| |
|

This overlay will guide you through the buttons:

नंदिकेश्वर उवाच ।
तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ ॥ बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ ॥ १॥
तत्र अन्तरे तौ च नाथम् प्रणम्य विधि-माधवौ ॥ बद्ध-अंजलि-पुटौ तूष्णीम् तस्थतुः दक्ष-वाम-गौ ॥ १॥
tatra antare tau ca nātham praṇamya vidhi-mādhavau .. baddha-aṃjali-puṭau tūṣṇīm tasthatuḥ dakṣa-vāma-gau .. 1..
तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने ॥ पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः ॥ २॥
तत्र संस्थाप्य तौ देवम् स कुटुंबम् वरासने ॥ पूजयामासतुः पूज्यम् पुण्यैः पुरुष-वस्तुभिः ॥ २॥
tatra saṃsthāpya tau devam sa kuṭuṃbam varāsane .. pūjayāmāsatuḥ pūjyam puṇyaiḥ puruṣa-vastubhiḥ .. 2..
पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम् ॥ हारनूपुरकेयूरकिरीटमणिकुंडलैः ॥ ३॥
पौरुषम् प्राकृतम् वस्तु-ज्ञेयम् दीर्घ-अल्प-कालिकम् ॥ हार-नूपुर-केयूर-किरीट-मणि-कुंडलैः ॥ ३॥
pauruṣam prākṛtam vastu-jñeyam dīrgha-alpa-kālikam .. hāra-nūpura-keyūra-kirīṭa-maṇi-kuṃḍalaiḥ .. 3..
यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्यांगुलीयकैः ॥ पुष्पतांबूलकर्पूरचंदनागुरुलेपनैः ॥ ४॥
यज्ञसूत्र-उत्तरीय-स्रक्-क्षौम-माल्य-अंगुलीयकैः ॥ पुष्प-तांबूल-कर्पूर-चंदन-अगुरु-लेपनैः ॥ ४॥
yajñasūtra-uttarīya-srak-kṣauma-mālya-aṃgulīyakaiḥ .. puṣpa-tāṃbūla-karpūra-caṃdana-aguru-lepanaiḥ .. 4..
धूपदीपसितच्छत्रव्यजनध्वजचामरैः ॥ अन्यैर्दिव्योपहारैश्च वाण्मनोतीतवैभवैः ॥ ५॥
धूप-दीप-सित-छत्र-व्यजन-ध्वज-चामरैः ॥ अन्यैः दिव्य-उपहारैः च वाच्-मनः-उतीत-वैभवैः ॥ ५॥
dhūpa-dīpa-sita-chatra-vyajana-dhvaja-cāmaraiḥ .. anyaiḥ divya-upahāraiḥ ca vāc-manaḥ-utīta-vaibhavaiḥ .. 5..
पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम् ॥ यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे ॥ ६॥
पति-योग्यैः पशु-अलभ्यैः तौ समर्चयताम् पतिम् ॥ यत् यत् श्रेष्ठतमम् वस्तु पति-योग्यम् हित-ध्वजे ॥ ६॥
pati-yogyaiḥ paśu-alabhyaiḥ tau samarcayatām patim .. yat yat śreṣṭhatamam vastu pati-yogyam hita-dhvaje .. 6..
तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया ॥ सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम् ॥ ७॥
तत् वस्तु अखिलम् ईशः अपि पारम् पर्यचिकीर्षया ॥ सभ्यानाम् प्रददौ हृष्टः पृथक् तत्र यथाक्रमम् ॥ ७॥
tat vastu akhilam īśaḥ api pāram paryacikīrṣayā .. sabhyānām pradadau hṛṣṭaḥ pṛthak tatra yathākramam .. 7..
कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम् ॥ तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शंकरः पुरा ॥ ८॥
कोलाहलः महान् आसीत् तत्र तत् वस्तु गृह्णताम् ॥ तत्र एव ब्रह्म-विष्णुभ्याम् च अर्चितः शंकरः पुरा ॥ ८॥
kolāhalaḥ mahān āsīt tatra tat vastu gṛhṇatām .. tatra eva brahma-viṣṇubhyām ca arcitaḥ śaṃkaraḥ purā .. 8..
प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः ॥ ९॥
प्रसन्नः प्राह तौ नम्रौ स स्मितम् भक्तिवर्धनः ॥ ९॥
prasannaḥ prāha tau namrau sa smitam bhaktivardhanaḥ .. 9..
ईश्वर उवाच ।
तुष्टोऽहमद्य वां वत्सौ पूजयाऽस्मिन्महादिने ॥ १०॥
तुष्टः अहम् अद्य वाम् वत्सौ पूजया अस्मिन् महा-दिने ॥ १०॥
tuṣṭaḥ aham adya vām vatsau pūjayā asmin mahā-dine .. 10..
दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् ॥ शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया १.९. ॥ ११॥
दिनम् एतत् ततस् पुण्यम् भविष्यति महत्तरम् ॥ शिवरात्रिः इति ख्याता तिथिः एषा मम प्रिया।९। ॥ ११॥
dinam etat tatas puṇyam bhaviṣyati mahattaram .. śivarātriḥ iti khyātā tithiḥ eṣā mama priyā.9. .. 11..
एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः ॥ कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान् ॥ १२॥
एतद्-काले तु यः कुर्यात् पूजाम् मद्-लिंग-बेरयोः ॥ कुर्यात् तु जगतः कृत्यम् स्थिति-सर्ग-आदिकम् पुमान् ॥ १२॥
etad-kāle tu yaḥ kuryāt pūjām mad-liṃga-berayoḥ .. kuryāt tu jagataḥ kṛtyam sthiti-sarga-ādikam pumān .. 12..
शिवरात्रावहोरात्रं निराहारो जितेंद्रि यः ब् ॥ अर्चयेद्वा यथान्यायं यथाबलमवंचकः ॥ १३॥
शिवरात्रौ अहोरात्रम् निराहारः यः ॥ अर्चयेत् वा यथान्यायम् यथाबलम् अवंचकः ॥ १३॥
śivarātrau ahorātram nirāhāraḥ yaḥ .. arcayet vā yathānyāyam yathābalam avaṃcakaḥ .. 13..
यत्फलं मम पूजायां वर्षमेकं निरंतरम् ॥ तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात् ॥ १४॥
यत् फलम् मम पूजायाम् वर्षम् एकम् निरंतरम् ॥ तत् फलम् लभते सद्यस् शिवरात्रौ मद्-अर्चनात् ॥ १४॥
yat phalam mama pūjāyām varṣam ekam niraṃtaram .. tat phalam labhate sadyas śivarātrau mad-arcanāt .. 14..
मद्धर्मवृद्धिकालोऽयं चंद्र काल इवांबुधेः ॥ प्रतिष्ठाद्युत्सवो यत्र मामको मंगलायनः ॥ १५॥
मद्-धर्म-वृद्धि-कालः अयम् चंद्र कालः इव अंबुधेः ॥ प्रतिष्ठा-आदि-उत्सवः यत्र मामकः मंगलायनः ॥ १५॥
mad-dharma-vṛddhi-kālaḥ ayam caṃdra kālaḥ iva aṃbudheḥ .. pratiṣṭhā-ādi-utsavaḥ yatra māmakaḥ maṃgalāyanaḥ .. 15..
यत्पुनः स्तंभरूपेण स्वाविरासमहं पुरा ॥ स कालो मार्गशीर्षे तु स्यादाद्रा र्! ऋक्षमर्भकौ ॥ १६॥
यत् पुनर् स्तंभ-रूपेण सु आविरासम् अहम् पुरा ॥ स कालः मार्गशीर्षे तु स्यात् आद्रा र्! ऋक्षम् अर्भकौ ॥ १६॥
yat punar staṃbha-rūpeṇa su āvirāsam aham purā .. sa kālaḥ mārgaśīrṣe tu syāt ādrā r! ṛkṣam arbhakau .. 16..
आद्रा र्यां! मार्गशीर्षे तु यः पश्येन्मामुमासखम् ॥ मद्बेरमपि वा लिंगं स गुहादपि मे प्रियः ॥ १७॥
आद्राः र्यां! मार्गशीर्षे तु यः पश्येत् माम् उमासखम् ॥ मद्-बेरम् अपि वा लिंगम् स गुहात् अपि मे प्रियः ॥ १७॥
ādrāḥ ryāṃ! mārgaśīrṣe tu yaḥ paśyet mām umāsakham .. mad-beram api vā liṃgam sa guhāt api me priyaḥ .. 17..
अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे ॥ अभ्यर्चनं चेदधिकं फलं वाचामगोचरम् ॥ १८॥
अलम् दर्शन-मात्रेण फलम् तस्मिन् दिने शुभे ॥ अभ्यर्चनम् चेद् अधिकम् फलम् वाचाम् अगोचरम् ॥ १८॥
alam darśana-mātreṇa phalam tasmin dine śubhe .. abhyarcanam ced adhikam phalam vācām agocaram .. 18..
रणरंगतलेऽमुष्मिन्यदहं लिंगवर्ष्मणा ॥ जृंभितो लिंगवत्तस्माल्लिंगस्थानमिदं भवेत् ॥ १९॥
रणरंग-तले अमुष्मिन् यत् अहम् लिंग-वर्ष्मणा ॥ जृंभितः लिंग-वत् तस्मात् लिंग-स्थानम् इदम् भवेत् ॥ १९॥
raṇaraṃga-tale amuṣmin yat aham liṃga-varṣmaṇā .. jṛṃbhitaḥ liṃga-vat tasmāt liṃga-sthānam idam bhavet .. 19..
अनाद्यंतमिदं स्तंभमणुमात्रं भविष्यति ॥ दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रको ॥ २०॥
अनादि-अंतम् इदम् स्तंभम् अणु-मात्रम् भविष्यति ॥ दर्शन-अर्थम् हि जगताम् पूजन-अर्थम् हि ॥ २०॥
anādi-aṃtam idam staṃbham aṇu-mātram bhaviṣyati .. darśana-artham hi jagatām pūjana-artham hi .. 20..
भोगावहमिदं लिंगं भुक्तिं मुक्त्येकसाधनम् ॥ दर्शनस्पर्शनध्यानाज्जंतूनां जन्ममोचनम् १.९. ॥ २१॥
भोग-आवहम् इदम् लिंगम् भुक्तिम् मुक्ति-एक-साधनम् ॥ दर्शन-स्पर्शन-ध्यानात् जन्तूनाम् जन्म-मोचनम्।९। ॥ २१॥
bhoga-āvaham idam liṃgam bhuktim mukti-eka-sādhanam .. darśana-sparśana-dhyānāt jantūnām janma-mocanam.9. .. 21..
अनलाचलसंकाशं यदिदं लिंगमुत्थितम् ॥ अरुणाचलमित्येव तदिदं ख्यातिमेष्यति ॥ २२॥
अनल-अचल-संकाशम् यत् इदम् लिंगम् उत्थितम् ॥ अरुणाचलम् इति एव तत् इदम् ख्यातिम् एष्यति ॥ २२॥
anala-acala-saṃkāśam yat idam liṃgam utthitam .. aruṇācalam iti eva tat idam khyātim eṣyati .. 22..
अत्र तीर्थं च बहुधा भविष्यति महत्तरम् ॥ मुक्तिरप्यत्र जंतूनां वासेन मरणेन च ॥ २३॥
अत्र तीर्थम् च बहुधा भविष्यति महत्तरम् ॥ मुक्तिः अपि अत्र जंतूनाम् वासेन मरणेन च ॥ २३॥
atra tīrtham ca bahudhā bhaviṣyati mahattaram .. muktiḥ api atra jaṃtūnām vāsena maraṇena ca .. 23..
रथोत्सवादिकल्याणं जनावासं तु सर्वतः ॥ अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ॥ २४॥
रथ-उत्सव-आदि-कल्याणम् जन-आवासम् तु सर्वतस् ॥ अत्र दत्तम् हुतम् जप्तम् सर्वम् कोटि-गुणम् भवेत् ॥ २४॥
ratha-utsava-ādi-kalyāṇam jana-āvāsam tu sarvatas .. atra dattam hutam japtam sarvam koṭi-guṇam bhavet .. 24..
मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् ॥ अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् ॥ २५॥
मद्-क्षेत्रात् अपि सर्वस्मात् क्षेत्रम् एतत् महत्तरम् ॥ अत्र संस्मृति-मात्रेण मुक्तिः भवति देहिनाम् ॥ २५॥
mad-kṣetrāt api sarvasmāt kṣetram etat mahattaram .. atra saṃsmṛti-mātreṇa muktiḥ bhavati dehinām .. 25..
तस्मान्महत्तरमिदं क्षेत्रमत्यंतशोभनम् ॥ सर्वकल्याणसंपूर्णं सर्वमुक्तिकरं शुभम् ॥ २६॥
तस्मात् महत्तरम् इदम् क्षेत्रम् अत्यंत-शोभनम् ॥ सर्व-कल्याण-संपूर्णम् सर्व-मुक्ति-करम् शुभम् ॥ २६॥
tasmāt mahattaram idam kṣetram atyaṃta-śobhanam .. sarva-kalyāṇa-saṃpūrṇam sarva-mukti-karam śubham .. 26..
अर्चयित्वाऽत्र मामेव लिंगे लिंगिनमीश्वरम् ॥ सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च ॥ २७॥
अर्चयित्वा अत्र माम् एव लिंगे लिंगिनम् ईश्वरम् ॥ सालोक्यम् च एव सामीप्यम् सारूप्यम् सार्ष्टिः एव च ॥ २७॥
arcayitvā atra mām eva liṃge liṃginam īśvaram .. sālokyam ca eva sāmīpyam sārūpyam sārṣṭiḥ eva ca .. 27..
सायुज्यमिति पंचैते क्रियादीनां फलं मतम् ॥ सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम् ॥ २८॥
सायुज्यम् इति पंचा एते क्रिया-आदीनाम् फलम् मतम् ॥ सर्वे अपि यूयम् सकलम् प्राप्स्यथ आशु मनोरथम् ॥ २८॥
sāyujyam iti paṃcā ete kriyā-ādīnām phalam matam .. sarve api yūyam sakalam prāpsyatha āśu manoratham .. 28..
नंदिकेश्वर उवाच ।
इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ ॥ यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम् ॥ २९॥
इति अनुगृह्य भगवान् विनीतौ विधि-माधवौ ॥ यत् पूर्वम् प्रहतम् युद्धे तयोः सैन्यम् परस्परम् ॥ २९॥
iti anugṛhya bhagavān vinītau vidhi-mādhavau .. yat pūrvam prahatam yuddhe tayoḥ sainyam parasparam .. 29..
तदुत्थापयदत्यर्थं स्वशक्त्याऽमृतधारया ॥ तयोर्मौढ्यं च वैरं च व्यपनेतुमुवाच तौ ॥ ३०॥
तत् उत्थापयत् अत्यर्थम् स्व-शक्त्या अमृत-धारया ॥ तयोः मौढ्यम् च वैरम् च व्यपनेतुम् उवाच तौ ॥ ३०॥
tat utthāpayat atyartham sva-śaktyā amṛta-dhārayā .. tayoḥ mauḍhyam ca vairam ca vyapanetum uvāca tau .. 30..
सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे ॥ नान्यस्य कस्यचित्तस्मादन्यः सर्वोप्यनीश्वरः १.९. ॥ ३१॥
सकलम् निष्कलम् च इति स्वरूप-द्वयम् अस्ति मे ॥ न अन्यस्य कस्यचिद् तस्मात् अन्यः सर्वः अपि अनीश्वरः।९। ॥ ३१॥
sakalam niṣkalam ca iti svarūpa-dvayam asti me .. na anyasya kasyacid tasmāt anyaḥ sarvaḥ api anīśvaraḥ.9. .. 31..
पुरस्तात्स्तंभरूपेण पश्चाद्रू पेण चार्भकौ ॥ ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ॥ ३२॥
पुरस्तात् स्तंभ-रूपेण पश्चात् रूपेण च अर्भकौ ॥ ब्रह्म-त्वम् निष्कलम् प्रोक्तम् ईश-त्वम् सकलम् तथा ॥ ३२॥
purastāt staṃbha-rūpeṇa paścāt rūpeṇa ca arbhakau .. brahma-tvam niṣkalam proktam īśa-tvam sakalam tathā .. 32..
द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् ॥ तस्मादीशत्वमन्येषां युवयोरपि न क्वचित् ॥ ३३॥
द्वयम् मम एव संसिद्धम् न मद्-अन्यस्य कस्यचिद् ॥ तस्मात् ईश-त्वम् अन्येषाम् युवयोः अपि न क्वचिद् ॥ ३३॥
dvayam mama eva saṃsiddham na mad-anyasya kasyacid .. tasmāt īśa-tvam anyeṣām yuvayoḥ api na kvacid .. 33..
तदज्ञानेन वां वृत्तमीशमानं महाद्भुतम् ॥ तन्निराकर्तुमत्रैवमुत्थितोऽहं रणक्षितौ ॥ ३४॥
तद्-अज्ञानेन वाम् वृत्तम् ईशमानम् महा-अद्भुतम् ॥ तत् निराकर्तुम् अत्र एवम् उत्थितः अहम् रण-क्षितौ ॥ ३४॥
tad-ajñānena vām vṛttam īśamānam mahā-adbhutam .. tat nirākartum atra evam utthitaḥ aham raṇa-kṣitau .. 34..
त्यजतं मानमात्मीयं मयीशे कुरुतं मतिम् ॥ मत्प्रसादेन लोकेषु सर्वोप्यर्थः प्रकाशते ॥ ३५॥
त्यजतम् मानम् आत्मीयम् मयि ईशे कुरुतम् मतिम् ॥ मद्-प्रसादेन लोकेषु सर्वः अपि अर्थः प्रकाशते ॥ ३५॥
tyajatam mānam ātmīyam mayi īśe kurutam matim .. mad-prasādena lokeṣu sarvaḥ api arthaḥ prakāśate .. 35..
गुरूक्तिर्व्यंजकं तत्र प्रमाणं वा पुनः पुनः ॥ ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम् ॥ ३६॥
गुरु-उक्तिः व्यंजकम् तत्र प्रमाणम् वा पुनर् पुनर् ॥ ब्रह्म-तत्त्वम् इदम् गूढम् भवत्-प्रीत्या भणामि अहम् ॥ ३६॥
guru-uktiḥ vyaṃjakam tatra pramāṇam vā punar punar .. brahma-tattvam idam gūḍham bhavat-prītyā bhaṇāmi aham .. 36..
अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम् ॥ ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम् ॥ ३७॥
अहम् एव परम् ब्रह्म मद्-स्वरूपम् कलाकलम् ॥ ब्रह्म-त्वात् ईश्वरः च अहम् कृत्यम् मेनु-ग्रह-आदिकम् ॥ ३७॥
aham eva param brahma mad-svarūpam kalākalam .. brahma-tvāt īśvaraḥ ca aham kṛtyam menu-graha-ādikam .. 37..
बृहत्त्वाद्बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ ॥ समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ ॥ ३८॥
बृहत्-त्वात् बृंहण-त्वात् च ब्रह्मा अहम् ब्रह्म-केशवौ ॥ सम-त्वात् व्यापक-त्वात् च तथा एव आत्म-अहम् अर्भकौ ॥ ३८॥
bṛhat-tvāt bṛṃhaṇa-tvāt ca brahmā aham brahma-keśavau .. sama-tvāt vyāpaka-tvāt ca tathā eva ātma-aham arbhakau .. 38..
अनात्मानः परे सर्वे जीवा एव न संशयः ॥ अनुग्रहाद्यं सर्गांतं जगत्कृत्यं च पंकजम् ॥ ३९॥
अनात्मानः परे सर्वे जीवाः एव न संशयः ॥ अनुग्रह-आद्यम् सर्ग-अंतम् जगत्-कृत्यम् च पंकजम् ॥ ३९॥
anātmānaḥ pare sarve jīvāḥ eva na saṃśayaḥ .. anugraha-ādyam sarga-aṃtam jagat-kṛtyam ca paṃkajam .. 39..
ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित् ॥ आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिंगमुत्थितम् ॥ ४०॥
ईश-त्वात् एव मे नित्यम् न मद्-अन्यस्य कस्यचिद् ॥ आदौ ब्रह्मत्त्व-बुद्धि-अर्थम् निष्कलम् लिंगम् उत्थितम् ॥ ४०॥
īśa-tvāt eva me nityam na mad-anyasya kasyacid .. ādau brahmattva-buddhi-artham niṣkalam liṃgam utthitam .. 40..
तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम् ॥ सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात् १.९. ॥ ४१॥
तस्मात् अज्ञातम् ईश-त्वम् व्यक्तम् द्योतयितुम् हि वाम् ॥ सक-लोह-मतः जातः साक्षात् ईशः तु तद्-क्षणात्।९। ॥ ४१॥
tasmāt ajñātam īśa-tvam vyaktam dyotayitum hi vām .. saka-loha-mataḥ jātaḥ sākṣāt īśaḥ tu tad-kṣaṇāt.9. .. 41..
सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम् ॥ यदिदं निष्कलं स्तंभं मम ब्रह्मत्वबोधकम् ॥ ४२॥
सकल-त्वम् अतस् ज्ञेयम् ईश-त्वम् मयि सत्वरम् ॥ यत् इदम् निष्कलम् स्तंभम् मम ब्रह्म-त्व-बोधकम् ॥ ४२॥
sakala-tvam atas jñeyam īśa-tvam mayi satvaram .. yat idam niṣkalam staṃbham mama brahma-tva-bodhakam .. 42..
लिंगलक्षणयुक्तत्वान्मम लिंगं भवेदिदम् ॥ तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ ॥ ४३॥
लिंग-लक्षण-युक्त-त्वात् मम लिंगम् भवेत् इदम् ॥ तत् इदम् नित्यम् अभ्यर्च्यम् युवाभ्याम् अत्र पुत्रकौ ॥ ४३॥
liṃga-lakṣaṇa-yukta-tvāt mama liṃgam bhavet idam .. tat idam nityam abhyarcyam yuvābhyām atra putrakau .. 43..
मदात्मकमिदं नित्यं मम सान्निध्यकारणम् ॥ महत्पूज्यमिदं नित्यमभेदाल्लिंगसिंगिनोः ॥ ४४॥
मद्-आत्मकम् इदम् नित्यम् मम सान्निध्य-कारणम् ॥ महत् पूज्यम् इदम् नित्यम् अभेदात् लिंग-सिंगिनोः ॥ ४४॥
mad-ātmakam idam nityam mama sānnidhya-kāraṇam .. mahat pūjyam idam nityam abhedāt liṃga-siṃginoḥ .. 44..
यत्रप्रतिष्ठितं येन मदीयं लिंगमीदृशम् ॥ तत्र प्रतिष्ठितः सोहमप्रतिष्ठोपि वत्सकौ ॥ ४५॥
यत्र प्रतिष्ठितम् येन मदीयम् लिंगम् ईदृशम् ॥ तत्र प्रतिष्ठितः वत्सकौ ॥ ४५॥
yatra pratiṣṭhitam yena madīyam liṃgam īdṛśam .. tatra pratiṣṭhitaḥ vatsakau .. 45..
मत्साम्यमेकलिंगस्य स्थापने फलमीरितम् ॥ द्वितीये स्थापिते लिंगे मदैक्यं फलमेव हि ॥ ४६॥
मद्-साम्यम् एक-लिंगस्य स्थापने फलम् ईरितम् ॥ द्वितीये स्थापिते लिंगे मद्-ऐक्यम् फलम् एव हि ॥ ४६॥
mad-sāmyam eka-liṃgasya sthāpane phalam īritam .. dvitīye sthāpite liṃge mad-aikyam phalam eva hi .. 46..
लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम् ॥ लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः ॥ ४७॥
लिंगम् प्राधान्यतः स्थाप्यम् तथा अबेरम् तु गौणकम् ॥ लिंग-अभावेन तत् क्षेत्रम् स बेरम् अपि सर्वतस् ॥ ४७॥
liṃgam prādhānyataḥ sthāpyam tathā aberam tu gauṇakam .. liṃga-abhāvena tat kṣetram sa beram api sarvatas .. 47..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां नवमोऽध्यायः ॥ ॥ ४८॥
इति श्री-शिव-महापुराणे विद्येश्वरसंहितायाम् नवमः अध्यायः ॥ ॥ ४८॥
iti śrī-śiva-mahāpurāṇe vidyeśvarasaṃhitāyām navamaḥ adhyāyaḥ .. .. 48..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In