| |
|

This overlay will guide you through the buttons:

नंदिकेश्वर उवाच ।
ससर्जाथ महादेवः पुरुषं कंचिदद्भुतम् ॥ भैरवाख्यं भ्रुवोर्मध्याद्ब्रह्मदर्पजिघांसया ॥ १॥
ससर्ज अथ महादेवः पुरुषम् कंचिद् अद्भुतम् ॥ भैरव-आख्यम् भ्रुवोः मध्यात् ब्रह्म-दर्प-जिघांसया ॥ १॥
sasarja atha mahādevaḥ puruṣam kaṃcid adbhutam .. bhairava-ākhyam bhruvoḥ madhyāt brahma-darpa-jighāṃsayā .. 1..
स वै तदा तत्र पतिं प्रणम्य शिवमंगणे ॥ किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो ॥ २॥
स वै तदा तत्र पतिम् प्रणम्य शिव-मंगणे ॥ किम् कार्यम् करवाणि अत्र शीघ्रम् आज्ञापय प्रभो ॥ २॥
sa vai tadā tatra patim praṇamya śiva-maṃgaṇe .. kim kāryam karavāṇi atra śīghram ājñāpaya prabho .. 2..
वत्सयोऽयं विधिः साक्षाज्जगतामाद्यदैवतम् ॥ नूनमर्चय खड्गेन तिग्मेन जवसा परम् ॥ ३॥
वत्सयः अयम् विधिः साक्षात् जगताम् आद्य-दैवतम् ॥ नूनम् अर्चय खड्गेन तिग्मेन जवसा परम् ॥ ३॥
vatsayaḥ ayam vidhiḥ sākṣāt jagatām ādya-daivatam .. nūnam arcaya khaḍgena tigmena javasā param .. 3..
स वै गृहीत्वैककरेण केशं तत्पंचमं दृप्तमसत्यभाषणम् ॥ छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः ॥ ४॥
स वै गृहीत्वा एक-करेण केशम् तत् पंचमम् दृप्तम् असत्य-भाषणम् ॥ छित्त्वा शिरांसि अस्य निहंतुम् उद्यतः प्रकंपयन् खड्गम् अति स्फुटम् करैः ॥ ४॥
sa vai gṛhītvā eka-kareṇa keśam tat paṃcamam dṛptam asatya-bhāṣaṇam .. chittvā śirāṃsi asya nihaṃtum udyataḥ prakaṃpayan khaḍgam ati sphuṭam karaiḥ .. 4..
पिता तवोत्सृष्टविभूषणांबरस्रगुत्तरीयामलकेशसंहतिः ॥ प्रवातरंभेव लतेव चंचलः पपात वै भैरवपादपंकजे ॥ ५॥
पिता तव उत्सृष्ट-विभूषण-अंबर-स्रज्-उत्तरीय-अमल-केश-संहतिः ॥ प्रवात-रंभा इव लता इव चंचलः पपात वै भैरव-पाद-पंकजे ॥ ५॥
pitā tava utsṛṣṭa-vibhūṣaṇa-aṃbara-sraj-uttarīya-amala-keśa-saṃhatiḥ .. pravāta-raṃbhā iva latā iva caṃcalaḥ papāta vai bhairava-pāda-paṃkaje .. 5..
तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम् ॥ निषिच्य बाष्पैरवदत्कृतांजलिर्यथा शिशुः स्वं पितरं कलाक्षरम् ॥ ६॥
तावत् विधिम् तात दिदृक्षुः अच्युतः कृपालुः अस्मद्-पति-पाद-पल्लवम् ॥ निषिच्य बाष्पैः अवदत् कृतांजलिः यथा शिशुः स्वम् पितरम् कला-अक्षरम् ॥ ६॥
tāvat vidhim tāta didṛkṣuḥ acyutaḥ kṛpāluḥ asmad-pati-pāda-pallavam .. niṣicya bāṣpaiḥ avadat kṛtāṃjaliḥ yathā śiśuḥ svam pitaram kalā-akṣaram .. 6..
अच्युत उवाच ।
त्वया प्रयत्नेन पुरा हि दत्तं यदस्य पंचाननमीशचिह्नम् ॥ तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै ॥ ७॥
त्वया प्रयत्नेन पुरा हि दत्तम् यत् अस्य पंचाननम् ईश-चिह्नम् ॥ तस्मात् क्षमस्व आद्यम् अनुग्रह-अर्हम् कुरु प्रसादम् विधये हि अमुष्मै ॥ ७॥
tvayā prayatnena purā hi dattam yat asya paṃcānanam īśa-cihnam .. tasmāt kṣamasva ādyam anugraha-arham kuru prasādam vidhaye hi amuṣmai .. 7..
इत्यर्थितोऽच्युतेनेशस्तुष्टः सुरगणांगणे ॥ निवर्तयामास तदा भैरवं ब्रह्मदंडतः ॥ ८॥
इति अर्थितः अच्युतेन ईशः तुष्टः सुर-गण-अंगणे ॥ निवर्तयामास तदा भैरवम् ब्रह्मदंडतः ॥ ८॥
iti arthitaḥ acyutena īśaḥ tuṣṭaḥ sura-gaṇa-aṃgaṇe .. nivartayāmāsa tadā bhairavam brahmadaṃḍataḥ .. 8..
अथाह देवः कितवं विधिं विगतकंधरम् ॥ ब्रह्मंस्त्वमर्हणाकांक्षी शठमीशत्वमास्थितः ॥ ९॥
अथा आह देवः कितवम् विधिम् विगत-कंधरम् ॥ ब्रह्मन् त्वम् अर्हण-आकांक्षी शठम् ईश-त्वम् आस्थितः ॥ ९॥
athā āha devaḥ kitavam vidhim vigata-kaṃdharam .. brahman tvam arhaṇa-ākāṃkṣī śaṭham īśa-tvam āsthitaḥ .. 9..
नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम् ॥ १०॥
न अतस् ते सत्कृतिः लोके भूयात् स्थान-उत्सव-आदिकम् ॥ १०॥
na atas te satkṛtiḥ loke bhūyāt sthāna-utsava-ādikam .. 10..
ब्रह्मोवच ।
स्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम् १.८. ॥ ११॥
स्वामिन् प्रसीद अद्य महा-विभूते मन्ये वरम् वर-द मे शिरसः प्रमोक्षम्।८। ॥ ११॥
svāmin prasīda adya mahā-vibhūte manye varam vara-da me śirasaḥ pramokṣam.8. .. 11..
नमस्तुभ्यं भगवते बंधवे विश्वयोनये ॥ सहिष्णवे सर्वदोषाणां शंभवे शैलधन्वने ॥ १२॥
नमः तुभ्यम् भगवते बंधवे विश्वयोनये ॥ सहिष्णवे सर्व-दोषाणाम् शंभवे शैलधन्वने ॥ १२॥
namaḥ tubhyam bhagavate baṃdhave viśvayonaye .. sahiṣṇave sarva-doṣāṇām śaṃbhave śailadhanvane .. 12..
ईश्वर उवाच ।
अराजभयमेतद्वै जगत्सर्वं न शिष्यति ॥ ततस्त्वं जहि दंडार्हं वह लोकधुरं शिशो ॥ १३॥
अ राज-भयम् एतत् वै जगत् सर्वम् न शिष्यति ॥ ततस् त्वम् जहि दंड-अर्हम् वह लोक-धुरम् शिशो ॥ १३॥
a rāja-bhayam etat vai jagat sarvam na śiṣyati .. tatas tvam jahi daṃḍa-arham vaha loka-dhuram śiśo .. 13..
वरं ददामि ते तत्र गृहाण दुर्लभं परम् ॥ वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः ॥ १४॥
वरम् ददामि ते तत्र गृहाण दुर्लभम् परम् ॥ वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः ॥ १४॥
varam dadāmi te tatra gṛhāṇa durlabham param .. vaitānikeṣu gṛhyeṣu yajñe ca bhavān guruḥ .. 14..
निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणः ॥ अथाह देवः कितवं केतकं कूटसाक्षिणम् ॥ १५॥
निष्फलः त्वत् ऋते यज्ञः स अंगः च सह दक्षिणः ॥ अथ आह देवः कितवम् केतकम् कूट-साक्षिणम् ॥ १५॥
niṣphalaḥ tvat ṛte yajñaḥ sa aṃgaḥ ca saha dakṣiṇaḥ .. atha āha devaḥ kitavam ketakam kūṭa-sākṣiṇam .. 15..
रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ॥ ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम् ॥ १६॥
रे रे केतक दुष्टः त्वम् शठ दूरम् इतस् व्रज ॥ मम अपि प्रेम ते पुष्पे मा भूत् पूजासु इतस् परम् ॥ १६॥
re re ketaka duṣṭaḥ tvam śaṭha dūram itas vraja .. mama api prema te puṣpe mā bhūt pūjāsu itas param .. 16..
इत्युक्ते तत्र देवेन केतकं देवजातयः ॥ सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा ॥ १७॥
इति उक्ते तत्र देवेन केतकम् देव-जातयः ॥ सर्वानि वारयामासुः तद्-पार्श्वात् अन्यतस् तदा ॥ १७॥
iti ukte tatra devena ketakam deva-jātayaḥ .. sarvāni vārayāmāsuḥ tad-pārśvāt anyatas tadā .. 17..
केतक उवाच ।
नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया ॥ सफलं क्रियतां तात क्षम्यतां मम किल्बिषम् ॥ १८॥
नमः ते नाथ मे जन्म-निष्फलम् भवत्-आज्ञया ॥ सफलम् क्रियताम् तात क्षम्यताम् मम किल्बिषम् ॥ १८॥
namaḥ te nātha me janma-niṣphalam bhavat-ājñayā .. saphalam kriyatām tāta kṣamyatām mama kilbiṣam .. 18..
ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः ॥ तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् ॥ १९॥
ज्ञान-अज्ञान-कृतम् पापम् नाशयति एव ते स्मृतिः ॥ तादृशे त्वयि दृष्टे मे मिथ्या दोषः कुतस् भवेत् ॥ १९॥
jñāna-ajñāna-kṛtam pāpam nāśayati eva te smṛtiḥ .. tādṛśe tvayi dṛṣṭe me mithyā doṣaḥ kutas bhavet .. 19..
तथा स्तुतस्तु भगवान्केतकेन सभातले ॥ न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः ॥ २०॥
तथा स्तुतः तु भगवान् केतकेन सभा-तले ॥ न मे त्वद्-धारणम् योग्यम् सत्य-वाच् अहम् ईश्वरः ॥ २०॥
tathā stutaḥ tu bhagavān ketakena sabhā-tale .. na me tvad-dhāraṇam yogyam satya-vāc aham īśvaraḥ .. 20..
मदीयास्त्वां धरिष्यंति जन्म ते सफलं ततः ॥ त्वं वै वितानव्याजेन ममोपरि भविष्यसि १.८. ॥ २१॥
मदीयाः त्वाम् धरिष्यंति जन्म ते सफलम् ततस् ॥ त्वम् वै वितान-व्याजेन मम उपरि भविष्यसि।८। ॥ २१॥
madīyāḥ tvām dhariṣyaṃti janma te saphalam tatas .. tvam vai vitāna-vyājena mama upari bhaviṣyasi.8. .. 21..
इत्यनुगृह्य भगवान्केतकं विधिमाधवौ ॥ विरराज सभामध्ये सर्वदेवैरभिष्टुतः ॥ २२॥
इति अनुगृह्य भगवान् केतकम् विधि-माधवौ ॥ विरराज सभा-मध्ये सर्व-देवैः अभिष्टुतः ॥ २२॥
iti anugṛhya bhagavān ketakam vidhi-mādhavau .. virarāja sabhā-madhye sarva-devaiḥ abhiṣṭutaḥ .. 22..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायामष्टमोऽध्यायः ॥ २३॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् अष्टमः अध्यायः ॥ २३॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām aṣṭamaḥ adhyāyaḥ .. 23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In