| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः ॥ वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् ॥ १॥
इति आकर्ण्य वचः सौतम् प्रोचुः ते परम-ऋषयः ॥ वेदांत-सार-सर्वस्वम् पुराणम् श्रावय अद्भुतम् ॥ १॥
iti ākarṇya vacaḥ sautam procuḥ te parama-ṛṣayaḥ .. vedāṃta-sāra-sarvasvam purāṇam śrāvaya adbhutam .. 1..
इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ॥ संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् ॥ २॥
इति श्रुत्वा मुनीनाम् स वचनम् सु प्रहर्षितः ॥ संस्मरन् शंकरम् सूतः प्रोवाच मुनि-सत्तमान् ॥ २॥
iti śrutvā munīnām sa vacanam su praharṣitaḥ .. saṃsmaran śaṃkaram sūtaḥ provāca muni-sattamān .. 2..
सूत उवाच ॥ शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ॥ ३॥
सूतः उवाच ॥ शृण्वन्तु ऋषयः सर्वे स्मृत्वा शिवम् अनामयम् ॥ ३॥
sūtaḥ uvāca .. śṛṇvantu ṛṣayaḥ sarve smṛtvā śivam anāmayam .. 3..
पुराणप्रवणं शैवं पुराणं वेदसारजम् ॥ यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥ ४॥
पुराण-प्रवणम् शैवम् पुराणम् वेद-सार-जम् ॥ ॥ ४॥
purāṇa-pravaṇam śaivam purāṇam veda-sāra-jam .. .. 4..
वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ॥ सूत उवाच ॥ ५॥
वेदांत-वेद्यम् सत्-वस्तु विशेषेण प्रवर्णितम् ॥ सूतः उवाच ॥ ५॥
vedāṃta-vedyam sat-vastu viśeṣeṇa pravarṇitam .. sūtaḥ uvāca .. 5..
शृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम् ॥ पुरा कालेन महता कल्पेऽतीते पुनःपुनः ॥ ६॥
शृण्वन्तु ऋषयः सर्वे पुराणम् वेद-सार-जम् ॥ पुरा कालेन महता कल्पे अतीते पुनर् पुनर् ॥ ६॥
śṛṇvantu ṛṣayaḥ sarve purāṇam veda-sāra-jam .. purā kālena mahatā kalpe atīte punar punar .. 6..
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ॥ मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥ ७॥
अस्मिन् उपस्थिते कल्पे प्रवृत्ते सृष्टि-कर्मणि ॥ मुनीनाम् षट्कुलीनानाम् ब्रुवताम् इतरेतरम् ॥ ७॥
asmin upasthite kalpe pravṛtte sṛṣṭi-karmaṇi .. munīnām ṣaṭkulīnānām bruvatām itaretaram .. 7..
इदं परमिदं नेति विवादः सुमहानभूत् ॥ तेऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥ ८॥
इदम् परम् इदम् न इति विवादः सु महान् अभूत् ॥ ते अभिजग्मुः विधातारम् ब्रह्माणम् प्रष्टुम् अव्ययम् ॥ ८॥
idam param idam na iti vivādaḥ su mahān abhūt .. te abhijagmuḥ vidhātāram brahmāṇam praṣṭum avyayam .. 8..
वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयोऽब्रुवन् ॥ त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ ९॥
वाग्भिः विनय-गर्भाभिः सर्वे प्रांजलयः अब्रुवन् ॥ त्वम् हि सर्व-जगत्-धाता सर्व-कारण-कारणम् ॥ ९॥
vāgbhiḥ vinaya-garbhābhiḥ sarve prāṃjalayaḥ abruvan .. tvam hi sarva-jagat-dhātā sarva-kāraṇa-kāraṇam .. 9..
कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः ॥ १०॥
कः पुमान् सर्व-तत्त्वेभ्यः पुराणः परतस् परः ॥ १०॥
kaḥ pumān sarva-tattvebhyaḥ purāṇaḥ paratas paraḥ .. 10..
ब्रह्मोवाच ।
यतो वाचो निवर्तंते अप्राप्य मनसा सह १.३. ॥ ११॥
यतस् वाचः निवर्तन्ते अ प्राप्य मनसा सह।३। ॥ ११॥
yatas vācaḥ nivartante a prāpya manasā saha.3. .. 11..
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रे द्रं! पूर्वकम् ॥ सहभूतेंद्रि यैः सर्वैः प्रथमं संप्रसूयते ॥ १२॥
यस्मात् सर्वम् इदम् ब्रह्म-विष्णु-रुद्रे द्रं! पूर्वकम् ॥ सह भूत-इंद्रि यैः सर्वैः प्रथमम् संप्रसूयते ॥ १२॥
yasmāt sarvam idam brahma-viṣṇu-rudre draṃ! pūrvakam .. saha bhūta-iṃdri yaiḥ sarvaiḥ prathamam saṃprasūyate .. 12..
एष देवो महादेवः सर्वज्ञो जगदीश्वरः ॥ अयं तु परया भक्त्या दृश्यते नाऽन्यथा क्वचित् ॥ १३॥
एष देवः महादेवः सर्वज्ञः जगत्-ईश्वरः ॥ अयम् तु परया भक्त्या दृश्यते न अ अन्यथा क्वचिद् ॥ १३॥
eṣa devaḥ mahādevaḥ sarvajñaḥ jagat-īśvaraḥ .. ayam tu parayā bhaktyā dṛśyate na a anyathā kvacid .. 13..
रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ॥ भक्त्या परमया तस्य नित्यं दर्शनकांक्षिणः ॥ १४॥
रुद्रः हरिः हरः च एव तथा अन्ये च सुर-ईश्वराः ॥ भक्त्या परमया तस्य नित्यम् दर्शन-कांक्षिणः ॥ १४॥
rudraḥ hariḥ haraḥ ca eva tathā anye ca sura-īśvarāḥ .. bhaktyā paramayā tasya nityam darśana-kāṃkṣiṇaḥ .. 14..
प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः ॥ यथेहांकुरतो बीजं बीजतो वा यथांकुरः ॥ १५॥
॥ यथा इह अंकुरतः बीजम् बीजतः वा यथा अंकुरः ॥ १५॥
.. yathā iha aṃkurataḥ bījam bījataḥ vā yathā aṃkuraḥ .. 15..
तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ॥ दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥ १६॥
तस्मात् ईश-प्रसाद-अर्थम् यूयम् गत्वा भुवम् द्विजाः ॥ दीर्घ-सत्रम् समाकृध्वम् यूयम् वर्ष-सहस्रकम् ॥ १६॥
tasmāt īśa-prasāda-artham yūyam gatvā bhuvam dvijāḥ .. dīrgha-satram samākṛdhvam yūyam varṣa-sahasrakam .. 16..
अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ॥ वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं ॥ १७॥
अमुष्य एव अध्वर-ईशस्य शिवस्य एव प्रसादतः ॥ वेद-उक्त-विद्या-सारम् तु ज्ञायते साध्य-साधनम् ॥ १७॥
amuṣya eva adhvara-īśasya śivasya eva prasādataḥ .. veda-ukta-vidyā-sāram tu jñāyate sādhya-sādhanam .. 17..
मुनय ऊचुः ।
अथ किं परमं साध्यं किंवा तत्साधनं परम् ॥ साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥ १८॥
अथ किम् परमम् साध्यम् किंवा तत् साधनम् परम् ॥ साधकः कीदृशः तत्र तत् इदम् ब्रूहि तत्त्वतः ॥ १८॥
atha kim paramam sādhyam kiṃvā tat sādhanam param .. sādhakaḥ kīdṛśaḥ tatra tat idam brūhi tattvataḥ .. 18..
ब्रह्मोवाच ।
साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ॥ साधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः ॥ १९॥
साध्यम् शिव-पद-प्राप्तिः साधनम् तस्य सेवनम् ॥ साधकः तद्-प्रसाद-आद्यः अनित्य-आदि-फल-निःस्पृहः ॥ १९॥
sādhyam śiva-pada-prāptiḥ sādhanam tasya sevanam .. sādhakaḥ tad-prasāda-ādyaḥ anitya-ādi-phala-niḥspṛhaḥ .. 19..
कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ॥ परमेशपदप्राप्तः सालोक्यादिक्रमात्ततः ॥ २०॥
कर्म कृत्वा तु वेद-उक्तम् तद्-अर्पित-महा-फलम् ॥ परमेश-पद-प्राप्तः सालोक्य-आदि-क्रमात् ततस् ॥ २०॥
karma kṛtvā tu veda-uktam tad-arpita-mahā-phalam .. parameśa-pada-prāptaḥ sālokya-ādi-kramāt tatas .. 20..
तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ॥ तत्साधनं बहुविधं साक्षादीशेन बोधितम् १.३. ॥ २१॥
तद्-तद्-भक्ति-अनुसारेण सर्वेषाम् परमम् फलम् ॥ तत् साधनम् बहुविधम् साक्षात् ईशेन बोधितम्।३। ॥ २१॥
tad-tad-bhakti-anusāreṇa sarveṣām paramam phalam .. tat sādhanam bahuvidham sākṣāt īśena bodhitam.3. .. 21..
संक्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ॥ श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा ॥ २२॥
संक्षिप्य तत्र वः सारम् साधनम् प्रब्रवीमि अहम् ॥ श्रोत्रेण श्रवणम् तस्य वचसा कीर्तनम् तथा ॥ २२॥
saṃkṣipya tatra vaḥ sāram sādhanam prabravīmi aham .. śrotreṇa śravaṇam tasya vacasā kīrtanam tathā .. 22..
मनसा मननं तस्य महासाधनमुच्यते ॥ श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः ॥ २३॥
मनसा मननम् तस्य महा-साधनम् उच्यते ॥ श्रोतव्यः कीर्तितव्यः च मन्तव्यः च महेश्वरः ॥ २३॥
manasā mananam tasya mahā-sādhanam ucyate .. śrotavyaḥ kīrtitavyaḥ ca mantavyaḥ ca maheśvaraḥ .. 23..
इति श्रुतिप्रमाणं नः साधनेनाऽमुना परम् ॥ साध्यं व्रजत सर्वार्थसाधनैकपरायणाः ॥ २४॥
इति श्रुति-प्रमाणम् नः साधनेन अ अमुना परम् ॥ साध्यम् व्रजत सर्व-अर्थ-साधन-एक-परायणाः ॥ २४॥
iti śruti-pramāṇam naḥ sādhanena a amunā param .. sādhyam vrajata sarva-artha-sādhana-eka-parāyaṇāḥ .. 24..
प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ॥ अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ॥ २५॥
प्रत्यक्षम् चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ॥ अप्रत्यक्षम् हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ॥ २५॥
pratyakṣam cakṣuṣā dṛṣṭvā tatra lokaḥ pravartate .. apratyakṣam hi sarvatra jñātvā śrotreṇa ceṣṭate .. 25..
तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः ॥ ततः संसाधयेदन्यत्कीर्तनं मननं सुधीः ॥ २६॥
तस्मात् श्रवणम् एव आदौ श्रुत्वा गुरु-मुखात् बुधः ॥ ततस् संसाधयेत् अन्यत् कीर्तनम् मननम् सुधीः ॥ २६॥
tasmāt śravaṇam eva ādau śrutvā guru-mukhāt budhaḥ .. tatas saṃsādhayet anyat kīrtanam mananam sudhīḥ .. 26..
क्रमान्मननपर्यंते साधनेऽस्मिन्सुसाधिते ॥ शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः ॥ २७॥
क्रमात् मनन-पर्यन्ते साधने अस्मिन् सु साधिते ॥ शिव-योगः भवेत् तेन सालोक्य-आदि-क्रमात् शनैस् ॥ २७॥
kramāt manana-paryante sādhane asmin su sādhite .. śiva-yogaḥ bhavet tena sālokya-ādi-kramāt śanais .. 27..
सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते ॥ अभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम् ॥ २८॥
सर्व-अंग-व्याधयः पश्चात् सर्व-आनंदः च लीयते ॥ अभ्यासात् क्लेशम् एतत् वै पश्चात् आदि-अन्त-मंगलम् ॥ २८॥
sarva-aṃga-vyādhayaḥ paścāt sarva-ānaṃdaḥ ca līyate .. abhyāsāt kleśam etat vai paścāt ādi-anta-maṃgalam .. 28..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे ॥ तृतीयोऽध्यायः ॥ २९॥
इति श्री-शिवमहापुराणे विद्येश्वरसंहितायाम् साध्यसाधन-खण्डे ॥ तृतीयः अध्यायः ॥ २९॥
iti śrī-śivamahāpurāṇe vidyeśvarasaṃhitāyām sādhyasādhana-khaṇḍe .. tṛtīyaḥ adhyāyaḥ .. 29..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In