| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
श्रवणादित्रिकेऽशक्तो लिंगं बेरं च शांकरम् ॥ संस्थाप्य नित्यमभ्यर्च्य तरेत्संसारसागरम् ॥ १॥
śravaṇāditrike'śakto liṃgaṃ beraṃ ca śāṃkaram .. saṃsthāpya nityamabhyarcya taretsaṃsārasāgaram .. 1..
अपि द्र व्यं वहेदेव यथाबलमवंचयन् ॥ अर्पयेल्लिंगबेरार्थमर्चयेदपि संततम् ॥ २॥
api dra vyaṃ vahedeva yathābalamavaṃcayan .. arpayelliṃgaberārthamarcayedapi saṃtatam .. 2..
मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् ॥ वस्त्रं गंधं च माल्यं च धूपं दीपं च भक्तितः ॥ ३॥
maṃḍapaṃ gopuraṃ tīrthaṃ maṭhaṃ kṣetraṃ tathotsavam .. vastraṃ gaṃdhaṃ ca mālyaṃ ca dhūpaṃ dīpaṃ ca bhaktitaḥ .. 3..
विविधान्नं च नैवेद्यमपूपव्यंजनैर्युतम् ॥ छत्रं ध्वजं च व्यजनं चामरं चापि सांगकम् ॥ ४॥
vividhānnaṃ ca naivedyamapūpavyaṃjanairyutam .. chatraṃ dhvajaṃ ca vyajanaṃ cāmaraṃ cāpi sāṃgakam .. 4..
राजोपचारवत्सर्वं धारयेल्लिंगबेरयोः ॥ प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा ॥ ५॥
rājopacāravatsarvaṃ dhārayelliṃgaberayoḥ .. pradakṣiṇāṃ namaskāraṃ yathāśakti japaṃ tathā .. 5..
आवाहनादिसर्गांतं नित्यं कुर्यात्सुभक्तितः ॥ इत्थमभ्यर्च्य यन्देवं लिंगेबेरे च शांकरे ॥ ६॥
āvāhanādisargāṃtaṃ nityaṃ kuryātsubhaktitaḥ .. itthamabhyarcya yandevaṃ liṃgebere ca śāṃkare .. 6..
सिद्धिमेति शिवप्रीत्या हित्वापि श्रवणादिकम् ॥ लिंगबेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः ॥ ७॥
siddhimeti śivaprītyā hitvāpi śravaṇādikam .. liṃgaberārcanāmātrānmuktāḥ purve mahājanāḥ .. 7..
मनुय ऊचुः ।
बेरमात्रे तु सर्वत्र पूज्यंते देवतागणाः ॥ लिंगेबेरे च सर्वत्र कथं संपूज्यते शिवः ॥ ८॥
beramātre tu sarvatra pūjyaṃte devatāgaṇāḥ .. liṃgebere ca sarvatra kathaṃ saṃpūjyate śivaḥ .. 8..
सूत उवाच ।
अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम् ॥ अत्र वक्ता महादेवो नान्योऽस्ति पुरुषः क्वचित् ॥ ९॥
aho munīśvarāḥ puṇyaṃ praśnametanmahādbhutam .. atra vaktā mahādevo nānyo'sti puruṣaḥ kvacit .. 9..
शिवेनोक्तं प्रवक्ष्यामि क्रमाद्गुरुमुखाच्छ्रुतम् ॥ शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः १.५. ॥ १०॥
śivenoktaṃ pravakṣyāmi kramādgurumukhācchrutam .. śivaiko brahmarūpatvānniṣkalaḥ parikīrtitaḥ 1.5. .. 10..
रूपित्वात्सकलस्तद्वत्तस्मात्सकलनिष्कलः ॥ निष्कलत्वान्निराकारं लिंगं तस्य समागतम् ॥ ११॥
rūpitvātsakalastadvattasmātsakalaniṣkalaḥ .. niṣkalatvānnirākāraṃ liṃgaṃ tasya samāgatam .. 11..
सकलत्वात्तथा बेरं साकारं तस्य संगतम् ॥ सकलाकलरूपत्वाद्ब्रह्मशब्दाभिधः परः ॥ १२॥
sakalatvāttathā beraṃ sākāraṃ tasya saṃgatam .. sakalākalarūpatvādbrahmaśabdābhidhaḥ paraḥ .. 12..
अपि लिंगे च बेरे च नित्यमभ्यर्च्यते जनैः ॥ अब्रह्मत्वात्तदन्येषां निष्कलत्वं न हि क्वचित् ॥ १३॥
api liṃge ca bere ca nityamabhyarcyate janaiḥ .. abrahmatvāttadanyeṣāṃ niṣkalatvaṃ na hi kvacit .. 13..
तस्मात्ते निष्कले लिंगे नाराध्यंते सुरेश्वराः ॥ अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः ॥ १४॥
tasmātte niṣkale liṃge nārādhyaṃte sureśvarāḥ .. abrahmatvācca jīvatvāttathānye devatāgaṇāḥ .. 14..
तूष्णीं सकलमात्रत्वादर्च्यंते बेरमात्रके ॥ जीवत्वं शंकरान्येषां ब्रह्मत्वं शंकरस्य च ॥ १५॥
tūṣṇīṃ sakalamātratvādarcyaṃte beramātrake .. jīvatvaṃ śaṃkarānyeṣāṃ brahmatvaṃ śaṃkarasya ca .. 15..
वेदांतसारसंसिद्धं प्रणवार्थे प्रकाशनात् ॥ एवमेव पुरा पृष्टो मंदरे नंदिकेश्वरः ॥ १६॥
vedāṃtasārasaṃsiddhaṃ praṇavārthe prakāśanāt .. evameva purā pṛṣṭo maṃdare naṃdikeśvaraḥ .. 16..
सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता ब् ॥ १७॥
sanatkumāramuninā brahmaputreṇa dhīmatā b .. 17..
सनत्कुमार उवाच ।
शिवान्यदेववश्यानां सर्वेषामपि सर्वतः ॥ १८॥
śivānyadevavaśyānāṃ sarveṣāmapi sarvataḥ .. 18..
बेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः ॥ शिवमात्रस्य पूजायां लिंगं बेरं च दृश्यते ॥ १९॥
beramātraṃ ca pūjārthaṃ śrutaṃ dṛṣṭaṃ ca bhūriśaḥ .. śivamātrasya pūjāyāṃ liṃgaṃ beraṃ ca dṛśyate .. 19..
अतस्तद्ब्रूहि कल्याण तत्त्वं मे साधुबोधनम् ॥ २०॥
atastadbrūhi kalyāṇa tattvaṃ me sādhubodhanam .. 20..
नंदिकेश्वर उवाच ।
अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम् ॥ २१॥
anuttaramimaṃ praśnaṃ rahasyaṃ brahmalakṣaṇam .. 21..
कथयामि शिवेनोक्तं भक्तियुक्तस्य तेऽनघ ॥ शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम् १.५. ॥ २२॥
kathayāmi śivenoktaṃ bhaktiyuktasya te'nagha .. śivasya brahmarūpatvānniṣkalatvācca niṣkalam 1.5. .. 22..
लिंगं तस्यैव पूजायां सर्ववेदेषु संमतम् ॥ तस्यैव सकलत्वाच्च तथा सकलनिष्कलम् ॥ २३॥
liṃgaṃ tasyaiva pūjāyāṃ sarvavedeṣu saṃmatam .. tasyaiva sakalatvācca tathā sakalaniṣkalam .. 23..
सकलं च तथा बेरं पूजायां लोकसंमतम् ॥ शिवान्येषां च जीवत्वात्सकलत्वाच्च सर्वतः ॥ २४॥
sakalaṃ ca tathā beraṃ pūjāyāṃ lokasaṃmatam .. śivānyeṣāṃ ca jīvatvātsakalatvācca sarvataḥ .. 24..
बेरमात्रं च पूजायां संमतं वेदनिर्णये ॥ स्वाविर्भावे च देवानां सकलं रूपमेव हि ॥ २५॥
beramātraṃ ca pūjāyāṃ saṃmataṃ vedanirṇaye .. svāvirbhāve ca devānāṃ sakalaṃ rūpameva hi .. 25..
शिवस्य लिंगं बेरं च दर्शने दृश्यते खलु ॥ २६॥
śivasya liṃgaṃ beraṃ ca darśane dṛśyate khalu .. 26..
सनत्कुमार उवाच।
उक्तं त्वया महाभाग लिंगबेरप्रचारणम् ॥ २७॥
uktaṃ tvayā mahābhāga liṃgaberapracāraṇam .. 27..
शिवस्य च तदन्येषां विभज्य परमार्थतः ॥ तस्मात्तदेव परमं लिंगबेरादिसंभवम् ॥ २८॥
śivasya ca tadanyeṣāṃ vibhajya paramārthataḥ .. tasmāttadeva paramaṃ liṃgaberādisaṃbhavam .. 28..
श्रोतुमिच्छामि योगींद्र लिंगाविर्भावलक्षणम् ॥ २९॥
śrotumicchāmi yogīṃdra liṃgāvirbhāvalakṣaṇam .. 29..
नंदिकेश्वर उवाच ।
शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः ॥ ३०॥
śṛṇu vatsa bhavatprītyā vakṣyāmi paramārthataḥ .. 30..
पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते ॥ आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम् ॥ ३१॥
purā kalpe mahākāle prapanne lokaviśrute .. āyudhyetāṃ mahātmānau brahmaviṣṇū parasparam .. 31..
तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः ॥ निष्कलस्तंभरूपेण स्वरूपं समदर्शयत् ॥ ३२॥
tayormānaṃ nirākartuṃ tanmadhye parameśvaraḥ .. niṣkalastaṃbharūpeṇa svarūpaṃ samadarśayat .. 32..
ततः स्वलिंगचिह्नत्वात्स्तंभतो निष्कलं शिवः ॥ स्वलिंगं दर्शयामास जगतां हितकाम्यया ॥ ३३॥
tataḥ svaliṃgacihnatvātstaṃbhato niṣkalaṃ śivaḥ .. svaliṃgaṃ darśayāmāsa jagatāṃ hitakāmyayā .. 33..
तदाप्रभृति लोकेषु निष्कलं लिंगमैश्वरम् ॥ सकलं च तथा बेरं शिवस्यैव प्रकल्पितम् १.५. ॥ ३४॥
tadāprabhṛti lokeṣu niṣkalaṃ liṃgamaiśvaram .. sakalaṃ ca tathā beraṃ śivasyaiva prakalpitam 1.5. .. 34..
शिवान्येषः तु देवानां बेरमात्रं प्रकल्पितम् ॥ तत्तद्बेरं तु देवानां तत्तद्भोगप्रदं शुभम् ॥ ३५॥
śivānyeṣaḥ tu devānāṃ beramātraṃ prakalpitam .. tattadberaṃ tu devānāṃ tattadbhogapradaṃ śubham .. 35..
शिवस्य लिंगबेरत्वं भोगमोक्षप्रदं शुभम् ॥ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचमोऽध्यायः ॥ ३६॥
śivasya liṃgaberatvaṃ bhogamokṣapradaṃ śubham .. iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ paṃcamo'dhyāyaḥ .. 36..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचमोऽध्यायः ॥ ३७॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ paṃcamo'dhyāyaḥ .. 37..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In