| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
श्रवणादित्रिकेऽशक्तो लिंगं बेरं च शांकरम् ॥ संस्थाप्य नित्यमभ्यर्च्य तरेत्संसारसागरम् ॥ १॥
श्रवण-आदि-त्रिके अशक्तः लिंगम् बेरम् च शांकरम् ॥ संस्थाप्य नित्यम् अभ्यर्च्य तरेत् संसार-सागरम् ॥ १॥
śravaṇa-ādi-trike aśaktaḥ liṃgam beram ca śāṃkaram .. saṃsthāpya nityam abhyarcya taret saṃsāra-sāgaram .. 1..
अपि द्र व्यं वहेदेव यथाबलमवंचयन् ॥ अर्पयेल्लिंगबेरार्थमर्चयेदपि संततम् ॥ २॥
अपि द्र-व्यम् वहेत् एव यथाबलम् अवंचयन् ॥ अर्पयेत् लिंग-बेर-अर्थम् अर्चयेत् अपि संततम् ॥ २॥
api dra-vyam vahet eva yathābalam avaṃcayan .. arpayet liṃga-bera-artham arcayet api saṃtatam .. 2..
मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् ॥ वस्त्रं गंधं च माल्यं च धूपं दीपं च भक्तितः ॥ ३॥
मंडपम् गोपुरम् तीर्थम् मठम् क्षेत्रम् तथा उत्सवम् ॥ वस्त्रम् गंधम् च माल्यम् च धूपम् दीपम् च भक्तितः ॥ ३॥
maṃḍapam gopuram tīrtham maṭham kṣetram tathā utsavam .. vastram gaṃdham ca mālyam ca dhūpam dīpam ca bhaktitaḥ .. 3..
विविधान्नं च नैवेद्यमपूपव्यंजनैर्युतम् ॥ छत्रं ध्वजं च व्यजनं चामरं चापि सांगकम् ॥ ४॥
विविध-अन्नम् च नैवेद्यम् अपूप-व्यंजनैः युतम् ॥ छत्रम् ध्वजम् च व्यजनम् चामरम् च अपि सांगकम् ॥ ४॥
vividha-annam ca naivedyam apūpa-vyaṃjanaiḥ yutam .. chatram dhvajam ca vyajanam cāmaram ca api sāṃgakam .. 4..
राजोपचारवत्सर्वं धारयेल्लिंगबेरयोः ॥ प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा ॥ ५॥
राज-उपचार-वत् सर्वम् धारयेत् लिंग-बेरयोः ॥ प्रदक्षिणाम् नमस्कारम् यथाशक्ति जपम् तथा ॥ ५॥
rāja-upacāra-vat sarvam dhārayet liṃga-berayoḥ .. pradakṣiṇām namaskāram yathāśakti japam tathā .. 5..
आवाहनादिसर्गांतं नित्यं कुर्यात्सुभक्तितः ॥ इत्थमभ्यर्च्य यन्देवं लिंगेबेरे च शांकरे ॥ ६॥
आवाहन-आदि-सर्ग-अंतम् नित्यम् कुर्यात् सु भक्तितः ॥ इत्थम् अभ्यर्च्य यत् देवम् लिंगेबेरे च शांकरे ॥ ६॥
āvāhana-ādi-sarga-aṃtam nityam kuryāt su bhaktitaḥ .. ittham abhyarcya yat devam liṃgebere ca śāṃkare .. 6..
सिद्धिमेति शिवप्रीत्या हित्वापि श्रवणादिकम् ॥ लिंगबेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः ॥ ७॥
सिद्धिम् एति शिव-प्रीत्या हित्वा अपि श्रवण-आदिकम् ॥ लिंगबेर-अर्चना-मात्रात् मुक्ताः पुर् वे महाजनाः ॥ ७॥
siddhim eti śiva-prītyā hitvā api śravaṇa-ādikam .. liṃgabera-arcanā-mātrāt muktāḥ pur ve mahājanāḥ .. 7..
मनुय ऊचुः ।
बेरमात्रे तु सर्वत्र पूज्यंते देवतागणाः ॥ लिंगेबेरे च सर्वत्र कथं संपूज्यते शिवः ॥ ८॥
बेर-मात्रे तु सर्वत्र पूज्यंते देवता-गणाः ॥ लिंगेबेरे च सर्वत्र कथम् संपूज्यते शिवः ॥ ८॥
bera-mātre tu sarvatra pūjyaṃte devatā-gaṇāḥ .. liṃgebere ca sarvatra katham saṃpūjyate śivaḥ .. 8..
सूत उवाच ।
अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम् ॥ अत्र वक्ता महादेवो नान्योऽस्ति पुरुषः क्वचित् ॥ ९॥
अहो मुनि-ईश्वराः पुण्यम् प्रश्नम् एतत् महा-अद्भुतम् ॥ अत्र वक्ता महादेवः न अन्यः अस्ति पुरुषः क्वचिद् ॥ ९॥
aho muni-īśvarāḥ puṇyam praśnam etat mahā-adbhutam .. atra vaktā mahādevaḥ na anyaḥ asti puruṣaḥ kvacid .. 9..
शिवेनोक्तं प्रवक्ष्यामि क्रमाद्गुरुमुखाच्छ्रुतम् ॥ शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः १.५. ॥ १०॥
शिवेन उक्तम् प्रवक्ष्यामि क्रमात् गुरु-मुखात् श्रुतम् ॥ शिव-एकः ब्रह्म-रूप-त्वात् निष्कलः परिकीर्तितः।५। ॥ १०॥
śivena uktam pravakṣyāmi kramāt guru-mukhāt śrutam .. śiva-ekaḥ brahma-rūpa-tvāt niṣkalaḥ parikīrtitaḥ.5. .. 10..
रूपित्वात्सकलस्तद्वत्तस्मात्सकलनिष्कलः ॥ निष्कलत्वान्निराकारं लिंगं तस्य समागतम् ॥ ११॥
रूपि-त्वात् सकलः तद्वत् तस्मात् सकल-निष्कलः ॥ निष्कल-त्वात् निराकारम् लिंगम् तस्य समागतम् ॥ ११॥
rūpi-tvāt sakalaḥ tadvat tasmāt sakala-niṣkalaḥ .. niṣkala-tvāt nirākāram liṃgam tasya samāgatam .. 11..
सकलत्वात्तथा बेरं साकारं तस्य संगतम् ॥ सकलाकलरूपत्वाद्ब्रह्मशब्दाभिधः परः ॥ १२॥
सकल-त्वात् तथा बेरम् स आकारम् तस्य संगतम् ॥ सकल-अकल-रूप-त्वात् ब्रह्म-शब्द-अभिधः परः ॥ १२॥
sakala-tvāt tathā beram sa ākāram tasya saṃgatam .. sakala-akala-rūpa-tvāt brahma-śabda-abhidhaḥ paraḥ .. 12..
अपि लिंगे च बेरे च नित्यमभ्यर्च्यते जनैः ॥ अब्रह्मत्वात्तदन्येषां निष्कलत्वं न हि क्वचित् ॥ १३॥
अपि लिंगे च बेरे च नित्यम् अभ्यर्च्यते जनैः ॥ अब्रह्म-त्वात् तद्-अन्येषाम् निष्कल-त्वम् न हि क्वचिद् ॥ १३॥
api liṃge ca bere ca nityam abhyarcyate janaiḥ .. abrahma-tvāt tad-anyeṣām niṣkala-tvam na hi kvacid .. 13..
तस्मात्ते निष्कले लिंगे नाराध्यंते सुरेश्वराः ॥ अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः ॥ १४॥
तस्मात् ते निष्कले लिंगे न आराध्यंते सुरेश्वराः ॥ अ ब्रह्म-त्वात् च जीव-त्वात् तथा अन्ये देवता-गणाः ॥ १४॥
tasmāt te niṣkale liṃge na ārādhyaṃte sureśvarāḥ .. a brahma-tvāt ca jīva-tvāt tathā anye devatā-gaṇāḥ .. 14..
तूष्णीं सकलमात्रत्वादर्च्यंते बेरमात्रके ॥ जीवत्वं शंकरान्येषां ब्रह्मत्वं शंकरस्य च ॥ १५॥
तूष्णीम् सकल-मात्र-त्वात् अर्च्यंते बेर-मात्रके ॥ जीव-त्वम् शंकर अन्येषाम् ब्रह्म-त्वम् शंकरस्य च ॥ १५॥
tūṣṇīm sakala-mātra-tvāt arcyaṃte bera-mātrake .. jīva-tvam śaṃkara anyeṣām brahma-tvam śaṃkarasya ca .. 15..
वेदांतसारसंसिद्धं प्रणवार्थे प्रकाशनात् ॥ एवमेव पुरा पृष्टो मंदरे नंदिकेश्वरः ॥ १६॥
वेदांत-सार-संसिद्धम् प्रणव-अर्थे प्रकाशनात् ॥ एवम् एव पुरा पृष्टः मंदरे नंदिकेश्वरः ॥ १६॥
vedāṃta-sāra-saṃsiddham praṇava-arthe prakāśanāt .. evam eva purā pṛṣṭaḥ maṃdare naṃdikeśvaraḥ .. 16..
सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता ब् ॥ १७॥
सनत्कुमार-मुनिना ब्रह्म-पुत्रेण धीमता ॥ १७॥
sanatkumāra-muninā brahma-putreṇa dhīmatā .. 17..
सनत्कुमार उवाच ।
शिवान्यदेववश्यानां सर्वेषामपि सर्वतः ॥ १८॥
शिव-अन्य-देव-वश्यानाम् सर्वेषाम् अपि सर्वतस् ॥ १८॥
śiva-anya-deva-vaśyānām sarveṣām api sarvatas .. 18..
बेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः ॥ शिवमात्रस्य पूजायां लिंगं बेरं च दृश्यते ॥ १९॥
बेर-मात्रम् च पूजा-अर्थम् श्रुतम् दृष्टम् च भूरिशस् ॥ शिव-मात्रस्य पूजायाम् लिंगम् बेरम् च दृश्यते ॥ १९॥
bera-mātram ca pūjā-artham śrutam dṛṣṭam ca bhūriśas .. śiva-mātrasya pūjāyām liṃgam beram ca dṛśyate .. 19..
अतस्तद्ब्रूहि कल्याण तत्त्वं मे साधुबोधनम् ॥ २०॥
अतस् तत् ब्रूहि कल्याण तत्त्वम् मे साधु-बोधनम् ॥ २०॥
atas tat brūhi kalyāṇa tattvam me sādhu-bodhanam .. 20..
नंदिकेश्वर उवाच ।
अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम् ॥ २१॥
अनुत्तरम् इमम् प्रश्नम् रहस्यम् ब्रह्म-लक्षणम् ॥ २१॥
anuttaram imam praśnam rahasyam brahma-lakṣaṇam .. 21..
कथयामि शिवेनोक्तं भक्तियुक्तस्य तेऽनघ ॥ शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम् १.५. ॥ २२॥
कथयामि शिवेन उक्तम् भक्ति-युक्तस्य ते अनघ ॥ शिवस्य ब्रह्म-रूप-त्वात् निष्कल-त्वात् च निष्कलम्।५। ॥ २२॥
kathayāmi śivena uktam bhakti-yuktasya te anagha .. śivasya brahma-rūpa-tvāt niṣkala-tvāt ca niṣkalam.5. .. 22..
लिंगं तस्यैव पूजायां सर्ववेदेषु संमतम् ॥ तस्यैव सकलत्वाच्च तथा सकलनिष्कलम् ॥ २३॥
लिंगम् तस्य एव पूजायाम् सर्व-वेदेषु संमतम् ॥ तस्य एव सकल-त्वात् च तथा सकल-निष्कलम् ॥ २३॥
liṃgam tasya eva pūjāyām sarva-vedeṣu saṃmatam .. tasya eva sakala-tvāt ca tathā sakala-niṣkalam .. 23..
सकलं च तथा बेरं पूजायां लोकसंमतम् ॥ शिवान्येषां च जीवत्वात्सकलत्वाच्च सर्वतः ॥ २४॥
सकलम् च तथा बेरम् पूजायाम् लोक-संमतम् ॥ शिवानि एषाम् च जीव-त्वात् सकल-त्वात् च सर्वतस् ॥ २४॥
sakalam ca tathā beram pūjāyām loka-saṃmatam .. śivāni eṣām ca jīva-tvāt sakala-tvāt ca sarvatas .. 24..
बेरमात्रं च पूजायां संमतं वेदनिर्णये ॥ स्वाविर्भावे च देवानां सकलं रूपमेव हि ॥ २५॥
बेर-मात्रम् च पूजायाम् संमतम् वेद-निर्णये ॥ स्व-आविर्भावे च देवानाम् सकलम् रूपम् एव हि ॥ २५॥
bera-mātram ca pūjāyām saṃmatam veda-nirṇaye .. sva-āvirbhāve ca devānām sakalam rūpam eva hi .. 25..
शिवस्य लिंगं बेरं च दर्शने दृश्यते खलु ॥ २६॥
शिवस्य लिंगम् बेरम् च दर्शने दृश्यते खलु ॥ २६॥
śivasya liṃgam beram ca darśane dṛśyate khalu .. 26..
सनत्कुमार उवाच।
उक्तं त्वया महाभाग लिंगबेरप्रचारणम् ॥ २७॥
उक्तम् त्वया महाभाग लिंगबेर-प्रचारणम् ॥ २७॥
uktam tvayā mahābhāga liṃgabera-pracāraṇam .. 27..
शिवस्य च तदन्येषां विभज्य परमार्थतः ॥ तस्मात्तदेव परमं लिंगबेरादिसंभवम् ॥ २८॥
शिवस्य च तत् अन्येषाम् विभज्य परमार्थतः ॥ तस्मात् तत् एव परमम् लिंगबेर-आदि-संभवम् ॥ २८॥
śivasya ca tat anyeṣām vibhajya paramārthataḥ .. tasmāt tat eva paramam liṃgabera-ādi-saṃbhavam .. 28..
श्रोतुमिच्छामि योगींद्र लिंगाविर्भावलक्षणम् ॥ २९॥
श्रोतुम् इच्छामि योगि-इंद्र लिंग-आविर्भाव-लक्षणम् ॥ २९॥
śrotum icchāmi yogi-iṃdra liṃga-āvirbhāva-lakṣaṇam .. 29..
नंदिकेश्वर उवाच ।
शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः ॥ ३०॥
शृणु वत्स भवत्-प्रीत्या वक्ष्यामि परमार्थतः ॥ ३०॥
śṛṇu vatsa bhavat-prītyā vakṣyāmi paramārthataḥ .. 30..
पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते ॥ आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम् ॥ ३१॥
पुरा कल्पे महा-काले प्रपन्ने लोक-विश्रुते ॥ आयुध्येताम् महात्मानौ ब्रह्म-विष्णू परस्परम् ॥ ३१॥
purā kalpe mahā-kāle prapanne loka-viśrute .. āyudhyetām mahātmānau brahma-viṣṇū parasparam .. 31..
तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः ॥ निष्कलस्तंभरूपेण स्वरूपं समदर्शयत् ॥ ३२॥
तयोः मानम् निराकर्तुम् तद्-मध्ये परमेश्वरः ॥ निष्कल-स्तंभ-रूपेण स्व-रूपम् समदर्शयत् ॥ ३२॥
tayoḥ mānam nirākartum tad-madhye parameśvaraḥ .. niṣkala-staṃbha-rūpeṇa sva-rūpam samadarśayat .. 32..
ततः स्वलिंगचिह्नत्वात्स्तंभतो निष्कलं शिवः ॥ स्वलिंगं दर्शयामास जगतां हितकाम्यया ॥ ३३॥
ततस् स्व-लिंग-चिह्न-त्वात् स्तंभतः निष्कलम् शिवः ॥ स्व-लिंगम् दर्शयामास जगताम् हित-काम्यया ॥ ३३॥
tatas sva-liṃga-cihna-tvāt staṃbhataḥ niṣkalam śivaḥ .. sva-liṃgam darśayāmāsa jagatām hita-kāmyayā .. 33..
तदाप्रभृति लोकेषु निष्कलं लिंगमैश्वरम् ॥ सकलं च तथा बेरं शिवस्यैव प्रकल्पितम् १.५. ॥ ३४॥
तदा प्रभृति लोकेषु निष्कलम् लिंगम् ऐश्वरम् ॥ सकलम् च तथा बेरम् शिवस्य एव प्रकल्पितम्।५। ॥ ३४॥
tadā prabhṛti lokeṣu niṣkalam liṃgam aiśvaram .. sakalam ca tathā beram śivasya eva prakalpitam.5. .. 34..
शिवान्येषः तु देवानां बेरमात्रं प्रकल्पितम् ॥ तत्तद्बेरं तु देवानां तत्तद्भोगप्रदं शुभम् ॥ ३५॥
तु देवानाम् बेर-मात्रम् प्रकल्पितम् ॥ तत् तत् बेरम् तु देवानाम् तत् तत् भोग-प्रदम् शुभम् ॥ ३५॥
tu devānām bera-mātram prakalpitam .. tat tat beram tu devānām tat tat bhoga-pradam śubham .. 35..
शिवस्य लिंगबेरत्वं भोगमोक्षप्रदं शुभम् ॥ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचमोऽध्यायः ॥ ३६॥
शिवस्य लिंग-बेर-त्वम् भोग-मोक्ष-प्रदम् शुभम् ॥ इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् पंचमः अध्यायः ॥ ३६॥
śivasya liṃga-bera-tvam bhoga-mokṣa-pradam śubham .. iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām paṃcamaḥ adhyāyaḥ .. 36..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचमोऽध्यायः ॥ ३७॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् पंचमः अध्यायः ॥ ३७॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām paṃcamaḥ adhyāyaḥ .. 37..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In