| |
|

This overlay will guide you through the buttons:

नंदिकेश्वर उवाच ।
पुरा कदाचिद्योगींद्र विष्णुर्विषधरासनः ॥ सुष्वाप परया भूत्या स्वानुगैरपि संवृतः ॥ १॥
पुरा कदाचिद् योगि-इंद्र विष्णुः विषधर-आसनः ॥ सुष्वाप परया भूत्या स्व-अनुगैः अपि संवृतः ॥ १॥
purā kadācid yogi-iṃdra viṣṇuḥ viṣadhara-āsanaḥ .. suṣvāpa parayā bhūtyā sva-anugaiḥ api saṃvṛtaḥ .. 1..
यदृच्छया गतस्तत्र ब्रह्मा ब्रह्मविदांवरः ॥ अपृच्छत्पुंडरीकाक्षं शयनं सर्वसुन्दरम् ॥ २॥
यदृच्छया गतः तत्र ब्रह्मा ब्रह्म-विदाम् वरः ॥ अपृच्छत् पुंडरीकाक्षम् शयनम् सर्व-सुन्दरम् ॥ २॥
yadṛcchayā gataḥ tatra brahmā brahma-vidām varaḥ .. apṛcchat puṃḍarīkākṣam śayanam sarva-sundaram .. 2..
कस्त्वं पुरुषवच्छेषे दृष्ट्वा मामपि दृप्तवत् ॥ उत्तिष्ठ वत्स मां पश्य तव नाथमिहागतम् ॥ ३॥
कः त्वम् पुरुष-वत् शेषे दृष्ट्वा माम् अपि दृप्त-वत् ॥ उत्तिष्ठ वत्स माम् पश्य तव नाथम् इह आगतम् ॥ ३॥
kaḥ tvam puruṣa-vat śeṣe dṛṣṭvā mām api dṛpta-vat .. uttiṣṭha vatsa mām paśya tava nātham iha āgatam .. 3..
आगतं गुरुमाराध्यं दृष्ट्वा यो दृप्तवच्चरेत् ॥ द्रो हिणस्तस्य मूढस्य प्रायश्चित्तं विधीयते ॥ ४॥
आगतम् गुरुम् आराध्यम् दृष्ट्वा यः दृप्त-वत् चरेत् ॥ मूढस्य प्रायश्चित्तम् विधीयते ॥ ४॥
āgatam gurum ārādhyam dṛṣṭvā yaḥ dṛpta-vat caret .. mūḍhasya prāyaścittam vidhīyate .. 4..
इति श्रुत्वा वचः क्रुद्धो बहिः शांतवदाचरत् ॥ स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश ॥ ५॥
इति श्रुत्वा वचः क्रुद्धः बहिस् शांत-वत् आचरत् ॥ स्वस्ति ते स्वागतम् वत्स तिष्ठ पीठम् इतस् विश ॥ ५॥
iti śrutvā vacaḥ kruddhaḥ bahis śāṃta-vat ācarat .. svasti te svāgatam vatsa tiṣṭha pīṭham itas viśa .. 5..
किमु ते व्याघ्रवद्वक्त्रं विभाति विषमेक्षणम् ॥ ६॥
किमु ते व्याघ्र-वत् वक्त्रम् विभाति विषम-ईक्षणम् ॥ ६॥
kimu te vyāghra-vat vaktram vibhāti viṣama-īkṣaṇam .. 6..
ब्रह्मोवाच ।
वत्स विष्णो महामानमागतं कालवेगतः ॥ ७॥
वत्स विष्णो महामानम् आगतम् काल-वेगतः ॥ ७॥
vatsa viṣṇo mahāmānam āgatam kāla-vegataḥ .. 7..
पितामहश्च जगतः पाता च तव वत्सक ॥ ८॥
पितामहः च जगतः पाता च तव वत्सक ॥ ८॥
pitāmahaḥ ca jagataḥ pātā ca tava vatsaka .. 8..
विष्णुरुवाच ।
मत्स्थं जगदिदं वत्स मनुषे त्वं हि चोरवत् ॥ ९॥
मद्-स्थम् जगत् इदम् वत्स मनुषे त्वम् हि चोर-वत् ॥ ९॥
mad-stham jagat idam vatsa manuṣe tvam hi cora-vat .. 9..
मन्नाभिकमलाज्जातः पुत्रस्त्वं भाषसे वृथा ॥ १०॥
मद्-नाभि-कमलात् जातः पुत्रः त्वम् भाषसे वृथा ॥ १०॥
mad-nābhi-kamalāt jātaḥ putraḥ tvam bhāṣase vṛthā .. 10..
नंदिकेश्वर उवाच ।
एवं हि वदतोस्तत्र मुग्धयोरजयोस्तदा ॥ ११॥
एवम् हि वदतोः तत्र मुग्धयोः अजयोः तदा ॥ ११॥
evam hi vadatoḥ tatra mugdhayoḥ ajayoḥ tadā .. 11..
अहमेव वरो न त्वमहं प्रभुरहं प्रभुः ॥ परस्परं हंतुकामौ चक्रतुः समरोद्यमम् ॥ १२॥
अहम् एव वरः न त्वम् अहम् प्रभुः अहम् प्रभुः ॥ परस्परम् हंतु-कामौ चक्रतुः समर-उद्यमम् ॥ १२॥
aham eva varaḥ na tvam aham prabhuḥ aham prabhuḥ .. parasparam haṃtu-kāmau cakratuḥ samara-udyamam .. 12..
युयुधातेऽमरौ वीरौ हंसपक्षींद्र वाहनौ ॥ वैरंच्या वैष्णवाश्चैवं मिथो युयुधिरे तदा १.६. ॥ १३॥
युयुधाते अमरौ वीरौ हंस-पक्षि-इंद्र वाहनौ ॥ वैरंच्याः वैष्णवाः च एवम् मिथस् युयुधिरे तदा।६। ॥ १३॥
yuyudhāte amarau vīrau haṃsa-pakṣi-iṃdra vāhanau .. vairaṃcyāḥ vaiṣṇavāḥ ca evam mithas yuyudhire tadā.6. .. 13..
तावद्विमानगतयः सर्वा वै देवजातयः ॥ दिदृक्षवः समाजग्मुः समरं तं महाद्भुतम् ॥ १४॥
तावत्-विमान-गतयः सर्वाः वै देव-जातयः ॥ दिदृक्षवः समाजग्मुः समरम् तम् महा-अद्भुतम् ॥ १४॥
tāvat-vimāna-gatayaḥ sarvāḥ vai deva-jātayaḥ .. didṛkṣavaḥ samājagmuḥ samaram tam mahā-adbhutam .. 14..
क्षिपंतः पुष्पवर्षाणि पश्यंतः स्वैरमंबरे ॥ सुपर्णवाहनस्तत्र क्रुद्धो वै ब्रह्मवक्षसि ॥ १५॥
क्षिपंतः पुष्प-वर्षाणि पश्यंतः स्वैरम् अंबरे ॥ सुपर्ण-वाहनः तत्र क्रुद्धः वै ब्रह्म-वक्षसि ॥ १५॥
kṣipaṃtaḥ puṣpa-varṣāṇi paśyaṃtaḥ svairam aṃbare .. suparṇa-vāhanaḥ tatra kruddhaḥ vai brahma-vakṣasi .. 15..
मुमोच बाणानसहानस्त्रांश्च विविधान्बहून् ॥ मुमोचाऽथ विधिः क्रुद्धो विष्णोरुरसि दुःसहान् ॥ १६॥
मुमोच बाणान् असहान् अस्त्रान् च विविधान् बहून् ॥ मुमोच अथ विधिः क्रुद्धः विष्णोः उरसि दुःसहान् ॥ १६॥
mumoca bāṇān asahān astrān ca vividhān bahūn .. mumoca atha vidhiḥ kruddhaḥ viṣṇoḥ urasi duḥsahān .. 16..
बाणाननलसंकाशानस्त्रांश्च बहुशस्तदा ॥ तदाश्चर्यमिति स्पष्टं तयोः समरगोचरम् ॥ १७॥
बाणान् अनल-संकाशान् अस्त्रान् च बहुशस् तदा ॥ तत् आश्चर्यम् इति स्पष्टम् तयोः समर-गोचरम् ॥ १७॥
bāṇān anala-saṃkāśān astrān ca bahuśas tadā .. tat āścaryam iti spaṣṭam tayoḥ samara-gocaram .. 17..
समीक्ष्य दैवतगणाः शशंसुर्भृशमाकुलाः ॥ ततो विष्णुः सुसंक्रुद्धः श्वसन्व्यसनकर्शितः ॥ १८॥
समीक्ष्य दैवत-गणाः शशंसुः भृशम् आकुलाः ॥ ततस् विष्णुः सु संक्रुद्धः श्वसन् व्यसन-कर्शितः ॥ १८॥
samīkṣya daivata-gaṇāḥ śaśaṃsuḥ bhṛśam ākulāḥ .. tatas viṣṇuḥ su saṃkruddhaḥ śvasan vyasana-karśitaḥ .. 18..
माहेश्वरास्त्रं मतिमान् संदधे ब्रह्मणोपरि ॥ ततो ब्रह्मा भृशं क्रुद्धः कंपयन्विश्वमेव हि ॥ १९॥
माहेश्वर-अस्त्रम् मतिमान् संदधे ब्रह्मणा उपरि ॥ ततस् ब्रह्मा भृशम् क्रुद्धः कंपयन् विश्वम् एव हि ॥ १९॥
māheśvara-astram matimān saṃdadhe brahmaṇā upari .. tatas brahmā bhṛśam kruddhaḥ kaṃpayan viśvam eva hi .. 19..
अस्त्रं पाशुपतं घोरं संदधे विष्णुवक्षसि ॥ ततस्तदुत्थितं व्योम्नि तपनायुतसन्निभम् ॥ २०॥
अस्त्रम् पाशुपतम् घोरम् संदधे विष्णु-वक्षसि ॥ ततस् तत् उत्थितम् व्योम्नि तपन-अयुत-सन्निभम् ॥ २०॥
astram pāśupatam ghoram saṃdadhe viṣṇu-vakṣasi .. tatas tat utthitam vyomni tapana-ayuta-sannibham .. 20..
सहस्रमुखमत्युग्रं चंडवातभयंकरम् ॥ अस्त्रद्वयमिदं तत्र ब्रह्मविष्ण्वोर्भयंकरम् ॥ २१॥
सहस्र-मुखम् अति उग्रम् चंड-वात-भयंकरम् ॥ अस्त्र-द्वयम् इदम् तत्र ब्रह्म-विष्ण्वोः भयंकरम् ॥ २१॥
sahasra-mukham ati ugram caṃḍa-vāta-bhayaṃkaram .. astra-dvayam idam tatra brahma-viṣṇvoḥ bhayaṃkaram .. 21..
इत्थं बभूव समरो ब्रह्मविष्ण्वोः परस्परम् ॥ ततो देवगणाः सर्वे विषण्णा भृशमाकुलाः ॥ ऊचुः परस्परं तात राजक्षोभे यथा द्विजाः ॥ २२॥
इत्थम् बभूव समरः ब्रह्म-विष्ण्वोः परस्परम् ॥ ततस् देव-गणाः सर्वे विषण्णाः भृशम् आकुलाः ॥ ऊचुः परस्परम् तात राज-क्षोभे यथा द्विजाः ॥ २२॥
ittham babhūva samaraḥ brahma-viṣṇvoḥ parasparam .. tatas deva-gaṇāḥ sarve viṣaṇṇāḥ bhṛśam ākulāḥ .. ūcuḥ parasparam tāta rāja-kṣobhe yathā dvijāḥ .. 22..
सृष्टिः स्थितिश्च संहारस्तिरो भावोप्यनुग्रहः ॥ यस्मात्प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने १.६. ॥ २३॥
सृष्टिः स्थितिः च संहारः तिरस् भावः अपि अनुग्रहः ॥ यस्मात् प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने।६। ॥ २३॥
sṛṣṭiḥ sthitiḥ ca saṃhāraḥ tiras bhāvaḥ api anugrahaḥ .. yasmāt pravartate tasmai brahmaṇe ca triśūline.6. .. 23..
अशक्यमन्यैर्यदनुग्रहं विना तृणक्षयोप्यत्र यदृच्छया क्वचित् ॥ इति देवाभयं कृत्वा विचिन्वंतः शिवक्षयम् ॥ जग्मुः कैलासशिखरं यत्रास्ते चंद्र शेखरः ॥ २४॥
अशक्यम् अन्यैः यत् अनुग्रहम् विना तृण-क्षयः उपि अत्र यदृच्छया क्वचिद् ॥ इति देव-अभयम् कृत्वा विचिन्वंतः शिव-क्षयम् ॥ जग्मुः कैलास-शिखरम् यत्र आस्ते चंद्र शेखरः ॥ २४॥
aśakyam anyaiḥ yat anugraham vinā tṛṇa-kṣayaḥ upi atra yadṛcchayā kvacid .. iti deva-abhayam kṛtvā vicinvaṃtaḥ śiva-kṣayam .. jagmuḥ kailāsa-śikharam yatra āste caṃdra śekharaḥ .. 24..
दृष्ट्वैवममरा हृष्टाः पदंतत्पारमेश्वरम् ॥ प्रणेमुः प्रणवाकारं प्रविष्टास्तत्र सद्मनि ॥ २५॥
दृष्ट्वा एवम् अमराः हृष्टाः पदम् तत् पारमेश्वरम् ॥ प्रणेमुः प्रणव-आकारम् प्रविष्टाः तत्र सद्मनि ॥ २५॥
dṛṣṭvā evam amarāḥ hṛṣṭāḥ padam tat pārameśvaram .. praṇemuḥ praṇava-ākāram praviṣṭāḥ tatra sadmani .. 25..
तेपि तत्र सभामध्ये मंडपे मणिविष्टरे ॥ विराजमानमुमया ददृशुर्देवपुंगवम् ॥ २६॥
ते अपि तत्र सभा-मध्ये मंडपे मणि-विष्टरे ॥ विराजमानम् उमया ददृशुः देव-पुंगवम् ॥ २६॥
te api tatra sabhā-madhye maṃḍape maṇi-viṣṭare .. virājamānam umayā dadṛśuḥ deva-puṃgavam .. 26..
सव्योत्तरेतरपदं तदर्हितकरां बुजम् ॥ स्वगणैः सर्वतो जुष्टं सर्वलक्षणलक्षितम् ॥ २७॥
सव्य-उत्तर-इतर-पदम् तद्-अर्हित-कराम् बुजम् ॥ स्व-गणैः सर्वतस् जुष्टम् सर्व-लक्षण-लक्षितम् ॥ २७॥
savya-uttara-itara-padam tad-arhita-karām bujam .. sva-gaṇaiḥ sarvatas juṣṭam sarva-lakṣaṇa-lakṣitam .. 27..
वीज्यमानं विशेषजैः स्त्रीजनैस्तीव्रभावनैः ॥ शस्यमानं सदावेदैरनुगृह्णंतमीश्वरम् ॥ २८॥
वीज्यमानम् विशेषजैः स्त्री-जनैः तीव्र-भावनैः ॥ शस्यमानम् सदा वेदैः अनुगृह्णंतम् ईश्वरम् ॥ २८॥
vījyamānam viśeṣajaiḥ strī-janaiḥ tīvra-bhāvanaiḥ .. śasyamānam sadā vedaiḥ anugṛhṇaṃtam īśvaram .. 28..
दृष्ट्वैवमीशममराः संतोषसलिलेक्षणाः ॥ दंडवद्दूरतो वत्स नमश्चक्रुर्महागणाः ॥ २९॥
दृष्ट्वा एवम् ईशम् अमराः संतोष-सलिल-ईक्षणाः ॥ दंड-वत् दूरतस् वत्स नमः चक्रुः महा-गणाः ॥ २९॥
dṛṣṭvā evam īśam amarāḥ saṃtoṣa-salila-īkṣaṇāḥ .. daṃḍa-vat dūratas vatsa namaḥ cakruḥ mahā-gaṇāḥ .. 29..
तानवेक्ष्य पतिर्देवान्समीपे चाह्वयद्गणैः ॥ अथ संह्लादयन्देवान्देवो देवशिखामणिः ॥ अवोचदर्थगंभीरं वचनं मधुमंगलम् ॑! ॥ ३०॥
तान् अवेक्ष्य पतिः देवान् समीपे च आह्वयत् गणैः ॥ अथ संह्लादयन् देवान् देवः देव-शिखामणिः ॥ अवोचत् अर्थ-गंभीरम् वचनम् मधु-मंगलम्! ॥ ३०॥
tān avekṣya patiḥ devān samīpe ca āhvayat gaṇaiḥ .. atha saṃhlādayan devān devaḥ deva-śikhāmaṇiḥ .. avocat artha-gaṃbhīram vacanam madhu-maṃgalam! .. 30..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षष्ठोऽध्यायः ॥ ३१॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् षष्ठः अध्यायः ॥ ३१॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām ṣaṣṭhaḥ adhyāyaḥ .. 31..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In