| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।
वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात् ॥ जगच्च देवतावंशः स्वस्वकर्मणि किं नवा ॥ १॥
वत्सकाः स्वस्तिवः कच्चित् वर्तते मम शासनात् ॥ जगत् च देवता-वंशः स्व-स्व-कर्मणि किम् नवा ॥ १॥
vatsakāḥ svastivaḥ kaccit vartate mama śāsanāt .. jagat ca devatā-vaṃśaḥ sva-sva-karmaṇi kim navā .. 1..
प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः ॥ भवतामभितापेन पौनरुक्त्येन भाषितम् ॥ २॥
प्राक् एव विदितम् युद्धम् ब्रह्म-विष्ण्वोः मया असुराः ॥ भवताम् अभितापेन पौनरुक्त्येन भाषितम् ॥ २॥
prāk eva viditam yuddham brahma-viṣṇvoḥ mayā asurāḥ .. bhavatām abhitāpena paunaruktyena bhāṣitam .. 2..
इति सस्मितया माध्व्या कुमारपरिभाषया ॥ समतोषयदंबायाः स पतिस्तत्सुरव्रजम् ॥ ३॥
इति स स्मितया माध्व्या कुमार-परिभाषया ॥ समतोषयत् अंबायाः स पतिः तत् सुरव्रजम् ॥ ३॥
iti sa smitayā mādhvyā kumāra-paribhāṣayā .. samatoṣayat aṃbāyāḥ sa patiḥ tat suravrajam .. 3..
अथ युद्धांगणं गंतुं हरिधात्रोरधीश्वरः ॥ आज्ञापयद्गणेशानां शतं तत्रैव संसदि ॥ ४॥
अथ युद्ध-अंगणम् गंतुम् हरि-धात्रोः अधीश्वरः ॥ आज्ञापयत् गणेशानाम् शतम् तत्र एव संसदि ॥ ४॥
atha yuddha-aṃgaṇam gaṃtum hari-dhātroḥ adhīśvaraḥ .. ājñāpayat gaṇeśānām śatam tatra eva saṃsadi .. 4..
ततो वाद्यं बहुविधं प्रयाणाय परेशितुः ॥ गणेश्वराश्च संनद्धा नानावाहनभूषणाः ॥ ५॥
ततस् वाद्यम् बहुविधम् प्रयाणाय परेशितुः ॥ गणेश्वराः च संनद्धाः नाना वाहन-भूषणाः ॥ ५॥
tatas vādyam bahuvidham prayāṇāya pareśituḥ .. gaṇeśvarāḥ ca saṃnaddhāḥ nānā vāhana-bhūṣaṇāḥ .. 5..
आरुरोह रथं भद्र मंबिकापतिरीश्वरः ॥ ससूनुगणमिंद्रा द्याः सर्वेप्यनुययुः सुराः ॥ ६॥
आरुरोह रथम् भद्र मंबिकापतिः ईश्वरः ॥ स सूनु-गणम् इंद्राः द्याः सर्वे अपि अनुययुः सुराः ॥ ६॥
āruroha ratham bhadra maṃbikāpatiḥ īśvaraḥ .. sa sūnu-gaṇam iṃdrāḥ dyāḥ sarve api anuyayuḥ surāḥ .. 6..
चित्रध्वजव्यजनचामरपुष्पवर्षसंगतिनृत्यनिवहैरपि वाद्यवर्गैः ॥ संमानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः ॥ ७॥
चित्र-ध्वज-व्यजन-चामर-पुष्प-वर्ष-संगति-नृत्य-निवहैः अपि वाद्य-वर्गैः ॥ संमानितः पशुपतिः परया च देव्या साकम् तयोः समर-भूमिम् अगात् स सैन्यः ॥ ७॥
citra-dhvaja-vyajana-cāmara-puṣpa-varṣa-saṃgati-nṛtya-nivahaiḥ api vādya-vargaiḥ .. saṃmānitaḥ paśupatiḥ parayā ca devyā sākam tayoḥ samara-bhūmim agāt sa sainyaḥ .. 7..
समीक्ष्यं तु तयोर्युद्धं निगूढोऽभ्रं समास्थितः ॥ समाप्तवाद्यनिर्घोषः शांतोरुगणनिःस्वनः ॥ ८॥
समीक्ष्यम् तु तयोः युद्धम् निगूढः अभ्रम् समास्थितः ॥ ॥ ८॥
samīkṣyam tu tayoḥ yuddham nigūḍhaḥ abhram samāsthitaḥ .. .. 8..
अथ ब्रह्माच्युतौ वीरौ हंतुकामौ परस्परम् ॥ माहेश्वरेण चाऽस्त्रेण तथा पाशुपतेन च ॥ ९॥
अथ ब्रह्म-अच्युतौ वीरौ हंतु-कामौ परस्परम् ॥ माहेश्वरेण च अस्त्रेण तथा पाशुपतेन च ॥ ९॥
atha brahma-acyutau vīrau haṃtu-kāmau parasparam .. māheśvareṇa ca astreṇa tathā pāśupatena ca .. 9..
अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ॥ ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम् १.७. ॥ १०॥
अस्त्र-ज्वालैः अथो दग्धम् ब्रह्म-विष्ण्वोः जगत्त्रयम् ॥ ईशः उपि तम् निरीक्ष्य अथ हि अकाल-प्रलयम् भृशम्।७। ॥ १०॥
astra-jvālaiḥ atho dagdham brahma-viṣṇvoḥ jagattrayam .. īśaḥ upi tam nirīkṣya atha hi akāla-pralayam bhṛśam.7. .. 10..
महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः ॥ ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ॥ निपतेतुः क्षणे नैव ह्याविर्भूते महानले ॥ ११॥
महा-अनल-स्तंभ-विभीषण-आकृतिः बभूव तद्-मध्य-तले स निष्कलः ॥ ते अस्त्रे च अपि स ज्वाले लोक-संहरण-क्षमे ॥ निपतेतुः क्षणे ना एव हि आविर्भूते महा-अनले ॥ ११॥
mahā-anala-staṃbha-vibhīṣaṇa-ākṛtiḥ babhūva tad-madhya-tale sa niṣkalaḥ .. te astre ca api sa jvāle loka-saṃharaṇa-kṣame .. nipatetuḥ kṣaṇe nā eva hi āvirbhūte mahā-anale .. 11..
दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम् ॥ किमेतदद्भुताकारमित्यूचुश्च परस्परम् ॥ १२॥
दृष्ट्वा तत् अद्भुतम् चित्रम् अस्त्र-शांति-करम् शुभम् ॥ किम् एतत् अद्भुत-आकारम् इति ऊचुः च परस्परम् ॥ १२॥
dṛṣṭvā tat adbhutam citram astra-śāṃti-karam śubham .. kim etat adbhuta-ākāram iti ūcuḥ ca parasparam .. 12..
अतींद्रि यमिदं स्तंभमग्निरूपं किमुत्थितम् ॥ अस्योर्ध्वमपि चाधश्च आवयोर्लक्ष्यमेव हि ॥ १३॥
अतींद्रि इदम् स्तंभम् अग्नि-रूपम् किम् उत्थितम् ॥ अस्य ऊर्ध्वम् अपि च अधस् च आवयोः लक्ष्यम् एव हि ॥ १३॥
atīṃdri idam staṃbham agni-rūpam kim utthitam .. asya ūrdhvam api ca adhas ca āvayoḥ lakṣyam eva hi .. 13..
इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ ॥ तत्परौ तत्परीक्षार्थं प्रतस्थातेऽथ सत्वरम् ॥ १४॥
इति व्यवसितौ वीरौ मिलितौ वीर-मानिनौ ॥ तद्-परौ तद्-परीक्षा-अर्थम् प्रतस्थाते अथ सत्वरम् ॥ १४॥
iti vyavasitau vīrau militau vīra-māninau .. tad-parau tad-parīkṣā-artham pratasthāte atha satvaram .. 14..
आवयोर्मिश्रयोस्तत्र कार्यमेकं न संभवेत् ॥ इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान् ॥ १५॥
आवयोः मिश्रयोः तत्र कार्यम् एकम् न संभवेत् ॥ इति उक्त्वा सूकर-तनुः विष्णुः तस्य आदिमीयिवान् ॥ १५॥
āvayoḥ miśrayoḥ tatra kāryam ekam na saṃbhavet .. iti uktvā sūkara-tanuḥ viṣṇuḥ tasya ādimīyivān .. 15..
तथा ब्रह्माहं सतनुस्तदंतं वीक्षितुं ययौ ॥ भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः ॥ १६॥
तथा ब्रह्मा अहम् स तनुः तद्-अन्तम् वीक्षितुम् ययौ ॥ भित्त्वा पाताल-निलयम् गत्वा दूरतरम् हरिः ॥ १६॥
tathā brahmā aham sa tanuḥ tad-antam vīkṣitum yayau .. bhittvā pātāla-nilayam gatvā dūrataram hariḥ .. 16..
नाऽपश्यत्तस्य संस्थानं स्तंभस्यानलवर्चसः ॥ श्रांतः स सूकरहरिः प्राप पूर्वं रणांगणम् ॥ १७॥
न अ अपश्यत् तस्य संस्थानम् स्तंभस्य अनल-वर्चसः ॥ श्रांतः स सूकर-हरिः प्राप पूर्वम् रण-अंगणम् ॥ १७॥
na a apaśyat tasya saṃsthānam staṃbhasya anala-varcasaḥ .. śrāṃtaḥ sa sūkara-hariḥ prāpa pūrvam raṇa-aṃgaṇam .. 17..
अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ॥ ददर्श केतकी पुष्पं किंचिद्विच्युतमद्भुतम् ॥ १८॥
अथ गच्छन् तु व्योम्ना च विधिः तात पिता तव ॥ ददर्श केतकी पुष्पम् किंचिद् विच्युतम् अद्भुतम् ॥ १८॥
atha gacchan tu vyomnā ca vidhiḥ tāta pitā tava .. dadarśa ketakī puṣpam kiṃcid vicyutam adbhutam .. 18..
अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा ॥ अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः १.७. ॥ १९॥
अति सौरभ्यम् अम्लानम् बहु-वर्ष-च्युतम् तथा ॥ अन्वीक्ष्य च तयोः कृत्यम् भगवान् परमेश्वरः।७। ॥ १९॥
ati saurabhyam amlānam bahu-varṣa-cyutam tathā .. anvīkṣya ca tayoḥ kṛtyam bhagavān parameśvaraḥ.7. .. 19..
परिहासं तु कृतवान्कंपनाच्चलितं शिरः ॥ तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम् ॥ २०॥
परिहासम् तु कृतवान् कंपनात् चलितम् शिरः ॥ तस्मात् तौ अनुगृह्णातुम् च्युतम् केतकम् उत्तमम् ॥ २०॥
parihāsam tu kṛtavān kaṃpanāt calitam śiraḥ .. tasmāt tau anugṛhṇātum cyutam ketakam uttamam .. 20..
किं त्वं पतसि पुष्पेश पुष्पराट् केन वा धृतम् ॥ आदिमस्याप्रमेयस्य स्तंभमध्याच्च्युतश्चिरम् ॥ २१॥
किम् त्वम् पतसि पुष्प-ईश पुष्पराज् केन वा धृतम् ॥ आदिमस्य अप्रमेयस्य स्तंभ-मध्यात् च्युतः चिरम् ॥ २१॥
kim tvam patasi puṣpa-īśa puṣparāj kena vā dhṛtam .. ādimasya aprameyasya staṃbha-madhyāt cyutaḥ ciram .. 21..
न संपश्यामि तस्मात्त्वं जह्याशामंतदर्शने ॥ अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः ॥ २२॥
न संपश्यामि तस्मात् त्वम् जहि आशाम् अंत-दर्शने ॥ अस्याम् तस्य च सेवा-अर्थम् हंस-मूर्तिः इह आगतः ॥ २२॥
na saṃpaśyāmi tasmāt tvam jahi āśām aṃta-darśane .. asyām tasya ca sevā-artham haṃsa-mūrtiḥ iha āgataḥ .. 22..
इतः परं सखे मेऽद्य त्वया कर्तव्यमीप्सितम् ॥ मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ ॥ २३॥
इतस् परम् सखे मे अद्य त्वया कर्तव्यम् ईप्सितम् ॥ मया सह त्वया वाच्यम् एतत् विष्णोः च सन्निधौ ॥ २३॥
itas param sakhe me adya tvayā kartavyam īpsitam .. mayā saha tvayā vācyam etat viṣṇoḥ ca sannidhau .. 23..
स्तंभांतो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत ॥ इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः ॥ असत्यमपि शस्तं स्यादापदीत्यनुशासनम् ॑! ॥ २४॥
स्तंभ-अंतर् वीक्षितः धात्रा तत्र साक्षी अहम् अच्युत ॥ इति उक्त्वा केतकम् तत्र प्रणनाम पुनर् नः ॥ असत्यम् अपि शस्तम् स्यात् आपदि इति अनुशासनम्! ॥ २४॥
staṃbha-aṃtar vīkṣitaḥ dhātrā tatra sākṣī aham acyuta .. iti uktvā ketakam tatra praṇanāma punar naḥ .. asatyam api śastam syāt āpadi iti anuśāsanam! .. 24..
समीक्ष्य तत्राऽच्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात् ॥ उवाच चैनं परमार्थमच्युतं षंढात्तवादः स विधिस्ततोऽच्युतम् ॥ २५॥
समीक्ष्य तत्र अच्युतम् आयत-श्रमम् प्रनष्ट-हर्षम् तु ननर्त हर्षात् ॥ उवाच च एनम् परम-अर्थम् अच्युतम् षंढ-आत्त-वादः स विधिः ततस् अच्युतम् ॥ २५॥
samīkṣya tatra acyutam āyata-śramam pranaṣṭa-harṣam tu nanarta harṣāt .. uvāca ca enam parama-artham acyutam ṣaṃḍha-ātta-vādaḥ sa vidhiḥ tatas acyutam .. 25..
स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम् ॥ ततोऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके ॥ २६॥
स्तंभ-अग्रम् एतत् समुदीक्षितम् हरे तत्र एव साक्षी ननु केतकम् तु इदम् ॥ ततस् अवदत् तत्र हि केतकम् मृषा तथा इति तद्-धातृ-वचः तद्-अंतिके ॥ २६॥
staṃbha-agram etat samudīkṣitam hare tatra eva sākṣī nanu ketakam tu idam .. tatas avadat tatra hi ketakam mṛṣā tathā iti tad-dhātṛ-vacaḥ tad-aṃtike .. 26..
हरिश्च तत्सत्यमितीव चिंतयंश्चकार तस्मै विधये नमः स्वयम् ॥ षोडशैरुपचारैश्च पूजयामास तं विधिम् ॥ २७॥
हरिः च तत् सत्यम् इति इव चिंतयन् चकार तस्मै विधये नमः स्वयम् ॥ षोडशैः उपचारैः च पूजयामास तम् विधिम् ॥ २७॥
hariḥ ca tat satyam iti iva ciṃtayan cakāra tasmai vidhaye namaḥ svayam .. ṣoḍaśaiḥ upacāraiḥ ca pūjayāmāsa tam vidhim .. 27..
विधिं प्रहर्तुं शठमग्निलिंगतः स ईश्वरस्तत्र बभूव साकृतिः ॥ समुत्थितः स्वामि विलोकनात्पुनः प्रकंपपाणिः परिगृह्य तत्पदम् ॥ २८॥
विधिम् प्रहर्तुम् शठम् अग्नि-लिंगतः सः ईश्वरः तत्र बभूव स आकृतिः ॥ समुत्थितः स्वामि विलोकनात् पुनर् प्रकंप-पाणिः परिगृह्य तत् पदम् ॥ २८॥
vidhim prahartum śaṭham agni-liṃgataḥ saḥ īśvaraḥ tatra babhūva sa ākṛtiḥ .. samutthitaḥ svāmi vilokanāt punar prakaṃpa-pāṇiḥ parigṛhya tat padam .. 28..
आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः ॥ स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या १.७. ॥ २९॥
आदि-अंत-हीन-वपुषि त्वयि मोह-बुद्ध्या भूयात् विमर्शः इह नावति कामना-उत्थः ॥ स त्वम् प्रसीद करुणा-कर कश्मलम् नौ मृष्टम् क्षमस्व विहितम् भवता एव केल्या।७। ॥ २९॥
ādi-aṃta-hīna-vapuṣi tvayi moha-buddhyā bhūyāt vimarśaḥ iha nāvati kāmanā-utthaḥ .. sa tvam prasīda karuṇā-kara kaśmalam nau mṛṣṭam kṣamasva vihitam bhavatā eva kelyā.7. .. 29..
ईश्वर उवाच ।
वत्सप्रसन्नोऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम् ॥ ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः ॥ ३०॥
वत्स प्रसन्नः अस्मि हरे यतस् त्वम् ईश-त्वम् इच्छन् अपि सत्य-वाक्यम् ॥ ब्रूयाः ततस् ते भविता जनेषु साम्यम् मया सत्कृतिः अपि अलप्थाः ॥ ३०॥
vatsa prasannaḥ asmi hare yatas tvam īśa-tvam icchan api satya-vākyam .. brūyāḥ tatas te bhavitā janeṣu sāmyam mayā satkṛtiḥ api alapthāḥ .. 30..
इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च ॥ ३१॥
इतस् परम् ते पृथक् आत्मनः च क्षेत्र-प्रतिष्ठा-उत्सव-पूजनम् च ॥ ३१॥
itas param te pṛthak ātmanaḥ ca kṣetra-pratiṣṭhā-utsava-pūjanam ca .. 31..
इति देवः पुरा प्रीतः सत्येन हरये परम् ॥ ददौ स्वसाम्यमत्यर्थं देवसंघे च पश्यति ॥ ३२॥
इति देवः पुरा प्रीतः सत्येन हरये परम् ॥ ददौ स्व-साम्यम् अत्यर्थम् देव-संघे च पश्यति ॥ ३२॥
iti devaḥ purā prītaḥ satyena haraye param .. dadau sva-sāmyam atyartham deva-saṃghe ca paśyati .. 32..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तमोऽध्यायः ॥ ३३॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् सप्तमः अध्यायः ॥ ३३॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām saptamaḥ adhyāyaḥ .. 33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In