्मिताः ॥ ५३॥
एवम् आज्ञापयामास कालः अपि निज-किण्करान् ॥ तथा इति ते सर्वे तूष्णीम् आसन् सु विस्मिताः ॥ ५३॥
evam ājñāpayāmāsa kālaḥ api nija-kiṇkarān .. tathā iti te sarve tūṣṇīm āsan su vismitāḥ .. 53..
अत एव महादेवि रुद्रा क्षोत्यघनाशनः ॥ तद्धरो मत्प्रियः शुद्धोऽत्यघवानपि पार्वति ॥ ५४॥
अतस् एव महादेवि रुद्रा ॥ तद्-हरः मद्-प्रियः शुद्धः अति अघवान् अपि पार्वति ॥ ५४॥
atas eva mahādevi rudrā .. tad-haraḥ mad-priyaḥ śuddhaḥ ati aghavān api pārvati .. 54..
हस्ते बाहौ तथा मूर्ध्नि रुद्रा क्षं धारयेत्तु यः ॥ अवध्यः सर्वभूतानां रुद्र रूपी चरेद्भुवि ॥ ५५॥
हस्ते बाहौ तथा मूर्ध्नि रुद्रा क्षम् धारयेत् तु यः ॥ अवध्यः सर्व-भूतानाम् रुद्र रूपी चरेत् भुवि ॥ ५५॥
haste bāhau tathā mūrdhni rudrā kṣam dhārayet tu yaḥ .. avadhyaḥ sarva-bhūtānām rudra rūpī caret bhuvi .. 55..
सुरासुराणां सर्वेषां वंदनीयः सदा स वै ॥ पूजनीयो हि दृष्टस्य पापहा च यथा शिवः ॥ ५६॥
सुर-असुराणाम् सर्वेषाम् वंदनीयः सदा स वै ॥ पूजनीयः हि दृष्टस्य पाप-हा च यथा शिवः ॥ ५६॥
sura-asurāṇām sarveṣām vaṃdanīyaḥ sadā sa vai .. pūjanīyaḥ hi dṛṣṭasya pāpa-hā ca yathā śivaḥ .. 56..
ध्यानज्ञानावमुक्तोपि रुद्रा क्षं धारयेत्तु यः ॥ सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ५७॥
ध्यान-ज्ञान-अवमुक्तः अपि रुद्र क्षम् धारयेत् तु यः ॥ सर्व-पाप-विनिर्मुक्तः स याति परमाम् गतिम् ॥ ५७॥
dhyāna-jñāna-avamuktaḥ api rudra kṣam dhārayet tu yaḥ .. sarva-pāpa-vinirmuktaḥ sa yāti paramām gatim .. 57..
रुद्रा क्षेण जपन्मन्त्रं पुण्यं कोटिगुणं भवेत् ॥ दशकोटिगुणं पुण्यं धारणाल्लभते नरः ॥ ५८॥
रुद्रा क्षेण जपन् मन्त्रम् पुण्यम् कोटि-गुणम् भवेत् ॥ दश-कोटि-गुणम् पुण्यम् धारणात् लभते नरः ॥ ५८॥
rudrā kṣeṇa japan mantram puṇyam koṭi-guṇam bhavet .. daśa-koṭi-guṇam puṇyam dhāraṇāt labhate naraḥ .. 58..
यावत्कालं हि जीवस्य शरीरस्थो भवेत्स वै ॥ तावत्कालं स्वल्पमृत्युर्न तं देवि विबाधते ॥ ५९॥
यावत्कालम् हि जीवस्य शरीर-स्थः भवेत् स वै ॥ तावत्कालम् सु अल्प-मृत्युः न तम् देवि विबाधते ॥ ५९॥
yāvatkālam hi jīvasya śarīra-sthaḥ bhavet sa vai .. tāvatkālam su alpa-mṛtyuḥ na tam devi vibādhate .. 59..
त्रिपुंड्रेण च संयुक्तं रुद्रा क्षाविलसांगकम् ॥ मृत्युंजयं जपंतं च दृष्ट्वा रुद्र फलं लभेत् ॥ ६०॥
त्रिपुंड्रेण च संयुक्तम् रुद्रा क्षाविल-सांगकम् ॥ मृत्युंजयम् जपन्तम् च दृष्ट्वा रुद्र फलम् लभेत् ॥ ६०॥
tripuṃḍreṇa ca saṃyuktam rudrā kṣāvila-sāṃgakam .. mṛtyuṃjayam japantam ca dṛṣṭvā rudra phalam labhet .. 60..
पंचदेवप्रियश्चैव सर्वदेवप्रियस्तथा ॥ सर्वमन्त्राञ्जपेद्भक्तो रुद्रा क्षमालया प्रिये ॥ ६१॥
पंचदेव-प्रियः च एव सर्व-देव-प्रियः तथा ॥ सर्व-मन्त्रान् जपेत् भक्तः रुद्रा क्षमालया प्रिये ॥ ६१॥
paṃcadeva-priyaḥ ca eva sarva-deva-priyaḥ tathā .. sarva-mantrān japet bhaktaḥ rudrā kṣamālayā priye .. 61..
विष्ण्वादिदेवभक्ताश्च धारयेयुर्न संशयः ॥ रुद्र भक्तो विशेषेण रुद्रा क्षान्धारयेत्सदा ॥ ६२॥
विष्णु-आदि-देव-भक्ताः च धारयेयुः न संशयः ॥ रुद्र भक्तः विशेषेण क्षान् धारयेत् सदा ॥ ६२॥
viṣṇu-ādi-deva-bhaktāḥ ca dhārayeyuḥ na saṃśayaḥ .. rudra bhaktaḥ viśeṣeṇa kṣān dhārayet sadā .. 62..
रुद्रा क्षा विविधाः प्रोक्तास्तेषां भेदान्वदाम्यहम् ॥ शृणु पार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान् ॥ ६३॥
विविधाः प्रोक्ताः तेषाम् भेदान् वदामि अहम् ॥ शृणु पार्वति सत्-भक्त्या भुक्ति-मुक्ति-फल-प्रदान् ॥ ६३॥
vividhāḥ proktāḥ teṣām bhedān vadāmi aham .. śṛṇu pārvati sat-bhaktyā bhukti-mukti-phala-pradān .. 63..
एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः ॥ तस्य दर्शनमात्रेण ब्रह्महत्या व्यपोहति ॥ ६४॥
॥ तस्य दर्शन-मात्रेण ब्रह्महत्या व्यपोहति ॥ ६४॥
.. tasya darśana-mātreṇa brahmahatyā vyapohati .. 64..
यत्र संपूजितस्तत्र लक्ष्मीर्दूरतरा न हि ॥ नश्यंत्युपद्र वाः सर्वे सर्वकामा भवंति हि ॥ ६५॥
यत्र संपूजितः तत्र लक्ष्मीः दूरतरा न हि ॥ नश्यंति उपद्र सर्वे सर्व-कामाः भवन्ति हि ॥ ६५॥
yatra saṃpūjitaḥ tatra lakṣmīḥ dūratarā na hi .. naśyaṃti upadra sarve sarva-kāmāḥ bhavanti hi .. 65..
द्विवक्त्रो देवदेवेशस्सर्वकामफलप्रदः ॥ विशेषतः स रुद्रा क्षो गोवधं नाशयेद्द्रुतम् ॥ ६६॥
सर्व ॥ विशेषतः गो वधम् नाशयेत् द्रुतम् ॥ ६६॥
sarva .. viśeṣataḥ go vadham nāśayet drutam .. 66..
त्रिवक्त्रो यो हि रुद्रा क्षः साक्षात्साधनदस्सदा ॥ तत्प्रभावाद्भवेयुर्वै विद्याः सर्वाः प्रतिष्ठिताः ॥ ६७॥
त्रिवक्त्रः यः हि रुद्र अक्षः साक्षात् साधन-दः सदा ॥ तद्-प्रभावात् भवेयुः वै विद्याः सर्वाः प्रतिष्ठिताः ॥ ६७॥
trivaktraḥ yaḥ hi rudra akṣaḥ sākṣāt sādhana-daḥ sadā .. tad-prabhāvāt bhaveyuḥ vai vidyāḥ sarvāḥ pratiṣṭhitāḥ .. 67..
चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ॥ दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः ॥ ६८॥
चतुर्वक्त्रः स्वयम् ब्रह्मा नर-हत्याम् व्यपोहति ॥ दर्शनात् स्पर्शनात् सद्यस् चतुर्वर्ग-फल-प्रदः ॥ ६८॥
caturvaktraḥ svayam brahmā nara-hatyām vyapohati .. darśanāt sparśanāt sadyas caturvarga-phala-pradaḥ .. 68..
पंचवक्त्रः स्वयं रुद्र ः! कालाग्निर्नामतः प्रभुः ॥ सर्वमुक्तिप्रदश्चैव सर्वकामफलप्रदः ॥ ६९॥
पंचवक्त्रः स्वयम् रुद्रः! कालाग्निः नामतः प्रभुः ॥ सर्व-मुक्ति-प्रदः च एव सर्व-काम-फल-प्रदः ॥ ६९॥
paṃcavaktraḥ svayam rudraḥ! kālāgniḥ nāmataḥ prabhuḥ .. sarva-mukti-pradaḥ ca eva sarva-kāma-phala-pradaḥ .. 69..
अगम्यागमनं पापमभक्ष्यस्य च भक्षणम् ॥ इत्यादिसर्वपापानि पंचवक्त्रो व्यपोहति ॥ ७०॥
अगम्या-गमनम् पापम् अभक्ष्यस्य च भक्षणम् ॥ इति आदि-सर्व-पापानि पंचवक्त्रः व्यपोहति ॥ ७०॥
agamyā-gamanam pāpam abhakṣyasya ca bhakṣaṇam .. iti ādi-sarva-pāpāni paṃcavaktraḥ vyapohati .. 70..
षड्वक्त्रः कार्तिकेयस्तुधारणाद्दक्षिणे भुजे ॥ ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥ ७१॥
षड्वक्त्रः कार्तिकेयः तु धारणात् दक्षिणे भुजे ॥ ब्रह्महत्या-आदिकैः पापैः मुच्यते न अत्र संशयः ॥ ७१॥
ṣaḍvaktraḥ kārtikeyaḥ tu dhāraṇāt dakṣiṇe bhuje .. brahmahatyā-ādikaiḥ pāpaiḥ mucyate na atra saṃśayaḥ .. 71..
सप्तवक्त्रो महेशानि ह्यनंगो नाम नामतः ॥ धारणात्तस्य देवेशिदरिद्रो पीश्वरो भवेत् ॥ ७२॥
सप्तवक्त्रः महेशानि हि अनंगः नाम नामतः ॥ धारणात् तस्य देव-ईशि-दरिद्रः पीश्वरः भवेत् ॥ ७२॥
saptavaktraḥ maheśāni hi anaṃgaḥ nāma nāmataḥ .. dhāraṇāt tasya deva-īśi-daridraḥ pīśvaraḥ bhavet .. 72..
रुद्रा क्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः ॥ धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत् ॥ ७३॥
रुद्रा अक्षः च अष्टवक्त्रः च वसुमूर्तिः च भैरवः ॥ धारणात् तस्य पूर्ण-आयुः मृतः भवति शूलभृत् ॥ ७३॥
rudrā akṣaḥ ca aṣṭavaktraḥ ca vasumūrtiḥ ca bhairavaḥ .. dhāraṇāt tasya pūrṇa-āyuḥ mṛtaḥ bhavati śūlabhṛt .. 73..
भैरवो नववक्त्रश्च कपिलश्च मुनिः स्मृतः ॥ दुर्गा वात दधिष्ठात्री नवरूपा महेश्वरी ॥ ७४॥
भैरवः नववक्त्रः च कपिलः च मुनिः स्मृतः ॥ दुर्गा वात दधिष्ठात्री नव-रूपा महेश्वरी ॥ ७४॥
bhairavaḥ navavaktraḥ ca kapilaḥ ca muniḥ smṛtaḥ .. durgā vāta dadhiṣṭhātrī nava-rūpā maheśvarī .. 74..
तं धारयेद्वामहस्ते रुद्रा क्षं भक्तितत्परः ॥ सर्वेश्वरो भवेन्नूनं मम तुल्यो न संशयः ॥ ७५॥
तम् धारयेत् वाम-हस्ते रुद्रा क्षं भक्ति-तत्परः ॥ सर्वेश्वरः भवेत् नूनम् मम तुल्यः न संशयः ॥ ७५॥
tam dhārayet vāma-haste rudrā kṣaṃ bhakti-tatparaḥ .. sarveśvaraḥ bhavet nūnam mama tulyaḥ na saṃśayaḥ .. 75..
दशवक्त्रो महेशानि स्वयं देवो जनार्दनः ॥ धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात् ॥ ७६॥
दशवक्त्रः महेशानि स्वयम् देवः जनार्दनः ॥ धारणात् तस्य देवेशि सर्वान् कामान् अवाप्नुयात् ॥ ७६॥
daśavaktraḥ maheśāni svayam devaḥ janārdanaḥ .. dhāraṇāt tasya deveśi sarvān kāmān avāpnuyāt .. 76..
एकादशमुखो यस्तु रुद्रा क्षः परमेश्वरि ॥ स रुद्रो धारणात्तस्य सर्वत्र विजयी भवेत् ॥ ७७॥
एकादश-मुखः यः तु रुद्रा क्षः परमेश्वरि ॥ स रुद्रः धारणात् तस्य सर्वत्र विजयी भवेत् ॥ ७७॥
ekādaśa-mukhaḥ yaḥ tu rudrā kṣaḥ parameśvari .. sa rudraḥ dhāraṇāt tasya sarvatra vijayī bhavet .. 77..
द्वादशास्यं तु रुद्रा क्षं धारयेत्केशदेशके ॥ आदित्याश्चैव ते सर्वेद्वादशैव स्थितास्तथा ॥ ७८॥
द्वादश-आस्यम् तु रुद्रा क्षम् धारयेत् केश-देशके ॥ आदित्याः च एव ते सर्वे द्वादश एव स्थिताः तथा ॥ ७८॥
dvādaśa-āsyam tu rudrā kṣam dhārayet keśa-deśake .. ādityāḥ ca eva te sarve dvādaśa eva sthitāḥ tathā .. 78..
त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः ॥ सर्वान्कामानवाप्नोति सौभाग्यं मंगलंलभेत् ॥ ७९॥
त्रयोदश-मुखः विश्वेदेवः तद्-धारणात् नरः ॥ सर्वान् कामान् अवाप्नोति सौभाग्यम् मंगलम् लभेत् ॥ ७९॥
trayodaśa-mukhaḥ viśvedevaḥ tad-dhāraṇāt naraḥ .. sarvān kāmān avāpnoti saubhāgyam maṃgalam labhet .. 79..
चतुर्दशमुखो यो हि रुद्रा क्षः परमः शिवः ॥ धारयेन्मूर्ध्नि तं भक्त्या सर्वपापं प्रणश्यति ॥ ८०॥
चतुर्दश-मुखः यः हि रुद्राः क्षः परमः शिवः ॥ धारयेत् मूर्ध्नि तम् भक्त्या सर्व-पापम् प्रणश्यति ॥ ८०॥
caturdaśa-mukhaḥ yaḥ hi rudrāḥ kṣaḥ paramaḥ śivaḥ .. dhārayet mūrdhni tam bhaktyā sarva-pāpam praṇaśyati .. 80..
इति रुद्रा क्षभेदा हि प्रोक्ता वै मुखभेदतः ॥ तत्तन्मंत्राञ्छृणु प्रीत्या क्रमाच्छैल्लेश्वरात्मजे ॥ ८१॥
इति अक्ष-भेदाः हि प्रोक्ताः वै मुख-भेदतः ॥ तद्-तद्-मंत्रान् शृणु प्रीत्या क्रमात् शैल्लेश्वर-आत्मजे ॥ ८१॥
iti akṣa-bhedāḥ hi proktāḥ vai mukha-bhedataḥ .. tad-tad-maṃtrān śṛṇu prītyā kramāt śailleśvara-ātmaje .. 81..
भक्तिश्रद्धा युतश्चैव सर्वकामार्थसिद्धये ॥ रुद्रा क्षान्धारयेन्मंत्रैर्देवनालस्य वर्जितः ॥ ८२॥
भक्ति-श्रद्धा युतः च एव सर्व-काम-अर्थ-सिद्धये ॥ रुद्रा क्षान् धारयेत् मंत्रैः देवनालस्य वर्जितः ॥ ८२॥
bhakti-śraddhā yutaḥ ca eva sarva-kāma-artha-siddhaye .. rudrā kṣān dhārayet maṃtraiḥ devanālasya varjitaḥ .. 82..
विना मंत्रेण हो धत्ते रुद्रा क्षं भुवि मानवः ॥ स याति नरकं घोरं यावदिन्द्रा श्चतुर्दश ॥ ८३॥
विना मंत्रेण हो धत्ते रुद्रा क्षम् भुवि मानवः ॥ स याति नरकम् घोरम् यावत् इन्द्राः श्चतुर्दश ॥ ८३॥
vinā maṃtreṇa ho dhatte rudrā kṣam bhuvi mānavaḥ .. sa yāti narakam ghoram yāvat indrāḥ ścaturdaśa .. 83..
रुद्रा क्षमालिनं दृष्ट्वा भूतप्रेतपिशाचकाः ॥ डाकिनीशाकिनी चैव ये चान्ये द्रो हकारकाः ॥ ८४॥
क्षमालिनम् दृष्ट्वा भूत-प्रेत-पिशाचकाः ॥ डाकिनी-शाकिनी च एव ये च अन्ये हकारकाः ॥ ८४॥
kṣamālinam dṛṣṭvā bhūta-preta-piśācakāḥ .. ḍākinī-śākinī ca eva ye ca anye hakārakāḥ .. 84..
कृत्रिमं चैव यत्किंचिदभिचारादिकं च यत् ॥ तत्सर्वं दूरतो याति दृष्ट्वा शंकितविग्रहम् ॥ ८५॥
कृत्रिमम् च एव यत् किंचिद् अभिचार-आदिकम् च यत् ॥ तत् सर्वम् दूरतस् याति दृष्ट्वा शंकित-विग्रहम् ॥ ८५॥
kṛtrimam ca eva yat kiṃcid abhicāra-ādikam ca yat .. tat sarvam dūratas yāti dṛṣṭvā śaṃkita-vigraham .. 85..
रुद्रा क्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति ॥ देवीगणपतिस्सूर्यः सुराश्चान्येपि पार्वति ॥ ८६॥
क्षमालिनम् दृष्ट्वा शिवः विष्णुः प्रसीदति ॥ देवी-गणपतिः सूर्यः सुराः च अन्ये अपि पार्वति ॥ ८६॥
kṣamālinam dṛṣṭvā śivaḥ viṣṇuḥ prasīdati .. devī-gaṇapatiḥ sūryaḥ surāḥ ca anye api pārvati .. 86..
एवं ज्ञात्वा तु माहात्म्यं रुद्रा क्षस्य महेश्वरि ॥ सम्यग्धार्यास्समंत्राश्च भक्त्याधर्मविवृद्धये ॥ ८७॥
एवम् ज्ञात्वा तु माहात्म्यम् रुद्रा क्षस्य महेश्वरि ॥ सम्यक् धार्याः स मंत्राः च भक्त्या अधर्म-विवृद्धये ॥ ८७॥
evam jñātvā tu māhātmyam rudrā kṣasya maheśvari .. samyak dhāryāḥ sa maṃtrāḥ ca bhaktyā adharma-vivṛddhaye .. 87..
इत्युक्तं गिरिजाग्रे हि शिवेन परमात्मना ॥ भस्मरूद्रा क्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ ८८॥
इति उक्तम् गिरिज-अग्रे हि शिवेन परमात्मना ॥ भस्म-रूद्रा क्ष-माहात्म्यम् भुक्ति-मुक्ति-फल-प्रदम् ॥ ८८॥
iti uktam girija-agre hi śivena paramātmanā .. bhasma-rūdrā kṣa-māhātmyam bhukti-mukti-phala-pradam .. 88..
शिवस्यातिप्रियौ ज्ञेयौ भस्मरुद्रा क्षधारिणौ ॥ तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः ॥ ८९॥
शिवस्य अति प्रियौ ज्ञेयौ भस्मरुद्रा क्ष-धारिणौ ॥ तद्-धारण-प्रभा-वत् हि भुक्तिः मुक्तिः न संशयः ॥ ८९॥
śivasya ati priyau jñeyau bhasmarudrā kṣa-dhāriṇau .. tad-dhāraṇa-prabhā-vat hi bhuktiḥ muktiḥ na saṃśayaḥ .. 89..
भस्मरुद्रा क्षधारी यः शिवभक्तस्स उच्यते ॥ पंचाक्षरजपासक्तः परिपूर्णश्च सन्मुखे ॥ ९०॥
भस्म-रुद्रा क्ष-धारी यः शिव-भक्तः सः उच्यते ॥ पंचाक्षर-जप-आसक्तः परिपूर्णः च सत्-मुखे ॥ ९०॥
bhasma-rudrā kṣa-dhārī yaḥ śiva-bhaktaḥ saḥ ucyate .. paṃcākṣara-japa-āsaktaḥ paripūrṇaḥ ca sat-mukhe .. 90..
विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया ॥ पूजितोपि महादेवो नाभीष्टफलदायकः ॥ ९१॥
विना भस्म-त्रिपुंड्रेण विना रुद्रा क्षमालया ॥ पूजितः अपि महादेवः न अभीष्ट-फल-दायकः ॥ ९१॥
vinā bhasma-tripuṃḍreṇa vinā rudrā kṣamālayā .. pūjitaḥ api mahādevaḥ na abhīṣṭa-phala-dāyakaḥ .. 91..
तत्सर्वं च समाख्यातं यत्पृष्टं हि मुनीश्वर ॥ भस्मरुद्रा क्षमाहात्म्यं सर्वकामसमृद्धिदम् ॥ ९२॥
तत् सर्वम् च समाख्यातम् यत् पृष्टम् हि मुनि-ईश्वर ॥ भस्मरुद्रा क्ष-माहात्म्यम् सर्व-काम-समृद्धि-दम् ॥ ९२॥
tat sarvam ca samākhyātam yat pṛṣṭam hi muni-īśvara .. bhasmarudrā kṣa-māhātmyam sarva-kāma-samṛddhi-dam .. 92..
एतद्यः शृणुयान्नित्यं माहात्म्यपरमं शुभम् ॥ रुद्रा क्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात् ॥ ९३॥
एतत् यः शृणुयात् नित्यम् माहात्म्य-परमम् शुभम् ॥ रुद्रा क्ष-भस्मनोः भक्त्या सर्वान् कामान् अवाप्नुयात् ॥ ९३॥
etat yaḥ śṛṇuyāt nityam māhātmya-paramam śubham .. rudrā kṣa-bhasmanoḥ bhaktyā sarvān kāmān avāpnuyāt .. 93..
इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः ॥ लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ॥ ९४॥
इह सर्व-सुखम् भुक्त्वा पुत्र-पौत्र-आदि-संयुतः ॥ लभेत् परत्र सत्-मोक्षम् शिवस्य अति प्रियः भवेत् ॥ ९४॥
iha sarva-sukham bhuktvā putra-pautra-ādi-saṃyutaḥ .. labhet paratra sat-mokṣam śivasya ati priyaḥ bhavet .. 94..
विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः ॥ सर्वसिद्धिप्रदा नित्यं मुक्तिदा शिवशासनात् ॥ ९५॥
विद्येश्वर-संहिता इयम् कथिता वः मुनि-ईश्वराः ॥ सर्व-सिद्धि-प्रदा नित्यम् मुक्ति-दा शिव-शासनात् ॥ ९५॥
vidyeśvara-saṃhitā iyam kathitā vaḥ muni-īśvarāḥ .. sarva-siddhi-pradā nityam mukti-dā śiva-śāsanāt .. 95..
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्रा क्षमहात्म्यवर्णनोनाम पञ्चविंशोऽध्यायः ॥ ९६॥
इति श्री-शिव-महापुराणे प्रथमायाम् विद्येश्वर-संहितायाम् साध्यसाधन-खण्डे रुद्राक्षमहात्म्यवर्णना नाम पञ्चविंशः अध्यायः ॥ ९६॥
iti śrī-śiva-mahāpurāṇe prathamāyām vidyeśvara-saṃhitāyām sādhyasādhana-khaṇḍe rudrākṣamahātmyavarṇanā nāma pañcaviṃśaḥ adhyāyaḥ .. 96..
इति श्रीशिवमहापुराणे प्रथमा विद्येश्वरसंहिता समाप्ता ॥ ९७॥
इति श्री-शिव-महापुराणे प्रथमा विद्येश्वर-संहिता समाप्ता ॥ ९७॥
iti śrī-śiva-mahāpurāṇe prathamā vidyeśvara-saṃhitā samāptā .. 97..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In