| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः ।
मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् ॥ कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम् ॥ १॥
मननम् कीदृशम् ब्रह्मन् श्रवणम् च अपि कीदृशम् ॥ कीर्तनम् वा कथम् तस्य कीर्तया एतत् यथायथम् ॥ १॥
mananam kīdṛśam brahman śravaṇam ca api kīdṛśam .. kīrtanam vā katham tasya kīrtayā etat yathāyatham .. 1..
ब्रह्मोवाच ।
पूजाजपेशगुणरूपविलासनाम्नां युक्तिप्रियेण मनसा परिशोधनं यत् ॥ तत्संततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् ॥ २॥
पूजा-जप-ईश-गुण-रूप-विलास-नाम्नाम् युक्ति-प्रियेण मनसा परिशोधनम् यत् ॥ तत् संततम् मननम् ईश्वर-दृष्टि-लभ्यम् सर्वेषु साधन-वरेषु अपि मुख्य-मुख्यम् ॥ २॥
pūjā-japa-īśa-guṇa-rūpa-vilāsa-nāmnām yukti-priyeṇa manasā pariśodhanam yat .. tat saṃtatam mananam īśvara-dṛṣṭi-labhyam sarveṣu sādhana-vareṣu api mukhya-mukhyam .. 2..
गीतात्मना श्रुतिपदेन च भाषया वा शंभुप्रतापगुणरूपविलासनाम्नाम् ॥ वाचा स्फुटं तु रसवत्स्तवनं यदस्य तत्कीर्तनं भवति साधनमत्र मध्यम् ॥ ३॥
गीत-आत्मना श्रुति-पदेन च भाषया वा शंभु-प्रताप-गुण-रूप-विलास-नाम्नाम् ॥ वाचा स्फुटम् तु रसवत् स्तवनम् यत् अस्य तत् कीर्तनम् भवति साधनम् अत्र मध्यम् ॥ ३॥
gīta-ātmanā śruti-padena ca bhāṣayā vā śaṃbhu-pratāpa-guṇa-rūpa-vilāsa-nāmnām .. vācā sphuṭam tu rasavat stavanam yat asya tat kīrtanam bhavati sādhanam atra madhyam .. 3..
येनापि केन करणेन च शब्दपुंजं यत्र क्वचिच्छिवपरं श्रवणेंद्रि येण ॥ स्त्रीकेलिवद्दृढतरं प्रणिधीयते यत्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् ॥ ४॥
येन अपि केन करणेन च शब्द-पुंजम् यत्र क्वचिद् शिव-परम् श्रवण-इन्द्रि ॥ स्त्री-केलि-वत् दृढतरम् प्रणिधीयते यत् तत् वै बुधाः श्रवणम् अत्र जगत् प्रसिद्धम् ॥ ४॥
yena api kena karaṇena ca śabda-puṃjam yatra kvacid śiva-param śravaṇa-indri .. strī-keli-vat dṛḍhataram praṇidhīyate yat tat vai budhāḥ śravaṇam atra jagat prasiddham .. 4..
सत्संगमेन भवति श्रवणं पुरस्तात्संकीर्तनं पशुपतेरथ तद्दृढं स्यात् ॥ सर्वोत्तमं भवति तन्मननं तदंते सर्वं हि संभवति शंकरदृष्टिपाते ॥ ५॥
सत्-संगमेन भवति श्रवणम् पुरस्तात् संकीर्तनम् पशुपतेः अथ तत् दृढम् स्यात् ॥ सर्व-उत्तमम् भवति तत् मननम् तद्-अन्ते सर्वम् हि संभवति शंकर-दृष्टिपाते ॥ ५॥
sat-saṃgamena bhavati śravaṇam purastāt saṃkīrtanam paśupateḥ atha tat dṛḍham syāt .. sarva-uttamam bhavati tat mananam tad-ante sarvam hi saṃbhavati śaṃkara-dṛṣṭipāte .. 5..
सूत उवाच ।
अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः ॥ युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः ॥ ६॥
अस्मिन् साधन-माहत्म्ये पुरा वृत्तम् मुनि-ईश्वराः ॥ युष्मद्-अर्थम् प्रवक्ष्यामि शृणुध्वम् अवधानतः ॥ ६॥
asmin sādhana-māhatmye purā vṛttam muni-īśvarāḥ .. yuṣmad-artham pravakṣyāmi śṛṇudhvam avadhānataḥ .. 6..
पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः ॥ तपश्चचार संभ्रांतः सरस्वत्यास्तटे शुभे ॥ ७॥
पुरा मम गुरुः व्यासः पराशर-मुनेः सुतः ॥ तपः चचार संभ्रांतः सरस्वत्याः तटे शुभे ॥ ७॥
purā mama guruḥ vyāsaḥ parāśara-muneḥ sutaḥ .. tapaḥ cacāra saṃbhrāṃtaḥ sarasvatyāḥ taṭe śubhe .. 7..
गच्छन्यदृछया तत्र विमानेनार्करोचिषा ॥ सनत्कुमारो भगवान्ददर्श मम देशिकम् ॥ ८॥
गच्छन् यदृछया तत्र विमानेन अर्क-रोचिषा ॥ सनत्कुमारः भगवान् ददर्श मम देशिकम् ॥ ८॥
gacchan yadṛchayā tatra vimānena arka-rociṣā .. sanatkumāraḥ bhagavān dadarśa mama deśikam .. 8..
ध्यानारूढः प्रबुद्धोऽसौ ददर्श तमजात्मजम् ॥ प्रणिपत्याह संभ्रांतः परं कौतूहलं मुनिः ॥ ९॥
ध्यान-आरूढः प्रबुद्धः असौ ददर्श तम् अज-आत्मजम् ॥ प्रणिपत्य आह संभ्रांतः परम् कौतूहलम् मुनिः ॥ ९॥
dhyāna-ārūḍhaḥ prabuddhaḥ asau dadarśa tam aja-ātmajam .. praṇipatya āha saṃbhrāṃtaḥ param kautūhalam muniḥ .. 9..
दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टिरम् ब् ॥ प्रसन्नः प्राह तं प्रह्वं प्रभुर्गंभीरया गिरा १.४. ॥ १०॥
दत्त्वा अर्घ्यम् अस्मै प्रददौ देव-योग्यम् च विष्टिरम् ॥ प्रसन्नः प्राह तम् प्रह्वम् प्रभुः गंभीरया गिरा।४। ॥ १०॥
dattvā arghyam asmai pradadau deva-yogyam ca viṣṭiram .. prasannaḥ prāha tam prahvam prabhuḥ gaṃbhīrayā girā.4. .. 10..
सनत्कुमार उवाच ।
सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः ॥ स शिवोथासहायोत्र तपश्चरसि किं कृते ॥ ११॥
सत्यम् वस्तु मुने दध्याः साक्षात् करण-गोचरः ॥ स तपः चरसि किम् कृते ॥ ११॥
satyam vastu mune dadhyāḥ sākṣāt karaṇa-gocaraḥ .. sa tapaḥ carasi kim kṛte .. 11..
एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः ॥ धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः ॥ १२॥
एवम् उक्तः कुमारेण प्रोवाच स्व-आशयम् मुनिः ॥ धर्म-अर्थ-काम-मोक्षाः च वेद-मार्गे कृत-आदराः ॥ १२॥
evam uktaḥ kumāreṇa provāca sva-āśayam muniḥ .. dharma-artha-kāma-mokṣāḥ ca veda-mārge kṛta-ādarāḥ .. 12..
बहुधा स्थापिता लोके मया त्वत्कृपया तथा ॥ एवं भुतस्य मेप्येवं गुरुभूतस्य सर्वतः ॥ १३॥
बहुधा स्थापिताः लोके मया त्वद्-कृपया तथा ॥ एवम् भुतस्य मे इपि एवम् गुरु-भूतस्य सर्वतस् ॥ १३॥
bahudhā sthāpitāḥ loke mayā tvad-kṛpayā tathā .. evam bhutasya me ipi evam guru-bhūtasya sarvatas .. 13..
मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम् ॥ तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम् ॥ १४॥
मुक्ति-साधनकम् ज्ञानम् न उदेति परम-अद्भुतम् ॥ तपः चरामि मुक्ति-अर्थम् न जाने तत्र कारणम् ॥ १४॥
mukti-sādhanakam jñānam na udeti parama-adbhutam .. tapaḥ carāmi mukti-artham na jāne tatra kāraṇam .. 14..
इत्थं कुमारो भगवान्व्यासेन मुनिनार्थितः ॥ समर्थः प्राह विप्रेंद्रा निश्चयं मुक्तिकारणम् ॥ १५॥
इत्थम् कुमारः भगवान् व्यासेन मुनिना अर्थितः ॥ समर्थः प्राह विप्र-इंद्राः निश्चयम् मुक्ति-कारणम् ॥ १५॥
ittham kumāraḥ bhagavān vyāsena muninā arthitaḥ .. samarthaḥ prāha vipra-iṃdrāḥ niścayam mukti-kāraṇam .. 15..
श्रवणं कीर्तनं शंभोर्मननं च महत्तरम् ॥ त्रयं साधनमुक्तं च विद्यते वेदसंमतम् ॥ १६॥
श्रवणम् कीर्तनम् शंभोः मननम् च महत्तरम् ॥ त्रयम् साधनम् उक्तम् च विद्यते वेद-संमतम् ॥ १६॥
śravaṇam kīrtanam śaṃbhoḥ mananam ca mahattaram .. trayam sādhanam uktam ca vidyate veda-saṃmatam .. 16..
पुराहमथ संभ्रांतो ह्यन्यसाधनसंभ्रमः ॥ अचले मंदरे शैले तपश्चरणमाचरम् ॥ १७॥
पुरा अहम् अथ संभ्रांतः हि अन्य-साधन-संभ्रमः ॥ अचले मंदरे शैले तपः-चरणम् आचरम् ॥ १७॥
purā aham atha saṃbhrāṃtaḥ hi anya-sādhana-saṃbhramaḥ .. acale maṃdare śaile tapaḥ-caraṇam ācaram .. 17..
शिवाज्ञया ततः प्राप्तो भगवान्नंदिकेश्वरः ॥ स मे दयालुर्भगवान्सर्वसाक्षी गणेश्वरः ॥ १८॥
शिव-आज्ञया ततस् प्राप्तः भगवान् नंदिकेश्वरः ॥ स मे दयालुः भगवान् सर्व-साक्षी गणेश्वरः ॥ १८॥
śiva-ājñayā tatas prāptaḥ bhagavān naṃdikeśvaraḥ .. sa me dayāluḥ bhagavān sarva-sākṣī gaṇeśvaraḥ .. 18..
उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् ॥ श्रवणं कीर्तनं शंभोर्मननं वेदसंमतम् ॥ १९॥
उवाच मह्यम् स स्नेहम् मुक्ति-साधनम् उत्तमम् ॥ श्रवणम् कीर्तनम् शंभोः मननम् वेद-संमतम् ॥ १९॥
uvāca mahyam sa sneham mukti-sādhanam uttamam .. śravaṇam kīrtanam śaṃbhoḥ mananam veda-saṃmatam .. 19..
त्रिकं च साधनं मुक्तौ शिवेन मम भाषितम् ॥ श्रवणादिं त्रिकं ब्रह्मन्कुरुष्वेति मुहुर्मुहुः १.४. ॥ २०॥
त्रिकम् च साधनम् मुक्तौ शिवेन मम भाषितम् ॥ श्रवण-आदिम् त्रिकम् ब्रह्मन् कुरुष्व इति मुहुर् मुहुर्।४। ॥ २०॥
trikam ca sādhanam muktau śivena mama bhāṣitam .. śravaṇa-ādim trikam brahman kuruṣva iti muhur muhur.4. .. 20..
एवमुक्त्वा ततो व्यासं सानुगो विधिनंदनः ॥ जगाम स्वविमानेन पदं परमशोभनम् ॥ २१॥
एवम् उक्त्वा ततस् व्यासम् स अनुगः विधिनंदनः ॥ जगाम स्व-विमानेन पदम् परम-शोभनम् ॥ २१॥
evam uktvā tatas vyāsam sa anugaḥ vidhinaṃdanaḥ .. jagāma sva-vimānena padam parama-śobhanam .. 21..
एवमुक्तं समासेन पूर्ववृत्तांतमुत्तमम् ॥ २२॥
एवम् उक्तम् समासेन पूर्व-वृत्तांतम् उत्तमम् ॥ २२॥
evam uktam samāsena pūrva-vṛttāṃtam uttamam .. 22..
ऋषय ऊचुः ।
श्रवणादित्रयं सूत मुक्त्योपायस्त्वयेरितः ॥ २३॥
श्रवण-आदि-त्रयम् सूत मुक्त्या उपायः त्वया ईरितः ॥ २३॥
śravaṇa-ādi-trayam sūta muktyā upāyaḥ tvayā īritaḥ .. 23..
श्रवणादित्रिकेऽशक्तः किं कृत्वा मुच्यते जनः ॥ अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना ॥ २४॥
श्रवण-आदि-त्रिके अशक्तः किम् कृत्वा मुच्यते जनः ॥ अयत्नेन एव मुक्तिः स्यात् कर्मणा केन हेतुना ॥ २४॥
śravaṇa-ādi-trike aśaktaḥ kim kṛtvā mucyate janaḥ .. ayatnena eva muktiḥ syāt karmaṇā kena hetunā .. 24..
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायं साध्यसाधनखण्डे चतुर्थोऽध्यायः ॥ २५॥
इति श्री-शिव-महापुराणे प्रथमायाम् विद्येश्वरसंहिता अयम् साध्य-साधन-खण्डे चतुर्थः अध्यायः ॥ २५॥
iti śrī-śiva-mahāpurāṇe prathamāyām vidyeśvarasaṃhitā ayam sādhya-sādhana-khaṇḍe caturthaḥ adhyāyaḥ .. 25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In